भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 72

72.1

इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकसप्ततितमो ऽध्यायः
द्विसप्ततितमो ऽध्यायः- 72
मार्कण्डेय उवाच
ततः स्वनगरं प्राप्य तं ददर्श द्विजं नृपः ।
समेतं भार्यया चैव शीलवत्या मुदान्वितम्

72.2

ब्राह्मण उवाच
राजवर्य ! कृतार्थो ऽस्मि यतो धर्मो हि रक्षितः ।
धर्मज्ञनेह भवता भार्यामानयता मम

72.3

राजोवाच
कृतार्थस्त्वं द्विजश्रेष्ठ ! निजधर्मानुपालनात् ।
वयं सङ्कटिनो विप्र ! येषां पत्नी न वेश्मनि

72.4

ब्राह्मण उवाच
नरेन्द्र ! सा हि विपिने भक्षिता श्वनापदैर्यदि ।
अलन्तया किमन्यस्या न पाणिर्गृह्यते त्वया ।
क्रोधस्य वशमागम्य धर्मो न रक्षितस्त्वया

72.5

राजोवाच
न भक्षिता मे दयिता श्वापदैः सा हि जीवति ।
अविदूषितचारित्रा कथमेतत्करोम्यहम्

72.6

ब्राह्मण उवाच
यदि जीवति ते भार्या न चैव व्यभिचारिणी ।
तदपत्नीकताजन्म किं पापं क्रियते त्वया

72.7

राजोवाच
आनीतापि हि सा विप्र ! प्रतिकूला सदैव मे ।
दुः खाय न सुखायालं तस्या मैत्री न वै मयि ।
तथा त्वं कुरु यत्नं मे यथा सा वशगामिनी

72.8

ब्राह्मण उवाच
तव संप्रीतये तस्या वरेष्टिरुपकारिणी ।
क्रियते मित्रकामैर्या मित्रविन्दां करोमि ताम्

72.9

अप्रीतयोः प्रीतिकरो सा हि संजननी परम् ।
भार्यापत्योर्मनुष्येन्द्र ! तान्तवेष्टिं करोम्यहम्

72.10

यत्र तिष्ठति सा सुभ्रूस्तव भार्या महीपते ।
तस्मादानोयतां सा ते परां प्रीतिमुपैष्यति

72.11

मार्कण्डेय उवाच
इत्युक्तः स तु सम्भारानशेषानवनीपतिः ।
आनिनाय चकारेष्टिं स च तां द्विजसत्तमः

72.12

सप्तकृत्वः स तु तदा चकारेष्टिं पुनः पुनः ।
तस्य राज्ञो द्विजश्रेष्ठो भार्यासम्पादनाय वै

72.13

यदारोपितमैत्रीन्ताममन्यत महामुनिः ।
स्वभर्तरि तदा विप्रस्तमुवाच नराधिपम्

72.14

आनीयतां नरश्रेष्ठ ! या तवेष्टात्मनो ऽन्तिकम् ।
भुङ्क्ष्व भोगांस्तया सार्धं यज यज्ञांस्तथादृतः

72.15

मार्कण्डेय उवाच
इत्युक्तस्तेन विप्रेण भूपालो विस्मितस्तदा ।
सस्मार तं महावीर्यं सत्यसन्धं निशाचरम्

72.16

स्मृतस्तेन तदा सद्यः समुपेत्य नराधिपम् ।
किं करोमीति सो ऽप्याह प्रणिपत्य महामुने

72.17

ततस्तेन नरेन्द्रेण विस्तरेण निवेदिते ।
गत्वा पातालमादाय राजपत्नीमुपाययौ

72.18

आनीता चातिहार्देन सा ददर्श तदा पतिम् ।
उवाच च प्रसीदेति भूयोभूयो मुदान्विता

72.19

ततः स राजा रभसा परिष्वज्याह मानिनीम् ।
प्रिये ! प्रसन्न एवाहं भूयो ऽप्येवं ब्रवीषि किम्

72.20

पत्न्युवाच
यदि प्रिसादप्रवणं नरेन्द्र ! मयि ते मनः ।
तदेतदभियाचे त्वां तत् कुरुष्व ममार्हणम्

72.21

राजोवाच
निः शङ्कं ब्रूहि मत्तो यद्भवात्या किञ्चिदीप्सितम् ।
तदलभ्यं न ते भीरु ! तवायत्तो ऽस्मि नान्यथा

72.22

पत्न्युवाच
मदर्थं तेन नागेन सुता शप्ता सखी मम ।
मूका भविष्यसीत्याह सा च मूकत्वमागता

72.23

तस्याः प्रतिक्रियां प्रीत्या मम शक्नोति चेद्भवान् ।
वाग्विघातप्रशान्त्यर्थं ततः किं न कृतं मम

72.24

मार्कण्डेय उवाच
ततः स राजा तं विप्रमाहास्मिन् कीदृशी क्रिया ।
तन्मूकतापनोदाय स च तं प्राह पार्थिवम्

72.25

ब्राह्मण उवाच
भूप ! सारस्वतीमिष्टिं करोमि वचनात्तव ।
पत्नी तवेयमानृण्यं यातु तद्वाक्प्रवर्तनात्

72.26

मार्कण्डेय उवाच
इष्टिं सारस्वतीं चक्रे तदर्थं स द्विजोत्तमः ।
सारस्वतानि सूक्तानि जजाप च समाहितः

72.27

ततः प्रवृत्तवाक्यान्तां गर्गः प्राह रसातले ।
उपकारः सखीभर्त्रा कृतो ऽयमतिदुष्करः

72.28

इत्थं ज्ञानं समासाद्य नन्दा शीघ्रगतिः पुरम् ।
ततो राज्ञीं परिष्वज्य स्वसखीमुरगात्मजा

72.29

तञ्च संस्तूय भूपालं कल्याणोक्त्या पुनः पुनः ।
उवाच मधुरं नागी कृतासनपरिग्रहा

72.30

उपकारः कृतो वीर ! भवता यो ममाधुना ।
तेनास्म्याकृष्टहृदया यद्ब्रवीमि शृणुष्व तत्

72.31

तव पुत्रो महावीर्यो भविष्यति नराधिप ।
तस्माप्रतिहतं चक्रमस्यां भुवि भविष्यति

72.32

सर्वार्थशास्त्रतत्त्वज्ञो धर्मानुष्ठानतत्परः ।
मन्वन्तरेश्वरो धीमान् ! भविष्यति स वै मनुः

72.33

मार्कण्डेय उवाच
इति दत्वा वरं तस्मै नागराजसुता ततः ।
सखीं तां संपरिष्वज्य पातालमगमन्मुने

72.34

तत्र तस्य तया सार्धं रमतः पृथिवीपतेः ।
जगाम कालः सुमहान् प्रजाः पालयतस्तथा

72.35

ततः स तस्यान्तनयो जज्ञे राज्ञो महात्मनः ।
पौर्णमास्यां यथा कान्तश्चन्द्रः संपूर्णमण्डलः

72.36

तस्मिन् जाते मुदं प्रापुः प्रजाः सर्वा महात्मनि ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च

72.37

तस्य दृष्ट्वा वपुः कान्तं भविष्यं शीलमेव च ।
औत्तमश्चेति मुनयो नाम चक्रुः समागताः

72.38

जातो ऽयमुत्तमे वंशे तत्र काले तथोत्तमे ।
उत्तमावयवस्तेन औत्तमो ऽयं भविष्यति

72.39

मार्कण्डेय उवाच
उत्तमस्य सुतः सो ऽथ नाम्ना ख्यातस्तथौत्तमः ।
मनुरासीत्तत्प्रभावो भागुरे श्रूयतां मम

72.40

उत्तमाख्यानमखिलं जन्म चैवोत्तमस्य च ।
नित्यं शृणोति विद्वेषं स कदाचिन्न गच्छति

72.41

इष्टैर्दारैस्तथा पुत्रैर्बन्धुभिर्वा कदाचन ।
वियोगो नास्य भविता शृण्वतः पठतो ऽपि वा

72.42

तस्य मन्वन्तरं ब्रह्मन् ! वदतो मे निशामय ।
श्रूयतां तत्र यश्चेन्द्रो ये च देवास्तथर्षयः

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc