भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 73

73.1

इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे द्विसप्ततितमो ऽध्यायः
त्रिसप्ततितमो ऽध्यायः- 73
मार्कण्डेय उवाच
मन्वन्तरे तृतीये ऽस्मिन् औत्तमस्य प्रजापतेः ।
देवानिन्द्रमृषीन् भूपान् निबोध गदतो मम

73.2

स्वधामानस्तथा देवा यथानामानुकारिणः ।
सत्याख्यश्च द्वितीयो ऽन्यस्त्रिदशानां तथा गणः

73.3

तृतीये तु गणे देवाः शिवाख्या मुनिसत्तम ।
शिवाः स्वरूपतस्ते तु श्रुताः पापप्रणाशनाः

73.4

प्रतर्दनाख्यश्च गणो देवानां मुनिसत्तम ।
चतुर्थस्तत्र कथित औत्तमस्यान्तरे मनोः

73.5

वशवर्तिनः पञ्चमे ऽपि देवास्तत्र गणे द्विज ।
यथाख्यातस्वरूपास्तु सर्व एव महामुने

73.6

एते देवगणाः पञ्च स्मृता यज्ञभुजस्तथा ।
मन्वन्तरे मनुश्रेष्ठे सर्वे द्वादशका गणाः

73.7

तेषामिन्द्रो महाभागस्त्रैलोक्ये स गुरुर्भवेत् ।
शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः

73.8

यस्योपसर्गनाशाय नामाक्षरविभूषिता ।
अद्यापि मानवैर्गाथा गीयते तु महीतले

73.9

शुशान्तिर्देवराट् कान्तः शुशान्तिं स प्रयच्छति ।
सहितः शिवसत्याद्यैस्तथैव वशवर्तिभिः

73.10

अजः परशुचिर्दिव्यो महाबलपराक्रमः ।
पुत्रस्तस्य मनोरासन् विख्यातास्त्रिदशोपमाः

73.11

तत्सूतिसम्भवैर्भूमिः पालिताभून्नरेश्वरैः ।
यावन्मन्वन्तर तस्य मनोरुत्तमतेजसः

73.12

चतुर्युगानां संख्याता साधिका ह्येकसप्ततिः ।
कृतत्रेतादिसंज्ञानां यान्युक्तानि युगे मया

73.13

स्वतेजसा हि तपसो वरिष्ठस्य महात्मनः ।
तनयाश्चान्तरे तस्मिन् सप्त सप्तर्षयो ऽभवन्

73.14

तृतीयमेतत्कथितं तव मन्वन्तरं मया ।
तामसस्य चतुर्थन्तु मनोरन्तरमुच्यते

73.15

वियोनिजन्मनो यस्य यशसा द्योतितं जगत् ।
जन्म तस्य मनोर्ब्रह्मन् ! श्रुयतां गदतो मम

73.16

अतीन्द्रियमशेषाणां मनूनाञ्चरितन्तथा ।
तथा जन्मापि विज्ञेयं प्रभावश्च महात्मनाम्

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc