भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 71

71.1

इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे सप्ततितमो ऽध्यायः
एकसप्ततितमो ऽध्यायः- 71
मार्कण्डेय उवाच
तां प्रेषयित्वा राजापि स्वभर्तृगृहमङ्गनाम् ।
चिन्तयामास निः श्वस्य किमत्र सुकतं भवेत्

71.2

अनर्घयोग्यता कष्टं स मामाह महामनाः ।
वैकल्यं विप्रमुद्दिश्य तथाहायं निशाचरः

71.3

सो ऽहं कथं करिष्यामि त्यक्ता पत्नी मया हि सा ।
अथवा ज्ञानदृष्टिं तं पृच्छामि मुनिसत्तमम्

71.4

सञ्चिन्त्येत्थं स भूपालः समारुह्य च तं रथम् ।
ययौ यत्र स धर्मात्मा त्रिकालज्ञो महामिनिः

71.5

अवरुह्य रथात् सो ऽथ तं समेत्य प्रणम्य च ।
यथावृत्तं समाचख्यौ राक्षसेन समागमम्

71.6

ब्राह्मण्या दर्शनञ्चैव दौः शील्यापगमं तथा ।
प्रेषणं भर्तृगेहे च कार्यमागमने च यत्

71.7

ऋषिरुवाच
ज्ञातमेतन्मया पूर्वं यत् कृतन्ते नराधिप ।
कार्यमागमने चैव मत्समीपे तवाखिलम्

71.8

पृच्छ मामिह किं कार्यं मयेत्युद्विग्नमानसः ।
त्वय्यागते महीपाल ! शृणु कार्यञ्च यत्त्वया

71.9

पत्नी धर्मार्थकामानां कारणं प्रबलं नृणाम् ।
विशेषतश्च धर्मस्य सन्त्यक्तस्त्यजता हि ताम्

71.10

अपत्नीको नरो भूप ! न योग्यो निजकर्मणाम् ।
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रो ऽपि वा नृप

71.11

त्यजता भवता पत्नीं न शोभनमनुष्ठितम् ।
अत्याज्यो हि यथा भर्ता स्त्रीणां भर्या तथा नृणाम्

71.12

राजोवाच
भगवन् ! किं करोम्येष विपाको मम कर्मणाम् ।
नानुकूलानुकूलस्य यस्मात्त्यक्ता ततो मया

71.13

यद्यत्करोति तत् क्षान्तं दह्यमानेन चेतसा ।
भगवंस्तद्वियोगार्तिबिभीतेनान्तरात्मना

71.14

साम्प्रतं तु वने त्यक्ता न वेद्मि क्व नु सा गता ।
भक्षिता वापि विपिने सिंहव्याघ्रनिशाचरैः

71.15

ऋषीरुवाच
न भक्षिता सा भूपाल ! सिहव्याघ्रनिशाचरैः ।
सा त्वविप्लुतचारित्रा साम्प्रतन्तु रसातले

71.16

राजोवाच
सा नीता केन पातालमास्ते सादूषिता कथम् ।
अत्यद्भुतमिदं ब्रह्मन् ! यथावद्वक्तुमर्हसि

71.17

ऋषिरुवाच
पाताले नागराजो ऽस्ति प्रख्यातश्च कपोतकः ।
तेन दृष्टा त्वया त्यक्ता भ्रममाणा महावने

71.18

सा रूपशालिनी तेन सानुरागेण पार्थिव ।
वेदितार्थेन पातालं नीता सा युवती तदा

71.19

ततस्तस्य सुता सुभ्रूर्नन्दा नाम महीपते ।
भार्या मनोरमा चास्य नागराजस्य धीमतः

71.20

तया मातुः सपत्नीयं सा भवित्रीति शोभना ।
दृष्टा स्वगेहं सा नीता गुप्ता चान्तः पुरे शुभा

71.21

यदा तु याचिता नन्दा न ददाति नृपोत्तरम् ।
मूका भविष्यसीत्याह तदा तां तनयां पिता

71.22

एवं शप्ता सुता तेन सा चास्ते तत्र भूपते ।
नीता तेनोरगेन्द्रेण धृता तत्सुतया सती

71.23

मार्कण्डेय उवाच
ततो राजा परं हर्षमवाप्य तमपृच्छत ।
द्विजवर्यं स्वदौर्भाग्यकारणं दयितां प्रति

71.24

राजोवाच
भगवन् ! सर्वलोकस्य मयि प्रीतिरनुत्तमा ।
किन्नु तत्कारणं येन स्वपत्नी नातिवत्सला

71.25

मम चासावतीवेष्टा प्राणेभ्यो ऽपि महामुने ।
सा च मां प्रति दुः शीला ब्रूहि यत्कारणं द्विज

71.26

ऋषीरुवाच
पाणिग्रहणकाले त्वं सूर्यभौमशनैश्चरैः ।
शुक्रवाचस्पतिभ्याञ्च तव भार्यावलोकिता

71.27

तन्मुहूर्ते ऽभवच्चन्द्रस्तस्याः सोमसुतस्तथा ।
परस्परविपक्षौ तौ ततः पार्थिव ! ते भृशम्

71.28

तद्गच्छ त्वं स्वधर्मेण परिपालय मेदिनीम् ।
पत्नीसहायः सर्वाश्च कुरु धर्मवतीः क्रियाः

71.29

मार्कण्डेय उवाच
इत्युक्ते प्रणिपत्यैनमारुह्य स्यन्दनं ततः ।
उत्तमः पृथिवीपाल आजगाम निजं पुरम्

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc