भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 61

61.1

इति श्रीमार्कण्डेयपुराणेठकिंपुरुषादिवर्षवर्णनम् ऽ नाम षष्टितमो ऽध्यायः
एकषष्टितमो ऽध्यायः- 61
क्रौष्टुकिरुवाच
कथितं भवता सम्यग् यत् पृष्टो ऽसि महामुने ।
भूसमुद्रादिसंस्थानं प्रमाणानि तथा ग्रहाः

61.2

तेषाञ्चैव प्रमाणञ्च नक्षत्राणाञ्च संस्थितिः ।
भूरादयस्तथा लोकाः पातालान्यखिलान्यपि

61.3

स्वायम्भुवं तथा ख्यातं मुने ! मन्वन्तरं मम ।
तदन्तराण्यहं श्रोतुमिच्छे मन्वन्तराणि वै ।
मन्वन्तराधिपान् देवानृषींस्तत्तनयान्नृपान्

61.4

मार्कण्डेय उवाच
मन्वन्तरं मयाख्यातं तव स्वायम्भुवं च यत् ।
स्वारोचिषाख्यमन्यत् तु शृणु तस्मादनन्तरम्

61.5

कश्चिद् द्विजातिप्रवरः पुरे ऽभूदरुणास्पदे ।
वरुणायास्तटे विप्रो रूपेणात्यश्विनावपि

61.6

मृदुस्वभावः सद्वृत्तो वेदवेदाङ्गपारगः ।
सदातिथिप्रियो रात्रावागतानां समाश्रयः

61.7

तस्य बुद्धिरियं त्वासीदहं पश्ये वसुन्धराम् ।
अतिरम्यवनोद्यानां नानानगरशोभिताम्

61.8

अथागतो।ञतिथिः कश्चित् कदाचित्तस्य वेश्मनि ।
नानौषधिप्रभावज्ञो मन्त्रविद्याविशारदः

61.9

अभ्यर्थितस्तु तेनासौ श्रद्धापूतेन चेतसा ।
तस्याचख्यौ स देशांश्च रम्याणि नगराणि च

61.10

वनानि नद्यः शैलांश्च पुण्यान्यायतनानि च ।
स ततो विस्मयाविष्टः प्राह तं द्विजसत्तमम्

61.11

अनेकदेशदर्शित्वेनातिश्रमसमन्वितः ।
त्वं नातिवृद्धो वयसा नातिवृत्तश्च यौवनात् ।
कथमल्पेन कालेन पृथिवीमटसि द्विज

61.12

ब्राह्मण उवाच
मन्त्रौषधिप्रभावेण विप्राप्रतिहता गतिः ।
योजनानां सहस्रं हि दिनार्धेन व्रजाम्यम्

61.13

मार्कण्डेय उवाच
ततः स विप्रस्तं भूयः प्रत्युवाचेदमादरात् ।
श्रद्धधानो वचस्तस्य ब्राह्मणस्य विपश्चितः

61.14

मम प्रसादं भगवन् ! कुरु मन्त्रप्रभावजम् ।
द्रष्टुमेतां मम महीमतीवेच्छा प्रवर्तते

61.15

प्रादात् स ब्राह्मणश्चास्मै पादलेपमुदारधीः ।
अभिमन्त्रयामास दिशं तेनाख्याताञ्च यत्नतः

61.16

तेनानुलिप्तपादो ऽथ स द्विजो द्विजसत्तम ।
हिमवन्तमगाद् द्रष्टुं नानाप्रस्त्रवणान्वितम्

61.17

सहस्रं योजनानां हि दिनार्धेन व्रजामि यत् ।
आयास्यामीति सञ्चिन्त्य तदर्धेनापरेण हि

61.18

सम्प्राप्तो हिमवत्पृष्ठं नातिश्रान्ततनुर्द्विज ।
विचचार ततस्तत्र तुहिनाचलभूतले

61.19

पादाक्रान्तेन तस्याथ तुहिनेन विलीयता ।
प्रक्षालितः पादलेपः परमौषधिसम्भः

61.20

ततो जडगतिः सो ऽथ इतश्चेतश्च पर्यटन् ।
ददर्शातिमनोज्ञानि सानूनि हिमभूभृतः

61.21

सिद्धगन्धर्वजुष्टानि किन्नराभिरतानि च ।
क्रीडाविहाररम्याणि देवादीनामितस्ततः

61.22

दिव्याप्सरोगणशतैराकीर्णान्यवलोकयन् ।
नातृप्यत द्विजश्रेष्ठः प्रोद्भूतपुलको मुने

61.23

क्वचित् प्रस्त्रवणाद् भ्रष्टजलपातमनोरमम् ।
प्रनृत्यच्छिखिकेकाभिरन्यतश्च निनादितम्

61.24

दात्यूहकोयष्टिकाद्यैः क्वचिच्चातिमनोहरैः ।
पुंस्कोकिलकलालापैः श्रुतिहारिभिरन्वितम्

61.25

प्रफुल्लतरुगन्धेन वासितानिलवीजितम् ।
मुदा युक्तः स ददृशे हिमवन्तं महागिरिम्

61.26

दृष्ट्वा चैतं द्विजसुतो हिमवन्तं महाचलम् ।
श्वो द्रक्ष्यामीति संचिन्त्य मतिञ्चक्रे गृहं प्रति

61.27

विभ्रष्टपादलेपो ऽथ चिरेण जडितक्रमः ।
चिन्तयामास किमिदं मयाज्ञानादनुष्ठितम्

61.28

यदि प्रलेपो नष्टो मे विलीनो हिमवारिणा ।
शैलो ऽतिदुर्गमश्चायं दूरञ्चाहमिहागतः

61.29

प्रयास्यामि क्रियाहानिमग्निशुश्रूषणादिकम् ।
कथमत्र करिष्यामि सङ्कटं महदागतम्

61.30

इदं रम्यमिदं रम्यमित्यस्मिन् वरपर्वते ।
शक्तदृष्टिरहं तृप्तिं न यास्ये ऽब्दशतैरपि

61.31

किन्नराणां कलालापाः समन्ताच्छ्रोत्रहारिणः ।
प्रफुल्लतरुगन्धांश्च घ्राणमत्यन्तमृच्छति

61.32

सुखस्पर्शस्तथा वायुः फलानि रसवन्ति च ।
हरन्ति प्रसभं चेतो मनोज्ञानि सरांसि च

61.33

एवं गते तु पश्येयं यदि कञ्चित् तपोनिधिम् ।
स ममोपदिशेन्मार्गं गमनाय गृहं प्रति

61.34

मार्कण्डेय उवाच
स एवं चिन्तयन् विप्रो बभ्राम च हिमाचले ।
भ्रष्टपादौषधिबलो वैक्लवं परमं गतः

61.35

तं ददर्श भ्रमन्तञ्च मुनिश्रेष्ठं वरूथिनी ।
वराप्सरा महाभागा मौलेया रूपशालिनी

61.36

तस्मिन् दृष्टे ततः साभूद् द्विजवर्ये वरूथिनी ।
मदनाकृष्टहृदया सानुरागा हि तत्क्षणात्

61.37

चिन्तयामास को न्वेष रमणीयतमाकृतिः ।
सफलं मे भवेज्जन्म यदि मां नावमन्यते

61.38

अहो ऽस्य रूपमाधुर्यमहो ऽस्य ललिता गतिः ।
अहो गम्भीरता दृष्टेः कुतो ऽस्य सदृशो भुवि

61.39

दृष्टा देवास्तथा दैत्याः सिद्धगन्धर्वपन्नगाः ।
कथमेको ऽपि नास्त्यस्य तुल्यरूपो महात्मनः

61.40

यथाहमस्मिन्मय्येष सानुरागस्तथा यदि ।
भवेदत्र मया कार्यस्तत्कृतः पुण्यसञ्चयः

61.41

यद्येष मयि सुस्त्रिग्धां दृष्टिमद्य निपातयेत् ।
कृतपुण्या न मत्तो ऽन्या त्रैलोक्ये वनिता ततः

61.42

मार्कण्डेय उवाच
एवं सञ्चिन्तयन्ती सा दिव्ययोषित् स्मरातुरा ।
आत्मानं दर्शयामास कमनीयतराकृतिम्

61.43

तान्तु दृष्ट्वा द्विजसुतश्चारुरूपां वरूथिनीम् ।
सोपचारं समागम्य वाक्यमेतदुवाच ह

61.44

का त्वं कमलगर्भाभे कस्य किं वानुतिष्ठसि ।
ब्राह्मणो ऽहमिहायातो नगरादरुणास्पदात्

61.45

पादलेपो ऽत्र मे ध्वस्तो विलीनो हिमवारिणा ।
यस्यानुभावादत्राहमागतो मदिरेक्षणे

61.46

वरूथिन्युवाच
मौलेयाहं महाभागा नाम्ना ख्याता वरूथिनी ।
विचरामि सदैवात्र रमणीये महाचले

61.47

साहं त्वद्दर्शनाद्विप्र ! कामवक्तव्यताङ्गता ।
प्रशाधि यन्मया कार्यं त्वदधीनास्मि साम्प्रतम्

61.48

ब्राह्मण उवाच
येनोपायेन गच्छेयं निजगेहं शुचिस्मिते ।
तन्ममाचक्ष्व कल्याणि हानिर्नो ऽखिलकर्मणाम्

61.49

नित्यनैमित्तिकानान्तु महाहानिर्द्विजन्मनः ।
भवत्यतस्त्वं हे भद्रे ! मामुद्धर हिमालयात्

61.50

प्रशस्यते न प्रवासो ब्राह्मणानां कदाचम ।
अपराद्धं न मे भीरु देशदर्शनकौतुकम्

61.51

सतो गृहे द्विजाग्र्यस्य निष्पत्तिः सर्वकर्मणाम् ।
नित्यनैमित्तिकानाञ्च हानिरेवं प्रवासिनः

61.52

सा त्वं किं बहुनोक्तेन तथा कुरु यशस्विनि ।
यथा नास्तं गेत सूर्ये पश्यामि निजमालयम्

61.53

वरूथिन्युवाच
मैवं ब्रूहि महाभाग ! मा भूत्स दिवसो मम ।
मां परित्यज्य यत्र त्वं निजगेहमुपैष्यसि

61.54

अहो रम्यतरः स्वर्गो न यतो द्विजनन्दन ।
अतो वयं परित्यज्य तिष्ठामो ऽत्र सुरालयम्

61.55

स त्वं सह मया कान्त ! कान्ते ऽत्र तुहिनाचले ।
रममाणो न मर्त्यानां बान्धवानां स्मरिष्यसि

61.56

स्त्रजो वस्त्राण्यलङ्कारान् भोगभोज्यानुलेपनम् ।
दास्याम्यत्र तथाहन्ते स्मरेण वशगा हृता

61.57

वीणावेणुस्वनं गीतं किन्नराणां मनोरमम् ।
अङ्गाह्लादकरो वायुरुष्णान्नमुदकं शुचि

61.58

मनोभिलषिता शय्या सुगन्धमनुलेपनम् ।
इहासतो महाभाग गृहे किन्ते निजे ऽधिकम्

61.59

इहासतो नैव जरा कदाचित्ते भविष्यति ।
त्रिदशानामियं भूमिर्यौवनोपचयप्रदा

61.60

इत्युक्त्वा सानुरागा सा सहसा कमलेक्षणा ।
आलिलिङ्ग प्रसीदेति वदन्ती कलमुन्मनाः

61.61

ब्राह्मण उवाच
मा मां स्प्राक्षीर्व्रजान्यत्र दुष्टे यः सदृशस्तव ।
मयान्यथा याचिता त्वमन्यथैवाप्युपैषि माम्

61.62

सायं प्रातर्हुतं हव्यं लोकान् यच्छति शाश्वतान् ।
त्रैलोक्यमेतदखिलं मूढे इव्ये प्रतिष्ठितम्

61.63

वरूथिन्युवाच
किं ते नाहं प्रिया विप्र ! रमणीयो न किं गिरिः ।
गन्धर्वान् किन्नरादींश्च त्यक्त्वाभीष्टो हि कस्तव

61.64

निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् ।
स्वल्पकालं मया सार्धं भुङ्क्षव भोगान् सुदुर्लभान्

61.66

ब्राह्मण उवाच
अष्टावात्मगुणा ये हि तेषामादौ दया द्विज ।
तां करोषि कथं न त्वं मयि सद्धर्मपालक

61.67

त्वद्विमुक्ता न जीवामि तथा प्रीतिमती त्वयि ।
नैतद्वदाम्यहं मिथ्या प्रसीद कुलनन्दन

61.68

ब्राह्मण उवाच
यदि प्रीतिमती सत्यं नोपचाराद्ब्रवीषि माम् ।
तदुपायं समाचक्ष्व येन यामि स्वमालयम्

61.69

वरूथिन्युवाच
निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् ।
स्वल्पकालं मया सार्धं भुङ्क्ष्व भोगान् सुदुर्लभान्

61.70

ब्राह्मण उवाच
न भोगार्थाय विप्राणां शस्यते हि वरूथिनी ।
इह क्लेशाय विप्राणां चेष्टा प्रेत्याफलप्रदा

61.71

वरूथिन्युवाच
सन्त्राणं म्रियमाणाया मम कृत्वा परत्र ते ।
पुण्यस्यैव फलं भावि भोगाश्चान्यत्र जन्मनि

61.72

एवं च द्वयमप्यत्र तवोपचयकारणम् ।
प्रत्याख्यानादहं मृत्युं त्वञ्च पापमवाप्स्यसि

61.73

ब्राह्मण उवाच
परस्त्रियं नाभिलषेदित्युचुर्गुरवो मम ।
तेन त्वां नाभिवाञ्छामि कामं विलप शुष्य वा

61.74

मार्कण्डेय उवाच
इत्युक्त्वा स महाभागः स्पृष्ट्वापः प्रयतः शुचिः ।
प्राहेदं प्रणिपत्याग्निं गार्हपत्यमुपांशुना

61.75

भगवन् ! गार्हपत्याग्ने योनिस्त्वं सर्वकर्मणाम् ।
त्वत्त आहवनीयो ऽग्निर्दक्षिणाग्निश्च नान्यतः

61.76

युष्मदाप्यायनाद् देवा वृष्टिशस्यादिहेतवः ।
भवन्ति शस्यादखिलं जगद्भवति नान्यतः

61.77

एवं त्वत्तो भवत्येतद्येन सत्येन वै जगत् ।
तथाहमद्य स्वं गेहं पश्येयं सति भास्करे

61.78

यथा वै वैदिकं कर्म स्वकाले नोज्झितं मया ।
तेन सत्येन पश्येयं गृहस्थो ऽद्य दिवाकरम्

61.79

यथा च न परद्रव्ये परदारे च मे मतिः ।
कदाचित् साभिलाषाभूत्तथैतत् सिद्धिमेतु मे

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc