मार्कण्डेय पुराण · अध्याय 62
इति श्रीमार्कण्डेयपुराणेठब्राह्मणवाक्यम्ऽ नामैकषष्टितमो ऽध्यायः
द्विषष्टितमो ऽध्यायः- 62
मार्कण्डेय उवाच
एवन्तु वदतस्तस्य द्विजपुत्रस्य पावकः ।
गार्हपत्यः शरीरे तु सन्निधानमथाकरोत्
तेन चाधिष्ठितः सो ऽथ प्रभामण्डलमध्यगः ।
व्यदीपयत तं देशं मूर्तिमानिव हव्यवाट्
तस्यास्तु सुतरां तत्र तादृग्रूपे द्विजन्मनि ।
अनुरागो ऽभवद्विप्रं पश्यन्त्या देवयोषितः
ततः सो ऽधिष्ठितस्तेन हव्यवाहेन तत्क्षणात् ।
यथापूर्वं तथा गन्तुं प्रवृत्तो द्विजनन्दनः
जगाम च त्वरायुक्तस्तया देव्या निरीक्षितः ।
आदृष्टिपातात्तन्वङ्ग्या निश्वासोत्कम्पिकन्धरम्
ततः क्षणेनैव तदा निजगेहमवाप्य सः ।
यथाप्रोक्तं द्विजश्रेष्ठश्चकार सकलाः क्रियाः
अथ सा चारुसर्वाङ्गी तत्रासक्तात्ममानसा ।
निश्वासपरमा निन्ये दिनशेषं तथा निशाम्
निश्वसन्त्यनवद्याङ्गी हाहेति रुदती मुहुः ।
मन्दभाग्येति चात्मानं निनिन्द मदिरेक्षणा
न विहारे न चाहारे रमणीये न वा वने ।
न कन्दरेषु रम्येषु सा बबन्ध तदा रतिम्
चकार रममाणे च चक्रवाकयुगे स्पृहाम् ।
मुक्ता तेन वरारोहा निनिन्द निजयौवनम्
क्वागताहमिमं शैलं दुष्टदैवबलात्कृता ।
क्व च प्राप्तः स मे दृष्टेर्गोचरं तादृशो नरः
यद्यद्य स महाभागो न मे सङ्गमुपैष्यति ।
तत्कामाग्निरवश्यं मां क्षपयिष्यति दुः सहः
रमणीयमभूद्यत्तत्पुंस्कोकिलनिनादितम् ।
तेन हीनन्तदेवैतद्दहतीवाद्य मामलम्
मार्कण्डेय उवाच
इत्थं सा मदनाविष्टा जगाम मुनिसत्तम ।
ववृधे च तदा रागस्तस्यास्तस्मिन् प्रतिक्षणम्
कलिर्नाम्ना तु गन्धर्वः सानुरागो निराकृतः ।
तया पूर्वमभूत्सो ऽथ तदवस्थां ददर्श ताम्
स चिन्तयामास तदा किं न्वेषा गजगामिनी ।
निश्वासपवनम्लाना गिरावत्र वरूथिनी
मुनिशापक्षता किंनु केनचित् किं विमानिता ।
वाष्पवारिपरिक्लिन्नमियन्धत्ते यतो मुखम्
ततः स दध्यौ सुचिरं तमर्थं कौतुकात् कलिः ।
ज्ञातवांश्च प्रभावेण समाधेः स यथातथम्
पुनः स चिन्तयामास तद्विज्ञाय मुनेः कलिः ।
ममोपपादितं साधु भाग्यैरेतत्पुराकृतैः
मयैषा सानुरागेण बहुशः प्रार्थिता सती ।
निराकृतवती सेयमद्य प्राप्या भविष्यति
मानुषे सानुरागेयं तत्र तद्रूपधारिणि ।
रंस्यते मय्यसन्दिग्धं किं कालेन करोमि तत्
मार्कण्डेय उवाच
आत्मप्रभावेण ततस्तस्य रूपं द्विजन्मनः ।
कृत्वा चचार यत्रास्ते निषण्णा सा वरूथिनी
सा तं दृष्ट्वा वरारोहा किञ्चिदुत्फुल्ललोचना ।
समेत्य प्राह तन्वङ्गी प्रसीदेति पुनः पुनः
त्वया त्यक्ता न सन्देहः परित्यक्ष्यामि जीवितम् ।
तत्राधर्मः कष्टतरः क्रियालोपो भविष्यति
मया समेत्य रम्ये ऽस्मिन् महाकन्दरकन्दरे ।
मत्परित्राणजं धर्ममवश्यं प्रतिपत्स्यसे
आयुषः सावशेषं मे नृनमस्ति महामते ।
निवृत्तस्तेन नूनं त्वं हृदयाह्लादकारकः
कलिरुवाच
किं करोमि क्रियाहानिर्भवत्यत्र सतो मम ।
त्वमप्येवंविधं वाक्यं ब्रवीषि तनुमध्यमे
तदहं सङ्कटं प्राप्तो यद्ब्रवीमि करोषि तत् ।
यदि स्यात् सङ्गमो मे ऽद्य भवत्या सह नान्यथा
वरूथिनी उवाच
प्रसीद यद्ब्रवीषि त्वं तत्करोमि न ते मृषा ।
ब्रवीम्येतदनाशङ्कं यत्ते कार्यं मयाधुना
कलिरुवाच
नाद्य संभोगसमये द्रष्टव्यो ऽहं त्वया वने ।
निमीलिताक्ष्याः संसर्गस्तव सुभ्रु मया सह
वरूथिन्युवाच
एवं भवतु भद्रन्ते यथेच्छसि तथास्तु तत् ।
मया सर्वप्रकारं हि वशे स्थेयं तवाधुना
मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0