भाषा

ENहिગુ
ग्रंथ पाठ

मार्कण्डेय पुराण · अध्याय 60

60.1

इति श्रीमार्कण्डेयपुराणेठौत्तरकुरुकथनंऽ नामैकोनषष्टितमो ऽध्यायः
षष्टितमो ऽध्यायः- 60
मार्कण्डेय उवाच
यत्तु किम्पुरुषं वर्षं तत् प्रवक्ष्याम्यहं द्विज ।
यत्रायुर्दशसाहस्त्रं पुरुषाणां वपुष्मताम्

60.2

अनामया ह्यशोकाश्च नरा यत्र तथा स्त्रियः ।
प्लक्षः षण्डश्च तत्रोक्तः सुमहान्नन्दनोपमः

60.3

तस्य ते वै फलरसं पिबन्तः पुरुषाः सदा ।
स्थिरयौवननिष्पन्नाः स्त्रियश्चोत्पलगन्धिकाः

60.4

अतः परं किंपुरुषाद्धरिवर्षं प्रचक्ष्यते ।
महारजतसङ्काशा जायन्ते तत्र मानवाः

60.5

देवलोकच्युताः सर्वे देवरूपाश्च सर्वशः ।
हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम्

60.6

न जरा बाधते तत्र न जीर्यन्ते च कर्हिचित् ।
तावन्तमेव ते कालं जीवन्त्यथ निरामयाः

60.7

मेरुवर्षं मया प्रोक्तं मध्यमं यदिलावृतम् ।
न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः

60.8

लभन्ते नात्मलाभञ्च रश्मयश्चन्द्रसूर्ययोः ।
नक्षत्राणां ग्रहाणाञ्च मेरोस्तत्र परा द्युतिः

60.9

पद्मप्रभाः पद्मगन्धा जम्बूफलरसाशिनः ।
पद्मपत्रायताक्षास्तु जायन्ते तत्र मानवाः

60.10

वर्षाणान्तु सहस्राणि तत्राप्यायुस्त्रयोदश ।
सरावाकारसंस्तारो मेरुमध्ये इलावृते

60.11

मेरुस्तत्र महाशैलस्तदाख्यातमिलावृतम् ।
रम्यकं वर्षमस्माच्च कथयिष्ये निबोध तत्

60.12

वृक्षस्तत्रापि चोत्तुङ्गो न्यग्रोधो हरितच्छदः ।
तस्यापि ते फलरसं पिबन्तो वर्तयन्ति वै

60.13

वर्षायुतायुषस्तत्र नरास्तत्फलभोगिनः ।
रतिप्रधानविमला जरादौर्गन्ध्यवर्जिताः

60.14

तस्मादथोत्तरं वर्षं नाम्ना ख्यातं हिरण्मयम् ।
हिरण्वती नदी यत्र प्रभूतकमलोज्ज्वला

60.15

महाबलाः सतेजस्का जायन्ते तत्र मानवाः ।
महाकाया महासत्त्वा धनिनः प्रियदर्शनाः

मूल पाठ: Mārkaṇḍeyapurāṇa, 1-93 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc