भाषा

ENहिગુ
ग्रंथ पाठ

मनुस्मृति · अध्याय 9

9.1

पुरुषस्य स्त्रियाश् चैव धर्मे धर्म्ये वर्त्मनि तिष्ठतोः
संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥

9.2

अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवानिशम्
विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥

9.3

पिता रक्षति कौमारे भर्ता रक्षति यौवने
रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यम् अर्हति ॥

9.4

काले ऽदाता पिता वाच्यो वाच्यश् चानुपयन् पतिः
मृते भर्तरि पुत्रस् तु वाच्यो मातुर् अरक्षिता ॥

9.5

सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः स्त्रियो स्त्रिया रक्ष्या विशेषतः
द्वयोर् हि कुलयोः शोकम् आवहेयुर् अरक्षिताः ॥

9.6

इमं हि सर्ववर्णानां पश्यन्तो धर्मम् उत्तमम्
यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥

9.7

स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च
स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥

9.8

पतिर् भार्यां संप्रविश्य गर्भो भूत्वेह जायते
जायायास् तद् धि जायात्वं यद् अस्यां जायते पुनः ॥

9.9

यादृशं भजते हि स्त्री सुतं सूते तथाविधम्
तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः ॥

9.10

न कश् चिद् योषितः शक्तः प्रसह्य परिरक्षितुम्
एतैर् उपाययोगैस् तु शक्यास् ताः परिरक्षितुम् ॥

9.11

अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत्
शौचे धर्मे ऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ॥

9.12

अरक्षिता गृहे रुद्धाः पुरुषैर् आप्तकारिभिः
आत्मानम् आत्मना यास् तु रक्षेयुस् ताः सुरक्षिताः ॥

9.13

पानं दुर्जनसंसर्गः पत्या च विरहो ऽटनम्
स्वप्नो ऽन्यगेहवासश् च नारीसंदूषणानि षट् ॥

9.14

नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः
सुरूपं वा विरूपं वा पुमान् इत्य् एव भुञ्जते ॥

9.15

पौंश्चल्याच् चलचित्ताच् च नैस्नेह्याच् नैःस्नेह्याच् च स्वभावतः
रक्षिता यत्नतो ऽपीह भर्तृष्व् एता विकुर्वते ॥

9.16

एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम्
परमं यत्नम् आतिष्ठेत् पुरुषो रक्षणं प्रति ॥

9.17

शय्यासनम् अलङ्कारं कामं क्रोधम् अनार्जवम् म्:अनार्यताम्]
द्रोहभावं द्रोग्धृभावं कुचर्यां च स्त्रीभ्यो मनुर् अकल्पयत् ॥

9.18

नास्ति स्त्रीणां क्रिया मन्त्रैर् इति धर्मे व्यवस्थितिः
निरिन्द्रिया ह्य् अमन्त्राश् च स्त्रीभ्यो स्त्रियो ऽनृतम् इति स्थितिः ॥

9.19

तथा च श्रुतयो बह्व्यो निगीता निगमेष्व् अपि
स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥

9.20

यन् मे माता प्रलुलुभे विचरन्त्य् अपतिव्रता
तन् मे रेतः पिता वृङ्क्ताम् इत्य् अस्यैतन् निदर्शनम् ॥

9.21

ध्यायत्य् अनिष्टं यत् किं चित् पाणिग्राहस्य चेतसा
तस्यैष व्यभिचारस्य निह्नवः सम्यग् उच्यते ॥

9.22

यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि
तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥

9.23

अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा
शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥

9.24

एताश् चान्याश् च लोके ऽस्मिन्न् अपकृष्ट अवकृष्ट प्रसूतयः
उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर् भर्तृगुणैः शुभैः ॥

9.25

एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा
प्रेत्येह च सुखोदर्कान् प्रजाधर्मान् निबोधत ॥

9.26

प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः
स्त्रियः श्रियश् च गेहेषु न विशेषो ऽस्ति कश् चन ॥

9.27

उत्पादनम् अपत्यस्य जातस्य परिपालनम्
प्रत्यहं लोकयात्रायाः प्रत्यक्षं प्रत्यर्थं स्त्री निबन्धनम् ॥

9.28

अपत्यं धर्मकार्याणि शुश्रूषा रतिर् उत्तमा
दाराधीनस् तथा स्वर्गः पितॄणाम् आत्मनश् च ह ॥

9.29

पतिं या नाभिचरति मनोवाग्देहसंयता
सा भर्तृलोकान् आप्नोति सद्भिः साध्वीति चोच्यते ॥

9.30

व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम्
सृगाल शृगाल योनिं चाप्नोति पापरोगैश् च पीड्यते ॥

9.31

पुत्रं प्रत्युदितं सद्भिः पूर्वजैश् च महर्षिभिः
विश्वजन्यम् इमं पुण्यम् उपन्यासं निबोधत ॥

9.32

भर्तरि भर्तुः पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि
आहुर् उत्पादकं के चिद् अपरे क्षेत्रिणं विदुः ॥

9.33

क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान्
क्षेत्रबीजसमायोगात् संभवः सर्वदेहिनाम् ॥

9.34

विशिष्टं कुत्र चिद् बीजं स्त्रीयोनिस् त्व् एव कुत्र चित्
उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥

9.35

बीजस्य चैव योन्याश् च बीजम् उत्कृष्टम् उच्यते
सर्वभूतप्रसूतिर् हि बीजलक्षणलक्षिता ॥

9.36

यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते
तादृग् रोहति तत् तस्मिन् बीजं स्वैर् व्यञ्जितं गुणैः ॥

9.37

इयं भूमिर् हि भूतानां शाश्वती योनिर् उच्यते
न च योनिगुणान् कांश् चिद् बीजं पुष्यति पुष्टिषु ॥

9.38

भूमाव् अप्य् एककेदारे कालोप्तानि कृषीवलैः
नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥

9.39

व्रीहयः शालयो मुद्गास् तिला माषास् तथा यवाः
यथाबीजं प्ररोहन्ति लशुनानीक्षवस् तथा ॥

9.40

अन्यद् उप्तं जातम् अन्यद् इत्य् एतन् नोपपद्यते
उप्यते यद् धि यद् बीजं तत् तद् एव प्ररोहति ॥

9.41

तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना
आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥

9.42

अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः
यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥

9.43

नश्यतीषुर् यथा विद्धः खे विद्धम् अनुविध्यतः
तथा नश्यति वै क्षिप्रं क्षिप्तं बीजं परपरिग्रहे ॥

9.44

पृथोर् अपीमां पृथिवीं भार्यां पूर्वविदो विदुः
स्थाणुच्छेदस्य केदारम् आहुः शाल्यवतो मृगम् ॥

9.45

एतावान् एव पुरुषो यज् जायात्मा प्रजेति ह
विप्राः प्राहुस् तथा चैतद् यो भर्ता सा स्मृताङ्गना ॥

9.46

न निष्क्रयविसर्गाभ्यां भर्तुर् भार्या विमुच्यते
एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् ॥

9.47

सकृद् अंशो निपतति सकृत् कन्या प्रदीयते
सकृद् आह ददानीति ददामीति त्रीण्य् एतानि सतां सकृत् ॥

9.48

यथा गोऽश्वोष्ट्रदासीषु महिष्य् अजाविकासु च
नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्व् अपि ॥

9.49

ये ऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः
ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित् ॥

9.50

यद् अन्यगोषु वृषभो वत्सानां जनयेच् छतम्
गोमिनाम् एव ते वत्सा मोघं स्कन्दितम् आर्षभम् ॥

9.51

तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः
कुर्वन्ति क्षेत्रिणाम् अर्थं न बीजी लभते फलम् ॥

9.52

फलं त्व् अनभिसंधाय क्षेत्रिणां बीजिनां तथा
प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजाद् योनिर् गलीयसी बरीयसी ॥

9.53

क्रियाभ्युपगमात् त्व् एतद् बीजार्थं यत् प्रदीयते
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥

9.54

ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति
क्षेत्रिकस्यैव तद् बीजं न वप्ता बीजी लभते फलम् ॥

9.55

एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च
विहंगमहिषीणां च विज्ञेयः प्रसवं प्रति ॥

9.56

एतद् वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम्
अतः परं प्रवक्ष्यामि योषितां धर्मम् आपदि ॥

9.57

भ्रातुर् ज्येष्ठस्य भार्या या गुरुपत्न्य् अनुजस्य सा
यवीयसस् तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥

9.58

ज्येष्ठो यवीयसो भार्यां यवीयान् वाग्रजस्त्रियम्
पतितौ भवतो गत्वा नियुक्ताव् अप्य् अनापदि ॥

9.59

देवराद् वा सपिण्डाद् वा स्त्रिया सम्यङ् नियुक्तया
प्रजेप्सिताआधिगन्तव्या संतानस्य परिक्षये ॥

9.60

विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि
एकम् उत्पादयेत् पुत्रं न द्वितीयं कथं चन ॥

9.61

द्वितीयम् एके प्रजनं मन्यन्ते स्त्रीषु तद्विदः
अनिर्वृतं अनिर्वृत्तं नियोगार्थं पश्यन्तो धर्मतस् तयोः ॥

9.62

विधवायां नियोगार्थे निर्वृत्ते निवृत्ते तु यथाविधि
गुरुवच् च स्नुषावच् च वर्तेयातां परस्परम् ॥

9.63

नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः
ताव् उभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥

9.64

नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥

9.65

नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित्
न विवाहविधाव् उक्तं विधवावेदनं पुनः ॥

9.66

अयं द्विजैर् हि विद्वद्भिः पशुधर्मो विगर्हितः
मनुष्याणाम् अपि प्रोक्तो वेने राज्यं प्रशासति ॥

9.67

स महीम् अखिलां भुञ्जन् राजर्षिप्रवरः पुरा
वर्णानां संकरं चक्रे कामोपहतचेतनः ॥

9.68

ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम्
नियोजयत्य् अपत्यार्थं तं विगर्हन्ति साधवः ॥

9.69

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः
ताम् अनेन विधानेन निजो विन्देत देवरः ॥

9.70

यथाविध्य् अधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम्
मिथो भजेता प्रसवात् सकृत्सकृद् ऋतावृतौ ॥

9.71

न दत्त्वा कस्य चित् कन्यां पुनर् दद्याद् विचक्षणः
दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥

9.72

विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम्
व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥

9.73

यस् तु दोषवतीं कन्याम् अनाख्यायोपपादयेत्
तस्य तद् वितथं कुर्यात् कन्यादातुर् दुरात्मनः ॥

9.74

विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान् नरः
अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्य् अपि ॥

9.75

विधाय प्रोषिते वृत्तिं जीवेन् नियमम् आस्थिता
प्रोषिते त्व् अविधायैव जीवेच् छिल्पैर् अगर्हितैः ॥

9.76

प्रोषितो धर्मकार्यार्थं प्रतीक्ष्यो ऽष्टौ नरः समाः
विद्यार्थं षड् यशोऽर्थं वा कामार्थं त्रींस् तु वत्सरान् ॥

9.77

संवत्सरं प्रतीक्षेत द्विषन्तीं द्विषाणां योषितं पतिः
ऊर्ध्वं संवत्सरात् त्व् एनां दायं हृत्वा न संवसेत् ॥

9.78

अतिक्रामेत् प्रमत्तं या मत्तं रोगार्तम् एव वा
सा त्रीन् मासान् परित्याज्या विभूषणपरिच्छदा ॥

9.79

उन्मत्तं पतितं क्लीबम् अबीजं पापरोगिणम्
न त्यागो ऽस्ति द्विषन्त्याश् च न च दायापवर्तनम् ॥

9.80

मद्यपासाधुवृत्ता मद्यपासत्यवृत्ता च प्रतिकूला च या भवेत्
व्याधिता वाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा ॥

9.81

वन्ध्याष्टमे ऽधिवेद्याऽअब्दे दशमे तु मृतप्रजा
एकादशे स्त्रीजननी सद्यस् त्व् अप्रियवादिनी ॥

9.82

या रोगिणी स्यात् तु हिता संपन्ना चैव शीलतः
सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् ॥

9.83

अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात्
सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥

9.84

प्रतिषिद्धापि चेद् प्रतिषेधे पिबेद् या तु मद्यम् अभ्युदयेष्व् अपि
प्रेक्षासमाजं गच्छेद् वा सा दण्ड्या कृष्णलानि षट् ॥

9.85

यदि स्वाश् चापराश् चैव विन्देरन् योषितो द्विजाः
तासां वर्णक्रमेण स्याज् ज्येष्ठ्यं पूजा च वेश्म च ॥

9.86

भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम्
स्वा चैव स्वैव कुर्यात् सर्वेषां नास्वजातिः कथं चन ॥

9.87

यस् तु तत् कारयेन् मोहात् सजात्या स्थितयान्यया
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस् तथैव सः ॥

9.88

उत्कृष्टायाभिरूपाय वराय सदृशाय च
अप्राप्ताम् अपि तां तस्मै कन्यां दद्याद् यथाविधि ॥

9.89

कामम् आ मरणात् तिष्ठेद् गृहे कन्या र्तुमत्य् अपि
न चैवैनां प्रयच्चेत् तु गुणहीनाय कर्हि चित् ॥

9.90

त्रीणि वर्षाण्य् उदीक्षेत कुमार्य् ऋतुमती सती
ऊर्ध्वं तु कालाद् एतस्माद् विन्देत सदृशं पतिम् ॥

9.91

अदीयमाना भर्तारम् अधिगच्छेद् यदि स्वयम्
नैनः किं चिद् अवाप्नोति न च यं साधिगच्छति ॥

9.92

अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा
मातृकं भ्रातृदत्तं वा स्तेना स्याद् यदि तं हरेत् ॥

9.93

पित्रे न दद्याच् छुल्कं तु कन्याम् ऋतुमतीं हरन्
स च स्वाम्याद् अतिक्रामेद् ऋतूनां प्रतिरोधनात् ॥

9.94

त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम्
त्र्यष्टवर्षो ऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥

9.95

देवदत्तां पतिर् भार्यां विन्दते नेच्छयात्मनः
तां साध्वीं बिभृयान् नित्यं देवानां प्रियम् आचरन् ॥

9.96

प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः
तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥

9.97

कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥

9.98

आददीत न शूद्रो ऽपि शुल्कं दुहितरं ददन्
शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥

9.99

एतत् तु न परे चक्रुर् नापरे जातु साधवः
यद् अन्यस्य प्रतिज्ञाय पुनर् अन्यस्य दीयते ॥

9.100

नानुशुश्रुम जात्व् एतत् पूर्वेष्व् अपि हि जन्मसु
शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥

9.101

अन्योन्यस्याव्यभिचारो भवेद् आमरणान्तिकः
एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥

9.102

तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ
यथा नाभिचरेतां नातिचरेतां तौ वियुक्ताव् इतरेतरम् ॥

9.103

एष स्त्रीपुंसयोर् उक्तो धर्मो वो रतिसंहितः
आपद्य् अपत्यप्राप्तिश् च दायधर्मं निबोधत ॥

9.104

ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः समम्
भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥

9.105

ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनम् अशेषतः
शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ॥

9.106

ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः
पितॄणाम् अनृणश् चैव स तस्मात् सर्वम् अर्हति ॥

9.107

यस्मिन्न् ऋणं संनयति येन चानन्त्यम् अश्नुते
स एव धर्मजः पुत्रः कामजान् इतरान् विदुः ॥

9.108

पितेव पालयेत् पूत्रान् ज्येष्ठो भ्रातॄण् यवीयसः
पुत्रवच् चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥

9.109

ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः
ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिर् अगर्हितः ॥

9.110

यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान् मातेव स पितेव सः
अज्येष्ठवृत्तिर् यस् तु स्यात् स संपूज्यस् तु बन्धुवत् ॥

9.111

एवं सह वसेयुर् वा पृथग् वा धर्मकाम्यया
पृथग् विवर्धते धर्मस् तस्माद् धर्म्या पृथक्क्रिया ॥

9.112

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम्
ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥

9.113

ज्येष्ठश् चैव कनिष्ठश् च संहरेतां यथोदितम्
ये ऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान् मध्यमं धनम् ॥

9.114

सर्वेषां धनजातानाम् आददीताग्र्यम् अग्रजः
यच् च सातिशयं किं चिद् दशतश् चाप्नुयाद् वरम् ॥

9.115

उद्धारो न दशस्व् अस्ति संपन्नानां स्वकर्मसु
यत् किं चिद् एव देयं तु ज्यायसे मानवर्धनम् ॥

9.116

एवं समुद्धृतोद्धारे समान् अंशान् प्रकल्पयेत्
उद्धारे ऽनुद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ॥

9.117

एकाधिकं हरेज् ज्येष्ठः पुत्रो ऽध्यर्धं ततो ऽनुजः
अंशम् अंशं यवीयांस इति धर्मो व्यवस्थितः ॥

9.118

स्वेभ्यो ऽंशेभ्यस् स्वाभ्यः स्वाभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः पृथक्
स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥

9.119

अजाविकं सैकशफं चैकशफं न जातु विषमं भजेत्
अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ॥

9.120

यवीयाञ् ज्येष्ठभार्यायां पुत्रम् उत्पादयेद् यदि
समस् तत्र विभागः स्याद् इति धर्मो व्यवस्थितः ॥

9.121

उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते
पिता प्रधानं प्रजने तस्माद् धर्मेण तं भजेत् ॥

9.122

पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः
कथं तत्र विभागः स्याद् इति चेत् संशयो भवेत् ॥

9.123

एकं वृषभम् उद्धारं संहरेत स पूर्वजः
ततो ऽपरे ज्येष्ठवृषास् तदूनानां स्वमातृतः ॥

9.124

ज्येष्ठस् तु जातो ज्येष्ठायां हरेद् वृषभषोडशाः
ततः स्वमातृतः शेषा भजेरन्न् इति धारणा ॥

9.125

सदृशस्त्रीषु जातानां पुत्राणाम् अविशेषतः
न मातृतो ज्यैष्ठ्यम् अस्ति जन्मतो ज्यैष्ठ्यम् उच्यते ॥

9.126

जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्व् अपि स्मृतम्
यमयोश् चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ॥

9.127

अपुत्रो ऽनेन विधिना सुतां कुर्वीत पुत्रिकाम्
यद् अपत्यं भवेद् अस्यां तन् मम स्यात् स्वधाकरम् ॥

9.128

अनेन तु विधानेन पुरा चक्रे ऽथ पुत्रिकाः
विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ॥

9.129

ददौ स दश धर्माय कश्यपाय त्रयोदश
सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥

9.130

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा
तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ॥

9.131

मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः
दौहित्र एव च हरेद् अपुत्रस्याखिलं धनम् ॥

9.132

दौहित्रो ह्य् अखिलं रिक्थम् अपुत्रस्य पितुर् हरेत्
स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च ॥

9.133

पौत्रदौहित्रयोर् लोके न विशेषो ऽस्ति धर्मतः
तयोर् हि मातापितरौ संभूतौ तस्य देहतः ॥

9.134

पुत्रिकायां कृतायां तु यदि पुत्रो ऽनुजायते
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥

9.135

अपुत्रायां मृतायां तु पुत्रिकायां कथं चन
धनं तत् पुत्रिकाभर्ता हरेतैवाविचारयन् ॥

9.136

अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम्
पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥

9.137

पुत्रेण लोकाञ् जयति पौत्रेणानन्त्यम् अश्नुते
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥

9.138

पुंनाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ॥

9.139

पौत्रदौहित्रयोर् लोके विशेषो नोपपद्यते
दौहित्रो ऽपि ह्य् अमुत्रैनं संतारयति पौत्रवत् ॥

9.140

मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः
द्वितीयं तु पितुस् तस्यास् तृतीयं तत्पितुः पितुः ॥

9.141

उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः
स हरेतैव तद्रिक्थं संप्राप्तो ऽप्य् अन्यगोत्रतः ॥

9.142

गोत्ररिक्थे जनयितुर् न हरेद् दत्त्रिमः क्व चित्
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥

9.143

अनियुक्तासुतश् चैव पुत्रिण्याप्तश् च देवरात्
उभौ तौ नार्हतो भागं जारजातककामजौ ॥

9.144

नियुक्तायाम् अपि पुमान् नार्यां जातो ऽविधानतः
नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥

9.145

हरेत् तत्र नियुक्तायां जातः पुत्रो यथाउरसः
क्षेत्रिकस्य तु तद् बीजं धर्मतः प्रसवश् च सः ॥

9.146

धनं यो बिभृयाद् भ्रातुर् मृतस्य स्त्रियम् एव च
सो ऽपत्यं भ्रातुर् उत्पाद्य दद्यात् तस्यैव तद्धनम् ॥

9.147

या नियुक्तान्यतः पुत्रं देवराद् वाप्य् अवाप्नुयात्
तं कामजम् अरिक्थीयं वृथोत्पन्नं मिथ्योत्पन्नं प्रचक्षते ॥

9.148

एतद् विधानं विज्ञेयं विभागस्यैकयोनिषु
बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥

9.149

ब्राह्मणस्यानुपूर्व्येण चतस्रस् तु यदि स्त्रियः
तासां पुत्रेषु जातेषु विभागे ऽयं विधिः स्मृतः ॥

9.150

कीनाशो गोवृषो यानम् अलङ्कारश् च वेश्म च
विप्रस्याउद्धारिकं देयम् एकांशश् च प्रधानतः ॥

9.151

त्र्यंशं दायाद् धरेद् विप्रो द्वाव् अंशौ क्षत्रियासुतः
वैश्याजः सार्धम् एवांशम् अंशं शूद्रासुतो हरेत् ॥

9.152

सर्वं वा रिक्थजातं तद् दशधा परिकल्प्य च
धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ॥

9.153

चतुरो ऽंशान् हरेद् विप्रस् त्रीन् अंशान् क्षत्रियासुतः
वैश्यापुत्रो हरेद् द्व्यंशं अंशं शूद्रासुतो हरेत् ॥

9.154

यद्य् अपि स्यात् तु सत्पुत्रो ऽप्य् असत्पुत्रो यद्य् अपुत्रो ऽपि वा भवेत्
नाधिकं दशमाद् दद्याच् छूद्रापुत्राय धर्मतः ॥

9.155

ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक्
यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥

9.156

समवर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम्
उद्धारं ज्यायसे दत्त्वा भजेरन्न् इतरे समम् ॥

9.157

शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते
तस्यां जाताः समांशाः स्युर् यदि पुत्रशतं भवेत् ॥

9.158

पुत्रान् द्वादश यान् आह नॄणां स्वायंभुवो मनुः
तेषां षड् बन्धुदायादाः षड् अदायादबान्धवाः ॥

9.159

औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च
गूढोत्पन्नो ऽपविद्धश् च दायादा बान्धवाश् च षट् ॥

9.160

कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा
स्वयंदत्तश् च शौद्रश् च षड् अदायादबान्धवाः ॥

9.161

यादृशं फलम् आप्नोति कुप्लवैः संतरञ् जलम्
तादृशं फलम् आप्नोति कुपुत्रैः संतरंस् तमः ॥

9.162

यद्य् एकरिक्थिनौ स्याताम् औरसक्षेत्रजौ सुतौ
यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत नेतरः ॥

9.163

एक एवाउरसः पुत्रः पित्र्यस्य वसुनः प्रभुः
शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥

9.164

षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात्
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥

9.165

औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥

9.166

स्वक्षेत्रे संस्कृतायां तु स्वयम् उत्पादयेद् धि यम्
तम् औरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ॥

9.167

यस् तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा
स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥

9.168

माता पिता वा दद्यातां यम् अद्भिः पुत्रम् आपदि
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥

9.169

सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम्
पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयश् च कृत्रिमः ॥

9.170

उत्पद्यते गृहे यस् तु न च ज्ञायेत कस्य सः
स गृहे गूढ उत्पन्नस् तस्य स्याद् यस्य तल्पजः ॥

9.171

मातापितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा
यं पुत्रं परिगृह्णीयाद् अपविद्धः स उच्यते ॥

9.172

पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः
तं कानीनं वदेन् नाम्ना वोढुः कन्यासमुद्भवम् ॥

9.173

या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती
वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥

9.174

क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात्
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥

9.175

या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया
उत्पादयेत् पुनर् भूत्वा स पौनर्भव उच्यते ॥

9.176

सा चेद् अक्षतयोनिः स्याद् गतप्रत्यागतापि वा
पौनर्भवेन भर्त्रा सा पुनः संस्कारम् अर्हति ॥

9.177

मातापितृविहीनो यस् त्यक्तो वा स्याद् अकारणात्
आत्मानम् अर्पयेद् यस्मै स्वयंदत्तस् तु स स्मृतः ॥

9.178

यं ब्राह्मणस् तु शूद्रायां कामाद् उत्पादयेत् सुतम्
स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः ॥

9.179

दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत्
सो ऽनुज्ञातो हरेद् अंशम् इति धर्मो व्यवस्थितः ॥

9.180

क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान्
पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ॥

9.181

य एते ऽभिहिताः पुत्राः प्रसङ्गाद् अन्यबीजजाः
यस्य ते बीजतो जातास् तस्य ते नेतरस्य तु ॥

9.182

भ्रातॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत्
सर्वांस् तांस् तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥

9.183

सर्वासाम् एकपत्नीनाम् एका चेत् पुत्रिणी भवेत्
सर्वास् तास् तेन पुत्रेण प्राह पुत्रवतीर् मनुः ॥

9.184

श्रेयसः श्रेयसो ऽलाभे पापीयान् रिक्थम् अर्हति
बहवश् चेत् तु सदृशाः सर्वे रिक्थस्य भागिनः ॥

9.185

न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः
पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव च ॥

9.186

त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते
चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ॥

9.187

अनन्तरः सपिण्डाद् यस् तस्य तस्य धनं भवेत्
अत ऊर्ध्वं सकुल्यः स्याद् आचार्यः शिष्य एव वा ॥

9.188

सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः
त्रैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते ॥

9.189

अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः
इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः ॥

9.190

संस्थितस्यानपत्यस्य सगोत्रात् पुत्रम् आहरेत्
तत्र यद् रिक्थजातं स्यात् तत् तस्मिन् प्रतिपादयेत् ॥

9.191

द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने
तयोर् यद् यस्य पित्र्यं स्यात् तत् स गृह्णीत नेतरः ॥

9.192

जनन्यां संस्थितायां तु समं सर्वे सहोदराः
भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥

9.193

यास् तासां स्युर् दुहितरस् तासाम् अपि यथार्हतः
मातामह्या धनात् किं चित् प्रदेयं प्रीतिपूर्वकम् ॥

9.194

अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥

9.195

अन्वाधेयं च यद् दत्तं पत्या प्रीतेन चैव यत्
पत्यौ जीवति वृत्तायाः प्रजायास् तद् धनं भवेत् ॥

9.196

ब्राह्मदैवार्षगान्धर्व प्राजापत्येषु यद् वसु
अप्रजायाम् अतीतायां भर्तुर् एव तद् इष्यते ॥

9.197

यत् त्व् अस्याः स्याद् धनं दत्तं विवाहेष्व् आसुरादिषु
अप्रजायाम् अतीतायां मातापित्रोस् तद् इष्यते ॥

9.198

स्त्रियां तु यद् भवेद् वित्तं पित्रा दत्तं कथं चन
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥

9.199

न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यगात्
स्वकाद् अपि च वित्ताद् धि स्वस्य भर्तुर् अनाज्ञया ॥

9.200

पत्यौ जीवति यः स्त्रीभिर् अलङ्कारो धृतो भवेत्
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥

9.201

अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा
उन्मत्तजडमूकाश् च ये च के चिन् निरिन्द्रियाः ॥

9.202

सर्वेषाम् अपि तु न्याय्यं दातुं शक्त्या मनीषिणा
ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अददद् भवेत् ॥

9.203

यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनां कथं चन
तेषाम् उत्पन्नतन्तूनाम् अपत्यं दायम् अर्हति ॥

9.204

यत् किं चित् पितरि प्रेते धनं ज्येष्ठो ऽधिगच्छति
भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥

9.205

अविद्यानां तु सर्वेषां ईहातश् चेद् धनं भवेत्
समस् तत्र विभागः स्याद् अपित्र्य इति धारणा ॥

9.206

विद्याधनं तु यद्य् अस्य तत् तस्यैव धनं भवेत्
मैत्र्यम् औद्वाहिकं चैव माधुपर्किकम् एव च ॥

9.207

भ्रातॄणां यस् तु नेहेत धनं शक्तः स्वकर्मणा
स निर्भाज्यः स्वकाद् अंशात् किं चिद् दत्त्वोपजीवनम् ॥

9.208

अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जितम्
स्वयम् ईहितलब्धं तन् नाकामो दातुम् अर्हति ॥

9.209

पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात्
न तत् पुत्रैर् भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥

9.210

विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि
समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥

9.211

येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥

9.212

सोदर्या विभजेरंस् तं समेत्य सहिताः समम्
भ्रातरो ये च संसृष्टा भागिन्यश् च सनाभयः ॥

9.213

यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः
सो ऽज्येष्ठः स्याद् अभागश् च नियन्तव्यश् च राजभिः ॥

9.214

सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम्
न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥

9.215

भ्रातॄणाम् अविभक्तानां यद्य् उत्थानं भवेत् सह
न पुत्रभागं विषमं पिता दद्यात् कथं चन ॥

9.216

ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हरेद् धनम्
संसृष्टास् तेन वा ये स्युर् विभजेत स तैः सह ॥

9.217

अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात्
मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ॥

9.218

ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि
पश्चाद् दृश्येत यत् किं चित् तत् सर्वं समतां नयेत् ॥

9.219

वस्त्रं पत्रम् अलङ्कारं कृतान्नम् उदकं स्त्रियः
योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥

9.220

अयम् उक्तो विभागो वः पुत्राणां च क्रियाविधिः
क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत ॥

9.221

द्यूतं समाह्वयं चैव राजा राष्ट्रान् निवारयेत्
राजान्तकरणाव् एतौ द्वौ दोषौ पृथिवीक्षिताम् ॥

9.222

प्रकाशम् एतत् तास्कर्यं यद् देवनसमाह्वयौ
तयोर् नित्यं प्रतीघाते नृपतिर् यत्नवान् भवेत् ॥

9.223

अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते
प्राणिभिः क्रियते यस् तु स विज्ञेयः समाह्वयः ॥

9.224

द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा
तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गिनः ॥

9.225

कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश् च मानवान्
विकर्मस्थान् शौण्डिकांश् च क्षिप्रं निर्वासयेत् पुरात् ॥

9.226

एते राष्ट्रे वर्तमाना राज्ञः प्रछन्नतस्कराः
विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥

9.227

द्यूतम् एतत् पुरा कल्पे दृष्टं वैरकरं महत्
तस्माद् द्यूतं न सेवेत हास्यार्थम् अपि बुद्धिमान् ॥

9.228

प्रच्छन्नं वा प्रकाशं वा तन् निषेवेत यो नरः
तस्य दण्डविकल्पः स्याद् यथेष्टं नृपतेस् तथा ॥

9.229

क्षत्रविट्शूद्रयोनिस् तु दण्डं दातुम् अशक्नुवन्
आनृण्यं कर्मणा गच्छेद् विप्रो दद्याच् छनैः शनैः ॥

9.230

स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम्
शिफाविदलरज्ज्वाद्यैर् विदध्यान् नृपतिर् दमम् ॥

9.231

ये नियुक्तास् तु कार्येषु हन्युः कार्याणि कार्यिणाम्
धनोष्मणा पच्यमानास् तान् निःस्वान् कारयेन् नृपः ॥

9.232

कूटशासनकर्तॄंश् च प्रकृतीनां च दूषकान्
स्त्रीबालब्राह्मणघ्नांश् च हन्याद् द्विट्सेविनस् तथा ॥

9.233

तीरितं चानुशिष्टं च यत्र क्व चन यद् भवेत्
कृतं तद् धर्मतो विद्यान् न तद् भूयो निवर्तयेत् ॥

9.234

अमात्याः प्राड्विवाको वा यत् कुर्युः कार्यम् अन्यथा
तत् स्वयं नृपतिः कुर्यात् तान् तं सहस्रं च दण्डयेत् ॥

9.235

ब्रह्महा च सुरापश् च स्तेयी च तस्करो गुरुतल्पगः
एते सर्वे पृथग् ज्ञेया महापातकिनो नराः ॥

9.236

चतुर्णाम् अपि चैतेषां प्रायश्चित्तम् अकुर्वताम्
शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥

9.237

गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः
स्तेये च तस्करे श्वपदं श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥

9.238

असंभोज्या ह्य् असंयाज्या असंपाठ्या ऽविवाहिनः
चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥

9.239

ज्ञातिसंबन्धिभिस् त्व् एते त्यक्तव्याः कृतलक्षणाः
निर्दया निर्नमस्कारास् तन् मनोर् अनुशासनम् ॥

9.240

प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् [म्: पूर्वे वर्णा यथोदितम्]
नाङ्क्या राज्ञा ललाटे स्युर् दाप्यास् तूत्तमसाहसम् ॥

9.241

आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः
विवास्यो वा भवेद् राष्ट्रात् सद्रव्यः सपरिच्छदः ॥

9.242

इतरे कृतवन्तस् तु पापान्य् एतान्य् अकामतः
सर्वस्वहारम् अर्हन्ति कामतस् तु प्रवासनम् ॥

9.243

नाददीत नृपः साधुर् महापातकिनो धनम्
आददानस् तु तल् लोभात् तेन दोषेण लिप्यते ॥

9.244

अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत्
श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥

9.245

ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः
ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥

9.246

यत्र वर्जयते राजा पापकृद्भ्यो धनागमम्
तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥

9.247

निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक्
बालाश् च न प्रमीयन्ते विकृतं च न जायते ॥

9.248

ब्राह्मणान् बाधमानं तु कामाद् अवरवर्णजम्
हन्याच् चित्रैर् वधोपायैर् उद्वेजनकरैर् नृपः ॥

9.249

यावान् अवध्यस्य वधे तावान् वध्यस्य मोक्षणे
अधर्मो नृपतेर् दृष्टो धर्मस् तु विनियच्छतः ॥

9.250

उदितो ऽयं विस्तरशो मिथो विवादमानयोः
अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥

9.251

एवं धर्म्याणि कार्याणि सम्यक् कुर्वन् महीपतिः
देशान् अलब्धांल् लिप्सेत लब्धांश् च परिपालयेत् ॥

9.252

सम्यङ् निविष्टदेशस् तु कृतदुर्गश् च शास्त्रतः
कण्टकोद्धरणे नित्यम् आतिष्ठेद् यत्नम् उत्तमम् ॥

9.253

रक्षनाद् आर्यवृत्तानां कण्टकानां च शोधनात्
नरेन्द्रास् त्रिदिवं यान्ति प्रजापालनतत्पराः ॥

9.254

अशासंस् तस्करान् यस् तु बलिं गृह्णाति पार्थिवः
तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच् च परिहीयते ॥

9.255

निर्भयं तु भवेद् यस्य राष्ट्रं बाहुबलाश्रितम्
तस्य तद् वर्धते नित्यं सिच्यमान इव द्रुमः ॥

9.256

द्विविधांस् तस्करान् विद्यात् परद्रव्यापहारकान्
प्रकाशांश् चाप्रकाशांश् च चारचक्षुर् महीपतिः ॥

9.257

प्रकाशवञ्चकास् तेषां नानापण्योपजीविनः
प्रच्छन्नवञ्चकास् त्व् एते ये स्तेनाटविकादयः ॥

9.258

उत्कोचकाश् चाउपधिका वञ्चकाः कितवास् तथा
मङ्गलादेशवृत्ताश् च भद्राश् चेक्षणिकैः भद्रप्रेक्षणिकैः सह ॥

9.259

असम्यक्कारिणश् चैव महामात्राश् चिकित्सकाः
शिल्पोपचारयुक्ताश् च निपुणाः पण्ययोषितः ॥

9.260

एवमादीन् एवमाद्यान् विजानीयात् प्रकाशांल् लोककण्टकान्
निगूढचारिणश् चान्यान् अनार्यान् आर्यलिङ्गिनः ॥

9.261

तान् विदित्वा सुचरितैर् गूढैस् तत्कर्मकारिभिः
चारैश् चानेकसंस्थानैः प्रोत्साद्य वशम् आनयेत् ॥

9.262

तेषां दोषान् अभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः
कुर्वीत शासनं राजा सम्यक् सारापराधतः ॥

9.263

न हि दण्डाद् ऋते शक्यः कर्तुं पापविनिग्रहः
स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥

9.264

सभाप्रपापूपशाला वेशमद्यान्नविक्रयाः
चतुष्पथांश् चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥

9.265

जीर्णोद्यानान्य् अरण्यानि कारुकावेशनानि च
शून्यानि चाप्य् अगाराणि वनान्य् उपवनानि च ॥

9.266

एवंविधान् नृपो देशान् गुल्मैः स्थावरजङ्गमैः
तस्करप्रतिषेधार्थं चारैश् चाप्य् अनुचारयेत् ॥

9.267

तत्सहायैर् अनुगतैर् नानाकर्मप्रवेदिभिः
विद्याद् उत्सादयेच् चैव निपुणैः पूर्वतस्करैः ॥

9.268

भक्ष्यभोज्योपदेशैश् च ब्राह्मणानां च दर्शनैः
शौर्यकर्मापदेशैश् च कुर्युस् तेषां समागमम् ॥

9.269

ये तत्र नोपसर्पेयुर् मूलप्रणिहिताश् च ये
तान् प्रसह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् ॥

9.270

न होढेन विना चौरं घातयेद् धार्मिको नृपः
सहोढं सोपकरणं घातयेद् अविचारयन् ॥

9.271

ग्रामेष्व् अपि च ये के चिच् चौराणां भक्तदायकाः
भाण्डावकाशदाश् चैव सर्वांस् तान् अपि घातयेत् ॥

9.272

राष्ट्रेषु रक्षाधिकृतान् सामन्तांश् चैव चोदितान्
अभ्याघातेषु मध्यस्थाञ् शिष्याच् चौरान् इव द्रुतम् ॥

9.273

यश् चापि धर्मसमयात् प्रच्युतो धर्मजीवनः
दण्डेनैव तम् अप्य् ओषेत् स्वकाद् धर्माद् धि विच्युतम् ॥

9.274

ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने
शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥

9.275

राज्ञः कोशापहर्तॄंश् च प्रतिकूलेषु च स्थितान् प्रातिकूल्येष्व् अवस्थितान्
घातयेद् विविधैर् दण्डैर् अरीणां चोपजापकान् ॥

9.276

संधिं छित्त्वा भित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः
तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥

9.277

अङ्गुलीर् ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे
द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥

9.278

अग्निदान् भक्तदांश् चैव तथा शस्त्रावकाशदान्
संनिधातॄंश् च मोषस्य हन्याच् चौरम् इवेश्वरः ॥

9.279

तडागभेदकं हन्याद् अप्सु शुद्धवधेन वा
यद् वापि प्रतिसंस्कुर्याद् दाप्यस् तूत्तमसाहसम् ॥

9.280

कोष्ठागारायुधागार देवतागारभेदकान्
हस्त्यश्वरथहर्तॄंश् च हन्याद् एवाविचारयन् ॥

9.281

यस् तु पूर्वनिविष्टस्य तडागस्योदकं हरेत्
आगमं वाप्य् अपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ॥

9.282

समुत्सृजेद् राजमार्गे यस् त्व् अमेध्यम् अनापदि
स द्वौ कार्षापणौ दद्याद् अमेध्यं चाशु शोधयेत् ॥

9.283

आपद्गतो ऽथ वा वृद्धा गर्भिणी बाल एव वा
परिभाषणम् अर्हन्ति तच् च शोध्यम् इति स्थितिः ॥

9.284

चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः
अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥

9.285

संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः
प्रतिकुर्याच् च तत् सर्वं पञ्च दद्याच् छतानि च ॥

9.286

अदूषितानां द्रव्याणां दूषणे भेदने तथा
मणीनाम् अपवेधे च दण्डः प्रथमसाहसः ॥

9.287

समैर् हि विषमं यस् तु चरेद् वै मूल्यतो ऽपि वा
समाप्नुयाद् दमं पूर्वं नरो मध्यमम् एव वा ॥

9.288

बन्धनानि च सर्वाणि राजा मार्गे राजमार्गे निवेशयेत्
दुःखिता यत्र दृश्येरन् विकृताः पापकारिणह् ॥

9.289

प्राकारस्य च भेत्तारं परिखाणां च पूरकम्
द्वाराणां चैव भङ्क्तारं क्षिप्रम् एव प्रवासयेत् ॥

9.290

अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः
मूलकर्मणि चानाप्तेः चानाप्तैः कृत्यासु विविधासु च ॥

9.291

अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च
मर्यादाभेदकश् चैव विकृतं प्राप्नुयाद् वधम् ॥

9.292

सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः
प्रवर्तमानम् अन्याये छेदयेल् लवशः छेदयेत् खण्डशः क्षुरैः ॥

9.293

सीताद्रव्यापहरणे शस्त्राणाम् औषधस्य च
कालम् आसाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥

9.294

स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत् तथा
सप्त प्रकृतयो ह्य् एताः सप्ताङ्गं राज्यम् उच्यते ॥

9.295

सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम्
पूर्वं पूर्वं गुरुतरं जानीयाद् व्यसनं महत् ॥

9.296

सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत्
अन्योन्यगुणवैशेष्यान् न किं चिद् अतिरिच्यते ॥

9.297

तेषु तेषु तु कृत्येषु तत् तद् अङ्गं विशिष्यते
येन यत् साध्यते कार्यं तत् तस्मिञ् श्रेष्ठम् उच्यते ॥

9.298

चारेणोत्साहयोगेन क्रिययैव च कर्मणाम्
स्वशक्तिं परशक्तिं च नित्यं विद्यान् महीपतिः विद्यात् परात्मनोः ॥

9.299

पीडनानि च सर्वाणि व्यसनानि तथैव च
आरभेत ततः कार्यं संचिन्त्य गुरुलाघवम् ॥

9.300

आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः
कर्माण्य् आरभमाणं हि पुरुषं श्रीर् निषेवते ॥

9.301

कृतं त्रेतायुगं चैव द्वापरं कलिर् एव च
राज्ञो वृत्तानि सर्वाणि राजा हि युगम् उच्यते ॥

9.302

कलिः प्रसुप्तो भवति स जाग्रद् द्वापरं युगम्
कर्मस्व् अभ्युद्यतस् त्रेता विचरंस् तु कृतं युगम् ॥

9.303

इन्द्रस्यार्कस्य वायोश् च यमस्य वरुणस्य च
चन्द्रस्याग्नेः पृथिव्याश् च तेजोवृत्तं नृपश् चरेत् ॥

9.304

वार्षिकांश् चतुरो मासान् यथेन्द्रो ऽभिप्रवर्षति
तथाभिवर्षेत् स्वं राष्ट्रं कामैर् इन्द्रव्रतं चरन् ॥

9.305

अष्टौ मासान् यथादित्यस् तोयं हरति रश्मिभिः
तथा हरेत् करं राष्ट्रान् नित्यम् अर्कव्रतं हि तत् ॥

9.306

प्रविश्य सर्वभूतानि यथा चरति मारुतः
तथा चारैः प्रवेष्टव्यं व्रतम् एतद् धि मारुतम् ॥

9.307

यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति
तथा राज्ञा नियन्तव्याः प्रजास् तद् धि यमव्रतम् ॥

9.308

वरुणेन यथा पाशैर् बद्ध एवाभिदृश्यते
तथा पापान् निगृह्णीयाद् व्रतम् एतद् धि वारुणम् ॥

9.309

परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः
तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ॥

9.310

प्रतापयुक्तस् तेजस्वी नित्यं स्यात् पापकर्मसु
दुष्टसामन्तहिंस्रश् च तद् आग्नेयं व्रतं स्मृतम् ॥

9.311

यथा सर्वाणि भूतानि धरा धारयते समम्
तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥

9.312

एतैर् उपायैर् अन्यैश् च युक्तो नित्यम् अतन्द्रितः
स्तेनान् राजा निगृह्णीयात् स्वराष्ट्रे पर एव च ॥

9.313

पराम् अप्य् आपदं प्राप्तो ब्राह्मणान् न प्रकोपयेत्
ते ह्य् एनं कुपिता हन्युः सद्यः सबलवाहनम् ॥

9.314

यैः कृतः सर्वभक्ष्यो सर्वभक्षो ऽग्निर् अपेयश् च महोदधिः
क्षयी चाप्यायितः सोमः को न नश्येत् प्रकोप्य तान् ॥

9.315

लोकान् अन्यान् सृजेयुर् ये लोकपालांश् च कोपिताः
देवान् कुर्युर् अदेवांश् च कः क्षिण्वंस् तान् समृध्नुयात् ॥

9.316

यान् उपाश्रित्य तिष्ठन्ति लोका देवाश् च सर्वदा
ब्रह्म चैव धनं येषां को हिंस्यात् ताञ् जिजीविषुः ॥

9.317

अविद्वांश् चैव विद्वांश् च ब्राह्मणो दैवतं महत्
प्रणीतश् चाप्रणीतश् च यथाग्निर् दैवतं महत् ॥

9.318

श्मशानेष्व् अपि तेजस्वी पावको नैव दुष्यति
हूयमानश् च यज्ञेषु भूय एवाभिवर्धते ॥

9.319

एवं यद्य् अप्य् अनिष्टेषु वर्तन्ते सर्वकर्मसु
सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥

9.320

क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः
ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसंभवम् ॥

9.321

अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥

9.322

नाब्रह्म क्षत्रम् ऋध्नोति नाक्षत्रं ब्रह्म वर्धते
ब्रह्म क्षत्रं च संपृक्तम् इह चामुत्र वर्धते ॥

9.323

दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम्
पुत्रे राज्यं समासृज्य समासाद्य कुर्वीत प्रायणं रणे ॥

9.324

एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः
हितेषु चैव लोकस्य लोकेभ्यः सर्वान् भृत्यान् नियोजयेत् ॥

9.325

एषो ऽखिलः कर्मविधिर् उक्तो राज्ञः सनातनः
इमं कर्मविधिं विद्यात् क्रमशो वैश्यशूद्रयोः ॥

9.326

वैश्यस् तु कृतसंस्कारः कृत्वा दारपरिग्रहम्
वार्तायां नित्ययुक्तः स्यात् पशूनां चैव रक्षणे ॥

9.327

प्रजापतिर् हि वैश्याय सृष्ट्वा परिददे पशून्
ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥

9.328

न च वैश्यस्य कामः स्यान् न रक्षेयं पशून् इति
वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन ॥

9.329

मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च
गन्धानां च रसानां च विद्याद् अर्घबलाबलम् ॥

9.330

बीजानाम् उप्तिविच् च स्यात् क्षेत्रदोषगुणस्य च
मानयोगं च जानीयात् तुलायोगांश् च सर्वशः ॥

9.331

सारासारं च भाण्डानां देशानां च गुणागुणान्
लाभालाभं च पण्यानां पशूनां परिवर्धनम् ॥

9.332

भृत्यानां च भृतिं विद्याद् भाषाश् च विविधा नृणां
द्रव्याणां स्थानयोगांश् च क्रयविक्रयम् एव च ॥

9.333

धर्मेण च द्रव्यवृद्धाव् आतिष्ठेद् यत्नम् उत्तमम्
दद्याच् च सर्वभूतानाम् अन्नम् एव प्रयत्नतः ॥

9.334

विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम्
शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः परम् ॥

9.335

शुचिर् उत्कृष्टशुश्रूषुर् मृदुवाग् अनहंकृतः
ब्राह्मणाद्याश्रयो ब्राह्मणापाश्रयो नित्यम् उत्कृष्टां जातिम् अश्नुते ॥

9.336

एषो ऽनापदि वर्णानाम् उक्तः कर्मविधिः शुभः
आपद्य् अपि हि यस् तेषां क्रमशस् तन् निबोधत ॥

मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc