मनुस्मृति · अध्याय 8
व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः
मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥
तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम्
विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥
प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः
अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥
तेषाम् आद्यम् ऋणादानं निक्षेपो ऽस्वामिविक्रयः
संभूय च समुत्थानं दत्तस्यानपकर्म च ॥
वेतनस्यैव चादानं संविदश् च व्यतिक्रमः
क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥
सीमाविवादधर्मश् च पारुष्ये दण्डवाचिके
स्तेयं च साहसं चैव स्त्रीसंग्रहणम् एव च ॥
स्त्रीपुंधर्मो विभागश् च द्यूतम् आह्वय एव च
पदान्य् अष्टादशैतानि व्यवहारस्थिताव् इह ॥
एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम्
धर्मं शाश्वतम् आश्रित्य कुर्यात् कार्यविनिर्णयम् ॥
यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम्
तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥
सो ऽस्य कार्याणि संपश्येत् सभ्यैर् एव त्रिभिर् वृतः
सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव वा ॥
यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः
राज्ञश् चाधिकृतो विद्वान् ब्रह्मणस् तां सभां विदुः ॥
धर्मो विद्धस् त्व् अधर्मेण सभां यत्रोपतिष्ठते
शल्यं चास्य न कृन्तन्ति विद्धास् तत्र सभासदः ॥
सभां वा न प्रवेष्टव्यं सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम्
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥
यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च
हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः
तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतो ऽवधीत् ॥
वृषो हि भगवान् धर्मस् तस्य यः कुरुते ह्य् त्व् अलम्
वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत् ॥
एक एव सुहृद् धर्मो निधाने ऽप्य् अनुयाति यः
शरीरेण समं नाशं सर्वम् अन्यद् धि गच्छति ॥
पादो ऽधर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥
राजा भवत्य् अनेनास् तु मुच्यन्ते च सभासदः
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥
जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः
धर्मप्रवक्ता नृपतेर् न तु शूद्रः कथं चन ॥
यस्य शूद्रस् तु कुरुते राज्ञो धर्मविवेचनम्
तस्य सीदति तद् राष्ट्रं पङ्के गौर् इव पश्यतः ॥
यद् राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तम् अद्विजम्
विनश्यत्य् आशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥
धर्मासनम् अधिष्ठाय संवीताङ्गः समाहितः
प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आरभेत् ॥
अर्थानर्थाव् उभौ बुद्ध्वा धर्माधर्मौ च केवलौ
वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥
बाह्यैर् विभावयेल् लिङ्गैर् भावम् अन्तर्गतं नृणाम्
स्वरवर्णेङ्गिताकारैश् चक्षुषा चेष्टितेन च ॥
आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च
नेत्रवक्त्रविकारैश् च गृह्यते ऽन्तर्गतं मनः ॥
बालदायादिकं रिक्थं तावद् राजानुपालयेत्
यावत् स स्यात् समावृत्तो यावच् चातीतशैशवः यावद् वातीत ॥
वशापुत्रासु चैवं स्याद् रक्षणं निष्कुलासु च
पतिव्रतासु च स्त्रीषु विधवास्व् आतुरासु च ॥
जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः
ताञ् शिष्याच् चौरदण्डेन धार्मिकः पृथिवीपतिः ॥
प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत्
अर्वाक् त्र्यब्दाद् धरेत् स्वामी परेण नृपतिर् हरेत् ॥
ममेदम् इति यो ब्रूयात् सो ऽनुयोज्यो यथाविधि
संवाद्य रूपसंख्यादीन् स्वामी तद् द्रव्यम् अर्हति ॥
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः
वर्णं रूपं प्रमाणं च तत्समं दण्डम् अर्हति ॥
आददीताथ षड्भागं प्रनष्टाधिगतान् नृपः
दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥
प्रनष्टाधिगतं द्रव्यं तिष्ठेद् युक्तैर् अधिष्ठितम्
यांस् तत्र चौरान् गृह्णीयात् तान् राजेभेन घातयेत् ॥
ममायम् इति यो ब्रूयान् निधिं सत्येन मानवः
तस्याददीत षड्भागं राजा द्वादशम् एव वा ॥
अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशम् अष्टमम्
तस्यैव वा निधानस्य संख्ययाल्पीयसीं कलाम् ॥
विद्वांस् तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम्
अशेषतो ऽप्य् आददीत सर्वस्याधिपतिर् हि सः ॥
यं तु पश्येन् निधिं राजा पुराणं निहितं क्षितौ
तस्माद् द्विजेभ्यो दत्त्वार्धम् अर्धं कोशे प्रवेशयेत् ॥
निधीनां तु पुराणानां धातूनाम् एव च क्षितौ
अर्धभाग् रक्षणाद् राजा भूमेर् अधिपतिर् हि सः ॥
दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर् हृतं धनम्
राजा तद् उपयुञ्जानश् चौरस्याप्नोति किल्बिषम् ॥
जातिजानपदान् धर्मान् श्रेणीधर्मांश् च धर्मवित्
समीक्ष्य कुलधर्मांश् च स्वधर्मं प्रतिपादयेत् ॥
स्वानि कर्माणि कुर्वाणा दूरे सन्तो ऽपि मानवाः
प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्य् अवस्थिताः ॥
नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पुरुषः
न च प्रापितम् अन्येन ग्रसेद् अर्थं ग्रसेतार्थं कथं चन ॥
यथा नयत्य् असृक्पातैर् मृगस्य मृगयुः पदम्
नयेत् तथानुमानेन धर्मस्य नृपतिः पदम् ॥
सत्यम् अर्थं च संपश्येद् आत्मानम् अथ साक्षिणः साक्षिणम्
देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥
सद्भिर् आचरितं यत् स्याद् धार्मिकैश् च द्विजातिभिः
तद् देशकुलजातीनाम् अविरुद्धं प्रकल्पयेत् ॥
अधमर्णार्थसिद्ध्यर्थम् उत्तमर्णेन चोदितः
दापयेद् धनिकस्यार्थम् अधमर्णाद् विभावितम् ॥
यैर् यैर् उपायैर् अर्थं स्वं प्राप्नुयाद् उत्तमर्णिकः
तैर् तैर् उपायैः संगृह्य दापयेद् अधमर्णिकम् ॥
धर्मेण व्यवहारेण छलेनाचरितेन च
प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥
यः स्वयं साधयेद् अर्थम् उत्तमर्णो ऽधमर्णिकात्
न स राज्ञाभियोक्तव्यः स्वकं संसाधयन् धनम् ॥
अर्थे ऽपव्ययमानं तु करणेन विभावितम्
दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥
अपह्नवे ऽधमर्णस्य देहीत्य् उक्तस्य संसदि
अभियोक्ता दिशेद् देश्यं करणं वान्यद् उद्दिशेत् ॥
अदेश्यं यश् च दिशति निर्दिश्यापह्नुते च यः
यश् चाधरोत्तरान् अर्थान् विगीतान् नावबुध्यते ॥
अपदिश्यापदेश्यं अपदिश्यापदेशं च पुनर् यस् त्व् अपधावति
सम्यक् प्रणिहितं चार्थं पृष्टः सन् नाभिनन्दति ॥
असंभाष्ये साक्षिभिश् च देशे संभाषते मिथः
निरुच्यमानं प्रश्नं च नेच्छेद् यश् चापि निष्पतेत् ॥
ब्रूहीत्य् उक्तश् च न ब्रूयाद् उक्तं च न विभावयेत्
न च पूर्वापरं विद्यात् तस्माद् अर्थात् स हीयते ॥
साक्षिणः ज्ञातारः सन्ति मेत्य् उक्त्वा दिशेत्य् उक्तो दिशेन् न यः
धर्मस्थः कारणैर् एतैर् हीनं तम् अपि इति निर्दिशेत् ॥
अभियोक्ता न चेद् ब्रूयाद् बध्यो बन्ध्यो दण्ड्यश् च धर्मतः
न चेत् त्रिपक्षात् प्रब्रूयाद् धर्मं प्रति पराजितः ॥
यो यावन् निह्नुवीतार्थं मिथ्या यावति वा वदेत्
तौ नृपेण ह्य् अधर्मज्ञौ दाप्यो तद्द्विगुणं दमम् ॥
पृष्टो ऽपव्ययमानस् तु कृतावस्थो धनैषिणा
त्र्यवरैः साक्षिभिर् भाव्यो नृपब्राह्मणसंनिधौ ॥
यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः
तादृशान् संप्रवक्ष्यामि यथा वाच्यम् ऋतं च तैः ॥
गृहिणः पुत्रिणो मौलाः क्षत्रविश्शूद्रयोनयः
अर्थ्युक्ताः साक्ष्यम् अर्हन्ति न ये के चिद् अनापदि ॥
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः
सर्वधर्मविदो ऽलुब्धा विपरीतांस् तु वर्जयेत् ॥
नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः
न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ
न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥
नाध्यधीनो न वक्तव्यो न दस्युर् न विकर्मकृत्
न वृद्धो न शिशुर् नैको नान्त्यो न विकलेन्द्रियः ॥
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां सदृशा द्विजाः
शूद्राश् च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्ययोनयः ॥
अनुभावी तु यः कश् चित् कुर्यात् साक्ष्यं विवादिनाम्
अन्तर्वेश्मन्य् अरण्ये वा शरीरस्यापि चात्यये ॥
स्त्रियाप्य् असंभावे कार्यं बालेन स्थविरेण वा
शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥
बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा
जानीयाद् अस्थिरां वाचम् उत्सिक्तमनसां तथा ॥
साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च
वाग्दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ॥
बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः
समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥
समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति
तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥
साक्षी दृष्टश्रुताद् अन्यद् विब्रुवन्न् आर्यसंसदि
अवाङ् नरकम् अभ्येति प्रेत्य स्वर्गाच् च हीयते ॥
यत्रानिबद्धो ऽपीक्षेत शृणुयाद् वापि किं चन
पृष्टस् तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥
एको ऽलुब्धस् तु साक्षी त्व् असाक्षी स्याद् बह्व्यः शुच्यो ऽपि न स्त्रियः
स्त्रीबुद्धेर् अस्थिरत्वात् तु दोषैश् चान्ये ऽपि ये वृताः ॥
स्वभावेनैव यद् ब्रूयुस् तद् ग्राह्यं व्यावहारिकम्
अतो यद् अन्यद् विब्रूयुर् धर्मार्थं तद् अपार्थकम् ॥
सभान्तः साक्षिणः प्राप्तान् अर्थिप्रत्यर्थिसंनिधौ
प्राड्विवाको ऽनुयुञ्जीत विधिनानेन सान्त्वयन् ॥
यद् द्वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः
तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥
सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोति पुष्कलान् आप्नोत्य् अनिन्दितान्
इह चानुत्तमां कीर्तिं वाग् एषा ब्रह्मपूजिता ॥
साक्ष्ये ऽनृतं वदन् पाशैर् बध्यते वारुणैर् भृशम्
विवशः शतम् आजातीस् तस्मात् साक्ष्यं वदेद् ऋतम् ॥
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते
तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥
आत्मैव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः
मावमंस्थाः स्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ॥
मन्यन्ते वै पापकृतो न कश् चित् पश्यतीति नः
तांस् तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥
द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नियमानिलाः
रात्रिः संध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ॥
देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान्
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥
ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम्
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः
मित्रद्रुहः कृतघ्नस्य ते ते स्युर् ब्रुवतो मृषा ॥
जन्मप्रभृति यत् किं चित् पुण्यं भद्र त्वया कृतम्
तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयास् त्वम् अन्यथा ॥
एको ऽहम् अस्मीत्य् आत्मानं यस् त्वं कल्याण मन्यसे
नित्यं स्थितस् ते हृद्य् एष पुण्यपापेक्षिता मुनिः ॥
यमो वैवस्वतो देवो यस् तवैष हृदि स्थितः
तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः ॥
नग्नो मुण्डः कपालेन कपाली च भिक्षार्थी क्षुत्पिपासितः
अन्धः शत्रुकुलं गच्छेद् यः साक्ष्यम् अनृतं वदेत् ॥
अवाक्शिरास् तमस्य् अन्धे किल्बिषी नरकं व्रजेत्
यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥
अन्धो मत्स्यान् इवाश्नाति स नरः कण्टकैः सह
यो भाषते ऽर्थवैकल्यम् अप्रत्यक्षं सभां गतः ॥
यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते नातिशङ्कते
तस्मान् न देवाः श्रेयांसं लोके ऽन्यं पुरुषं विदुः ॥
यावतो बान्धवान् यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन्
तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते
शतम् अश्वानृते हन्ति सहस्रं पुरुषानृते ॥
हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन्
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ॥
अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने
अब्जेषु चैव रत्नेषु सर्वेष्व् अश्ममयेषु च ॥
एतान् दोषान् अवेक्ष्य त्वं सर्वान् अनृतभाषणे
यथाश्रुतं यथादृष्टं सर्वम् एवाञ्जसा वद ॥
गोरक्षकान् वाणिजिकांस् वाणिजकांस् तथा कारुकुशीलवान्
प्रेष्यान् वार्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥
तद् वदन् धर्मतो ऽर्थेषु जानन्न् अप्य् अन्य्था नरः
न स्वर्गाच् च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ॥
शूद्रविट्क्षत्रविप्राणां यत्र र्तोक्तौ भवेद् वधः
तत्र वक्तव्यम् अनृतं तद् धि सत्याद् विशिष्यते ॥
वाग्गैवत्यैश् च चरुभिर् यजेरंस् ते सरस्वतीम्
अनृतस्यैनसस् तस्य कुर्वाणा निष्कृतिं पराम् ॥
कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि
उद् इत्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ॥
त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽगदः
तदृणं प्राप्नुयात् सर्वं दशबन्धं च सर्वतः ॥
यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः
रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥
असाक्षिकेषु त्व् अर्थेषु मिथो विवादमानयोः
अविन्दंस् तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥
महर्षिभिश् च देवैश् च कार्यार्थं शपथाः कृताः
वसिष्ठश् चापि शपथं शेपे पैजवने नृपे ॥
न वृथा शपथं कुर्यात् स्वल्पे ऽप्य् अर्थे नरो बुधः
वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति ॥
कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने
ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥
सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥
अग्निं वाहारयेद् एनम् अप्सु चैनं निमज्जयेत्
पुत्रदारस्य वाप्य् एनं शिरांसि स्पर्शयेत् पृथक् ॥
यम् इद्धो न दहत्य् अग्निर् आपो नोन्मज्जयन्ति च
न चार्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥
वत्सस्य ह्य् अभिशस्तस्य पुरा भ्रात्रा यवीयसा
नाग्निर् ददाह रोमापि सत्येन जगतः स्पशः ॥
यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत्
तत् तत् कार्यं निवर्तेत कृतं चाप्य् अकृतं भवेत् ॥
लोभान् मोहाद् भयान् मैत्रात् कामात् क्रोधात् तथैव च
अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते ॥
एषाम् अन्यतमे स्थाने यः साक्ष्यम् अनृतं वदेत्
तस्य दण्डविशेषांस् तु प्रवक्ष्याम्य् अनुपूर्वशः ॥
लोभात् सहस्रं दण्ड्यस् तु मोहात् पूर्वं तु साहसम्
भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥
कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम्
अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥
एतान् आहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः
धर्मस्याव्यभिचारार्थम् अधर्मनियमाय च ॥
कौटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥
दश स्थानानि दण्डस्य मनुः स्वयंभुवो ऽब्रवीत्
त्रिषु वर्णेषु यानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥
उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम्
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥
अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः
सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् ॥
अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम्
अस्वर्ग्यं च परत्रापि तस्मात् तत् परिवर्जयेत् ॥
अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन्
अयशो महद् आप्नोति नरकं चैव गच्छति ॥
वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम्
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥
वधेनापि यदा त्व् एतान् निग्रहीतुं न शक्नुयात्
तदैषु सर्वम् अप्य् एतत् प्रयुञ्जीत चतुष्टयम् ॥
लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि
ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्य् अशेषतः ॥
जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः
प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥
त्रसरेणवो ऽष्टौ विज्ञेया लिक्षैका परिमाणतः
ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ॥
सर्षपाः षड् यवो मध्यस् त्रियवं त्व् एककृष्णलम्
पञ्चकृष्णलको माषस् ते सुवर्णस् तु षोडश ॥
पलं सुवर्णाश् चत्वारः पलानि धरणं दश
द्वे कृष्णले समधृते विज्ञेयो रौप्य रूप्य माषकः ॥
ते षोडश स्याद् धरणं पुराणश् चैव राजतः
कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः ॥
धरणानि दश ज्ञेयः शतमानस् तु राजतः
चतुःसौवर्णिको निष्को विज्ञेयस् तु प्रमाणतः ॥
पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः
मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एव चोत्तमः ॥
ऋणे देये प्रतिज्ञाते पञ्चकं शतम् अर्हति
अपह्नवे तद्द्विगुणं तन् मनोर् अनुशासनम् ॥
वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम्
अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ॥
द्विकं शतं वा गृह्णीयात् सतां धर्मम् अनुस्मरन्
द्विकं शतं हि गृह्णानो न भवत्य् अर्थकिल्बिषी ॥
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम्
मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् अनुपूर्वशः ॥
न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात्
न चाधेः कालसंरोधान् निसर्गो ऽस्ति न विक्रयः ॥
न भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत्
मूल्येन तोषयेच् चैनम् आधिस्तेनो ऽन्यथा भवेत् ॥
आधिश् चोपनिधिश् चोभौ न कालात्ययम् अर्हतः
अवहार्यौ भवेतां तौ दीर्घकालम् अवस्थितौ ॥
संप्रीत्या भुज्यमानानि न नश्यन्ति कदा चन
धेनुर् उष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते ॥
यत् किं चिद् दशवर्षाणि संनिधौ प्रेक्षते धनी
भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥
अजडश् चेद् अपोगण्डो विषये चास्य भुज्यते
भग्नं तद् व्यवहारेण भोक्ता तद् द्रव्यम् धनम् अर्हति ॥
आधिः सीमा बालधनं निक्षेपोपनिधिः निक्षेपोपनिधी स्त्रियः
राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥
यः स्वामिनाननुज्ञातम् आधिं भूङ्क्ते ऽविचक्षणः
तेनार्धवृद्धिर् मोक्तव्या तस्य भोगस्य निष्कृतिः ॥
कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृद् आहृता आहिता
धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥
कृतानुसाराद् अधिका व्यतिरिक्ता न सिध्यति
कुसीदपथम् आहुस् तं पञ्चकं शतम् अर्हति ॥
नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर् हरेत् विनिर्हरेत्
चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥
ऋणं दातुम् अशक्तो यः कर्तुम् इच्छेत् पुनः क्रियाम्
स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत्
यावती संभवेद् वृद्धिस् तावतीं दातुम् अर्हति ॥
चक्रवृद्धिं समारूढो देशकालव्यवस्थितः
अतिक्रामन् देशकालौ न तत्फलम् अवाप्नुयात् ॥
समुद्रयानकुशला देशकालार्थदर्शिनः
स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥
यो यस्य प्रतिभूस् तिष्ठेद् दर्शनायेह मानवः
अदर्शयन् स तं तस्य प्रयच्छेत् यतेत स्वधनाद् ऋणम् ॥
प्रातिभाव्यं वृथादानम् आक्षिकं सौरिकां च यत्
दण्डशुल्कावशेषं च न पुत्रो दातुम् अर्हति ॥
दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः
दानप्रतिभुवि प्रेते दायादान् अपि दापयेत् ॥
अदातरि पुनर् दाता विज्ञातप्रकृताव् ऋणम्
पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ॥
निरादिष्टधनश् चेत् तु प्रतिभूः स्याद् अलंधनः
स्वधनाद् एव तद् दद्यान् निरादिष्ट इति स्थितिः ॥
मत्तोन्मत्तार्ताध्यधीनैर् बालेन स्थविरेण वा
असंबद्धकृतश् चैव व्यावहारो न सिध्यति ॥
सत्या न भाषा भवति यद्य् अपि स्यात् प्रतिष्ठिता
बहिश् चेद् भाष्यते धर्मान् नियताद् व्यवहारिकात् ॥
योगाधमनविक्रीतं योगदानप्रतिग्रहम्
यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥
ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कुटुम्बे च कृतो व्ययः
दातव्यं बान्धवैस् तत् स्यात् प्रविभक्तैर् अपि स्वतः ॥
कुटुम्बार्थे ऽध्यधीनो ऽपि व्यवहारं यम् आचरेत्
स्वदेशे वा विदेशे वा तं ज्यायान् न विचालयेत् ॥
बलाद् दत्तं बलाद् भुक्तं बलाद् यच् चापि लेखितम्
सर्वान् बलकृतान् अर्थान् अकृतान् मनुर् अब्रवीत् ॥
त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम्
चत्वारस् तूपचीयन्ते विप्र आढ्यो वणिङ् नृपः ॥
अनादेयं नाददीत परिक्षीणो ऽपि पार्थिवः
न चादेयं समृद्धो ऽपि सूक्ष्मम् अप्य् अर्थम् उत्सृजेत् ॥
अनादेयस्य चादानाद् आदेयस्य च वर्जनात्
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥
स्वादानाद् वर्णसंसर्गात् त्व् अबलानां च रक्षणात्
बलं संजायते राज्ञः स प्रेत्येह च वर्धते ॥
तस्माद् यम इव स्वामी स्वयं हित्वा प्रियाप्रिये
वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥
यस् त्व् अधर्मेण कार्याणि मोहात् कुर्यान् नराधिपः
अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥
कामक्रोधौ तु संयम्य यो ऽर्थान् धर्मेण पश्यति
प्रजास् तम् अनुवर्तन्ते समुद्रम् इव सिन्धवः ॥
यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे
स राज्ञा तच् चतुर्भागं दाप्यस् तस्य च तद् धनम् ॥
कर्मणापि समं कुर्याद् धनिकायाधमर्णिकः
समो ऽवकृष्टजातिस् तु दद्याच् छ्रेयांस् तु तच् छनैः ॥
अनेन विधिना राजा मिथो विवदतां नृणाम्
साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥
कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि
महापक्षे धनिन्य् आर्ये निक्षेपं निक्षिपेद् बुधः ॥
यो यथा निक्षिपेद् धस्ते यम् अर्थं यस्य मानवः
स तथैव ग्रहीतव्यो यथा दायस् तथा ग्रहः ॥
यो निक्षेपं याच्यमानो निक्षेप्तुर् न प्रयच्छति
स याच्यः प्राड्विवाकेन तन् निक्षेप्तुर् असंनिधौ ॥
साक्ष्यभावे प्रणिधिभिर् वयोरूपसमन्वितैः
अपदेशैश् च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥
स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम्
न तत्र विद्यते किं चिद् यत् परैर् अभियुज्यते ॥
तेषां न दद्याद् यदि तु तद् धिरण्यं यथाविधि
उभौ निगृह्य दाप्यः स्याद् स निगृह्योभयं दाप्य इति धर्मस्य धारणा ॥
निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे
नश्यतो विनिपाते ताव् अनिपाते त्व् अनाशिनौ ॥
स्वयम् एव तु यौ दद्यान् मृतस्य प्रत्यनन्तरे
न स राज्ञाभियोक्तव्यो न निक्षेप्तुश् च बन्धुभिः ॥
अच्छलेनैव चान्विच्छेत् तम् अर्थं प्रीतिपूर्वकम्
विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥
निक्षेपेष्व् एषु सर्वेषु विधिः स्यात् परिसाधने
समुद्रे नाप्नुयात् किं चिद् यदि तस्मान् न संहरेत् ॥
चौरैर् हृतं जलेनोढम् अग्निना दग्धम् एव वा
न दद्याद् यदि तस्मात् स न संहरति किं चन ॥
निक्षेपस्यापहर्तारम् अनिक्षेप्तारम् एव च
सर्वैर् उपायैर् अन्विच्छेच् छपथैश् चैव वैदिकैः ॥
यो निक्षेपं नार्पयति यश् चानिक्षिप्य याचते
ताव् उभौ चौरवच् छास्यौ दाप्यौ वा तत्समं दमम् ॥
निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम्
तथोपनिधिहर्तारम् अविशेषेण पार्थिवः ॥
उपधाभिश् च यः कश् चित् परद्रव्यं हरेन् नरः
ससहायः स हन्तव्यः प्रकाशं विविधैर् वधैः ॥
निक्षेपो यः कृतो येन यावांश् च कुलसंनिधौ
तावान् एव स विज्ञेयो विब्रुवन् दण्डम् अर्हति ॥
मिथो दायः कृतो येन गृहीतो मिथ एव वा
मिथ एव प्रदातव्यो यथा दायस् तथा ग्रहः ॥
निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च
राजा विनिर्णयं कुर्याद् अक्षिण्वन् न्यासधारिणम् ॥
विक्रीणीते परस्य स्वं यो ऽस्वामी स्वाम्यसम्मतः
न तं नयेत साक्ष्यं तु स्तेनम् अस्तेनमानिनम् ॥
अवहार्यो भवेच् चैव सान्वयः षट्शतं दमम्
निरन्वयो ऽनपसरः प्राप्तः स्याच् चौरकिल्बिषम् ॥
अस्वामिना कृतो यस् तु दायो विक्रय एव वा
अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥
संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित्
आगमः कारणं तत्र न संभोग इति स्थितिः ॥
विक्रयाद् यो धनं किं चिद् गृह्णीयत् कुलसंनिधौ
क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥
अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितः
अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥
नान्यद् अन्येन संसृष्ट रूपं विक्रयम् अर्हति
न चासारं न सावद्यं च न्यूनं न दूरेण तिरोहितम् ॥
अन्यां चेद् दर्शयित्वान्या वोढुः कन्या प्रदीयते
उभे त एकशुल्केन वहेद् इत्य् अब्रवीन् मनुः ॥
नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना
पूर्वं दोषान् अभिख्याप्य प्रदाता दण्डम् अर्हति ॥
ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत्
तस्य कर्मानुरूपेण देयो ऽंशः सहकर्तृभिः ॥
दक्षिणासु च दत्तासु स्वकर्म परिहापयन्
कृत्स्नम् एव लभेतांशम् अन्येनैव च कारयेत् ॥
यस्मिन् कर्मणि यास् तु स्युर् उक्ताः प्रत्यङ्गदक्षिणाः
स एव ता आदिदीत भजेरन् सर्व एव वा ॥
रथं हरेत् चाध्वर्युर् ब्रह्माधाने च वाजिनम्
होता वापि हरेद् अश्वम् उद्गाता चाप्य् अनः क्रये ॥
सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ऽपरे
तृतीयिनस् तृतीयांशाश् चतुर्थांशाश् च पादिनः ॥
संभूय स्वानि कर्माणि कुर्वद्भिर् इह मानवैः
अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥
धर्मार्थं येन दत्तं स्यात् कस्मै चिद् याचते धनम्
पश्चाच् च न तथा तत् स्यान् न देयं तस्य तद् भवेत् ॥
यदि संसाधयेत् तत् तु दर्पाल् लोभेन वा पुनः
राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ॥
दत्तस्यैषोदिता धर्म्या यथावद् अनपक्रिया
अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥
भृतो नार्तो अनार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम्
स दण्ड्यः कृष्णलान्य् अष्टौ न देयं चास्य वेतनम् ॥
आर्तस् तु कुर्यात् स्वस्थः सन् यथाभाषितम् आदितः
स दीर्घस्यापि कालस्य तल् लभेतैव वेतनम् ॥
यथोक्तम् आर्तः सुस्थो वा यस् तत् कर्म न कारयेत्
न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥
एष धर्मो ऽखिलेनोक्तो वेतनादानकर्मणः
अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥
यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम्
विसंवदेन् नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ॥
निगृह्य दापयेच् चैनं समयव्यभिचारिणम्
चतुःसुवर्णान् षण्निष्कांश् छतमानं च राजकम् ॥
एतद् दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः
ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥
क्रीत्वा विक्रीय वा किं चिद् यस्येहानुशयो भवेत्
सो ऽन्तर् दशाहात् तद् द्रव्यं दद्याच् चैवाददीत वा ॥
परेण तु दशाहस्य न दद्यान् नापि दापयेत्
आददानो ददत् चैव राज्ञा दण्ड्यौ शतानि षट् ॥
यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति
तस्य कुर्यान् नृपो दण्डं स्वयं षण्णवतिं पणान् ॥
अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः
स शतं प्राप्नुयाद् दण्डं तस्या दोषम् अदर्शयन् ॥
पाणिग्रहणिका मन्त्राः कन्यास्व् एव प्रतिष्ठिताः
नाकन्यासु क्व चिन् नॄणां लुप्तधर्मक्रिया हि ताः ॥
पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥
यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत्
तम् अनेन विधानेन धर्म्ये पथि निवेशयेत् ॥
पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे
विवादं संप्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे
योगक्षेमे ऽन्यथा चेत् तु पालो वक्तव्यताम् इयात् ॥
गोपः क्षीरभृतो यस् तु स दुह्याद् दशतो वराम्
गोस्वाम्यनुमते भृत्यः सा स्यात् पाले ऽभृते भृतिः ॥
नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम्
हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥
विघुष्य तु हृतं चौरैर् न पालो दातुम् अर्हति
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥
कर्णौ चर्म च वालांश् च बस्तिं स्नायुं च रोचनाम्
पशुषु स्वामिनां दद्यान् मृतेष्व् अङ्कानि अङ्कांश् च दर्शयेत् ॥
अजाविके तु संरुद्धे वृकैः पाले त्व् अनायति
यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥
तासां चेद् अवरुद्धानां चरन्तीनां मिथो वने
याम् उत्प्लुत्य वृको हन्यान् न पालस् तत्र किल्बिषी ॥
धनुःशतं परीहारो ग्रामस्य स्यात् समन्ततः
शम्यापातास् त्रयो वापि त्रिगुणो नगरस्य तु ॥
तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि
न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥
वृतिं तत्र प्रकुर्वीत याम् उष्ट्रो न विलोकयेत्
छिद्रं च वारयेत् सर्वं श्वसूकरमुखानुगम् ॥
पथि क्षेत्रे परिवृते ग्रामान्तीये ऽथ वा पुनः
सपालः शतदण्डार्हो विपालान् वारयेत् पशून् ॥
क्षेत्रेष्व् अन्येषु तु पशुः सपादं पणम् अर्हति
सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ॥
अनिर्दशाहां गां सूतां वृषान् देवपशूंस् तथा
सपालान् वा विपालान् वा न दण्ड्यान् मनुर् अब्रवीत् ॥
क्षेत्रियस्यात्यये क्षेत्रिकस्यात्यये दण्डो भागाद् दशगुणो भवेत्
ततो ऽर्धदण्डो भृत्यानाम् अज्ञानात् क्षेत्रिकस्य तु ॥
एतद् विधानम् आतिष्ठेद् धार्मिकः पृथिवीपतिः
स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥
सीमां प्रति समुत्पन्ने विवादे ग्रामयोर् द्वयोः
ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु ॥
सींआवृक्षांश् च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान्
शाल्मलीन् सालतालांश् च क्षीरिणश् चैव पादपान् ॥
गुल्मान् वेणूंश् च विविधान् शमीवल्लीस्थलानि च
शरान् कुब्जकगुल्मांश् च तथा सीमा न नश्यति ॥
तडागान्य् उदपानानि वाप्यः प्रस्रवणानि च
सीमासंधिषु कार्याणि देवतायतनानि च ॥
उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत्
सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥
अश्मनो ऽस्थीनि गोवालांस् तुषान् भस्म कपालिकाः
करीषम् इष्टकाङ्गारांश् शर्करा वालुकास् तथा ॥
यानि चैवंप्रकाराणि कालाद् भूमिर् न भक्षयेत्
तानि संधिषु सीमायाम् सीमाया अप्रकाशानि कारयेत् ॥
एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः
पूर्वभुक्त्या च सततम् उदकस्यागमेन च ॥
यदि स्ंशय एव स्याल् लिङ्गानाम् अपि दर्शने
साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः सीमावादविनिश्चयः ॥
ग्रामीयक ग्रामेयक कुलानां च समक्षं सीम्नि साक्षिणः
प्रष्टव्याः सीमलिङ्गानि सीमालिङ्गानि तयोश् चैव विवादिनोः ॥
ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम्
निबध्नीयात् तथा सीमां सर्वांस् तांश् चैव नामतः ॥
शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः
सुकृतैः शापिथाः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ॥
यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः
विपरीतं नयन्तस् तु दाप्याः स्युर् द्विशतं दमम् ॥
साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः ग्रामसीमान्तवासिनः
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥
सामन्तानाम् अभावे तु मौलानां सीम्नि साक्षिणाम्
इमान् अप्य् अनुयुञ्जीत पुरुषान् वनगोचरान् ॥
व्याधाञ् शाकुनिकान् गोपान् कैवर्तान् मूलखानकान्
व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनचारिणः ॥
ते पृष्टास् तु यथा ब्रूयुः सीमासंधिषु लक्षणम्
तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर् द्वयोः ॥
क्षेत्रकूपतडागानाम् आरामस्य गृहस्य च
सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥
सामन्ताश् चेन् मृषा ब्रूयुः सेतौ विवादतां नृणाम्
सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥
गृहं तडागम् आरामं क्षेत्रं वा भीषया हरन्
शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ॥
सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित्
प्रदिशेद् भूमिम् एकेषाम् उपकाराद् इति स्थितिः ॥
एषो ऽखिलेनाभिहितो धर्मः सीमाविनिर्णये
अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥
शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति
वैश्यो ऽप्य् अर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥
पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने
वैश्ये स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥
समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे
वादेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥
एकजातिर् द्विजातींस् तु वाचा दारुणया क्षिपन्
जिह्वायाः प्राप्नुयाच् छेदं जघन्यप्रभवो हि सः ॥
नामजातिग्रहं त्व् एषाम् अभिद्रोहेण कुर्वतः
निक्षेप्यो ऽयोमयः शङ्कुर् ज्वलन्न् आस्ये दशाङ्गुलः ॥
धर्मोपदेशं दर्पेण विप्राणाम् अस्य कुर्वतः
तप्तम् आसेचयेत् तैलं वक्त्रे श्रोत्रे श्रौत्रे च पार्थिवः ॥
श्रुतं देशं च जातिं च कर्म शरीरम् एव च
वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ॥
काणं वाप्य् अथ वा खञ्जम् अन्यं वापि तथाविधम्
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥
मातरं पितरं जायां भ्रातरं तनयं गुरुम्
आक्षारयञ् शतं दाप्यः पन्थानं चाददद् गुरोः ॥
ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता
ब्राह्मणे साहसः पूर्वः क्षत्रिये त्व् एव मध्यमः ॥
विट्शूद्रयोर् एवम् एव स्वजातिं प्रति तत्त्वतः
छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः ॥
एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः
अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥
येन केन चिद् अङ्गेन हिंस्याच् चेच् छ्रेष्ठम् अन्त्यजः
छेत्तव्यं तद् तद् एवास्य तन् मनोर् अनुशासनम् ॥
पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति
पादेन प्रहरन् कोपात् पादच्छेदनम् अर्हति ॥
सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यापकृष्टजः
कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ॥
अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः
अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ॥
केशेषु गृह्णतो हस्तौ छेदयेद् अविचारयन्
पादयोर् दाढिकायां च ग्रीवायां वृषणेषु च ॥
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः
मांसभेत्ता तु षण्निष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥
वनस्पतीनां सर्वेषाम् उपभोगो यथा यथा
यथा तथा दमः कार्यो हिंसायाम् इति धारणा ॥
मनुष्याणां पशूनां च दुःखाय प्रहृते सति
यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा ॥
अङ्गावपीडनायां च व्रण प्राण शोनितयोस् तथा
समुत्थानव्ययं दाप्यः सर्वदण्डम् अथापि वा ॥
द्रव्याणि हिंस्याद् यो यस्य ज्ञानतो ऽज्ञानतो ऽपि वा
स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ॥
चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु
मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥
यानस्य चैव यातुश् च यानस्वामिन एव च
दशातिवर्तनान्य् आहुः शेषे दण्डो विधीयते ॥
छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥
छेदने चैव यन्त्राणां योक्त्ररश्म्योस् तथैव च
आक्रन्दे चाप्य् अपैहीति न दण्डं मनुर् अब्रवीत् ॥
यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु
तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ॥
प्राजकश् चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति
युग्यस्थाः प्राजके ऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥
स चेत् तु पथि संरुद्धः पशुभिर् वा रथेन वा
प्रमापयेत् प्राणभृतस् तत्र दण्डो ऽविचारितः ॥
मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत्
प्राणभृत्सु महत्स्व् अर्धं गोगजोष्ट्रहयादिषु ॥
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः
पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥
गर्धभाजाविकानां तु दण्डः स्यात् पञ्चमाषिकः पाञ्चमाषिकः
माषिकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥
भार्या पुत्रश् च दासश् च प्रेष्यो भ्रात्रा च सोदरः
प्राप्तापराधास् ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥
पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कथं चन
अतो ऽन्यथा तु प्रहरन् प्राप्तः स्याच् चौरकिल्बिषम् ॥
एषो ऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः
स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ॥
परमं यत्नम् आतिष्ठेत् स्तेनानां निग्रहे नृपः
स्तेनानां निग्रहाद् अस्य यशो राष्ट्रं च वर्धते ॥
अभयस्य हि यो दाता स पूज्यः सततं नृपः
सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः
अधर्माद् अपि षड्भागो भवत्य् अस्य ह्य् अरक्षतः ॥
यद् अधीते यद् यजते यद् ददाति यद् अर्चति
तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥
रक्षन् धर्मेण भूतानि राजा वध्यांश् च घातयन्
यजते ऽहर् अहर् यज्ञैः सहस्रशतदक्षिणैः ॥
यो ऽरक्षन् बलिम् आदत्ते करं शुल्कं च पार्थिवः
प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥
अरक्षितारं राजानं अरक्षितारं अत्तारं बलिषड्भागहारिणम्
तम् आहुः सर्वलोकस्य समग्रमलहारकम् ॥
अनपेक्षित अनवेक्षित मर्यादं नास्तिकं विप्रलुंपकम्
अरक्षितारम् अत्तारं नृपं विद्याद् अधोगतिम् ॥
अधार्मिकं त्रिभिर् न्यायैर् निगृह्णीयात् प्रयत्नतः
निरोधनेन बन्धेन विविधेन वधेन च ॥
निग्रहेण हि पापानां साधूनां संग्रहेण च
द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ॥
क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम्
बालवृद्धातुराणां च कुर्वता हितम् आत्मनः ॥
यः क्षिप्तो मर्षयत्य् आर्तैस् तेन स्वर्गे महीयते
यस् त्व् ऐश्वर्यान् न क्षमते नरकं तेन गच्छति ॥
राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता धीमता
आचक्षाणेन तत् स्तेयम् एवंकर्मास्मि शाधि माम् ॥
स्कन्धेनादाय मुसलं मुशलं लगुडं वापि खादिरम्
शक्तिं चोभयतस् तीक्ष्णाम् आयसं दण्डम् एव वा ॥
शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते
अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी
गुरौ शिष्यश् च याज्यश् च स्तेनो राजनि किल्बिषम् ॥
राजभिः कृतदण्डास् राजभिर् धृतदण्डास् तु कृत्वा पापानि मानवाः
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥
यस् तु रज्जुं घटं कूपाद् धरेद् भिन्द्याच् च यः प्रपाम्
स दण्डं प्राप्नुयान् माषं तच् च तस्मिन् समाहरेत् ॥
धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः
शेषे ऽप्य् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥
तथा धरिममेयानां शताद् अभ्यधिके वधः
सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ॥
पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते
शेषे त्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥
पुरुषाणां कुलीनानां नारीणां च विशेषतः
मुख्यानां चैव रत्नानां हरणे वधम् अर्हति ॥
महापशूनां हरणे शस्त्राणाम् औषधस्य च
कालम् आसाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥
गोषु ब्राह्मणसंस्थासु छुरिकायाश् खरिकायाश् च भेदने
पशूनां हरणे चैव सद्यः कार्यो ऽर्धपादिकः ॥
सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च
दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥
वेणुवैदलभाण्डानां लवणानां तथैव च
मृण्मयानां च हरणे मृदो भस्मन एव च ॥
मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च
मांसस्य मधुनश् चैव यच् चान्यत् पशुसंभवम् ॥
अन्येषां चैवम् आदीनां आदीनाम् मद्यानाम् अद्यानाम् ओदनस्य च
पक्वान्नानां च सर्वेषां तन्मुल्याद् द्विगुणो दमः ॥
पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च
अन्येष्व् अपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥
परिपूतेषु धान्येषु शाकमूलफलेषु च
निरन्वये शतं दण्डः सान्वये ऽर्धशतं दमः ॥
स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम्
निरन्वयं भवेत् स्तेयं हृत्वापव्ययते च यत् ॥
यस् त्व् एतान्य् उपकॢप्तानि द्रव्याणि स्तेनयेन् नरः
तम् आद्यं तं शतं दण्डयेद् राजा यश् चाग्निं चोरयेद् गृहात् ॥
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते
तत् तद् एव हरेत् तस्य प्रत्यादेशाय पार्थिवः ॥
पिताचार्यः सुहृन् माता भार्या पुत्रः पुरोहितः
नादण्ड्यो नाम राज्ञो ऽस्ति यः स्वधर्मे न तिष्ठति ॥
कार्षापणं भवेद् दण्ड्यो यत्रान्यः प्राकृतो जनः
तत्र राजा भवेद् दण्ड्यः सहस्रम् इति धारणा ॥
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम्
षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ॥
ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत्
द्विगुणा वा चतुःषष्टिस् तद्दोषगुणविद् धि सः ॥
वानस्पत्यं मूलफलं दार्व् अग्न्यर्थं तथैव च
तृणं च गोभ्यो ग्रासार्थम् अस्तेयं मनुर् अब्रवीत् ॥
यो ऽदत्तादायिनो हस्ताल् लिप्सेत ब्राह्मणो धनम्
याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ॥
द्विजो ऽध्वगः क्षीणवृत्तिर् द्वाव् इक्षू द्वे च मूलके
आददानः परक्षेत्रान् न दण्डं दातुम् अर्हति ॥
असंदितानां संदाता संदितानां च मोक्षकः
दासाश्वरथहर्ता च प्राप्तः स्याच् चोरकिल्बिषम् ॥
अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम्
यशो ऽस्मिन् प्राप्नुयाल् लोके प्रेत्य चानुत्तमं सुखम् ॥
ऐन्द्रं स्थानम् अभिप्रेप्सुर् यशश् चाक्षयम् अव्ययम्
नोपेक्षेत क्षणम् अपि राजा साहसिकं नरम् ॥
वाग्दुष्टात् तस्कराच् चैव दण्डेनैव च हिंसतः
साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥
साहसे वर्तमानं तु यो मर्षयति पार्थिवः
स विनाशं व्रजत्य् आशु विद्वेषं चाधिगच्छति ॥
न मित्रकारणाद् राजा विपुलाद् वा धनागमात्
समुत्सृजेत् साहसिकान् सर्वभूतभयावहान् ॥
शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते
द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥
आत्मनश् च परित्राणे दक्षिणानां च संगरे
स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्
आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥
नाततायिवधे दोषो हन्तुर् भवति कश् चन
प्रकाशं वाप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥
परदाराभिमर्शेषु प्रवृत्तान् नॄन् महीपतिः
उद्वेजनकरैर् दण्डैश् छिन्नयित्वा चिह्नयित्वा प्रवासयेत् ॥
तत्समुत्थो हि लोकस्य जायते वर्णसंकरः
येन मूलहरो ऽधर्मः सर्वनाशाय कल्पते ॥
परस्य पत्न्या पुरुषः संभाषां योजयन् रहः
पूर्वम् आक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥
यस् त्व् अनाक्षारितः पूर्वम् अभिभाषते कारणात्
न दोषं प्राप्नुयात् किं चिन् न हि तस्य व्यतिक्रमः ॥
परस्त्रियं यो ऽभिवदेत् तीर्थे ऽरण्ये वने ऽपि वा
नदीनां वापि संभेदे स संग्रहणम् आप्नुयात् ॥
उपचारक्रिया उपकारक्रिया केलिः स्पर्शो भूषणवाससाम्
सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम् ॥
स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तया
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥
अब्राह्मणः संग्रहणे प्राणान्तं दण्डम् अर्हति
चतुर्णाम् अपि वर्णानां दारा रक्ष्यतमाः सदा ॥
भिक्षुका बन्दिनश् चैव दीक्षिताः कारवस् तथा
संभाषनं सह स्त्रीभिः कुर्युर् अप्रतिवारिताः ॥
न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत्
निषिद्धो भाषमाणस् तु सुवर्णं दण्डम् अर्हति ॥
नैष चारणदारेषु विधिर् नात्मोपजीविषु
सज्जयन्ति हि ते नारीर् निगूढाश् चारयन्ति च ॥
किं चिद् एव तु दाप्यः स्यात् संभाषां ताभिर् आचरन्
प्रैष्यासु प्रेष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥
यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति
सकामां दूषयंस् तुल्यो न वधं प्राप्नुयान् नरः ॥
कन्यां भजन्तीम् उत्कृष्टं न किं चिद् अपि दापयेत्
जघन्यं सेवमानां तु संयतां वासयेद् गृहे ॥
उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति
शुल्कं दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ॥
अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः
तस्याशु कर्त्ये अङ्गुल्यौ कर्त्या अङ्गुल्यो दण्डं चार्हति षट्शतम् ॥
सकामां दूषयंस् तुल्यो नाङ्गुलिच्छेदम् आप्नुयात्
द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥
कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः
शुल्कं च द्विगुणं दद्याच् छिफाश् चैवाप्नुयाद् दश ॥
या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यम् अर्हति
अङ्गुल्योर् एव वा छेदं खरेणोद्वहनं तथा ॥
भर्तारं लङ्घयेद् या तु स्त्री ज्ञातिगुणदर्पिता
तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ॥
पुमांसं दाहयेत् पापं शयने तप्त आयसे
अभ्यादध्युश् च काष्ठानि तत्र दह्येत पापकृत् ॥
संवत्सराभिशस्तस्य संवत्सरे ऽभिशस्तस्य दुष्टस्य द्विगुणो दमः
व्रात्यया सह संवासे चाण्डाल्या तावद् एव तु ॥
शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन्
अगुप्तम् अङ्गसर्वस्वैर् अङ्गसर्वस्वी गुप्तं सर्वेण हीयते ॥
वैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः
सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥
ब्राह्मणीं यद्य् अगुप्तां तु गच्छेतां वैश्यपार्थिवौ
वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥
उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह
विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥
सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन्
शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह संगतः ॥
मौण्ड्यं प्राणान्तिकं प्राणान्तको दण्डो ब्राह्मणस्य विधीयते
इतरेषां तु वर्णानां दण्डः प्राणान्तिको प्राणान्तको भवेत् ॥
न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम्
राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् ॥
न ब्राह्मणवधाद् भूयान् अधर्मो विद्यते भुवि
तस्माद् अस्य वधं राजा मनसापि न चिन्तयेत् ॥
वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत्
यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ॥
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन्
शूद्रायां शूद्राया क्षत्रियविशोः साहस्रो वै भवेद् दमः ॥
क्षत्रियायाम् अगुप्तायां वैश्ये पञ्चशतं दमः
मूत्रेण मौण्ड्यम् इच्छेत् ऋच्छेत् तु क्षत्रियो दण्डम् एव वा ॥
अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन्
शतानि पञ्च दण्ड्यः स्यात् सहस्रं त्व् अन्त्यजस्त्रियम् ॥
यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक्
न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥
एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके
सांराज्यकृत् सजात्येषु लोके चैव यशस्करः ॥
ऋत्विजं यस् त्यजेद् याज्यो याज्यं च र्त्विक् त्यजेद् यदि
शक्तं कर्मण्य् अदुष्टं च तयोर् दण्डः शतं शतम् ॥
न माता न पिता न स्त्री न पुत्रस् त्यागम् अर्हति
त्यजन्न् अपतितान् एतान् राज्ञा दण्ड्यः शतानि षट् ॥
आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः
न विब्रूयान् नृपो धर्मं चिकीर्षन् हितम् आत्मनः ॥
यथार्हम् एतान् अभ्यर्च्य ब्राह्मणैः सह पार्थिवः
सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥
प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे
अर्हाव् अभोजयन् विप्रो दण्डम् अर्हति माषकम् ॥
श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्व् अभोजयन्
तदन्नं द्विगुणं दाप्यो हिरण्यं हैरण्यं चैव माषकम् ॥
अन्धो जडः पीठसर्पी सप्तत्या स्थविरश् च यः
श्रोत्रियेषूपकुर्वंश् च न दाप्याः केन चित् करम् ॥
श्रोत्रियं व्याधितार्तौ च बालवृद्धाव् अकिंचनम्
महाकुलीनम् आर्यं च राजा संपूजयेत् सदा ॥
शाल्मलीफलके श्लक्ष्णे नेनिज्यान् नेजकः शनैः
न च वासांसि वासोभिर् निर्हरेन् न च वासयेत् ॥
तन्तुवायो दशपलं दद्याद् एकपलाधिकम्
अतो ऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥
शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः
कुर्युर् अर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥
राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च
ताणि निर्हरतो लोभात् सर्वहारं हरेन् नृपः ॥
शुल्कस्थानं परिहरन्न् अकाले क्रयविक्रयी
मिथ्यावादी च संख्याने दाप्यो ऽष्टगुणम् अत्ययम् ॥
आगमं निर्गमं स्थानं तथा वृद्धिक्षयाव् उभौ
विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥
पञ्चरात्रे पञ्चरात्रे पक्षे पक्षे ऽथ वा गते
कुर्वीत चैषां प्रत्यक्षम् अर्घसंस्थापनं नृपः ॥
तुलामानं प्रतीमानं सर्वं च स्यात् सुलक्षितम्
षट्सु षट्सु च मासेषु पुनर् एव परीक्षयेत् ॥
पणं यानं तरे दाप्यं पौरुषो ऽर्धपणं तरे
पादं पादे पशुश् च योषिच् च पादार्धं रिक्तकः पुमान् ॥
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः
रिक्तभाण्डानि यत् किं चित् पुमांसश् चापरिच्छदाः ॥
दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत्
नदीतीरेषु तद् विद्यात् समुद्रे नास्ति लक्षणम् ॥
गर्भिणी तु द्विमासादिस् तथा प्रव्रजितो मुनिः
ब्राह्मणा लिङ्गिनश् चैव न दाप्यास् तारिकं तरे ॥
यन् नावि किं चिद् दाशानां विशीर्येतापराधतः
तद् दाशैर् एव दातव्यं समागम्य स्वतो ऽंशतः ॥
एष नौयायिनाम् उक्तो व्यवहारस्य निर्णयः
दाशापराधतस् तोये दैविके नास्ति निग्रहः ॥
वाणिज्यं कारयेद् वैश्यं कुसीदं कृषिम् एव च
पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥
क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ
बिभृयाद् आनृशंस्येन स्वानि कर्माणि कारयेत् ॥
दास्यं तु कारयंल् लोभाद् ब्राह्मणः संस्कृतान् द्विजान्
अनिच्छतः प्राभवत्याद् राज्ञा दण्ड्यः शतानि षट् ॥
शूद्रं तु कारयेद् दास्यं क्रीतम् अक्रीतम् एव वा
दास्यायैव हि सृष्टो ऽसौ ब्राह्मणस्य स्वयंभुवा ॥
न स्वामिना निसृष्टो ऽपि शूद्रो दास्याद् विमुच्यते
निसर्गजं हि तत् तस्य कस् तस्मात् तद् अपोहति ॥
ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ
पैत्रिको दण्डदासश् च सप्तैते दासयोनयः ॥
भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः
यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ॥
विस्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानम् आचरेत्
न हि तस्यास्ति किं चित् स्वं भर्तृहार्यधनो हि सः ॥
वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत्
तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेताम् इदं जगत् ॥
अहन्य् अहन्य् अवेक्षेत कर्मान्तान् वाहनानि च
आयव्ययौ च नियताव् आकरान् कोशम् एव च ॥
एवं सर्वान् इमान् राजा व्यवहारान् समापयन्
व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥
मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0