मनुस्मृति · अध्याय 10
अधीयीरंस् त्रयो वर्णाः स्वकर्मस्था द्विजातयः
प्रब्रूयाद् ब्राह्मणस् त्व् एषां नेतराव् इति निश्चयः ॥
सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि
प्रब्रूयाद् इतरेभ्यश् च स्वयं चैव तथा भवेत् ॥
वैशेष्यात् प्रकृतिश्रैष्ठ्यान् नियमस्य च धारणात्
संस्कारस्य विशेषाच् च वर्णानां ब्राह्मणः प्रभुः ॥
ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः
चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ॥
सर्ववर्णेषु तुल्यासु पत्नीष्व् अक्षतयोनिषु
आनुलोम्येन संभूता जात्या ज्ञेयास् त एव ते ॥
स्त्रीष्व् अनन्तरजातासु द्विजैर् उत्पादितान् सुतान्
सदृशान् एव तान् आहुर् मातृदोषविगर्हितान् ॥
अनन्तरासु जातानां विधिर् एष सनातनः
द्व्येकान्तरासु जातानां धर्म्यं विद्याद् इमं विधिम् ॥
ब्राह्मणाद् वैश्यकन्यायाम् अम्बष्ठो नाम जायते
निषादः शूद्रकन्यायां यः पारशव उच्यते ॥
क्षत्रियाच् छूद्रकन्यायां क्रूराचारविहारवान्
क्षत्रशूद्रवपुर् जन्तुर् उग्रो नाम प्रजायते ॥
विप्रस्य त्रिषु वर्णेषु नृपतेर् वर्णयोर् द्वयोः
वैश्यस्य वर्णे चैकस्मिन् षड् एते ऽपसदाः स्मृताः ॥
क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः
वैश्यान् मागधवैदेहौ राजविप्राङ्गनासुतौ ॥
शूद्राद् आयोगवः क्षत्ता चण्डालश् चाधमो नृणाम्
वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः ॥
एकान्तरे त्व् आनुलोम्याद् अम्बष्ठोग्रौ यथा स्मृतौ
क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्ये ऽपि जन्मनि ॥
पुत्रा ये ऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम्
तान् अनन्तरनाम्नस् तु मातृदोषात् प्रचक्षते ॥
ब्राह्मणाद् उग्रकन्यायाम् आवृतो नाम जायते
आभीरो ऽम्बष्ठकन्यायाम् आयोगव्यां तु धिग्वणः ॥
आयोगवश् च क्षत्ता च चण्डालश् चाधमो नृणाम्
प्रातिलोम्येन जायन्ते शूद्राद् अपसदास् त्रयः ॥
वैश्यान् मागधवैदेहौ क्षत्रियात् सूत एव तु
प्रतीपम् एते जायन्ते परे ऽप्य् अपसदास् त्रयः ॥
जातो निषादाच् छूद्रायां जात्या भवति पुक्कसः
शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥
क्षत्तुर् जातस् तथोग्रायां श्वपाक इति कीर्त्यते
वैदेहकेन त्व् अम्बष्ठ्याम् उत्पन्नो वेण उच्यते ॥
द्विजातयः सवर्णासु जनयन्त्य् अव्रतांस् तु यान्
तान् सावित्रीपरिभ्रष्टान् व्रात्यान् इति विनिर्दिशेत् ॥
व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः भृज्जकण्टकः
आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥
झल्लो मल्लश् च राजन्याद् व्रात्यान् निच्छिविर् व्रात्याल् लिच्छविर् एव च
नटश् च करणश् चैव खसो द्रविड एव च ॥
वैश्यात् तु जायते व्रात्यात् सुधन्वाचार्य एव च
कारुषश् च विजन्मा च मैत्रः सात्वत एव च ॥
व्यभिचारेण वर्णानाम् अवेद्यावेदनेन च
स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः ॥
संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः
अन्योन्यव्यतिषक्ताश् च तान् प्रवक्ष्याम्य् अशेषतः ॥
सूतो वैदेहकश् चैव चण्डालश् च नराधमः
मागधः तथायोगव एव च क्षत्रजातिश् क्षत्तृजातिश् च ॥
एते षट् सदृशान् वर्णाञ् जनयन्ति स्वयोनिषु
मातृजात्यां मातृजात्याः प्रसूयन्ते प्रवारासु च योनिषु ॥
यथा त्रयाणां वर्णानां द्वयोर् आत्मास्य जायते
आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्व् अपि क्रमात् क्रमः ॥
ते चापि बाह्यान् सुबहूंस् ततो ऽप्य् अधिकदूषितान्
परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते
तथा बाह्यतरं बाह्यश् चातुर्वर्ण्ये प्रसूयते ॥
प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः
हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥
प्रसाधनोपचारज्ञम् अदासं दासजीवनम् दास्यजीविनम्
सैरिन्ध्रं सैरन्ध्रं वागुरावृत्तिं सूते दस्युर् अयोगवे ॥
मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते
नॄन् प्रशंसत्य् अजस्रं यो घण्टाताडो ऽरुणोदये ॥
निषादो मार्गवं सूते दासं नौकर्मजीविनम्
कैवर्तम् इति यं प्राहुर् आर्यावर्तनिवासिनः ॥
मृतवस्त्रभृत्स्व् अनारीषु अनार्याषु गर्हितान्नाशनासु च
भवन्त्य् आयोगवीष्व् एते जातिहीनाः पृथक् त्रयः ॥
कारावरो निषादात् तु चर्मकारः चर्मकारं प्रसूयते
वैदेहिकाद् अन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥
चण्डालात् पाण्डुसोपाकस् त्वक्सारव्यवहारवान्
आहिण्डिको निषादेन वैदेह्याम् एव जायते ॥
चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान्
पुक्कस्यां पुल्कस्यां जायते पापः सदा सज्जनगर्हितः ॥
निषादस्त्री तु चण्डालात् पुत्रम् अन्त्यावसायिनम्
श्मशानगोचरं सूते बाह्यानाम् अपि गर्हितम् ॥
संकरे जातयस् त्व् एताः पितृमातृप्रदर्शिताः
प्रछन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥
स्वजातिजानन्तरजाः षट् सुता द्विजधर्मिणः
शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ॥
तपोबीजप्रभावैस् तु ते गच्छन्ति युगे युगे
उत्कर्षं चापकर्षं च मनुष्येष्व् इह जन्मतः ॥
शनकैस् तु क्रियालोपाद् इमाः क्षत्रियजातयः
वृषलत्वं गता लोके ब्राह्मणादर्शनेन ब्राह्मणातिक्रमेण च ॥
पौण्ड्रकाश् चौड्रद्रविडाः पुण्ड्रकाश् चोडद्रविडाः काम्बोजा यवनाः शकाः
पारदापह्लवाश् चीनाः किराता दरदाः खशाः ॥
मुखबाहूरुपज्जानां या लोके जातयो बहिः
म्लेच्छवाचश् चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥
ये द्विजानाम् अपसदा ये चापध्वंसजाः स्मृताः
ते निन्दितैर् वर्तयेयुर् द्विजानाम् एव कर्मभिः ॥
सूतानाम् अश्वसारथ्यम् अम्बष्ठानां चिकित्सनम्
वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥
मत्स्यघातो निषादानां त्वष्टिस् त्व् आयोगवस्य च
मेदान्ध्रचुञ्चुमद्गूनाम् आरण्यपशुहिंसनम् ॥
क्षत्त्रुग्रपुक्कसानां तु बिलौकोवधबन्धनम्
धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥
चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च
वसेयुर् एते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥
चण्डालश्वपचानां तु बहिर् ग्रामात् प्रतिश्रयः
अपपात्राश् च कर्तव्या धनम् एषां श्वगर्दभम् ॥
वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम्
कार्ष्णायसम् अलङ्कारः परिव्रज्या च नित्यशः ॥
न तैः समयम् अन्विच्छेत् पुरुषो धर्मम् आचरन्
व्यवहारो मिथस् तेषां विवाहः सदृशैः सह ॥
अन्नम् एषां पराधीनं देयं स्याद् भिन्नभाजने
रात्रौ न विचरेयुस् ते ग्रामेषु नगरेषु च ॥
दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः
अबान्धवं शवं चैव निर्हरेयुर् इति स्थितिः ॥
वध्यांश् च हन्युः सततं यथाशास्त्रं नृपाज्ञया
वध्यवासांसि गृह्णीयुः शय्याश् चाभरणानि च ॥
वर्णापेतम् अविज्ञातं नरं कलुषयोनिजम्
आर्यरूपम् इवानार्यं कर्मभिः स्वैर् विभावयेत् ॥
अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥
पित्र्यं वा भजते शीलं मातुर् वोभयम् एव वा
न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥
कुले मुख्ये ऽपि जातस्य यस्य स्याद् योनिसंकरः
संश्रयत्य् एव तच्छीलं नरो ऽल्पम् अपि वा बहु ॥
यत्र त्व् एते परिध्वंसाज् जायन्ते वर्णदूषकाः
राष्ट्रिकैः राष्ट्रियैः सह तद् राष्ट्रं क्षिप्रम् एव विनश्यति ॥
ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽनुपस्कृतः
स्त्रीबालाभ्युपपत्तौ स्त्रीबालाभ्यवपत्तौ च बाह्यानां सिद्धिकारणम् ॥
अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः
एतं सामासिकं धर्मं चातुर्वर्ण्ये ऽब्रवीन् मनुः ॥
शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते
अश्रेयान् श्रेयसीं जातिं गच्छत्य् आ सप्तमाद् युगात् ॥
शूद्रो ब्राह्मणताम् एति ब्राह्मणश् चैति शूद्रताम्
क्षत्रियाज् जातम् एवं तु विद्याद् वैश्यात् तथैव च ॥
अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया
ब्राह्मण्याम् अप्य् अनार्यात् तु श्रेयस्त्वं क्वेति चेद् भवेत् कस्य चिद् भवेत् ॥
जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद् गुणैः
जातो ऽप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ॥
ताव् उभाव् अप्य् असंस्कार्याव् इति धर्मो व्यवस्थितः
वैगुण्याज् जन्मनः जन्मतः पूर्व उत्तरः प्रतिलोमतः ॥
सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा
तथार्याज् जात आर्यायां सर्वं संस्कारम् अर्हति ॥
बीजम् एके प्रशंसन्ति क्षेत्रम् अन्ये मनीषिणः
बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥
अक्षेत्रे बीजम् उत्सृष्टम् अन्तरैव विनश्यति
अबीजकम् अपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥
यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयो ऽभवन्
पूजिताश् च प्रशस्ताश् च तस्माद् बीजं प्रशस्यते विशिष्यते ॥
अनार्यम् आर्यकर्माणम् आर्यं चानार्यकर्मिणम्
संप्रधार्याब्रवीद् धाता न समौ नासमाव् इति ॥
ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्य् अवस्थिताः
ते सम्यग् उपजीवेयुः षट् कर्माणि यथाक्रमम् ॥
अध्यापनम् अध्ययनं यजनं याजनं तथा
दानं प्रतिग्रहश् चैव षट् कर्माण्य् अग्रजन्मनः ॥
षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका
याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥
त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति
अध्यापनं याजनं च तृतीयश् च प्रतिग्रहः ॥
वैश्यं प्रति तथैवैते निवर्तेरन्न् इति स्थितिः
न तौ प्रति हि तान् हितान् धर्मान् मनुर् आह प्रजापतिः ॥
शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर् विषः
आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥
वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम्
वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥
अजीवंस् तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा
जीवेत् क्षत्रियधर्मेण स ह्य् अस्य प्रत्य् अनन्तरः ॥
उभाभ्याम् अप्य् अजीवंस् तु कथं स्याद् इति चेद् भवेत्
कृषिगोरक्षम् आस्थाय जीवेद् वैश्यस्य जीविकाम् ॥
वैश्यवृत्त्यापि जीवंस् तु ब्राह्मणः क्सत्रियो ऽपि वा
हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥
कृषिं साध्व् इति मन्यन्ते सा वृत्तिः सद्विगर्हिताः
भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयोमुखम् ॥
इदं तु वृत्तिवैकल्यात् त्यजतो धर्मनैपुणं
विट्पण्यम् उद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥
सर्वान् रसान् अपोहेत कृतान्नं च तिलैः सह
अश्मनो लवणं चैव पशवो ये च मानुषाः ॥
सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च
अपि चेत् स्युर् अरक्तानि फलमूले तथौषधीः ॥
अपः शस्त्रं विषं मांसं सोमं गन्धांश् च सर्वशः
क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥
आरण्यांश् च पशून् सर्वान् दंष्ट्रिणश् च वयांसि च
मद्यं नीलिं नीलीं च लाक्षां च सर्वांश् चैकशफांस् तथा ॥
कामम् उत्पाद्य कृष्यां तु स्वयम् एव कृषीवलः
विक्रीणीत तिलाञ् शूद्रान् शुद्धान् धर्मार्थम् अचिरस्थितान् ॥
भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥
सद्यः पतति मांसेन लाक्षया लवणेन च
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥
इतरेषां तु पण्यानां विक्रयाद् इह कामतः
ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥
रसा रसैर् निमातव्या न त्व् एव लवणं रसैः
कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥
जीवेद् एतेन राजन्यः सर्वेणाप्य् अनयं गतः
न त्व् एव ज्यायंसीं वृत्तिम् अभिमन्येत कर्हि चित् ॥
यो लोभाद् अधमो जात्या जीवेद् उत्कृष्टकर्मभिः
तं राजा निर्धनं कृत्वा क्षिप्रम् एव प्रवासयेत् ॥
वरं स्वधर्मो विगुणो विगुणः न पारक्यः स्वनुष्ठितः परधर्मात् स्वधिष्ठितात्
परधर्मेण जीवन् हि सद्यः पतति जातितः ॥
वैश्यो ऽजीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत्
अनाचरन्न् अकार्याणि निवर्तेत च शक्तिमान् ॥
अशक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम्
पुत्रदारात्ययं प्राप्तो जीवेत् कारुककर्मभिः ॥
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः
तानि कारुककर्माणि शिल्पानि विविधानि च ॥
वैश्यवृत्तिम् अनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः
अवृत्तिकर्षितः सीदन्न् इमं धर्मं समाचरेत् ॥
सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस् त्व् अनयं गतः
पवित्रं दुष्यतीत्य् एतद् धर्मतो नोपपद्यते ॥
नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात्
दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥
जीवितात्ययम् आपन्नो यो ऽन्नम् अत्ति ततस् ततः
आकाशम् इव पङ्केन न स पापेन लिप्यते ॥
अजीगर्तः सुतं हन्तुम् उपासर्पद् बुभुक्षितः
न चालिप्यत पापेन क्षुत्प्रतीकारम् आचरन् ॥
श्वमांसम् इच्छन् आर्तो ऽत्तुं धर्माधर्मविचक्षणः
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥
भरद्वाजः क्षुधार्तस् तु सपुत्रो विजने वने
बह्वीर् गाः प्रतिजग्राह वृधोस् तक्ष्णो महातपाः ॥
क्षुधार्तश् चात्तुम् अभ्यागाद् विश्वामित्रः श्वजाघनीम्
चण्डालहस्ताद् आदाय धर्माधर्मविचक्षणः ॥
प्रतिग्रहाद् याजनाद् वा तथैवाध्यापनाद् अपि
प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥
याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम्
प्रतिग्रहस् तु क्रियते शूद्राद् अप्य् अन्त्यजन्मनः ॥
जपहोमैर् अपैत्य् एनो याजनाध्यापनैः कृतम्
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥
शिलोञ्छम् अप्य् आददीत विप्रो ऽजीवन् यतस् ततः
प्रतिग्रहाच् छिलः श्रेयांस् ततो ऽप्य् उञ्छः प्रशस्यते ॥
सीदद्भिः कुप्यम् इच्छद्भिर् धने धनं वा पृथिवीपतिः
याच्यः स्यात् स्नातकैर् विप्रैर् अदित्संस् त्यागम् अर्हति ॥
अकृतं च कृतात् क्षेत्राद् गौर् अजाविकम् एव च
हिरण्यं धान्यम् अन्नं च पूर्वं पूर्वम् अदोषवत् ॥
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः
प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥
विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः
धृतिर् भैक्षं कुसीदं च दश जीवनहेतवः ॥
ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत्
कामं तु खलु धर्मार्थं दद्यात् पापीयसे ऽल्पिकाम् ॥
चतुर्थम् आददानो ऽपि क्षत्रियो भागम् आपदि
प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ॥
स्वधर्मो विजयस् तस्य नाहवे स्यात् पराङ्मुखः
शस्त्रेण वैश्यान् वैश्याद् रक्षित्वा धर्म्यम् आहारयेद् बलिम् ॥
धान्ये ऽष्टमं विशां शुल्कं विंशं कार्षापणावरम्
कर्मोपकरणाः शूद्राः कारवः शिल्पिनस् तथा ॥
शूद्रस् तु वृत्तिम् आकाङ्क्षन् क्षत्रम् आराधयेद् यदि इति
धनिनं वाप्य् उपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥
स्वर्गार्थम् उभयार्थं वा विप्रान् आराधयेत् तु सः
जातब्राह्मणशब्दस्य सा ह्य् अस्य कृतकृत्यता ॥
विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते
यद् अतो ऽन्यद् धि कुरुते तद् भवत्य् अस्य निष्फलम् ॥
प्रकल्प्या तस्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः
शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥
उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च
पुलाकाश् चैव धान्यानां जीर्णाश् चैव परिच्छदाः ॥
न शूद्रे पातकं किं चिन् न च संस्कारम् अर्हति
नास्याधिकारो धर्मे ऽस्ति न धर्मात् प्रतिषेधनम् ॥
धर्मेप्सवस् तु धर्मज्ञाः सतां वृत्तम् धर्मम् अनुष्ठिताः
मन्त्रवर्ज्यं मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥
यथा यथा हि सद्वृत्तम् आतिष्ठत्य् अनसूयकः
तथा तथेमं चामुं च लोकं प्राप्नोत्य् अनिन्दितः ॥
शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः
शूद्रो हि धनम् आसाद्य ब्राह्मणान् एव बाधते ॥
एते चतुर्णां वर्णानाम् आपद्धर्माः प्रकीर्तिताः
यान् सम्यग् अनुतिष्ठन्तो व्रजन्ति परमं गतिम् ॥
एष धर्मविधिः कृत्स्नश् चातुर्वर्ण्यस्य कीर्तितः
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥
मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0