मनुस्मृति · अध्याय 7
राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः
संभवश् च यथा तस्य सिद्धिश् च परमा यथा ॥
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि
सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥
अराजके हि लोके ऽस्मिन् सर्वतो विद्रुतो भयात्
रक्षार्थम् अस्य सर्वस्य राजानम् असृजत् प्रभुः ॥
इन्द्रानिलयमार्काणाम् अग्नेश् च वरुणस्य च
चन्द्रवित्तेशयोश् चैव मात्रा निर्हृत्य शाश्वतीः ॥
यस्माद् एषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः
तस्माद् अभिभवत्य् एष सर्वभूतानि तेजसा ॥
तपत्य् आदित्यवच् चैष चक्षूंषि च मनांसि च
न चैनं भुवि शक्नोति कश् चिद् अप्य् अभिवीक्षितुम् ॥
सो ऽग्निर् भवति वायुश् च सो ऽर्कः सोमः स धर्मराट्
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः चेन्द्रः स्वप्रभावतः ॥
बालो ऽपि नावमान्तव्यो मनुष्य इति भूमिपः
महती देवता ह्य् एषा नररूपेण तिष्ठति ॥
एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम्
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥
कार्यं सो ऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥
यस्य प्रसादे पद्मा श्रीर् विजयश् च पराक्रमे
मृत्युश् च वसति क्रोधे सर्वतेजोमयो हि सः ॥
तं यस् तु द्वेष्टि संमोहात् स विनश्यत्य् असंशयम्
तस्य ह्य् आशु विनाशाय राजा प्रकुरुते मनः ॥
तस्माद् धर्मं यम् इष्टेषु स व्यवस्येन् नराधिपः
अनिष्टं चाप्य् अनिष्टेषु तं धर्मं न विचालयेत् ॥
तस्यार्थे तदर्थं सर्वभूतानां गोप्तारं धर्मम् आत्मजम्
ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः ॥
तस्य सर्वाणि भूतानि स्थावराणि चराणि च
भयाद् भोगाय कल्पन्ते स्वधर्मान् न चलन्ति च ॥
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः
यथार्हतः संप्रणयेन् नरेष्व् अन्यायवर्तिषु ॥
स राजा पुरुषो दण्डः स नेता शासिता च सः
चतुर्णाम् आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः ॥
समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः
असमीक्ष्य प्रणीतस् तु विनाशयति सर्वतः ॥
यदि न प्रणयेद् राजा दण्डं दण्ड्येष्व् अतन्द्रितः
शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः ॥
अद्यात् काकः पुरोडाशं श्वा च लिह्याद् श्वावलिह्याद् धविस् तथा
स्वाम्यं च न स्यात् कस्मिंश् चित् प्रवर्तेताधरोत्तरम् ॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर् नरः
दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते ॥
देवदानवगन्धर्वा रक्षांसि पतगोरगाः
ते ऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥
दुष्येयुः सर्ववर्णाश् च भिद्येरन् सर्वसेतवः
सर्वलोकप्रकोपश् च भवेद् दण्डस्य विभ्रमात् ॥
यत्र श्यामो लोहिताक्षो दण्डश् चरति पापहा
प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥
तस्याहुः संप्रणेतारं राजानं सत्यवादिनम्
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥
तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्धते
कामात्मा कामान्धो विषमः क्षुद्रो दण्डेनैव निहन्यते ॥
दण्डो हि सुमहत्तेजो दुर्धरश् चाकृतात्मभिः
धर्माद् विचलितं हन्ति नृपम् एव सबान्धवम् ॥
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम्
अन्तरिक्षगतांश् चैव मुनीन् देवांश् च पीडयेत् ॥
सो ऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना
न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥
शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा
प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥
स्वराष्ट्रे न्यायवृत्तः स्याद् भृशदण्डश् च शत्रुषु
सुहृत्स्व् अजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः
विस्तीर्यते यशो लोके तैलबिन्दुर् इवाम्भसि ॥
अतस् तु विपरीतस्य नृपतेर् अजितात्मनः
संक्षिप्यते यशो लोके घृतबिन्दुर् इवाम्भसि ॥
स्वे स्वे धर्मे निविष्टानां सर्वेषाम् अनुपूर्वशः
वर्णानाम् आश्रमाणां च राजा सृष्टो ऽभिरक्षिता ॥
तेन यद् यत् सभृत्येन कर्तव्यं रक्षता प्रजाः
तत् तद् वो ऽहं प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥
ब्राह्मणान् पर्युपासीत प्रातर् उत्थाय पार्थिवः
त्रैविद्यवृद्धान् विदुषस् तिष्ठेत् तेषां च शासने ॥
वृद्धांश् च नित्यं सेवेत विप्रान् वेदविदः शुचीन्
वृद्धसेवी हि सततं रक्षोभिर् अपि पूज्यते ॥
तेभ्यो ऽधिगच्छेद् विनयं विनीतात्मापि नित्यशः
विनीतात्मा हि नृपतिर् न विनश्यति कर्हि चित् ॥
बहवो ऽविनयान् नष्टा राजानः सपरिच्छदाः सपरिग्रहाः
वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥
वेनो विनष्टो ऽविनयान् नहुषश् चैव पार्थिवः
सुदाः पैजवनश् चैव सुमुखो निमिर् एव च ॥
पृथुस् तु विनयाद् राज्यं प्राप्तवान् मनुर् एव च
कुबेरश् च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥
त्रैविद्येभ्यस् त्रयीं विद्यां विद्यात् दण्डनीतिं च शाश्वतीम्
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश् च लोकतः ॥
इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम्
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥
दश कामसमुत्थानि तथाष्टौ क्रोधजानि च
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः
वियुज्यते ऽर्थधर्माभ्यां क्रोधजेष्व् आत्मनैव तु ॥
मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः
तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥
पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम्
वाग्दण्डजं च पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः ॥
द्वयोर् अप्य् एतयोर् मूलं यं सर्वे कवयो विदुः
तं यत्नेन जयेल् लोभं तज्जाव् एताव् उभौ गणौ ॥
पानम् अक्षाः स्त्रियश् चैव मृगया च यथाक्रमम्
एतत् कष्टतमं विद्याच् चतुष्कं कामजे गणे ॥
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे
क्रोधजे ऽपि गणे विद्यात् कष्टम् एतत् त्रिकं सदा ॥
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः
पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनम् आत्मवान् ॥
व्यसनस्य च मृत्योश् च व्यसनं कष्टम् उच्यते
व्यसन्य् अधो ऽधो व्रजति स्वर् यात्य् अव्यसनी मृतः ॥
मौलाञ् शास्त्रविदः शूरांल् लब्धलक्षान् कुलोद्भवान् कुलोद्गतान्
सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् कुर्वीत सुपरीक्षितान् ॥
अपि यत् सुकरं कर्म तद् अप्य् एकेन दुष्करम्
विशेषतो ऽसहायेन किं तु नु राज्यं महोदयम् ॥
तैः सार्धं चिन्तयेन् नित्यं सामान्यं संधिविग्रहम्
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥
तेषां स्वं स्वम् अभिप्रायम् उपलभ्य पृथक् पृथक्
समस्तानां च कार्येषु विदध्याद् धितम् आत्मनः ॥
सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता
मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥
नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् निक्षिपेत्
तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥
अन्यान् अपि प्रकुर्वीत शुचीन् प्राज्ञान् अवस्थितान्
सम्यग् अर्थसमाहर्तॄन् अमात्यान् सुपरीक्षितान् ॥
निर्वर्तेतास्य यावद्भिर् इतिकर्तव्यता नृभिः
तावतो ऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥
तेषाम् अर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान्
शुचीन् आकरकर्मान्ते भीरून् अन्तर्निवेशने ॥
दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम्
इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥
अनुरक्तः शुचिर् दक्षः स्मृतिमान् देशकालवित्
वपुष्मान् वीतभीर् वाग्मी दूतो राज्ञः प्रशस्यते ॥
अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया
नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ॥
दूत एव हि संधत्ते भिनत्त्य् एव च संहतान्
दूतस् तत् कुरुते कर्म भिद्यन्ते येन मानवः ॥
स विद्याद् अस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः
आकारम् इङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥
बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम्
तथा प्रयत्नम् आतिष्ठेद् यथात्मानं न पीडयेत् ॥
जाङ्गलं सस्यसंपन्नम् आर्यप्रायम् अनाविलम्
रम्यम् आनतसामन्तं स्वाजीव्यं देशम् आवसेत् ॥
धन्वदुर्गं महीदुर्गम् अब्दुर्गं वार्क्षम् एव वा
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥
सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत्
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥
त्रिण्य् आद्यान्य् आश्रितास् त्व् एषां मृगगर्ताश्रयाप्चराः
त्रीण्य् उत्तराणि क्रमशः प्लवंगमनरामराः ॥
यथा दुर्गाश्रितान् एतान् नोपहिंसन्ति शत्रवः
तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥
एकः शतं योधयति प्राकारस्थो धनुर्धरः
शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ॥
तत् स्याद् आयुधसंपन्नं धनधान्येन वाहनैः
ब्राह्मणैः शिल्पिभिर् यन्त्रैर् यवसेनोदकेन च ॥
तस्य मध्ये सुपर्याप्तं कारयेद् गृहम् आत्मनः
गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् ॥
तद् अध्यास्योद्वहेद् भार्यां सवर्णां लक्षणान्विताम्
कुले महति संभूतां हृद्यां रूपगुणान्वीताम् ॥
पुरोहितं च कुर्वीत वृणुयाद् एव च र्त्विजः
ते ऽस्य गृह्याणि कर्माणि कुर्युर् वैतानिकानि च ॥
यजेत राजा क्रतुभिर् विविधैर् आप्तदक्षिणैः
धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान् धनानि च ॥
सांवत्सरिकम् आप्तैश् च राष्ट्राद् आहारयेद् बलिम्
स्याच् चाम्नायपरो लोके वर्तेत पितृवन् नृषु ॥
अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः
ते ऽस्य सर्वाण्य् अवेक्षेरन् नृणां कार्याणि कुर्वताम् ॥
आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत्
नृपाणाम् अक्षयो ह्य् एष निधिर् ब्राह्मो ऽभिधीयते ॥
न तं स्तेना न चामित्रा हरन्ति न च नश्यति
तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्व् अक्षयो निधिः ॥
न स्कन्दते न व्यथते च्यवते न विनश्यति कर्हि चित्
वरिष्ठम् अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥
समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे
प्राधीते आचार्ये शतसाहस्रम् अनन्तं वेदपारगे ॥
पात्रस्य हि विशेषेण श्रद्दधानतयैव च
अल्पं वा बहु वा प्रेत्य दानस्य फलम् अश्नुते ॥
देशकालविधानेन द्रव्यं श्रद्धासमन्वितम्
पात्रे प्रदीयते यत् तु तद् धर्मस्य प्रसाधनम् ॥
समोत्तमाधमै राजा त्व् आहूतः पालयन् प्रजाः
न निवर्तेत संग्रामात् क्षात्रं धर्मम् अनुस्मरन् ॥
संग्रामेष्व् अनिवर्तित्वं प्रजानां चैव पालनम्
शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥
आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः
युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥
न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून्
न कर्णिभिर् नापि दिग्धैर् नाग्निज्वलिततेजनैः ॥
न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम्
न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥
न सुप्तं न विसंनाहं न नग्नं न निरायुधम्
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥
नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतं
न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥
यस् तु भीतः परावृत्तः संग्रामे हन्यते परैः
भर्तुर् यद् दुष्कृतं किं चित् तत् सर्वं प्रतिपद्यते ॥
यच् चास्य सुकृतं किं चिद् अमुत्रार्थम् उपार्जितम्
भर्ता तत् सर्वम् आदत्ते परावृत्तहतस्य तु ॥
रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः
सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ॥
राज्ञश् च दद्युर् उद्धारम् इत्य् एषा वैदिकी श्रुतिः
राज्ञा च सर्वयोधेभ्यो दातव्यम् अपृथग्जितम् ॥
एषो ऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः
अस्माद् धर्मान् न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥
अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः
रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत् ॥
एतच् चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम्
अस्य नित्यम् अनुष्ठानं सम्यक् कुर्याद् अतन्द्रितः ॥
अलब्धम् इच्छेद् दण्डेन लब्धं रक्षेद् अवेक्षया
रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥
नित्यम् उद्यतदण्डः स्यान् नित्यं विवृतपौरुषः
नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्य् अरेः ॥
नित्यम् उद्यतदण्डस्य कृत्स्नम् उद्विजते जगत्
तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥
अमाययैव वर्तेत न कथं चन मायया
बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥
नास्य छिद्रं परो विद्याद् विद्याच् छिद्रं परस्य च
गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः ॥
बकवच् चिन्तयेद् अर्थान् सिंहवच् च पराक्रमे
वृकवच् चावलुम्पेत शशवच् च विनिष्पतेत् ॥
एवं विजयमानस्य ये ऽस्य स्युः परिपन्थिनः
तान् आनयेद् वशं सर्वान् सामादिभिर् उपक्रमैः ॥
यदि ते तु न तिष्ठेयुर् उपायैः प्रथमैस् त्रिभिः
दण्डेनैव प्रसह्यैताञ् शनकैर् वशम् आनयेत् ॥
सामादीनाम् उपायानां चतुर्णाम् अपि पण्डिताः
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥
यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति
तथा रक्षेन् नृपो राष्ट्रं हन्याच् च परिपन्थिनः ॥
मोहाद् राजा स्वराष्ट्रं यः कर्षयत्य् अनवेक्षया
सो ऽचिराद् भ्रश्यते राज्याज् जीविताच् च सबान्धवः ॥
शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा
तथा राज्ञाम् अपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥
राष्ट्रस्य संग्रहे नित्यं विधानम् इदम् आचरेत्
सुसंगृहीतराष्ट्रे हि पार्थिवः सुखम् एधते ॥
द्वयोस् त्रयाणां पञ्चानां मध्ये गुल्मम् अधिष्ठितम्
तथा ग्रामशतानां च कुर्याद् राष्ट्रस्य संग्रहम् ॥
ग्रामस्याधिपतिं कुर्याद् दशग्रामपतिं तथा
विंशतीशं शतेशं च सहस्रपतिम् एव च ॥
ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम्
शंसेद् ग्रामदशेशाय दशेशो विंशतीशिने ॥
विंशतीशस् तु तत् सर्वं शतेशाय निवेदयेत्
शंसेद् ग्रामशतेशस् तु सहस्रपतये स्वयम् ॥
यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः
अन्नपानेन्धनादीनि ग्रामिकस् तान्य् अवाप्नुयात् ॥
दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥
तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि
राज्ञो ऽन्यः सचिवः स्निग्धस् तानि पश्येद् अतन्द्रितः ॥
नगरे नगरे चैकं कुर्यात् सर्वार्थचिन्तकम्
उच्चैःस्थानं घोररूपं नक्षत्राणाम् इव ग्रहम् ॥
स तान् अनुपरिक्रामेत् सर्वान् एव सदा स्वयम्
तेषां वृत्तं परिणयेत् सम्यग् राष्ट्रेषु तच्चरैः ॥
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद् इमाः प्रजाः ॥
ये कार्यिकेभ्यो ऽर्थम् एव गृह्णीयुः पापचेतसः
तेषां सर्वस्वम् आदाय राजा कुर्यात् प्रवासनम् ॥
राजा कर्मसु राजकर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च
प्रत्यहं कल्पयेद् वृत्तिं स्थानं कर्मानुरूपतः स्थानकर्मानुरूपतः ॥
पणो देयो ऽवकृष्टस्य षड् उत्कृष्टस्य वेतनम्
षाण्मासिकस् तथाच्छादो धान्यद्रोणस् तु मासिकः ॥
क्रयविक्रयम् अध्वानं भक्तं च सपरिव्ययम्
योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत् करान् ॥
यथा फलेन युज्येत राजा कर्ता च कर्मणाम्
तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ॥
यथाल्पाल्पम् अदन्त्य् आद्यं वार्योकोवत्सषट्पदाः
तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ॥
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः
धान्यानाम् अष्टमो भागः षष्ठो द्वादश एव वा ॥
आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम्
गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥
पत्रशाकतृणानां च चर्मणां वैदलस्य च
मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥
म्रियमाणो ऽप्य् आददीत न राजा श्रोत्रियात् करम्
न च क्षुधास्य संसीदेच् छ्रोत्रियो विषये वसन् ॥
यस्य राज्ञस् तु विषये श्रोत्रियः सीदति क्षुधा
तस्यापि तत् क्षुधा राष्ट्रम् अचिरेनैव सीदति ॥
श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत्
संरक्षेत् सर्वतश् चैनं पिता पुत्रम् इवाउरसम् ॥
संरक्ष्यमाणो राज्ञा यं राज्ञायं कुरुते धर्मम् अन्वहम्
तेनायुर् वर्धते राज्ञो द्रविणं राष्ट्रम् एव च ॥
यत् किं चिद् अपि वर्षस्य दापयेत् करसंज्ञितम्
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥
कारुकाञ् शिल्पिनश् चैव शूद्रांस् चात्मोपजीविनः
एकैकं कारयेत् कर्म मासि मासि महीपतिः ॥
नोच्छिन्द्याद् आत्मनो मूलं परेषां चातितृष्णया
उच्छिन्दन् ह्य् आत्मनो मूलम् आट्मानं तांश् च पीदयेत् ॥
तीक्ष्णश् चैव मृदुश् च स्यात् कार्यं वीक्ष्य महीपतिः
तीक्ष्णश् चैव मृदुश् चैव राज भवति सम्मतः ॥
अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम्
स्थापयेद् आसने तस्मिन् खिन्नः कार्येक्षणे नृणाम् ॥
एवं सर्वं विधायेदम् इतिकर्तव्यम् आत्मनः
युक्तश् चैवाप्रमत्तश् च परिरक्षेद् इमाः प्रजाः ॥
विक्रोशन्त्यो यस्य राष्ट्राद् ह्रियन्ते दस्युभिः प्रजाः
संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥
क्षत्रियस्य परो धर्मः प्राजानाम् एव पालनम्
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥
उत्थाय पश्चिमे यामे कृतशौचः समाहितः
हुताग्निर् ब्राह्मणांश् चार्च्य प्रविशेत् स शुभां सभाम् ॥
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत्
विसृज्य च प्रजाः सर्वा मन्त्रयेत् सह मन्त्रिभिः ॥
गिरिपृष्ठं समारुह्य प्रसादं वा रहोगतः
अरण्ये निःशलाके वा मन्त्रयेद् अविभावितः ॥
यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः
स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनो ऽपि पार्थिवः ॥
जडमूकान्धबधिरांस् तैर्यग्योनान् वयोऽतिगान्
स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकाले ऽपसारयेत् ॥
भिन्दन्त्य् अवमता मन्त्रं तैर्यग्योनास् तथैव च
स्त्रियश् चैव विशेषेण तस्मात् तत्रादृतो भवेत् ॥
मध्यंदिने ऽर्धरात्रे वा विश्रान्तो विगतक्लमः
चिन्तयेद् धर्मकामार्थान् सार्धं सार्थं तैर् एक एव वा ॥
परस्परविरुद्धानां तेषां च समुपार्जनम्
कन्यानां संप्रदानं च कुमाराणां च रक्षणं ॥
दूतसंप्रेषणं चैव कार्यशेषं तथैव च
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥
कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥
मध्यमस्य प्रचारं च विजीगिषोश् च चेष्टितम्
उदासीनप्रचारं च शत्रोश् चैव प्रयत्नतः ॥
एताः प्रकृतयो मूलं मण्डलस्य समासतः
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥
अमात्यराष्ट्रदुर्गार्थ दण्डाख्याः पञ्च चापराः
प्रत्येकं कथिता ह्य् एताः संक्षेपेण द्विसप्ततिः ॥
अनन्तरम् अरिं विद्याद् अरिसेविनम् एव च
अरेर् अनन्तरं मित्रम् उदासीनं तयोः परम् ॥
तान् सर्वान् अभिसंदध्यात् सामादिभिर् उपक्रमैः
व्यस्तैश् चैव समस्तैश् च पौरुषेण नयेन च ॥
संधिं च विग्रहं चैव यानम् आसनम् एव च
द्वैधीभावं संश्रयं च षड्गुणांश् चिन्तयेत् सदा ॥
आसनं चैव यानं च संधिं विग्रहम् एव च
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयम् एव च ॥
संधिं तु द्विविधं विद्याद् राजा विग्रहम् एव च
उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥
समानयानकर्मा च विपरीतस् तथैव च
तदा त्व् आयतिसंयुक्तः संधिर् ज्ञेयो द्विलक्षणः ॥
स्वयंकृतश् च कार्यार्थम् अकाले काल एव वा
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥
एकाकिनश् चात्ययिके कार्ये प्राप्ते यदृच्छया
संहतस्य च मित्रेण द्विविधं यानम् उच्यते ॥
क्षीणस्य चैव क्रमशो दैवात् पूर्वकृतेन वा
मित्रस्य चानुरोधेन द्विविधं स्मृतम् आसनम् ॥
बलस्य स्वामिनश् चैव स्थितिः कार्यार्थसिद्धये
द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥
अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः
साधुषु व्यपदेशश् च द्विविधः संश्रयः स्मृतः ॥
यदावगच्छेद् आयत्याम् आधिक्यं ध्रुवम् आत्मनः
तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥
यदा प्रहृष्टा मन्येत सर्वास् तु प्रकृतीर् भृशम्
अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ॥
यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम्
परस्य विपरीतं च तदा यायाद् रिपुं प्रति ॥
यदा तु स्यात् परिक्षीणो वाहनेन बलेन च
तदासीत प्रयत्नेन शनकैः सान्त्वयन्न् अरीन् ॥
मन्येतारिं यदा राजा सर्वथा बलवत्तरम्
तदा द्विधा बलं कृत्वा साधयेत् कार्यम् आत्मनः ॥
यदा परबलानां तु गमनीयतमो भवेत्
तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं नृपम् ॥
निग्रहं प्रकृतीनां च कुर्याद् यो ऽरिबलस्य च
उपसेवेत तं नित्यं सर्वयत्नैर् गुरुं यथा ॥
यदि तत्रापि संपश्येद् दोषं संश्रयकारितम्
सुयुद्धम् एव तत्रापि निर्विशङ्कः समाचरेत् ॥
सर्वोपायैस् तथा कुर्यान् नीतिज्ञः पृथिवीपतिः
यथास्याभ्यधिका न स्युर् मित्रोदासीनशत्रवः ॥
आयतिं सर्वकार्याणां तदात्वं च विचारयेत्
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥
आयत्यां गुणदोषज्ञस् तदात्वे क्षिप्रनिश्चयः
अतीते कार्यशेषज्ञः शत्रुभिर् नाभिभूयते ॥
यथैनं नाभिसंदध्युर् मित्रोदासीनशत्रवः
तथा सर्वं संविदध्याद् एष सामासिको नयः ॥
तदा तु यानम् आतिष्ठेद् अरिराष्ट्रं प्रति प्रभुः
तदानेन विधानेन यायाद् अरिपुरं शनैः ॥
मार्गशीर्षे शुभे मासि यायाद् यात्रां महीपतिः
फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥
अन्येष्व् अपि तु कालेषु यदा पश्येद् ध्रुवं जयम्
तदा यायाद् विगृह्यैव व्यसने चोत्थिते रिपोः ॥
कृत्वा विधानं मूले तु यात्रिकं च यथाविधि
उपगृह्यास्पदं चैव चारान् सम्यग् विधाय च ॥
संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम्
सांपरायिककल्पेन यायाद् अरिपुरं प्रति ॥
शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत्
गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥
दण्डव्यूहेन तन् मार्गं यायात् तु शकटेन वा
वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥
यतश् च भयम् आशङ्केत् ततो विस्तारयेद् बलम्
पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत्
यतश् च भयम् आशङ्केत् प्राचीं तां कल्पयेद् दिशम् ॥
गुल्मांश् च स्थापयेद् आप्तान् कृतसंज्ञान् समन्ततः
स्थाने युद्धे च कुशलान् अभीरून् अविकारिणः ॥
संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून्
सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥
स्यन्दनाश्वैः समे युध्येद् अनूपे नौ द्विपैस् तथा
वृक्षगुल्मावृते चापैर् असिचर्मायुधैः स्थले ॥
कुरुक्षेत्रांश् कौरक्षेत्रांश् च मत्स्यांश् च पञ्चालाञ् शूरसेनजान्
दीर्घांल् लघूंश् चैव नरान् अग्रानीकेषु योजयेत् ॥
प्रहर्षयेद् बलं व्यूह्य तांश् च सम्यक् भृशं परीक्षयेत्
चेष्टाश् चैव विजानीयाद् अरीन् योधयताम् अपि ॥
उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत्
दूषयेच् चास्य सततं यवसान्नोदकेन्धनम् ॥
भिन्द्याच् चैव तडागानि प्राकारपरिखास् तथा
समवस्कन्दयेच् चैनं रात्रौ वित्रासयेत् तथा ॥
उपजप्यान् उपजपेद् बुध्येतैव च तत्कृतम्
युक्ते च दैवे युध्येत जयप्रेप्सुर् अपेतभीः ॥
साम्ना दानेन भेदेन समस्तैर् अथ वा पृथक्
विजेतुं प्रयतेत् आरीन् आरिं न युद्धेन कदा चन ॥
अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः
पराजयश् च संग्रामे तस्माद् युद्धं विवर्जयेत् ॥
त्रयाणाम् अप्य् उपायानां पूर्वोक्तानाम् असंभवे
तथा युध्येत संपन्नो विजयेत रिपून् यथा ॥
जित्वा संपूजयेद् देवान् ब्राह्मणांश् चैव धार्मिकान्
प्रदद्यात् परिहारार्थं ख्यापयेद् अभयानि च ॥
सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम्
स्थापयेत् तत्र तद्वंश्यं कुर्याच् च समयक्रियाम् ॥
प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान्
रत्नैश् च पूजयेद् एनं प्रधानपुरुषैः सह ॥
आदानम् अप्रियकरं दानं च प्रियकारकम्
अभीप्सितानाम् अर्थानां काले युक्तं कालयुक्तं प्रशस्यते ॥
सर्वं कर्मेदम् आयत्तं विधाने दैवमानुषे
तयोर् दैवम् अचिन्त्यं तु मानुषे विद्यते क्रिया ॥
दैवेन विधिना युक्तं ऽअयुक्तं मानुष्यं यत् प्रवर्तते
परिक्लेशेन महता तदर्थस्य समाधकम् ॥
संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम्
विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति ॥
चन्द्रार्काद्या ग्रहा वायुर् अग्निर् आपस् तथैव च
इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः ॥
सह वापि व्रजेद् युक्तः संधिं कृत्वा प्रयत्नतः
मित्रं हिरण्यं भूमिं वा संपश्यंस् त्रिविधं फलम् ॥
पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले
मित्राद् अथाप्य् अमित्राद् वा यात्राफलम् अवाप्नुयात् ॥
हिरण्यभूमिसंप्राप्त्या पार्थिवो न तथैधते
यथा मित्रं ध्रुवं लब्ध्वा कृशम् अप्य् आयतिक्षमम् ॥
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिम् एव च
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥
प्राज्ञं कुलीनं शूरं च दक्षं दातारम् एव च
कृतज्ञं धृतिमन्तं च कष्टम् आहुर् अरिं बुधाः ॥
आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता
स्थौललक्ष्यं च सततम् उदासीनगुणोदयः ॥
क्सेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीम् अपि
परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन् ॥
आपदर्थं आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥
सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम्
संयुक्तांश् च वियुक्तांश् च सर्वोपायान् सृजेद् बुधः ॥
उपेतारम् उपेयं च सर्वोपायांश् च कृत्स्नशः
एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥
एवं सर्वम् इदं राजा सह सम्मन्त्र्य मन्त्रिभिः
व्यायम्याप्लुत्य मध्याह्ने भोक्तुम् अन्तःपुरं विशेत् ॥
तत्रात्मभूतैः कालज्ञैर् अहार्यैः परिचारकैः
सुपरीक्षितम् अन्नाद्यम् अद्यान् मन्त्रैर् विषापहैः ॥
विषघ्नैर् अगदैश् उदकैश् चास्य सर्वद्रव्याणि योजयेत् शोधयेत्
विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥
परीक्षिताः स्त्रियश् चैनं व्यजनोदकधूपनैः
वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥
एवं प्रयत्नं कुर्वीत यानशय्यासनाशने
स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥
भुक्तवान् विहरेच् चैव स्त्रीभिर् अन्तःपुरे सह
विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥
अलंकृतश् च संपश्येद् आयुधीयं पुनर् जनम्
वाहनानि च सर्वाणि शस्त्राण्य् आभरणानि च ॥
संध्यां चोपास्य शृणुयाद् अन्तर्वेश्मनि शस्त्रभृत्
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥
गत्वा कक्षान्तरं त्व् अन्यत् समनुज्ञाप्य तं जनम्
प्रविशेद् भोजनार्थं च स्त्रीवृतो ऽन्तःपुरं पुनः ॥
तत्र भुक्त्वा पुनः किं चित् तूर्यघोषैः प्रहर्षितः
संविशेत् तं यथाकालम् उत्तिष्ठेच् च गतक्लमः ॥
एतद्विधानम् आतिष्ठेद् अरोगः पृथिवीपतिः
अस्वस्थः सर्वम् एतत् तु भृत्येषु विनियोजयेत् ॥
मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0