भाषा

ENहिગુ
ग्रंथ पाठ

मनुस्मृति · अध्याय 6

6.1

एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः
वने वसेत् तु नियतो यथावद् विजितेन्द्रियः ॥

6.2

गृहस्थस् तु यथा पश्येद् वलीपलितम् आत्मनः
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥

6.3

संत्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम्
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥

6.4

अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम्
ग्रामाद् अरण्यं निःसृत्य निष्क्रम्य निवसेन् नियतेन्द्रियः ॥

6.5

मुन्यन्नैर् विविधैर् मेध्यैः शाकमूलफलेन वा
एतान् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ॥

6.6

वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा
जटाश् च बिभृयान् नित्यं श्मश्रुलोमनखानि च ॥

6.7

यद्भक्ष्यं यद्भक्षः स्याद् ततो दद्याद् बलिं भिक्षां च शक्तितः
अम्मूलफलभिक्षाभिर् अर्चयेद् आश्रमागतान् आश्रमागतम् ॥

6.8

स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः
दाता नित्यम् अनादाता सर्वभूतानुकम्पकः ॥

6.9

वैतानिकं च जुहुयाद् अग्निहोत्रं यथाविधि
दर्शम् अस्कन्दयन् पर्व पौर्णमासं च योगतः ॥

6.10

ऋक्षेष्ट्य् दर्शेष्ट्य् आग्रयणं चैव चातुर्मास्यानि चाहरेत्
तुरायणं च क्रमशो दक्षस्यायनम् दाक्षस्यायनम् एव च ॥

6.11

वासन्तशारदैर् मेध्यैर् मुन्यन्नैः स्वयम् आहृतैः
पुरोडाशांश् चरूंश् चैव विधिवन् निर्वपेत् पृथक् ॥

6.12

देवताभ्यस् तु तद् धुत्वा वन्यं मेध्यतरं हविः
शेषम् आत्मनि युञ्जीत लवणं च स्वयं कृतम् ॥

6.13

स्थलजाउदकशाकानि पुष्पमूलफलानि च
मेध्यवृक्षोद्भवान्य् अद्यात् स्नेहांश् च फलसंभवान् ॥

6.14

वर्जयेन् मधु मांसं च भौमानि कवकानि च
भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च ॥

6.15

त्यजेद् आश्वयुजे मासि मुन्यन्नं पूर्वसंचितम्
जीर्णानि चैव वासांसि शाकमूलफलानि च ॥

6.16

न फालकृष्टम् अश्नीयाद् उत्सृष्टम् अपि केन चित्
न ग्रामजातान्य् आर्तो ऽपि मूलाणि पुष्पानि च फलानि च ॥

6.17

अग्निपक्वाशनो वा स्यात् कालपक्वभुग् एव वा
अश्मकुट्टो भवेद् वापि दन्तोलूखलिको ऽपि वा ॥

6.18

सद्यः प्रक्षालको वा स्यान् माससंचयिको ऽपि वा
षण्मासनिचयो वा स्यात् समानिचय एव वा ॥

6.19

नक्तं चान्नं समश्नीयाद् दिवा वाहृत्य शक्तितः
चतुर्थकालिको वा स्यात् स्याद् वाप्य् अष्टमकालिकः ॥

6.20

चान्द्रायणविधानैर् वा शुक्लकृष्णे च वर्तयेत्
पक्षान्तयोर् वाप्य् अश्नीयाद् यवागूं क्वथितां सकृत् ॥

6.21

पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा
कालपक्वैः स्वयं शीर्णैर् वैखानसमते स्थितः ॥

6.22

भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर् दिनम्
स्थानासनाभ्यां विहरेत् सवनेषूपयन्न् अपः ॥

6.23

ग्रीष्मे पञ्चतपास् तु स्याद् वर्षास्व् अभ्रावकाशिकः
आर्द्रवासास् तु हेमन्ते क्रमशो वर्धयंस् तपः ॥

6.24

उपस्पृशंस् त्रिषवणं पितॄन् देवांश् च तर्पयेत्
तपश् चरंश् चोग्रतरं शोषयेद् देहम् आत्मनः ॥

6.25

अग्नीन् आत्मनि वैतानान् समारोप्य यथाविधि
अनग्निर् अनिकेतः स्यान् मुनिर् मूलफलाशनः ॥

6.26

अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः
शरणेष्व् अममश् चैव वृक्षमूलनिकेतनः ॥

6.27

तापसेष्व् एव विप्रेषु यात्रिकं भैक्षम् आहरेत्
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥

6.28

ग्रामाद् आहृत्य वाश्नीयाद् अष्टौ ग्रासान् वने वसन्
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥

6.29

एताश् चान्याश् च सेवेत दीक्षा विप्रो वने वसन्
विविधाश् चाउपनिषदीर् आत्मसंसिद्धये श्रुतीः ॥

6.30

ऋषिभिर् ब्राह्मणैश् चैव गृहस्थैर् एव सेविताः
विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥

6.31

अपराजितां वास्थाय व्रजेद् दिशम् अजिह्मगः
आ निपाताच् छरीरस्य युक्तो वार्यनिलाशनः ॥

6.32

आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम्
वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥

6.33

वनेषु च विहृत्यैवं तृतीयं भागम् आयुषः
चतुर्थम् आयुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ॥

6.34

आश्रमाद् आश्रमं गत्वा हुतहोमो जितेन्द्रियः
भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥

6.35

ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत्
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥

6.36

अधीत्य विधिवद् वेदान् पुत्रांश् चोत्पाद्य धर्मतः
इष्ट्वा च शक्तितो यज्ञैर् मनो मोक्षे निवेशयेत् ॥

6.37

अनधीत्य द्विजो वेदान् अनुत्पाद्य तथा सुतान् प्रजाम्
अनिष्ट्वा चैव यज्ञैश् च मोक्षम् इच्छन् व्रजत्य् अधः ॥

6.38

प्राजापत्यं निरुप्येष्टिं सर्व सार्व वेदसदक्षिणाम्
आत्मन्य् अग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥

6.39

यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्य् अभयं गृहात्
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥

6.40

यस्माद् अण्व् अपि भूतानां द्विजान् नोत्पद्यते भयम्
तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश् चन ॥

6.41

अगाराद् अभिनिष्क्रान्तः पवित्रोपचितो मुनिः
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥

6.42

एक एव चरेन् नित्यं सिद्ध्यर्थम् असहायवान्
सिद्धिम् सिद्धम् एकस्य संपश्यन् न जहाति न हीयते ॥

6.43

अनग्निर् अनिकेतः स्याद् ग्रामम् अन्नार्थम् आश्रयेत्
उपेक्षको ऽसंकुसुको असांकुसुको मुनिर् भावसमाहितः ॥

6.44

कपालं वृक्षमूलानि कुचेलम् कुचैलम् असहायता
समता चैव सर्वस्मिन्न् एतन् मुक्तस्य लक्षणम् ॥

6.45

नाभिनन्देत मरणं नाभिनन्देत जीवितम्
कालम् एव प्रतीक्षेत निर्वेशं भृतको यथा ॥

6.46

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत्
सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥

6.47

अतिवादांस् तितिक्षेत नावमन्येत कं चन
न चेमं देहम् आश्रित्य वैरं कुर्वीत केन चित् ॥

6.48

क्रुद्ध्यन्तं न प्रतिक्रुध्येद् आक्रुष्टः कुशलं वदेत्
सप्तद्वारावकीर्णां च न वाचम् अनृतां वदेत् ॥

6.49

अध्यात्मरतिर् आसीनो निरपेक्षो निरामिषः
आत्मनैव सहायेन सुखार्थी विचरेद् इह ॥

6.50

न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् ॥

6.51

न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः
आकीर्णं भिक्षुकैर् वान्यैर् अगारम् उपसंव्रजेत् ॥

6.52

कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान्
विचरेन् नियतो नित्यं सर्वभूतान्य् अपीडयन् ॥

6.53

अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च
तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ॥

6.54

अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा
एताणि यतिपात्राणि मनुः स्वायंभुवो ऽब्रवीत् ॥

6.55

एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे
भैक्षे प्रसक्तो हि यतिर् विषयेष्व् अपि सज्जति ॥

6.56

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश् चरेत् ॥

6.57

अलाभे न विषदी स्याल् लाभे चैव न हर्षयेत्
प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः ॥

6.58

अभिपूजितलाभांस् तु जुगुप्सेतैव सर्वशः
अभिपूजितलाभैश् च यतिर् मुक्तो ऽपि बध्यते ॥

6.59

अल्पान्नाभ्यवहारेण रहःस्थानासनेन च
ह्रियमाणानि विषयैर् इन्द्रियाणि निवर्तयेत् ॥

6.60

इन्द्रियाणां निरोधेन रागद्वेशक्षयेण च
अहिंसया च भूतानाम् अमृतत्वाय कल्पते ॥

6.61

अवेक्षेत गतीर् नॄणां कर्मदोषसमुद्भवाः
निरये चैव पतनं यातनाश् च यमक्षये ॥

6.62

विप्रयोगं प्रियैश् चैव संयोगं च तथाप्रियैः
जरया चाभिभवनं व्याधिभिश् चोपपीडनं ॥

6.63

देहाद् उत्क्रमणं चाष्मात् पुनर् गर्भे च संभवम्
योनिकोटिसहस्रेषु सृतीश् चास्यान्तरात्मनः ॥

6.64

अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम्
धर्मार्थप्रभवं चैव सुखसंयोगम् अक्षयम् ॥

6.65

सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः
देहेषु च समुत्पत्तिम् चैवोपपत्तिम् उत्तमेष्व् अधमेषु च ॥

6.66

दूषितो भूषितो ऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥

6.67

फलं कतकवृक्षस्य यद्य् अप्य् अम्बुप्रसादकम्
न नामग्रहणाद् एव तस्य वारि प्रसीदति ॥

6.68

संरक्षणार्थं जन्तूनां रात्राव् अहनि वा सदा
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥

6.69

अह्ना रात्र्या च याञ् जन्तून् हिनस्त्य् अज्ञानतो यतिः
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षड् आचरेत् ॥

6.70

प्राणायामा ब्राह्मणस्य त्रयो ऽपि विधिवत् कृताः
व्याहृतिप्रणवैर् युक्ता विज्ञेयं परमं तपः ॥

6.71

दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥

6.72

प्राणायमैर् दहेद् दोषान् धारणाभिश् च किल्बिषम्
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥

6.73

उच्चावचेषु भूतेषु दुर्ज्ञेयाम् अकृतात्मभिः
ध्यानयोगेन संपश्येद् गतिम् अस्यान्तरात्मनः ॥

6.74

सम्यग्दर्शनसंपन्नः कर्मभिर् न निबध्यते
दर्शनेन विहीनस् तु संसारं प्रतिपद्यते ॥

6.75

अहिंसयेन्द्रियासङ्गैर् वैदिकैश् चैव कर्मभिः
तपसश् चरणैश् चोग्रैः साधयन्तीह तत्पदम् ॥

6.76

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम्
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥

6.77

जराशोकसमाविष्टं रोगायतनम् आतुरम्
रजस्वलम् अनित्यं च भूतावासम् इमं त्यजेत् ॥

6.78

नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर् यथा
तथा त्यजन्न् इमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ॥

6.79

प्रियेषु स्वेषु सुकृतम् अप्रियेषु च दुष्कृतम्
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥

6.80

यदा भावेन भवति सर्वभावेषु निःस्पृहः
तदा सुखम् अवाप्नोति प्रेत्य चेह च शाश्वतम् ॥

6.81

अनेन विधिना सर्वांस् त्यक्त्वा सङ्गाञ् शनैः शनैः
सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्य् एवावतिष्ठते ॥

6.82

ध्यानिकं सर्वम् एवैतद् यद् एतद् अभिशब्दितम्
न ह्य् अनध्यात्मवित् कश् चित् क्रियाफलम् उपाश्नुते ॥

6.83

अधियज्ञं ब्रह्म जपेद् आधिदैविकम् एव च
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥

6.84

इदं शरणम् अज्ञानाम् इदम् एव विजानताम्
इदम् अन्विच्छतां स्वर्गम् इदम् आनन्त्यम् इच्छताम् ॥

6.85

अनेन क्रमयोगेन परिव्रजति यो द्विजः
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥

6.86

एष धर्मो ऽनुशिष्टो वो यतीनां नियतात्मनाम्
वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥

6.87

ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा
एते गृहस्थप्रभवाश् चत्वारः पृथग् आश्रमाः ॥

6.88

सर्वे ऽपि क्रमशस् त्व् एते यथाशास्त्रं निषेविताः
यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥

6.89

सर्वेषाम् अपि चैतेषां वेद स्मृति श्रुति विधानतः
गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ॥

6.90

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम्
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥

6.91

चतुर्भिर् अपि चैवैतैर् नित्यम् आश्रमिभिर् द्विजैः
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥

6.92

धृतिः क्षमा दमो ऽस्तेयं शौचम् इन्द्रियनिग्रहः
धीर् विद्या सत्यम् अक्रोधो दशकं धर्मलक्षणम् ॥

6.93

दश लक्षणानि धर्मस्य ये विप्राः समधीयते
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥

6.94

दशलक्षणकं धर्मम् अनुतिष्ठन् समाहितः
वेदान्तं विधिवच् छ्रुत्वा संन्यसेद् अनृणो द्विजः ॥

6.95

संन्यस्य सर्वकर्माणि कर्मदोषान् अपानुदन्
नियतो वेदम् अभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥

6.96

एवं संन्यस्य कर्माणि स्वकार्यपरमो ऽस्पृहः
संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम् ॥

6.97

एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः
पुण्यो ऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत ॥

मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc