मनुस्मृति · अध्याय 5
श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथोदितान्
इदम् ऊचुर् महात्मानम् अनलप्रभवं भृगुम् ॥
एवं यथोक्तं विप्राणां स्वधर्मम् अनुतिष्ठताम्
कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥
स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः
श्रूयतां येन दोषेण मृत्युर् विप्रान् जिघांसति ॥
अनभ्यासेन वेदानाम् आचारस्य च वर्जनात्
आलस्याद् अन्नदोषाच् च मृत्युर् विप्राञ् जिघांसति ॥
लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च
अभक्ष्याणि द्विजातीनाम् अमेध्यप्रभवानि च ॥
लोहितान् वृक्षनिर्यासान् वृश्चन व्रश्चन प्रभवांस् तथा
शेलुं गव्यं च पेयूषं पीयूषं प्रयत्नेन विवर्जयेत् ॥
वृथा कृसरसंयावं पायसापूपम् एव च
अनुपाकृतमांसानि देवान्नानि हवींषि च ॥
अनिर्दशाया गोः क्षीरम् औष्ट्रम् ऐकशफं तथा
आविकं संधिनीक्षीरं विवत्सायाश् च गोः पयः ॥
आरण्यानां च सर्वेषां मृगाणां माहिषं विना
स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥
दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम्
यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥
क्रव्यादाञ् शकुनान् क्रव्यादः शकुनीन् सर्वांस् तथा ग्रामनिवासिनः
अनिर्दिष्टांश् चैकशफांष् टिट्टिभं च विवर्जयेत् ॥
कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम्
सारसं रज्जुवालं रज्जुदालं च दात्यूहं शुकसारिके ॥
प्रतुदाञ् जालपादांश् च कोयष्टिनखविष्किरान्
निमज्जतश् च मत्स्यादान् सौनं वल्लूरम् एव च ॥
बकं चैव बलाकां च काकोलं खञ्जरीटकम्
मत्स्यादान् विड्वराहांश् च मत्स्यान् एव च सर्वशः ॥
यो यस्य मांसम् अश्नाति स तन्मांसाद उच्यते
मत्स्यादः सर्वमांसादस् तस्मान् मत्स्यान् विवर्जयेत् ॥
पाठीनरोहिताव् आद्यौ नियुक्तौ हव्यकव्ययोः
राजीवान् राजीवाः सिंहतुण्डाश् च सशल्काश् चैव सर्वशः ॥
न भक्षयेद् एकचरान् अज्ञातांश् च मृगद्विजान्
भक्ष्येष्व् अपि समुद्दिष्टान् सर्वान् पञ्चनखांस् तथा ॥
श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस् तथा
भक्ष्यान् पञ्चनखेष्व् आहुर् अनुष्ट्रांश् चैकतोदतह् ॥
छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम्
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥
अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत्
यतिचान्द्रायाणं वापि शेषेषूपवसेद् अहः ॥
संवत्सरस्यैकम् अपि चरेत् कृच्छ्रं द्विजोत्तमः
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विषेशतः ॥
यज्ञार्थं ब्राह्मणैर् वध्याः प्रशस्ता मृगपक्षिणः
भृत्यानां चैव वृत्त्यर्थम् अगस्त्यो ह्य् आचरत् पुरा ॥
बभूवुर् हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम्
पुराणेष्व् अपि यज्ञेषु ऋषियज्ञेषु ब्रह्मक्षत्रसवेषु च ॥
यत् किं चित् स्नेहसंयुक्तं भक्ष्यं भोज्यम् अगर्हितम्
तत् पर्युषितम् अप्य् आद्यं हविःशेषं च यद् भवेत् ॥
चिरस्थितम् अपि त्व् आद्यम् अस्नेहाक्तं द्विजातिभिः
यवगोधूमजं सर्वं पयसश् चैव विक्रिया ॥
एतद् उक्तं द्विजातीनां भक्ष्याभक्ष्यम् अशेषतः
मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥
प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया
यथाविधि नियुक्तस् तु प्राणानाम् एव चात्यये ॥
प्राणस्यान्नम् इदं सर्वं प्रजापतिर् अकल्पयत्
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥
चराणाम् अन्नम् अचरा दंष्ट्रिणाम् अप्य् अदंष्ट्रिणः
अहस्ताश् च सहस्तानां शूराणां चैव भीरवः ॥
नात्ता दुष्यत्य् अदन्न् आद्यान् प्राणिनो ऽहन्यहन्य् अपि
धात्रैव सृष्टा ह्य् आद्याश् च प्राणिनो ऽत्तार एव च ॥
यज्ञाय जग्धिर् मांसस्येत्य् एष दैवो विधिः स्मृतः
अतो ऽन्यथा प्रवृत्तिस् तु राक्षसो विधिर् उच्यते ॥
क्रीत्वा स्वयं वाप्य् उत्पाद्य परोपकृतम् एव वा
देवान् पितॄंश् चार्चयित्वा खादन् मांसं न दुष्यति ॥
नाद्याद् अविधिना मांसं विधिज्ञो ऽनापदि द्विजः
जग्ध्वा ह्य् अविधिना मांसं प्रेतस् तैर् अद्यते ऽवशः ॥
न तादृशं भवत्य् एनो मृगहन्तुर् धनार्थिनः
यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥
नियुक्तस् तु यथान्यायं यो मांसं नात्ति मानवः
स प्रेत्य पशुतां याति संभवान् एकविंशतिम् ॥
असंस्कृतान् पशून् मन्त्रैर् नाद्याद् विप्रः कदा चन
मन्त्रैस् तु संस्कृतान् अद्याच् छाश्वतं विधिम् आस्थितः ॥
कुर्याद् घृतपशुं सङ्गे कुर्यात् पिष्टपशुं तथा
न त्व् एव तु वृथा हन्तुं पशुम् इच्छेत् कदा चन ॥
यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम्
वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥
यज्ञार्थं पशवः सृष्टाः स्वयम् एव स्वयंभुवा
यज्ञो ऽस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधो ऽवधः ॥
ओषध्यः पशवो वृक्षास् तिर्यञ्चः पक्षिणस् तथा
यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्य् उत्सृतीः उच्छ्रितीः पुनः ॥
मधुपर्के च यज्ञे च पितृदैवतकर्मणि
अत्रैव पशवो हिंस्या नान्यत्रेत्य् अब्रवीन् मनुः ॥
एष्व् अर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः
आत्मानं च पशुं चैव गमयत्य् उत्तमं गतिम् ॥
गृहे गुराव् अरण्ये वा निवसन्न् आत्मवान् द्विजः
नावेदविहितां हिंसाम् आपद्य् अपि समाचरेत् ॥
या वेदविहिता हिंसा नियतास्मिंश् चराचरे
अहिंसाम् एव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ॥
यो ऽहिंसकानि भूतानि हिनस्त्य् आत्मसुखेच्छया
स जीवांश् च मृतश् चैव न क्व चित् सुखम् एधते ॥
यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति
स सर्वस्य हितप्रेप्सुः सुखम् अत्यन्तम् अश्नुते ॥
यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च
तद् अवाप्नोत्य् अयत्नेन यो हिनस्ति न किं चन ॥
नाकृत्वा प्राणिनां हिंसां मांसम् उत्पद्यते क्व चित्
न च प्राणिवधः स्वर्ग्यस् तस्मान् मांसं विवर्जयेत् ॥
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम्
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥
न भक्षयति यो मांसं विधिं हित्वा पिशाचवत्
न लोके प्रियतां याति व्याधिभिश् च न पीड्यते ॥
अनुमन्ता विशसिता निहन्ता क्रयविक्रयी
संस्कर्ता चोपहर्ता च खादकश् चेति घातकाः ॥
स्वमांसं परमांसेन यो वर्धयितुम् इच्छति
अनभ्यर्च्य पितॄन् देवांस् ततो ऽन्यो नास्त्य् अपुण्यकृत् ॥
वर्षे वर्षे ऽश्वमेधेन यो यजेत शतं समाः
मांसानि च न खादेद् यस् तयोः पुण्यफलं समम् ॥
फलमूलाशनैर् मेध्यैर् मुन्यन्नानां च भोजनैः
न तत् फलम् अवाप्नोति यन् मांसपरिवर्जनात् ॥
मां स भक्षयितामुत्र यस्य मांसम् इहाद्म्य् अहम्
एतन् मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥
न मांसभक्षणे दोषो न मद्ये न च मैथुने
प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥
प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च
चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः ॥
दन्तजाते ऽनुजाते च कृतचूडे च संस्थिते
अशुद्धा बान्धवाः सर्वे सूतके च तथोच्यते ॥
दशाहं शावम् आशौचं सपिण्डेषु विधीयते
अर्वाक् संचयनाद् अस्थ्नां त्र्यहम् एकाहम् एव वा ॥
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते
समानोदकभावस् तु जन्मनाम्नोर् अवेदने ॥
यथेदं शावम् आशौचं सपिण्डेषु विधीयते
जनने ऽप्य् एवम् एव स्यान् निपुणं शुद्धिम् इच्छताम् ॥
सर्वेषां शावम् आशौचं जनने ऽप्य् एवम् एव स्यान् मातापित्रोस् तु सूतकम्
सूतकं मातुर् एव स्याद् उपस्पृश्य पिता शुचिः ॥
निरस्य तु पुमाञ् शुक्रम् उपस्पृस्यैव शुध्यति
बैजिकाद् अभिसंबन्धाद् अनुरुन्ध्याद् अघं त्र्यहम् ॥
अह्ना चैकेन रात्र्या च त्रिरात्रैर् एव च त्रिभिः
शवस्पृशो विशुध्यन्ति त्र्यहाद् उदकदायिनः ॥
गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समाचरन्
प्रेतहारैः प्रेताहारैः समं तत्र दशरात्रेण शुध्यति ॥
रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति
रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥
नृणाम् अकृतचूडानां विशुद्धिर् नैशिकी स्मृता
निर्वृत्त चूडकानां मुण्डकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥
ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः
अलंकृत्य शुचौ भूमाव् अस्थिसंचयनाद् ऋते ॥
नास्य कार्यो ऽग्निसंस्कारो न च कार्योदकक्रिया
अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुस् त्र्यहम् एव तु क्षपेत त्र्यहम् एव च ॥
नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया
जातदन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ॥
सब्रह्मचारिण्य् एकाहम् अतीते क्षपणं स्मृतम्
जन्मन्य् एकोदकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥
स्त्रीणाम् असंस्कृतानां तु त्र्यहाच् छुध्यन्ति बान्धवाः
यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥
अक्षारलवणान्नाः स्युर् निमज्जेयुश् च ते त्र्यहम्
मांसाशनं च नाश्नीयुः शयीरंश् च पृथक् क्षितौ ॥
संनिधाव् एष वै कल्पः शावाशौचस्य कीर्तितः
असंनिधाव् अयं ज्ञेयो विधिः संबन्धिबान्धवैः ॥
विगतं तु विदेशस्थं शृणुयाद् यो ह्य् अनिर्दशम्
यच् छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥
अतिक्रान्ते दशाहे च त्रिरात्रम् अशुचिर् भवेत्
संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥
निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च
सवासा जलम् आप्लुत्य शुद्धो भवति मानवः ॥
बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते
सवासा जलम् आप्लुत्य सद्य एव विशुध्यति ॥
अन्तर्दशाहे स्यातां चेत् चेत् स्यातां पुनर् मरणजन्मनी
तावत् स्याद् अशुचिर् विप्रो यावत् तत् स्याद् अनिर्दशम् ॥
त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति
तस्य पुत्रे च पत्न्यां च दिवारात्रम् इति स्थितिः ॥
श्रोत्रिये तूपसंपन्ने त्रिरात्रम् अशुचिर् भवेत्
मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥
प्रेते राजनि सज्योतिर् यस्य स्याद् विषये स्थितः
अश्रोत्रिये त्व् अहः कृत्स्नम् कृत्स्नाम् अनूचाने तथा गुरौ ॥
शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥
न वर्धयेद् अघाहानि प्रत्यूहेन् नाग्निषु क्रियाः
न च तत्कर्म कुर्वाणः सनाभ्यो ऽप्य् अशुचिर् भवेत् ॥
दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥
आचम्य प्रयतो नित्यं जपेद् अशुचिदर्शने
सौरान् मन्त्रान् यथोत्साहं पावमानीश् च शक्तितः ॥
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति
आचम्यैव तु निःस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा ॥
आदिष्टी नोदकं कुर्याद् आ व्रतस्य समापनात्
समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥
वृथासंकरजातानां प्रव्रज्यासु च तिष्ठताम्
आत्मनस् त्यागिनां चैव निवर्तेतोदकक्रिया ॥
पाषण्डम् आश्रितानां च चरन्तीनां च कामतः
गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥
आचार्यं स्वम् उपाध्यायं पितरं मातरं गुरुम्
निर्हृत्य तु व्रती प्रेतान् न व्रतेन वियुज्यते ॥
दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत्
पश्चिमोत्तरपूर्वैस् तु यथायोगं द्विजन्मनः ॥
न राज्ञाम् अघदोषो ऽस्ति व्रतिनां न च सत्त्रिणाम्
ऐन्द्रं स्थानम् उपासीना ब्रह्मभूता हि ते सदा ॥
राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते
प्रजानां परिरक्षार्थम् आसनं चात्र कारणम् ॥
डिम्भाहव डिम्बाहव हतानां च विद्युता पार्थिवेन च
गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ॥
सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर् यमस्य च
अष्टानां लोकपालानां वपुर् धारयते नृपः ॥
लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते
शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ ॥
उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महतस्य च
सद्यः संतिष्ठते यज्ञस् तथाशौचम् इति स्थितिः ॥
विप्रः शुध्यत्य् अपः स्पृष्ट्वा क्षत्रियो वाहनायुधम्
वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ॥
एतद् वो ऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः
असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥
असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत्
विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥
यद्य् अन्नम् अत्ति तेषां तु दशाहेनैव शुध्यति
अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ॥
अनुगम्येच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव च वा
स्नात्वा सचैलः सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥
न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत्
अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंस्पर्शदूषिता ॥
ज्ञानं तपो ऽग्निर् आहारो मृन् मनो वार्य् उपाञ्जनम्
वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ॥
सर्वेषाम् एव शौचानाम् अर्थशौचं परं स्मृतं
यो ऽर्थे शुचिर् हि स शुचिर् न मृद्वारिशुचिः शुचिः ॥
क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः
प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥
मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति
रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥
अद्भिर् गात्राणि शुध्यन्ति मनः सत्येन शुध्यति
विद्यातपोभ्यां भूतात्मा बुद्धिर् ज्ञानेन शुध्यति ॥
एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः
नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥
तैजसानां मणीनां च सर्वस्याश्ममयस्य च
भस्मनाद्भिर् मृदा चैव शुद्धिर् उक्ता मनीषिभिः ॥
निर्लेपं काञ्चनं भाण्डम् अद्भिर् एव विशुध्यति
अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥
अपाम् अग्नेश् च संयोगाद् धैमं रौप्यं च निर्बभौ
तस्मात् तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥
ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥
द्रवाणां चैव सर्वेषां शुद्धिर् उत्पवनं स्मृतम्
प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि
चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥
चरूणां स्रुक्स्रुवाणां च शुद्धिर् उष्णेन वारिणा
स्फ्यशूर्पशकटानां च मुसलोलूखलस्य च ॥
अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्यवाससाम्
प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥
चैलवच् चर्मणां शुद्धिर् वैदलानां तथैव च
शाकमूलफलानां च तु धान्यवच् छुद्धिर् इष्यते ॥
कौशेयाविकयोर् ऊषैः कुतपानाम् अरिष्टकैः
श्रीफलैर् अंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥
क्षौमवच् छङ्खशृङ्गाणाम् अस्थिदन्तमयस्य च
शुद्धिर् विजानता कार्या गोमूत्रेणोदकेन वा ॥
प्रोक्षणात् तृणकाष्ठं च पलालं चैव शुध्यति
मार्जनोपाञ्जनैर् वेश्म पुनःपाकेन मृन्मयम् ॥
मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैह् पूयशोणितैः
संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम् ॥
संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च
गवां च परिवासेन भूमिः शुध्यति पञ्चभिः ॥
पक्षिजग्धं गवा घ्रातम् अवधूतम् अवक्षुतम्
दूषितं केशकीटैश् च मृत्प्रक्षेपेण शुध्यति ॥
यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः
तावन् मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥
त्रीणि देवाः पवित्राणि ब्राह्मणानाम् अकल्पयन्
अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा प्रशस्यते ॥
आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर् भवेत्
अव्याप्ताश् चेद् अमेध्येन गन्धवर्णरसान्विताः ॥
नित्यं शुद्धः कारुहस्तः पण्ये पण्यं यच् च प्रसारितम्
ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यम् इति स्थितिः ॥
नित्यम् आस्यं शुचि स्त्रीणां शकुनिः फलपातने
प्रस्रवे च शुचिर् वत्सः श्वा मृगग्रहणे शुचिः ॥
श्वभिर् हतस्य यन् मांसं शुचि तन् मनुर् अब्रवीत्
क्रव्याद्भिश् च हतस्यान्यैश् चण्डालाद्यैश् च दस्युभिः ॥
ऊर्ध्वं नाभेर् यानि खानि तानि मेध्यानि सर्वशः
यान्य् अधस् तान्य् अमेध्यानि देहाच् चैव मलाश् च्युताः ॥
मक्षिका विप्रुषश् छाया गौर् अश्वः सूर्यरश्मयः
रजो भूर् वायुर् अग्निश् च स्पर्शे मेध्यानि निर्दिशेत् ॥
विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्य् आदेयम् अर्थवत्
दैहिकानां मलानां च शुद्धिषु द्वादशस्व् अपि ॥
वसा शुक्रम् असृङ् मज्जा मूत्रविट् घ्राणकर्णविट्
श्लेश्म अश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥
एका लिङ्गे गुदे तिस्रस् तथैकत्र करे दश
उभयोः सप्त दातव्या मृदः शुद्धिम् अभीप्सता ॥
एतच् छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्
त्रिगुणं स्याद् वनस्थानां यतीनां तु चतुर्गुणम् ॥
कृत्वा मूत्रं पुरीषं वा खान्य् आचान्त उपस्पृशेत्
वेदम् अध्येष्यमाणश् च अन्नम् अश्नंश् च सर्वदा ॥
त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम्
शरीरं शौचम् इच्छन् हि स्त्री शूद्रस् तु सकृत् सकृत् ॥
शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम्
वैश्यवच् छौचकल्पश् च द्विजोच्छिष्टं च भोजनम् ॥
नोच्छिष्टं कुर्वते मुख्या विप्रुषो ऽङ्गं न यान्ति याः
न श्मश्रूणि गतान्य् आस्यं न दन्तान्तरधिष्ठितम् ॥
स्पृशन्ति बिन्दवः पादौ य आचामयतः परान्
भौमिकैस् ते समा ज्ञेया न तैर् आप्रयतो अप्रयतो भवेत् ॥
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन
अनिधायैव तद् द्रव्यम् आचान्तः शुचिताम् इयात् ॥
वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत्
आचामेद् एव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥
सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च
पीत्वापो ऽध्येष्यमाणश् च आचामेत् प्रयतो ऽपि सन् ॥
एषां एष शौचविधिः कृत्स्नो द्रव्यशुद्धिस् तथैव च
उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान् निबोधत ॥
बालया वा युवत्या वा वृद्धया वापि योषिता
न स्वातन्त्र्येण कर्तव्यं किं चिद् कार्यं गृहेष्व् अपि ॥
बाल्ये पितुर् वशे तिष्ठेत् पाणिग्राहस्य यौवने
पुत्राणां भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् ॥
पित्रा भर्त्रा सुतैर् वापि नेच्छेद् विरहम् आत्मनः
एषां हि विरहेण स्त्री गर्ह्ये कुर्याद् उभे कुले ॥
सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥
यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः
तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥
मङ्गलार्थं स्वस्त्ययनं यज्ञश् चासां प्रजापतेः
प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ॥
अनृताव् ऋतुकाले च मन्त्रसंस्कारकृत् पतिः
सुखस्य नित्यं दातेह परलोके च योषितः ॥
विशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः
उपचार्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥
नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्य् उपोषणम् उपोषितम्
पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥
पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा
पतिलोकम् अभीप्सन्ती नाचरेत् किं चिद् अप्रियम् ॥
कामं तु क्सपयेद् देहं पुष्पमूलफलैः शुभैः
न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥
आसीता मरणात् क्सान्ता नियता ब्रह्मचारिणी
यो धर्म एकपत्नीनां काङ्क्षन्ती तम् अनुत्तमम् ॥
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम्
दिवं गतानि विप्राणाम् अकृत्वा कुलसंततिम् ॥
मृते भर्तरि साढ्वी स्त्री ब्रह्मचर्ये व्यवस्थिता
स्वर्गं गच्छत्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥
अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते
सेह निन्दाम् अवाप्नोति परलोकाच् च हीयते ॥
नान्योत्पन्ना प्रजास्तीह न चाप्य् अन्यपरिग्रहे न चान्यस्य परिग्रहे
न द्वितीयश् च साध्वीनां क्व चिद् भर्तोपदिश्यते ॥
पतिं हित्वापकृष्टं हित्वावकृष्टं स्वम् उत्कृष्टं या निषेवते
निन्द्यैव सा भवेल् लोके परपूर्वेति चोच्यते ॥
व्यभिचारात् व्यभिचारे तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम्
शृगालयोनिं प्राप्नोति पापरोगैश् च पीड्यते ॥
पतिं या नाभिचरति मनोवाग्देह संयुता संयता
सा भर्तृलोकम् आप्नोति सद्भिः साध्वीति चोच्यते ॥
अनेन नारी वृत्तेन मनोवाग्देहसंयता
इहाग्र्यां कीर्तिम् आप्नोति पतिलोकं परत्र च ॥
एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम्
दाहयेद् अग्निहोत्रेण यज्ञपात्रैश् च धर्मवित् ॥
भार्यायै पूर्वमारिण्यै दत्त्वाग्नीन् अन्त्यकर्मणि
पुनर् दारक्रियां कुर्यात् पुनर् आधानम् एव च ॥
अनेन विधिना नित्यं पञ्चयज्ञान् न हापयेत्
द्वितीयम् आयुषो भागं कृतदारो गृहे वसेत् ॥
मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0