भाषा

ENहिગુ
ग्रंथ पाठ

मनुस्मृति · अध्याय 4

4.1

चतुर्थम् आयुषो भागम् उषित्वाद्यं गुरौ द्विजाः
द्वितीयम् आयुषो भागं कृतदारो गृहे वसेत् ॥

4.2

अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः
या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ॥

4.3

यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिर् अगर्हितैः
अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ॥

4.4

ऋतामृताभ्यां जीवेत् तु मृतेन प्रमृतेन वा
सत्यानृताभ्याम् अपि वा न श्ववृत्त्या कदा चन ॥

4.5

ऋतम् उञ्छशिलं ज्ञेयम् अमृतं स्याद् अयाचितम्
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥

4.6

सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते
सेवा श्ववृत्तिर् आख्याता तस्मात् तां परिवर्जयेत् ॥

4.7

कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा
त्र्यहैहिको वापि भवेद् अश्वस्तनिक एव वा ॥

4.8

चतुर्णाम् अपि चैतेषां द्विजानां गृहमेधिनाम्
ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥

4.9

षट्कर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते
द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्त्रेण जीवति ॥

4.10

वर्तयंश् च शिलोञ्छाभ्याम् अग्निहोत्रपरायणः
इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥

4.11

न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन
अजिह्माम् अशथां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥

4.12

संतोषं परम् आस्थाय सुखार्थी संयतो भवेत्
संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥

4.13

अतो ऽन्यतमया वृत्त्या जीवंस् तु स्नातको द्विजः
स्वर्गायुष्य स्वर्ग्यायुष्य यशस्यानि व्रताणीमानि धारयेत् ॥

4.14

वेदोदितं स्वकं कर्म नित्यं कुर्याद् अतन्द्रितः
तद् धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥

4.15

नेहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा
न विद्यमानेष्व् कल्पमानेष्व् अर्थेषु नार्त्याम् अपि यतस् ततः ॥

4.16

इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥

4.17

सर्वान् परित्यजेद् अर्थान् स्वाध्यायस्य विरोधिनः
यथा तथाध्यापयंस् तु सा ह्य् अस्य कृतकृत्यता ॥

4.18

वयसः कर्मणो ऽर्थस्य श्रुतस्याभिजनस्य च
वेषवाग्बुद्धिसारूप्यम् आचरन् विचरेद् इह ॥

4.19

बुद्धिवृद्धिकराण्य् आशु धन्यानि च हितानि च
नित्यं शास्त्राण्य् अवेक्षेत निगमांश् चैव वैदिकान् ॥

4.20

यथा यथा हि पुरुषः शास्त्रं समधिगच्छति
तथा तथा विजानाति विज्ञानं चास्य रोचते ॥

4.21

ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा
नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥

4.22

एतान् एके महायज्ञान् यज्ञशास्त्रविदो जनाः
अनीहमानाः सततम् इन्द्रियेष्व् एव जुह्वति ॥

4.23

वाच्य् एके जुह्वति प्राणं प्राणे वाचं च सर्वदा
वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिम् अक्षयाम् ॥

4.24

ज्ञानेनैवापरे विप्रा यजन्त्य् एतैर् यजन्ते तैर् मखैः सदा
ज्ञानमूलां क्रियाम् एषां पश्यन्तो ज्ञानचक्षुषा ॥

4.25

अग्निहोत्रं च जुहुयाद् आद्यन्ते द्युनिशोः सदा
दर्शेन चार्धमासान्ते पौर्णामासेन चैव हि ॥

4.26

सस्यान्ते नवसस्येष्ट्या तथा र्त्वन्ते द्विजो ऽध्वरैः
पशुना त्व् अयनस्यादौ अयनान्ते तु समान्ते सौमिकैर् मखैः ॥

4.27

नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः
नवान्नम् अद्यान् मांसं वा दीर्घम् आयुर् जिजीविषुः ॥

4.28

नवेनानर्चिता ह्य् अस्य पशुहव्येन चाग्नयः
प्राणान् एवात्तुम् इच्छन्ति नवान्नामिषगर्धिनः ॥

4.29

आसनाशनशय्याभिर् अद्भिर् मूलफलेन वा
नास्य कश् चिद् वसेद् गेहे शक्तितो ऽनर्चितो ऽतिथिः ॥

4.30

पाषाण्डिनो विकर्मस्थान् बैडालव्रतिकाञ् शठान्
हैतुकान् बकवृत्तींश् च वाङ्गात्रेणापि नार्चयेत् ॥

4.31

वेदविद्याव्रतस्नाताञ् श्रोत्रियान् गृहमेधिनः
पूजयेद् धव्यकव्येन विपरीतांश् च वर्जयेत् ॥

4.32

शक्तितो ऽपचमानेभ्यो दातव्यं गृहमेधिना
संविभागश् च भूतेभ्यः कर्तव्यो ऽनुपरोधतः ॥

4.33

राजतो धनम् अन्विच्छेत् संसीदन् स्नातकः क्षुधा
याज्यान्तेवासिनोर् वापि न त्व् अन्यत इति स्थितिः ॥

4.34

न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथं चन
न जीर्णमलवद्वासा भवेच् च विभवे सति ॥

4.35

कॢप्तकेशनखश्मश्रुर् दान्तः शुक्लाम्बरः शुचिः
स्वाध्याये चैव युक्तः स्यान् नित्यम् आत्महितेषु च ॥

4.36

वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम्
यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ॥

4.37

नेक्षेतोद्यन्तम् आदित्यं नास्तं यान्तं कदा चन
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥

4.38

न लङ्घयेद् वत्सतन्त्रीं न प्रधावेच् च वर्षति
न चोदके निरीक्षेत स्वरूपम् इति धारणा ॥

4.39

मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम्
प्रदक्षिणानि कुर्वीत प्रज्ञातांश् च वनस्पतीन् ॥

4.40

नोपगच्छेत् प्रमत्तो ऽपि स्त्रियम् आर्तवदर्शने
समानशयने चैव न शयीत तया सह ॥

4.41

रजसाभिप्लुतां नारीं नरस्य ह्य् उपगच्छतः
प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रहीयते ॥

4.42

तां विवर्जयतस् तस्य रजसा समभिप्लुताम्
प्रज्ञा तेजो बलं चक्षुर् आयुश् चैव प्रवर्धते ॥

4.43

नाश्नीयाद् भार्यया सार्धं नैनाम् ईक्षेत चाश्नतीम्
क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥

4.44

नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्ताम् अनावृताम्
न पश्येत् प्रसवन्तीं च तेजस्कामो द्विजोत्तमः ॥

4.45

नान्नम् अद्याद् एकवासा न नग्नः स्नानम् आचरेत्
न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ॥

4.46

न फालकृष्टे न जले न चित्यां न च पर्वते
न जीर्णदेवायतने न वल्मीके कदा चन ॥

4.47

न ससत्त्वेषु गर्तेषु न गच्छन्न् अपि न स्थितः
न नदीतीरम् आसाद्य न च पर्वतमस्तके ॥

4.48

वाय्वग्निविप्रम् आदित्यम् अपः पश्यंस् तथैव गाः
न कदा चन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥

4.49

तिरस्कृत्योच्चरेत् काष्ठ लोष्ठपत्र तृणादिना तृणादि च
नियम्य प्रयतो वाचं संवीताङ्गो ऽवगुण्ठितः ॥

4.50

मूत्रोच्चारसमुत्सर्गं दिवा कुर्याद् उदङ्मुखः
दक्षिणाभिमुखो रात्रौ संध्यायोश् च यथा दिवा ॥

4.51

छायायाम् अन्धकारे वा रात्राव् अहनि वा द्विजः
यथासुखमुखः कुर्यात् प्राणबाधभयेषु च ॥

4.52

प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम्
प्रतिगु प्रतिगां प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥

4.53

नाग्निं मुखेनोपधमेन् नग्नां नेक्षेत च स्त्रियम्
नामेध्यं प्रक्षिपेद् अग्नौ न च पादौ प्रतापयेत् ॥

4.54

अधस्तान् नोपदध्याच् च न चैनम् अभिलङ्घयेत्
न चैनं पादतः कुर्यान् न प्राणाबाधम् आचरेत् ॥

4.55

नाश्नीयात् संधिवेलायां न गच्छेन् नापि संविशेत्
न चैव प्रलिखेद् भूमिं नात्मनो ऽपहरेत् स्रजम् ॥

4.56

नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत्
अमेध्यलिप्तम् अन्यद् वा लोहितं वा विषाणि वा ॥

4.57

नैकः सुप्याच् छून्यगेहे शून्यगृहे स्वप्यान् न श्रेयांसं प्रबोधयेत्
नोदक्ययाभिभाषेत यज्ञं गच्छेन् न चावृतः ॥

4.58

अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ
स्वाध्याये भोजने चैव दक्षिनं पाणिम् उद्धरेत् ॥

4.59

न वारयेद् गां धयन्तीं न चाचक्षीत कस्य चित्
न दिवीन्द्रायुधं दृष्ट्वा कस्य चिद् दर्शयेद् बुधः ॥

4.60

नाधर्मिके वसेद् ग्रामे न व्याधिबहुले भृशम्
नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥

4.61

न शूद्रराज्ये निवसेन् नाधार्मिकजनावृते
न पाषण्डिगणाक्रान्ते नोपस्षृटे ऽन्त्यजैर् नृभिः ॥

4.62

न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यम् आचरेत्
नातिप्रगे नातिसायं न सायं प्रातराशितः ॥

4.63

न कुर्वीत वृथाचेष्टां न वार्य् अञ्जलिना पिबेत्
नोत्सङ्गे भक्षयेद् भक्ष्यान् न जातु स्यात् कुतूहली ॥

4.64

न नृत्येद् अथ वा गायेन् नृत्येन् नैव गायेच् च न वादित्राणि नवादित्राणि वादयेत्
नास्फोटयेन् न च क्ष्वेडेन् न च रक्तो विरावयेत् विरोधयेत् ॥

4.65

न पादौ धावयेत् कांस्ये कदा चिद् अपि भाजने
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥

4.66

उपानहौ च वासश् च धृतम् अन्यैर् न धारयेत्
उपवीतम् अलङ्कारं स्रजं करकम् एव च ॥

4.67

नाविनीतैर् भजेद् व्रजेद् धुर्यैर् न च क्षुध्व्याधिपीडितैः
न भिन्नशृङ्गाक्षिखुरैर् न वालधिविरूपितैः ॥

4.68

विनीतैस् तु व्रजेन् नित्यम् आशुगैर् लक्षणान्वितैः
वर्णरूपोपसंपन्नैः प्रतोदेनातुदन् प्रतोदेनाक्षिपन् भृशम् ॥

4.69

बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम्
न छिन्द्यान् नखरोमाणि दन्तैर् नोत्पाटयेन् नखान् ॥

4.70

न मृल्लोष्ठं च मृद्नीयान् न छिन्द्यात् करजैस् तृणम्
न कर्म निष्फलं कुर्यान् नायत्याम् असुखोदयम् ॥

4.71

लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः
स विनाशं व्रजत्य् आशु सूचकाशुचिर् सूचको ऽशुचिर् एव च ॥

4.72

न विगर्ह्य विगृह्य कथां कुर्याद् बहिर् माल्यं न धारयेत्
गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥

4.73

अद्वारेण च नातीयाद् ग्रामं वा वेश्म वावृतम्
रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥

4.74

नाक्षैर् दीव्येत् कदा चित् तु स्वयं नोपानहौ हरेत्
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥

4.75

सर्वं च तिलसंबद्धं नाद्याद् अस्तम् इते रवौ
न च नग्नः शयीतेह न चोच्छिष्टः क्व चिद् व्रजेत् ॥

4.76

आर्द्रपादस् तु भुञ्जीत नार्द्रपादस् तु संविशेत्
आर्द्रपादस् तु भुञ्जानो दीर्घम् आयुर् अवाप्नुयात् ॥

4.77

अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हि चित्
न विण्मूत्रम् उदीक्षेत न बाहुभ्यां नदीं तरेत् ॥

4.78

अधितिष्ठेन् न केशांस् तु न भस्मास्थिकपालिकाः
न कार्पासास्थि न तुषान् दीर्घम् आयुर् जिजीविषुः ॥

4.79

न संवसेच् च पतितैर् न चाण्डालैर् न पुल्कसैः
न मूर्खैर् नावलिप्तैश् च नान्त्यैर् नान्त्यावसायिभिः ॥

4.80

न शूद्राय मतिं दद्यान् नोच्छिष्टं न हविष्कृतम्
न चास्योपदिशेद् धर्मं न चास्य व्रतम् आदिशेत् ॥

4.81

यो ह्य् अस्य धर्मम् आचष्टे यश् चैवादिशति व्रतम्
सो ऽसंवृतं नाम तमः सह तेनैव मज्जति ॥

4.82

न संहताभ्यां पाणिभ्यां कण्डूयेद् आत्मनः शिरः
न स्पृशेच् चैतद् उच्छिष्टो न च स्नायाद् विना ततः ॥

4.83

केशग्रहान् प्रहारांश् च शिरस्य् एतान् विवर्जयेत्
शिरःस्नातश् च तैलेन नाङ्गं किं चिद् अपि स्पृशेत् ॥

4.84

न राज्ञः प्रतिगृह्णीयाद् अराजन्यप्रसूतितः
सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥

4.85

दशसूनासमं चक्रं दशचक्रसमो ध्वजः
दशध्वजसमो वेशो दशवेशसमो नृपः ॥

4.86

दश सूणासहस्राणि यो वाहयति सौनिकः
तेन तुल्यः स्मृतो राजा घोरस् तस्य प्रतिग्रहः ॥

4.87

यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः
स पर्यायेण यातीमान् नरकान् एकविंशतिम् ॥

4.88

तामिस्रम् अन्धतामिस्रं महारौरवरौरवौ
नरकं कालसूत्रं च महानरकम् एव च ॥

4.89

संजीवनं महावीचिं तपनं संप्रतापनम्
संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम् पूतिमृत्तिकम् ॥

4.90

लोहशङ्कुम् ऋजीषं च पन्थानं शाल्मलीं नदीम्
असिपत्रवनं चैव लोहदारकम् एव च ॥

4.91

एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयो ऽभिकाङ्क्षिणः ॥

4.92

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत्
कायक्लेशांश् च तन्मूलान् वेदतत्त्वार्थम् एव च ॥

4.93

उत्थायावश्यकं कृत्वा कृतशौचः समाहितः
पूर्वां संध्यां जपंस् तिष्ठेत् स्वकाले चापरां चिरम् ॥

4.94

ऋषयो दीर्घसंध्यत्वाद् दीर्घम् आयुर् अवाप्नुयुः
प्रज्ञां यशश् च कीर्तिं च ब्रह्मवर्चसम् एव च ॥

4.95

श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि
युक्तश् छन्दांस्य् अधीयीत मासान् विप्रो ऽर्धपञ्चमान् ॥

4.96

पुष्ये तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ऽहनि ॥

4.97

यथाशास्त्रं तु कृत्वैवम् उत्सर्गं छन्दसां बहिः
विरमेत् पक्षिणीं रात्रिं तद् एवैकम् अहर्निशम् ॥

4.98

अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत्
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥

4.99

नाविस्पष्टम् अधीयीत न शूद्रजनसन्निधौ
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥

4.100

यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत्
ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्य् अनापदि ॥

4.101

इमान् नित्यम् अनध्यायान् अधीयानो विवर्जयेत्
अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥

4.102

कर्णश्रवे ऽनिले रात्रौ दिवा पांसुसमूहने
एतौ वर्षास्व् अनध्यायाव् अध्यायज्ञाः प्रचक्षते ॥

4.103

विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे
आकालिकम् अनध्यायम् एतेषु मनुर् अब्रवीत् ॥

4.104

एतांस् त्व् अभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु
तदा विद्याद् अनध्यायम् अनृतौ चाभ्रदर्शने ॥

4.105

निर्घाते भूमिचलने ज्योतिषां चोपसर्जने
एतान् आकालिकान् विद्याद् अनध्यायान् ऋताव् अपि ॥

4.106

प्रादुष्कृतेष्व् अग्निषु तु विद्युत्स्तनितनिःस्वने
सज्योतिः स्याद् अनध्यायः शेषे रात्रौ यथा दिवा ॥

4.107

नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च
धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा सर्वशः ॥

4.108

अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ
अनध्यायो रुद्यमाने समवाये जनस्य च ॥

4.109

उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने
उच्छिष्टः श्राद्धभुक् चैव मनसापि न चिन्तयेत् ॥

4.110

प्रतिगृह्य द्विजो विद्वान् एकोद्दिष्टस्य केतनम् एकोद्दिष्टनिकेतनम्
त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश् च सूतके ॥

4.111

यावद् एकानुदिष्टस्य गन्धो लेपश् च तिष्ठति
विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ॥

4.112

शयानः प्रौढपादश् च कृत्वा चैवावसक्थिकाम्
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यम् एव च ॥

4.113

नीहारे बाणशब्दे च संध्ययोर् एव चोभयोः
अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ॥

4.114

अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी
ब्रह्माष्टकपौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ॥

4.115

पांसुवर्षे दिशां दाहे गोमायुविरुते तथा
श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद् द्विजः ॥

4.116

नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजे ऽपि वा
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥

4.117

प्राणि वा यदि वाप्राणि यत् किं चिच् छ्राद्धिकं भवेत्
तद् आलभ्याप्य् अनध्यायः पाण्यास्यो हि द्विजः स्मृतः ॥

4.118

चोरैर् उपद्रुते चौरैर् उपप्लुते ग्रामे संभ्रमे चाग्निकारिते
आकालिकम् अनध्यायं विद्यात् सर्वाद्भुतेषु च ॥

4.119

उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम्
अष्टकासु त्व् अहोरात्रम् ऋत्वन्तासु च रात्रिषु ॥

4.120

नाधीयीताश्वम् आरूढो न वृक्षं न च हस्तिनम्
न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः ॥

4.121

न विवादे न कलहे न सेनायां न संगरे
न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥

4.122

अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम्
रुधिरे च स्रुते गात्राच् छस्त्रेण च परिक्षते ॥

4.123

सामध्वनाव् ऋग्यजुषी नाधीयीत कदा चन
वेदस्याधीत्य वाप्य् अन्तम् आरण्यकम् अधीत्य च ॥

4.124

ऋग्वेदो देवदैवत्यो यजुर्वेदस् तु मानुषः
सामवेदः स्मृतः पित्र्यस् तस्मात् तस्याशुचिर् ध्वनिः ॥

4.125

एतद् विद्वन्तो विद्वांसस् त्रयीनिष्कर्षम् अन्वहम्
क्रमतः पूर्वम् अभ्यस्य पश्चाद् वेदम् अधीयते ॥

4.126

पशुमण्डूकमार्जार श्वसर्पनकुलाखुभिः
अन्तरागमने विद्याद् अनध्यायम् अहर्निशम् ॥

4.127

द्वाव् एव वर्जयेन् नित्यम् अनध्यायौ प्रयत्नतः
स्वाध्यायभूमिं चाशुद्धम् आत्मानं चाशुचिं द्विजः ॥

4.128

अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम्
ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥

4.129

न स्नानम् आचरेद् भुक्त्वा नातुरो न महानिशि
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥

4.130

देवतानां गुरो राज्ञः स्नातकाचार्ययोस् तथा
नाक्रामेत् कामतश् छायां बभ्रुणो दीक्षितस्य च ॥

4.131

मध्यंदिने ऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम्
संध्ययोर् उभयोश् चैव न सेवेत चतुष्पथम् ॥

4.132

उद्वर्तनम् अपस्नानं विण्मूत्रे रक्तम् एव च
श्लेश्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत् तु कामतः ॥

4.133

वैरिणं नोपसेवेत सहायं चैव वैरिणः
अधार्मिकं तस्करं च परस्यैव च योषितं ॥

4.134

न हीदृशम् अनायुष्यं लोके किं चन विद्यते
यादृशं पुरुषस्येह परदारोपसेवनम् ॥

4.135

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम्
नावमन्येत वै भूष्णुः कृशान् अपि कदा चन ॥

4.136

एतत् त्रयं हि पुरुषं निर्दहेद् अवमानितम्
तस्माद् एतत् त्रयं नित्यं नावमन्येत बुद्धिमान् ॥

4.137

नात्मानम् अवमन्येत पुर्वाभिर् असमृद्धिभिः
आ मृत्योः श्रियम् अन्विच्छेन् नैनां मन्येत दुर्लभाम् ॥

4.138

सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम्
प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥

4.139

भद्रं भद्रम् इति ब्रूयाद् भद्रम् इत्य् एव वा वदेत्
शुष्कवैरं विवादं च न कुर्यात् केन चित् सह ॥

4.140

नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते
नाज्ञातेन समं गच्छेन् नैको न वृषलैः सह ॥

4.141

हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् वयोऽअतिगान्
रूप द्रविण द्रव्य हीनांश् च जातिहीनांश् च नाक्षिपेत् ॥

4.142

न स्पृशेत् पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलाण्
न चापि पश्येद् अशुचिः सुस्थो स्वस्थो ज्योतिर्गणान् दिवा दिवि ॥

4.143

स्पृष्ट्वैतान् अशुचिर् नित्यम् अद्भिः प्राणान् उपस्पृशेत्
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥

4.144

अनातुरः स्वानि खानि न स्पृशेद् अनिमित्ततः
रोमाणि च रहस्यानि सर्वाण्य् एव विवर्जयेत् ॥

4.145

मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः
जपेच् च जुहुयाच् चैव नित्यम् अग्निम् अतन्द्रितः ॥

4.146

मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम्
जपतां जुह्वतां चैव विनिपातो न विद्यते ॥

4.147

वेदम् एवाभ्यसेन् एव जपेन् नित्यं यथाकालम् अतन्द्रितः
तं ह्य् अस्याहुः परं धर्मम् उपधर्मो ऽन्य उच्यते ॥

4.148

वेदाभ्यासेन सततं शौचेन तपसैव च
अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥

4.149

पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते पुनः द्विजः
ब्रह्माभ्यासेन चाजस्रम् अनन्तं सुखम् अश्नुते ॥

4.150

सावित्राञ् शान्तिहोमांश् च कुर्यात् पर्वसु नित्यशः
पितॄंश् चैवाष्टकास्व् अर्चेन् नित्यम् अन्वष्टकासु च ॥

4.151

दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम्
उच्छिष्टान्ननिषेकं च दूराद् एव समाचरेत् ॥

4.152

मैत्रं प्रसाधनं स्नानं दन्तधावनम् अञ्जनम्
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥

4.153

दैवतान्य् अभिगच्छेत् तु धार्मिकांश् च द्विजोत्तमान्
ईश्वरं चैव रक्षार्थं गुरून् एव च पर्वसु ॥

4.154

अभिवादयेद् वृद्धांश् च दद्याच् चैवासनं स्वकम्
कृताञ्जलिर् उपासीत गच्छतः पृष्ठतो ऽन्वियात् ॥

4.155

श्रुतिस्मृत्युदितं सम्यङ् निबद्धं स्वेषु कर्मसु
धर्ममूलं निषेवेत सदाचारम् अतन्द्रितः ॥

4.156

आचाराल् लभते ह्य् आयुर् आचाराद् ईप्सिताः प्रजाः
आचाराद् धनम् अक्षय्यम् आचारो हन्त्य् अलक्षणम् ॥

4.157

दुराचारो हि पुरुषो लोके भवति निन्दितः
दुःखभागी च सततं व्याधितो ऽल्पायुर् एव च ॥

4.158

सर्वलक्षणहीनो ऽपि यः सदाचारवान् नरः
श्रद्दधानो ऽनसूयश् च शतं वर्षाणि जीवति ॥

4.159

यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत्
यद् यद् आत्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ॥

4.160

सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम्
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥

4.161

यत् कर्म कुर्वतो ऽस्य स्यात् परितोषो ऽन्तरात्मनः
तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥

4.162

आचार्यं च प्रवक्तारं पितरं मातरं गुरुम्
न हिंस्याद् ब्राह्मणान् गाश् च सर्वांश् चैव तपस्विनः ॥

4.163

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्
द्वेषं दम्भं स्तम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥

4.164

परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत्
अन्यत्र पुत्राच् छिष्याद् वा शिष्ट्यर्थं ताडयेत् तु तौ ॥

4.165

ब्राह्मणायावगुर्यैव द्विजातिर् वधकाम्यया
शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥

4.166

ताडयित्वा तृणेनापि संरम्भान् मतिपूर्वकम्
एकविंशतीम् आजातीः पापयोनिषु जायते ॥

4.167

अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृग् अङ्गतः
दुःखं सुमहद् आप्नोति प्रेत्याप्राज्ञतया नरः ॥

4.168

शोणितं यावतः पांसून् संगृह्णाति महीतलात्
तावतो ऽब्दान् अमुत्रान्यैः शोणितोत्पादको ऽद्यते ॥

4.169

न कदा चिद् द्विजे तस्माद् विद्वान् अवगुरेद् अपि
न ताडयेत् तृणेनापि न गात्रात् स्रावयेद् असृक् ॥

4.170

अधार्मिको नरो यो हि यस्य चाप्य् अनृतं धनम्
हिंसारतश् हिंसारतिश् च यो नित्यं नेहासौ सुखम् एधते ॥

4.171

न सीदन्न् अपि धर्मेण मनो ऽधर्मे निवेशयेत्
अधार्मिकानां पापानाम् आशु पश्यन् विपर्ययम् ॥

4.172

नाधर्मश् चरितो लोके सद्यः फलति गौर् इव
शनैर् आवर्त्यमानस् तु कर्तुर् मूलानि कृन्तति ॥

4.173

यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु
न त्व् एव तु कृतो ऽधर्मः कृतो धर्मः कर्तुर् भवति निष्फलः ॥

4.174

अधर्मेणैधते तावत् ततो भद्राणि पश्यति
ततः सपत्नान् जयति समूलस् तु विनश्यति ॥

4.175

सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत् सदा
शिष्यांश् च शिष्याद् धर्मेण वाग्बाहूदरसंयतः ॥

4.176

परित्यजेद् अर्थकामौ यौ स्यातां धर्मवर्जितौ
धर्मं चाप्य् असुखोदर्कं लोकसंक्रुष्टम् एव च ॥

4.177

न पाणिपादचपलो न नेत्रचपलो ऽनृजुः
न स्याद् वाक्चपलश् चैव न परद्रोहकर्मधीः ॥

4.178

येनास्य पितरो याता येन याताः पितामहाः
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥

4.179

ऋत्विक्पुरोहिताचार्यैर् मातुलातिथिसंश्रितैः
बालवृद्धातुरैर् वैद्यैर् ज्ञातिसंबन्धिबान्धवैः ॥

4.180

मातापितृभ्यां जामीभिर् भ्रात्रा पुत्रेण भार्यया
दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥

4.181

एतैर् विवादान् संत्यज्य सर्वपापैः प्रमुच्यते
एतैर् जितैश् च जयति सर्वांल् लोकान् इमान् गृही ॥

4.182

आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः
अतिथिस् त्व् इन्द्रलोकेशो देवलोकस्य च र्त्विजः ॥

4.183

जामयो ऽप्सरसां लोके वैश्वदेवस्य बान्धवाः
संबन्धिनो ह्य् अपां लोके पृथिव्यां मातृमातुलौ ॥

4.184

आकाशेशास् तु विज्ञेया बालवृद्धकृशातुराः
भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥

4.185

छाया स्वो दासवर्गश् च दुहिता कृपणं परम्
तस्माद् एतैर् अधिक्षिप्तः सहेतासंज्वरः सदा ॥

4.186

प्रतिग्रहसमर्थो ऽपि प्रसङ्गं तत्र वर्जयेत्
प्रतिग्रहेण ह्य् अस्याशु ब्राह्मं तेजः प्रशाम्यति ॥

4.187

न द्रव्याणाम् अविज्ञाय विधिं धर्म्यं प्रतिग्रहे
प्राज्ञः प्रतिग्रहं कुर्याद् अवसीदन्न् अपि क्षुधा ॥

4.188

हिरण्यं भूमिम् अश्वं गाम् अन्नं वासस् तिलान् घृतम्
प्रतिगृह्णन्न् अविद्वांस् तु भस्मीभवति दारुवत् ॥

4.189

हिरण्यम् आयुर् अन्नं च भूर् गौश् चाप्य् ओषतस् तनुम्
अश्वश् चक्षुस् त्वचं वासो घृतं तेजस् तिलाह् प्रजाः ॥

4.190

अतपास् त्व् अनधीयानः प्रतिग्रहरुचिर् द्विजः
अम्भस्य् अश्मप्लवेनेव सह तेनैव मज्जति ॥

4.191

तस्माद् अविद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात्
स्वल्पकेनाप्य् अविद्वान् हि पङ्के गौर् इव सीदति ॥

4.192

न वार्य् अपि प्रयच्छेत् तु बैडालव्रतिके द्विजे
न बकव्रतिके पापे नावेदविदि धर्मवित् ॥

4.193

त्रिष्व् अप्य् एतेषु दत्तं हि विधिनाप्य् अर्जितं धनम्
दातुर् भवत्य् अनर्थाय परत्रादातुर् एव च ॥

4.194

यथा प्लवेनाउपलेन निमज्जत्य् उदके तरन्
तथा निमज्जतो ऽधस्ताद् अज्ञौ दातृप्रतीच्छकौ ॥

4.195

धर्मध्वजी सदा लुब्धश् छाद्मिको लोकदम्भकः
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥

4.196

अधोदृष्टिर् नैष्कृतिकः स्वार्थसाधनतत्परः
शठो मिथ्याविनीतश् च बकव्रतचरो द्विजः ॥

4.197

ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः
ते पतन्त्य् अन्धतामिस्रे तेन पापेन कर्मणा ॥

4.198

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत्
व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥

4.199

प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः
छद्मना चरितं यच् च व्रतं रक्षांसि गच्छति ॥

4.200

अलिङ्गी लिङ्गिवेषेण यो वृत्तिम् उपजीवति
स लिङ्गिनां हरत्य् एनस् तिर्यग्योनौ च जायते ॥

4.201

परकीयनिपानेषु न स्नायाद् धि स्नायाच् च कदा चन
निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥

4.202

यानशय्यासनान्य् अस्य कूपोद्यानगृहाणि च
अदत्तान्य् उपयुञ्जान एनसः स्यात् तुरीयभाक् ॥

4.203

नदीषु देवखातेषु तडागेषु सरःसु च
स्नानं समाचरेन् नित्यं गर्तप्रस्रवणेषु च ॥

4.204

यमान् सेवेत सततं न नित्यं नियमान् बुधः
यमान् पतत्य् अकुर्वाणो नियमान् केवलान् भजन् ॥

4.205

नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा
स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ॥

4.206

अश्लीकम् अश्लीलम् एतत् साधूनां यत्र जुह्वत्य् अमी हविः
प्रतीपम् एतद् देवानां तस्मात् तत् परिवर्जयेत् ॥

4.207

मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन
केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥

4.208

भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्य् उदक्यया
पतत्रिणावलीढं च शुना संस्पृष्टम् एव च ॥

4.209

गवा चान्नम् उपघ्रातं घुष्टान्नं च विशेषतः
गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥

4.210

स्तेनगायनयोश् चान्नं तक्ष्णो वार्धुषिकस्य च
दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥

4.211

अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च
शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टम् एव च ॥

4.212

चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः
उग्रान्नं सूतिकान्नं च पर्याचान्तम् अनिर्दशम् ॥

4.213

अनर्चितं वृथामांसम् अवीरायाश् च योषितः
द्विषदन्नं नगर्यन्नं पतितान्नम् अवक्षुतम् ॥

4.214

पिशुनानृतिनोश् चान्नं क्रतुविक्रयिणस् तथा क्रतुविक्रयकस्य च
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नम् एव च ॥

4.215

कर्मारस्य निषादस्य रङ्गावतारकस्य च
सुवर्णकर्तुर् वेणस्य शस्त्रविक्रयिणस् तथा ॥

4.216

श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च
रञ्जकस्य रजकस्य नृशंसस्य यस्य चोपपतिर् गृहे ॥

4.217

मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः
अनिर्दशं च प्रेतान्नम् अतुष्टिकरम् एव च ॥

4.218

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्
आयुः सुवर्णकारान्नं यशश् चर्मावकर्तिनः ॥

4.219

कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥

4.220

पूयं चिकित्सकस्यान्नं पुंश्चल्यास् त्व् अन्नम् इन्द्रियम्
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥

4.221

य एते ऽन्ये त्व् अभोज्यान्नाः क्रमशः परिकीर्तिताः
तेषां त्वगस्थिरोमाणि वदन्त्य् अन्नं मनीषिणः ॥

4.222

भुक्त्वातो ऽन्यतम् अस्यान्नम् अमत्या क्षपणं त्र्यहम्
मत्या भुक्त्वाचरेत् कृच्छ्रं रेतोविण्मूत्रम् एव च ॥

4.223

नाद्याच् छूद्रस्य पक्वान्नं विद्वान् अश्राद्धिनो द्विजः
आददीतामम् एवास्माद् अवृत्ताव् एकरात्रिकम् ॥

4.224

श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः
मीमांसित्वोभयं देवाः समम् अन्नम् अकल्पयन् ॥

4.225

तान् प्रजापतिर् आहैत्य मा कृध्वं विषमं समम्
श्रद्धापूतं वदान्यस्य हतम् अश्रद्धयेतरत् ॥

4.226

श्रद्धयेष्टं च पूर्तं च नित्यं कुर्याद् अतन्द्रितः
श्रद्धाकृते ह्य् अक्षये ते भवतः स्वागतैर् धनैः ॥

4.227

दानधर्मं निषेवेत नित्यम् ऐष्टिकपौर्तिकम्
परितुष्टेन भावेन पात्रम् आसाद्य शक्तितः ॥

4.228

यत् किं चिद् अपि दातव्यं याचितेन् आनसूयया आनसूयता?
उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥

4.229

वारिदस् तृप्तिम् आप्नोति सुखम् अक्षय्यम् अक्षयम् अन्नदः
तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥

4.230

भूमिदो भूमिम् आप्नोति दीर्घम् आयुर् हिरण्यदः
गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपम् उत्तमम् ॥

4.231

वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः
अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥

4.232

यानशय्याप्रदो भार्याम् ऐश्वर्यम् अभयप्रदः
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥

4.233

सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते
वार्यन्नगोमहीवासस् तिलकाञ्चनसर्पिषाम् ॥

4.234

येन येन तु भावेन यद् यद् दानं प्रयच्छति
तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥

4.235

यो ऽर्चितं प्रतिगृह्णाति ददात्य् अर्चितम् एव वा
ताव् उभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥

4.236

न विस्मयेत तपसा वदेद् इष्ट्वा च नानृतम्
नार्तो ऽप्य् अपवदेद् विप्रान् न दत्त्वा परिकीर्तयेत् ॥

4.237

यज्ञो ऽनृतेन क्षरति तपः क्षरति विस्मयात्
आयुर् विप्रापवादेन दानं च परिकीर्तनात् ॥

4.238

धर्मं शनैः संचिनुयाद् वल्मीकम् इव पुत्तिकाः
परलोकसहायार्थं सर्वभूतान्य् अपीडयन् ॥

4.239

नामुत्र हि सहायार्थं पिता माता च तिष्ठतः
न पुत्रदारं न ज्ञातिर् धर्मस् तिष्ठति केवलः ॥

4.240

एकः प्रजायते जन्तुर् एक एव प्रलीयते
एको ऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥

4.241

मृतं शरीरम् उत्सृज्य काष्ठलोष्टसमं क्षितौ
विमुखा बान्धवा यान्ति धर्मस् तम् अनुगच्छति ॥

4.242

तस्माद् धर्मं सहायार्थं नित्यं संचिनुयाच् छनैः
धर्मेण हि सहायेन तमस् तरति दुस्तरम् ॥

4.243

धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम्
परलोकं नयत्य् आशु भास्वन्तं खशरीरिणम् ॥

4.244

उत्तमैर् उत्तमैर् नित्यं संबन्धान् आचरेत् सह
निनीषुः कुलम् उत्कर्षम् अधमान् अधमांस् त्यजेत् ॥

4.245

उत्तमान् उत्तमान् एव गच्छन् हीनांस् तु वर्जयन्
ब्राह्मणः श्रेष्ठताम् एति प्रत्यवायेन शूद्रताम् ॥

4.246

दृढकारी मृदुर् दान्तः क्रूराचारैर् असंवसन्
अहिंस्रो दमदानाभ्यां जयेत् स्वर्गं तथाव्रतः ॥

4.247

एधोदकं मूलफलम् अन्नम् अभ्युद्यतं च यत्
सर्वतः प्रतिगृह्णीयान् मध्व् अथाभयदक्षिणाम् ॥

4.248

आहृताभ्युद्यतां भिक्षां पुरस्ताद् अप्रचोदिताम्
मेने प्रजापतिर् ग्राह्याम् अपि दुष्कृतकर्मणः ॥

4.249

नाश्नन्ति पितरस् तस्य दशवर्षाणि पञ्च च
न च हव्यं वहत्य् अग्निर् यस् ताम् अभ्यवमन्यते ॥

4.250

शय्यां गृहान् कुशान् गन्धान् अपः पुष्पं मणीन् दधि
धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥

4.251

गुरून् भृत्यांश् चोज्जिहीर्षन्न् अर्चिष्यन् देवतातिथीन्
सर्वतः प्रतिगृह्णीयान् न तु तृप्येत् स्वयं ततः ॥

4.252

गुरुषु त्व् अभ्यतीतेषु विना वा तैर् गृहे वसन्
आत्मनो वृत्तिम् अन्विच्छन् गृह्णीयात् साधुतः सदा ॥

4.253

आर्धिकः कुलमित्रं च गोपालो दासनापितौ
एते शूद्रेषु भोज्यान्ना याश् चात्मानं निवेदयेत् ॥

4.254

यादृशो ऽस्य भवेद् आत्मा यादृशं च चिकीर्षितम्
यथा चोपचरेद् एनं तथात्मानं निवेदयेत् ॥

4.255

यो ऽन्यथा सन्तम् आत्मानम् अन्यथा सत्सु भाषते
स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥

4.256

वाच्य् अर्था नियताः सर्वे वाङ्गूला वाग्विनिःसृताः
तांस् तु यः स्तेनयेद् वाचं स सर्वस्तेयकृन् नरः ॥

4.257

महर्षिपितृदेवानां गत्वानृण्यं यथाविधि
पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यम् आश्रितः आस्थितः ॥

4.258

एकाकी चिन्तयेन् नित्यं विविक्ते हितम् आत्मनः आत्मनि
एकाकी चिन्तयानो हि परं श्रेयो ऽधिगच्छति ॥

4.259

एषोदिता गृहस्थस्य वृत्तिर् विप्रस्य शाश्वती
स्नातकव्रतकल्पश् च सत्त्ववृद्धिकरः शुभः ॥

4.260

अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित्
व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥

मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc