मनुस्मृति · अध्याय 3
षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम्
तदर्धिकं पादिकं वा ग्रहणान्तिकम् एव वा ॥
वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम्
अविप्लुतब्रह्मचर्यो गृहस्थाश्रमम् आवसेत् ॥
तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः
स्रग्विणं तल्प आसीनम् अर्हयेत् प्रथमं गवा ॥
गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥
असपिण्डा च या मातुर् असगोत्रा च या पितुः
सा प्रशस्ता द्विजातीनां दारकर्मण् इ मैथुने अमैथिनी ॥
महान्त्य् अपि समृद्धानि गोऽजाविधनधान्यतः
स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥
हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम्
क्षयामयाव्यपस्मारि श्वित्रिकुष्ठिकुलानि च ॥
नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम्
नालोमिकां नातिलोमां न वाचाटां वाचालां न पिङ्गलाम् ॥
न र्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम्
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषननामिकाम् ॥
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम्
तनुलोमकेशदशनां मृद्वङ्गीम् उद्वहेत् स्त्रियम् ॥
यस्यास् तु न भवेद् भ्राता न विज्ञायेत वा वै पिता
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया ॥
सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि
कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशो ऽवराः ॥
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते
ते च स्वा चैव राज्ञश् च ताश् च स्वा चाग्रजन्मनः ॥
न ब्राह्मणक्षत्रिययोर् आपद्य् अपि हि तिष्ठतोः
कस्मिंश् चिद् अपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥
हीनजातिस्त्रियं मोहाद् उद्वहन्तो द्विजातयः
कुलान्य् एव नयन्त्य् आशु ससन्तानानि शूद्रताम् ॥
शूद्रावेदी पतत्य् अत्रेर् उतथ्यतनयस्य च
शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥
शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम्
जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु
नाश्नन्ति पितृदेवास् तन् न च स्वर्गं स गच्छति ॥
वृषलीफेनपीतस्य निःश्वासोपहतस्य च
तस्यां चैव प्रसूतस्य निष्कृतिर् न विधीयते ॥
चतुर्णाम् अपि वर्णानं प्रेत्य चेह हिताहितान्
अष्टाव् इमान् समासेन स्त्रीविवाहान् निबोधत ॥
ब्राह्मो दैवस् तथैवार्षः प्राजापत्यस् तथासुरः
गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमो ऽधमः ॥
यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ
तद् वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥
षड् आनुपूर्व्या विप्रस्य क्षत्रस्य चतुरो ऽवरान्
विट्शूद्रयोस् तु तान् एव विद्याद् धर्म्यान् अराक्षसान् न राक्षसान् ॥
चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः
राक्षसं क्षत्रियस्यैकम् आसुरं वैश्यशूद्रयोः ॥
पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्यौ स्मृताव् इह
पैशाचश् चासुरश् चैव न कर्तव्यौ कदा चन ॥
पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ
गान्धर्वो राक्षसश् चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥
आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम्
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥
यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते
अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥
एकं गोमिथुनं द्वे वा वराद् आदाय धर्मतः
कन्याप्रदानं विधिवद् आर्षो धर्मः स उच्यते ॥
सहोभौ चरतां धर्मम् इति वाचानुभाष्य च
कन्याप्रदानम् अभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः
कन्याप्रदानं स्वाच्छन्द्याद् आसुरो धर्म उच्यते ॥
इच्छयान्योन्यसंयोगः कन्यायाश् च वरस्य च
गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः ॥
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदन्तीं गृहात्
प्रसह्य कन्याहरणं राक्षसो विधिर् उच्यते ॥
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति
स पापिष्ठो विवाहानां पैशाचश् चाष्टमो पैशाचः प्रथितो ऽधमः ॥
अद्भिर् एव द्विजाग्र्याणां कन्यादानं विशिष्यते
इतरेषां तु वर्णानाम् इतरेतरकाम्यया ॥
यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः
सर्वं शृणुत तं विप्राः सर्वं सम्यक् कीर्तयतो मम ॥
दश पूर्वान् परान् वंश्यान् आत्मानं चैकविंशकम्
ब्राह्मीपुत्रः सुकृतकृन् मोचयत्य् एनसः पितॄन् ॥
दैवोढाजः सुतश् चैव सप्त सप्त परावरान्
आर्षोढाजः सुतस् त्रींस् त्रीन् षट् षट् कायोढजः सुतः ॥
ब्राह्मादिषु विवाहेषु चतुर्ष्व् एवानुपूर्वशः
ब्रह्म वर्चस्विनः वर्चसिनः पुत्रा जायन्ते शिष्टसम्मताः ॥
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥
इतरेषु तु शिष्टेषु नृशंसानृतवादिनः
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥
अनिन्दितैः स्त्रीविवाहैर् अनिन्द्या भवति प्रजा
निन्दितैर् निन्दिता नॄणां तस्मान् निन्द्यान् विवर्जयेत् ॥
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते
असवर्णास्व् अयं ज्ञेयो विधिर् उद्वाहकर्मणि ॥
शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥
ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा
पर्ववर्जं व्रजेच् चैनां तद्व्रतो रतिकाम्यया ॥
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः
चतुर्भिर् इतरैः सार्धम् अहोभिः सद्विगर्हितैः ॥
तासाम् आद्याश् चतस्रस् तु निन्दितैकादशी च या
त्रयोदशी च शेषास् तु प्रशस्ता दशरात्रयः ॥
युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु
तस्माद् युग्मासु पुत्रार्थी संविशेद् आर्तवे स्त्रियम् ॥
पुमान् पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः
समे ऽपुमान् पुं स्त्रियौ वा क्षीणे ऽल्पे च विपर्ययः ॥
निन्द्यास्व् अष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन्
ब्रह्मचार्य् एव भवति यत्र तत्राश्रमे वसन् ॥
न कन्यायाः पिता विद्वान् गृह्णीयाच् छुल्कम् अण्व् अपि
गृह्णञ् शुल्कं हि लोभेन स्यान् नरो ऽपत्यविक्रयी ॥
स्त्रीधनानि तु ये मोहाद् उपजीवन्ति बान्धवाः
नारी यानानि वस्त्रं वा ते पापा यान्त्य् अधोगतिम् ॥
आर्षे गोमिथुनं शुल्कं के चिद् आहुर् मृषैव तत्
अल्पो ऽप्य् एवं महान् वापि विक्रयस् तावद् एव सः तावान् एव स विक्रयः ॥
यासां नाददते शुल्कं ज्ञातयो न स विक्रयः
अर्हणं तत् कुमारीणाम् आनृशंस्यं च न केवलम् ॥
पितृभिर् भ्रातृभिश् चैताः पतिभिर् देवरैस् तथा
पूज्या भूषयितव्याश् च बहुकल्याणम् ईप्सुभिः ॥
यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः
यत्रैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥
शोचन्ति जामयो यत्र विनश्यत्य् आशु तत् कुलम्
न शोचन्ति तु यत्रैता वर्धते तद् धि सर्वदा ॥
जामयो यानि गेहानि शपन्त्य् अप्रतिपूजिताः
तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥
तस्माद् एताः सदा पूज्या भूषणाच्छादनाशनैः
भूतिकामैर् नरैर् नित्यं सत्करेषूत्सवेषु च ॥
संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च
यस्मिन्न् एव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥
यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत्
अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते ॥
स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलं
तस्यां त्व् अरोचमानायां सर्वम् एव न रोचते ॥
कुविवाहैः क्रियालोपैर् वेदानध्ययनेन च
कुलान्य् अकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥
शिल्पेन व्यवहारेण शूद्रापत्यैश् च केवलैः
गोभिर् अश्वैश् च यानैश् च कृष्या राजोपसेवया ॥
अयाज्ययाजनैश् चैव नास्तिक्येन च कर्मणाम्
कुलान्य् आशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥
मन्त्रतस् तु समृद्धानि कुलान्य् अल्पधनान्य् अपि
कुलसंख्यां च गच्छन्ति कर्षन्ति च महद् यशः ॥
वैवाहिके ऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि
पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥
पञ्च सूना गृहस्थस्य चुल्ली पेषण्य् उपस्करः
कण्डनी चोदकुम्भश् च बध्यते वध्यते यास् तु वाहयन् ॥
तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः
पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस् तु तर्पणम्
होमो दैवो बलिर् भौतो नृयज्ञो ऽतिथिपूजनम् ॥
पञ्चैतान् यो महाअयज्ञान् न हापयति शक्तितः
स गृहे ऽपि वसन् नित्यं सूनादोषैर् न लिप्यते ॥
देवतातिथिभृत्यानां पितॄणाम् आत्मनश् च यः
न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति ॥
अहुतं च हुतं चैव तथा प्रहुतम् एव च
ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ॥
जपो ऽहुतो हुतो होमः प्रहुतो भौतिको बलिः
ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥
स्वाध्याये नित्ययुक्तः स्याद् दैवे चैवेह कर्मणि
दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥
अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥
यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः सर्वे जीवन्ति जन्तवः
तथा गृहस्थम् आश्रित्य वर्तन्ते सर्व आश्रमाः वर्तन्त इतराश्रमः ॥
यस्मात् त्रयो ऽप्य् आश्रमिणो ज्ञानेनान्नेन चान्वहम्
गृहस्थेनैव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृही गृहम् ॥
स संधार्यः प्रयत्नेन स्वर्गम् अक्षयम् इच्छता
सुखं चेहेच्छतात्यन्तं यो ऽधार्यो दुर्बलेन्द्रियैः ॥
ऋषयः पितरो देवा भूतान्य् अतिथयस् तथा
आशासते कुटुम्बिभ्यस् तेभ्यः कार्यं विजानता ॥
स्वाध्यायेनार्चयेत र्षीन् होमैर् देवान् यथाविधि
पितॄञ् श्राद्धैश् च नॄन् अन्नैर् भूतानि बलिकर्मणा ॥
कुर्याद् दद्याद् अहरहः श्राद्धम् अन्नाद्येनोदकेन वा
पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् आवहन् ॥
एकम् अप्य् आशयेद् विप्रं पित्रर्थे पित्रर्थं पाञ्चयज्ञिके
न चैवात्राशयेत् किं चिद् वैश्वदेवं प्रति द्विजम् ॥
वैश्वदेवस्य सिद्धस्य गृह्ये ऽग्नौ विधिपूर्वकम्
आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होमम् अन्वहम् ॥
अग्नेः सोमस्य चैवादौ तयोश् चैव समस्तयोः
विश्वेभ्यश् चैव देवेभ्यो धन्वन्तरय एव च ॥
कुह्वै चैवानुमत्यै च प्रजापतय एव च
सह द्यावापृथिव्योश् च तथा स्विष्टकृते ऽन्ततः ॥
एवं सम्यग्ग् हविर् हुत्वा सर्वदिक्षु प्रदक्षिणम्
इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥
मरुद्भ्य इति तु द्वारि क्षिपेद् अप्स्व् अद्भ्य इत्य् अपि
वनस्पतिभ्य इत्य् एवं मुसलोलूखले हरेत् ॥
उच्छीर्षके श्रियै कुर्याद् भद्रकाल्यै च पादतः
ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥
विश्वेभ्यश् चैव देवेभ्यो बलिम् आकाश उत्क्षिपेत्
दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥
पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये सर्वान्नभूतये
पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥
शूनां च पतितानां च श्वपचां पापरोगिणाम्
वयसानां वयसां च कृमीणां च शनकैर् निर्वपेद् भुवि ॥
एवं यः सर्वभूतानि ब्राह्मणो नित्यम् अर्चति
स गच्छति परं स्थानं तेजोमूर्तिः पथा र्जुना ॥
कृत्वैतद् बलिकर्मैवम् अतिथिं पूर्वम् आशयेत्
भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ॥
यत् पुण्यफलम् आप्नोति गां दत्त्वा विधिवद् गुरोः
तत् पुण्यफलम् आप्नोति भिक्षां दत्त्वा द्विजो गृही ॥
भिक्षाम् अप्य् उदपात्रं वा सत्कृत्य विधिपूर्वकम्
वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥
नश्यन्ति हव्यकव्यानि नराणाम् अविजानताम्
भस्मी भस्म भूतेषु विप्रेषु मोहाद् दत्तानि दातृभिः ॥
विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु
निस्तारयति दुर्गाच् च महतश् चैव किल्बिषात् ॥
संप्राप्ताय त्व् अतिथये प्रदद्याद् आसनोदके
अन्नं चैव यथाशक्ति सत्कृत्य संस्कृत्य विधिपूर्वकम् ॥
शिलान् अप्य् उञ्छतो नित्यं पञ्चाग्नीन् अपि जुह्वतः
सर्वं सुकृतम् आदत्ते ब्राह्मणो ऽनर्चितो वसन् ॥
तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता
एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदा चन ॥
एकरात्रं तु निवसन्न् अतिथिर् ब्राह्मणः स्मृतः
अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ॥
नैकग्रामीणम् अतिथिं विप्रं साङ्गतिकं तथा
उपस्थितं गृहे विद्याद् भार्या यत्राग्नयो ऽपि वा ॥
उपासते ये गृहस्थाः परपाकम् अबुद्धयः
तेन ते प्रेत्य पशुतां व्रजन्त्य् अन्नादिदायिनः ॥
अप्रणोद्यो ऽतिथिः सायं सूर्योढो गृहमेधिना
काले प्राप्तस् त्व् अकाले वा नास्यानश्नन् गृहे वसेत् ॥
न वै स्वयं तद् अश्नीयाद् अतिथिं यन् न भोजयेत्
धन्यं यशस्यम् आयुष्यं स्वर्ग्यं वातिथिपूजनम् ॥
आसनावसथौ शय्याम् अनुव्रज्याम् उपासनाम्
उत्तमेषूत्तमं कुर्याद् धीने हीनं समे समम् ॥
वैश्वदेवे तु निर्वृत्ते यद्य् अन्यो ऽतिथिर् आव्रजेत्
तस्याप्य् अन्नं यथाशक्ति प्रदद्यान् न बलिं हरेत् ॥
न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत्
भोजनार्थं हि ते शंसन् वान्ताशीत्य् उच्यते बुधैः ॥
न ब्राह्मणस्य त्व् अतिथिर् गृहे राजन्य उच्यते
वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुर् एव च ॥
यदि त्व् अतिथिधर्मेण क्षत्रियो गृहम् आव्रजेत्
भुक्तवत्सु च विप्रेषु कामं तम् अपि भोजयेत् ॥
वैश्यशूद्राव् अपि प्राप्तौ कुटुम्बे ऽतिथिधर्मिणौ
भोजयेत् सह भृत्यैस् ताव् आनृशंस्यं प्रयोजयन् ॥
इतरान् अपि सख्यादीन् सम्प्रीत्या गृहम् आगतान्
प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ॥
सुवासिनीः कुमारीश् च रोगिणो गर्भिणीः स्त्रियः
अतिथिभ्यो ऽग्र ऽन्वग् एवैतान् भोजयेद् अविचारयन् ॥
अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते ऽविचक्षणः
स भुञ्जानो न जानाति श्वगृध्रैर् जग्धिम् आत्मनः ॥
भुक्तवत्स्व् अथ विप्रेषु स्वेषु भृत्येषु चैव हि
भुञ्जीयातां ततः पश्चाद् अवशिष्टं तु दम्पती ॥
देवान् ऋषीन् मनुष्यांश् च पितॄन् गृह्याश् च देवताः
पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग् भवेत् ॥
अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात्
यज्ञशिष्टाशनं ह्य् एतत् सताम् अन्नं विधीयते ॥
राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान्
अर्हयेन् मधुपर्केण परिसंवत्सरात् पुनः ॥
राजा च श्रोत्रियश् चैव यज्ञकर्मण्य् उपस्थितौ उपस्थिते
मधुपर्केण संपूज्यौ न त्व् अयज्ञ इति स्थितिः ॥
सायं त्व् अन्नस्य सिद्धस्य पत्न्य् अमन्त्रं बलिं हरेत्
वैश्वदेवं हि नामैतत् सायं प्रातर् विधीयते ॥
पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये चेन्दुक्षये ऽग्निमान्
पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥
पितॄणां मासिकं श्राद्धम् अन्वाहार्यं विदुर् बुधाः
तच् चामिषेणा कर्तव्यं प्रशस्तेन प्रयत्नतः ॥
तत्र ये भोजनीयाः स्युर् ये च वर्ज्या द्विजोत्तमाः
यावन्तश् चैव यैश् चान्नैस् तान् प्रवक्ष्याम्य् अशेषतः ॥
द्वौ दैवे पितृकार्ये पितृकृत्ये त्रीन् एकैकम् उभयत्र वा
भोजयेत् सुसमृद्धो ऽपि न प्रसज्जेत न प्रवर्तेत विस्तरे ॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः
पञ्चैतान् विस्तरो हन्ति तस्मान् नेहेत विस्तरम् ॥
प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये
तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥
श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥
एकैकम् अपि विद्वांसं दैवे पित्र्ये च भोजयेत् भोजयन्
पुष्कलं फलम् आप्नोति नामन्त्रज्ञान् बहून् अपि ॥
दूराद् एव परीक्षेत ब्राह्मणं वेदपारगम्
तीर्थं तद् धव्यकव्यानां प्रदाने सो ऽतिथिः स्मृतः ॥
सहस्रं हि सहस्राणाम् अनृचां यत्र भुञ्जते
एकस् तान् मन्त्रवित् प्रीतः सर्वान् अर्हति धर्मतः ॥
ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च
न हि हस्ताव् असृग्दिग्धौ रुधिरेणैव शुध्यतः ॥
यावतो ग्रसते ग्रासान् हव्यकव्येष्व् अमन्त्रवित्
तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान् ॥
ज्ञाननिष्ठा द्विजाः के चित् तपोनिष्ठास् तथापरे
तपःस्वाध्यायनिष्ठाश् च कर्मनिष्ठास् तथापरे ॥
ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः
हव्यानि तु यथान्यायं सर्वेष्व् एव चतुर्ष्व् अपि ॥
अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपारगः
अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ॥
ज्यायांसम् अनयोर् विद्याद् यस्य स्याच् छ्रोत्रियः पिता
मन्त्रसंपूजनार्थं तु सत्कारम् इतरो ऽर्हति ॥
न श्राद्धे भोजयेन् मित्रं धनैः कार्यो ऽस्य संग्रहः
नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद् द्विजम् ॥
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥
यः संगतानि कुरुते मोहाच् छ्राद्धेन मानवः
स स्वर्गाच् च्यवते लोकाच् छ्राद्धमित्रो द्विजाधमः ॥
संभोजानि साभिहिता पैशाची दक्षिणा द्विजैः
इहैवास्ते तु सा लोके गौर् अन्धेवैकवेश्मनि ॥
यथेरिणे बीजम् उप्त्वा न वप्ता लभते फलम्
तथानृचे हविर् दत्त्वा न दाता लभते फलम् ॥
दातॄन् प्रतिग्रहीतॄंश् च कुरुते फलभागिनः
विदुषे दक्षिणां दत्त्वा विधिवत् प्रेत्य चेह च ॥
कामं श्राद्धे ऽर्चयेन् मित्रं नाभिरूपम् अपि त्व् अरिम्
द्विषता हि हविर् भुक्तं भवति प्रेत्य निष्फलम् ॥
यत्नेन भोजयेच् छ्राद्धे बह्वृचं वेदपारगम्
शाखान्तगम् अथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥
एषाम् अन्यतमो यस्य भुञ्जीत श्राद्धम् अर्चितः
पितॄणां तस्य तृप्तिः स्याच् छाश्वती साप्तपौरुषी ॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः
अनुकल्पस् त्व् अयं ज्ञेयः सदा सद्भिर् अनुष्ठितः ॥
मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम्
दौहित्रं विट्पतिं बन्धुम् ऋत्विग् याज्यौ च भोजयेत् ॥
न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित्
पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥
ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः
तान् हव्यकव्ययोर् विप्रान् अनर्हान् मनुर् अब्रवीत् ॥
जटिलं चानधीयानं दुर्बालं कितवं तथा
याजयन्ति च ये पूगांस् तांश् च श्राद्धे न भोजयेत् ॥
चिकित्सकान् देवलकान् चिकित्सकादेवलका मांसविक्रयिणस् तथा
विपणेन च जीवन्तो वर्ज्याः स्युर् हव्यकव्ययोः ॥
प्रेष्यो ग्रामस्य राज्ञश् च कुनखी श्यावदन्तकः
प्रतिरोद्धा गुरोश् चैव त्यक्ताग्निर् वार्धुषिस् तथा ॥
यक्ष्मी च पशुपालश् च परिवेत्ता निराकृतिः
ब्रह्मद्विट् परिवित्तिश् च गणाभ्यन्तर एव च ॥
कुशीलवो ऽवकीर्णी च वृषलीपतिर् एव च
पौनर्भवश् च काणश् च यस्य चोपपतिर् गृहे ॥
भृतकाध्यापको यश् च भृतकाध्यापितस् तथा
शूद्रशिष्यो गुरुश् चैव वाग्दुष्टः कुण्डगोलकौ ॥
अकारणे परित्यक्ता अकारणपरित्यक्ता मातापित्रोर् गुरोस् तथा
ब्राह्मैर् यौनैश् च संबन्धैः संयोगं पतितैर् गतः ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी
समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥
पित्रा विवदमानश् च कितवो मद्यपस् तथा
पापरोग्य् अभिशस्तश् च दाम्भिको रसविक्रयी ॥
धनुःशराणां कर्ता च यश् चाग्रेदिधिषूपतिः
मित्रध्रुग् द्यूतवृत्तिश् च पुत्राचार्यस् तथैव च ॥
भ्रामरी गन्डमाली च श्वित्र्य् अथो पिशुनस् तथा
उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् वेदनिन्दक एव च ॥
हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर् यश् च जीवति
पक्षिणां पोषको यश् च युद्धाचार्यस् तथैव च ॥
स्रोतसां भेदको यश् च तेषां चावरणे रतः
गृहसंवेशको दूतो वृक्षारोपक एव च ॥
श्वक्रीडी श्येनजीवी च कन्यादूषक एव च
हिंस्रो वृषलवृत्तिश् च गणानां चैव याजकः ॥
आचारहीनः क्लीबश् च नित्यं याचनकस् तथा
कृषिजीवी श्लीपदी च सद्भिर् निन्दित एव च ॥
औरभ्रिको माहिषिकः परपूर्वापतिस् तथा
प्रेतनिर्यापकश् चैव वर्जनीयाः प्रयत्नतः ॥
एतान् विगर्हिताचारान् अपाङ्क्तेयान् द्विजाधमान्
द्विजातिप्रवरो विद्वान् उभयत्र विवर्जयेत् ॥
ब्राह्मणो त्व् ब्राह्मणस् ह्य् अनधीयानस् तृणाग्निर् इव शाम्यति
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥
अपाङ्क्तदाने अपङ्क्त्यदाने यो दातुर् भवत्य् ऊर्ध्वं फलोदयः
दैवे हविषि कर्मणि पित्र्ये वा तं प्रवक्स्याम्य् अशेषतः ॥
अव्रतैर् यद् द्विजैर् भुक्तं परिवेत्रादिभिस् तथा
अपाङ्क्तेयैर् यद् अन्यैश् च तद् वै रक्षांसि भुञ्जते ॥
दाराग्निहोत्रसंयोगं कुरुते यो ऽग्रजे स्थिते
परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥
परिवित्तिः परिवेत्ता यया च परिविद्यते
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥
भ्रातुर् मृतस्य भार्यायां यो ऽनुरज्येत कामतः
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥
परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ
पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ॥
तौ ते तु जातौ परक्षेत्रे प्राणिनौ प्राणिनः प्रेत्य चेह च
दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् ॥
अपाङ्क्त्यो अपङ्क्त्यो यावतः पङ्क्त्यान् भुञ्जानान् अनुपश्यति
तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥
वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु च
पापरोगी सहस्रस्य दातुर् नाशयते फलम् ॥
यावतः संस्पृशेद् अङ्गैर् ब्राह्मणाञ् शूद्रयाजकः
तावतां न भवेद् दातुः फलं दानस्य पौर्तिकम् ॥
वेदविच् चापि विप्रो ऽस्य लोभात् कृत्वा प्रतिग्रहम्
विनाशं व्रजति क्षिप्रम् आमपात्रम् इवाम्भसि ॥
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम्
नष्टं देवलके दत्तम् अप्रतिष्ठं तु वार्धुषौ ॥
यत् तु वाणिजके दत्तं नेह नामुत्र तद् भवेत्
भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे ॥
इतरेषु त्व् अपाङ्क्त्येषु यथोद्दिष्टेष्व् असाधुषु
मेदोऽसृङ्मांसमज्जास्थि वदन्त्य् अन्नं मनीषिणः ॥
अपाङ्क्त्योपहता अपंक्त्योपहता पङ्क्तिः पाव्यते यैर् द्विजोत्तमैः
तान् निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च
श्रोत्रियान्वयजाश् चैव विज्ञेयाः पङ्क्तिपावनाः ॥
त्रिणाचिकेतः पञ्चाग्निस् त्रिसुपर्णः षडङ्गवित्
ब्रह्मदेयात्मसन्तानो ब्रह्मदेयानुसन्तानो ज्येष्ठसामग एव च ॥
वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः
शतायुश् चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥
पूर्वेद्युर् अपरेद्युर् वा श्राद्धकर्मण्य् उपस्थिते
निमन्त्रयेत निमन्त्रयीत त्र्यवरान् सम्यग् विप्रान् यथोदितान् ॥
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा
न च छन्दांस्य् अधीयीत यस्य श्राद्धं च तद् भवेत् ॥
निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान्
वायुवच् चानुगच्छन्ति तथासीनान् उपासते ॥
केतितस् तु यथान्यायं हव्ये कव्ये द्विजोत्तमः
कथं चिद् अप्य् अतिक्रामन् पापः सूकरतां व्रजेत् ॥
आमन्त्रितस् तु यः श्राद्धे वृशल्या सह मोदते
दातुर् यद् दुष्कृतं किं चित् तत् सर्वं प्रतिपद्यते ॥
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥
यस्माद् उत्पत्तिर् एतेषां सर्वेषाम् अप्य् अशेषतः
ये च यैर् उपचर्याः स्युर् नियमैस् तान् निबोधत ॥
मनोर् हैरण्यगर्भस्य ये मरीच्यादयः सुताः
तेषाम् ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥
विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः
अग्निष्वात्ताश् च देवानां मारीचा लोकविश्रुताः ॥
दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम्
सुपर्णकिन्नराणां च स्मृता बर्हिषदो ऽत्रिजाः ॥
सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः
वैश्यानाम् आज्यपा नाम शूद्राणां तु सुकालिनः ॥
सोमपास् तु कवेः पुत्रा हविष्मन्तो ऽङ्गिरःसुताः
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥
अग्निदग्धानग्निदग्धान् अनग्निदग्धानग्निदग्धान् काव्यान् बर्हिषदस् तथा
अग्निष्वात्तांश् च सौम्यांश् च विप्राणाम् एव निर्दिशेत् ॥
य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः
तेषाम् अपीह विज्ञेयं पुत्रपौत्रम् अनन्तकम् ॥
ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः
देवेभ्यस् तु जगत् सर्वं चरं स्थाण्व् अनुपूर्वशः ॥
राजतैर् भाजनैर् एषाम् अथो वा रजतान्वितैः
वार्य् अपि श्रद्धया दत्तम् अक्षयायोपकल्पते ॥
दैवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते
दैवं हि पितृकार्यस्य पूर्वम् आप्यायनं स्मृतम् ॥
तेषाम् आरक्षभूतं तु पूर्वं दैवं नियोजयेत्
रक्सांसि विप्रलुम्पन्ति श्राद्धम् आरक्षवर्जितम् ॥
दैवाद्यन्तं तद् ईहेत पित्राद्यन्तं न तद् भवेत्
पित्राद्यन्तं त्व् ईहमानः क्षिप्रं नश्यति सान्वयः ॥
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत्
दक्षिनाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥
अवकाशेषु चोक्षेषु जलतीरेषु चैव हि
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥
आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक्पृथक्
उपस्पृष्टोदकान् सम्यग् विप्रांस् तान् उपवेशयेत् ॥
उपवेश्य तु तान् विप्रान् आसनेष्व् अजुगुप्सितान्
गन्धमाल्यैः सुरभिभिर् अर्चयेद् दैवपूर्वकम् ॥
तेषाम् उदकम् आनीय सपवित्रांस् तिलान् अपि
अग्नौ कुर्याद् अनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥
अग्नेः सोमयमाभ्यां च कृत्वाप्यायनम् आदितः
हविर्दानेन विधिवत् पश्चात् संतर्पयेत् पितॄन् ॥
अग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत्
यो ह्य् अग्निः स द्विजो विप्रैर् मन्त्रदर्शिभिर् उच्यते ॥
अक्रोधनान् सुप्रसादान् वदन्त्य् एतान् पुरातनान्
लोकस्याप्यायने युक्तान् श्राद्धदेवान् श्राद्धे देवान् द्विजोत्तमान् ॥
अपसव्यम् अग्नौ कृत्वा सर्वम् आवृत्य विक्रमम् आवृत्परिक्रमम्
अपसव्येन हस्तेन निर्वपेद् उदकं भुवि ॥
त्रींस् तु तस्माद् धविःशेषात् पिण्डान् कृत्वा समाहितः
औदकेनैव विधिना निर्वपेद् दक्षिणामुखः ॥
न्युप्य पिण्डांस् ततस् तांस् तु प्रयतो विधिपूर्वकम्
तेषु दर्भेषु तं हस्तं निर्मृज्याल् लेपभागिनाम् ॥
आचम्योदक्परावृत्य त्रिर् आयम्य शनैर् असून्
षड् ऋतूंश् च नमस्कुर्यात् पितॄन् एव च मन्त्रवत् ॥
उदकं निनयेच् छेषं शनैः पिण्डान्तिके पुनः
अवजिघ्रेच् च तान् पिण्डान् यथान्युप्तान् समाहितः ॥
पिण्डेभ्यस् त्व् अल्पिकां पिण्डेभ्यः स्वल्पिकां मात्रां समादायानुपूर्वशः
तान् एव विप्रान् आसीनान् विधिवत् पूर्वम् आशयेत् ॥
ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेत्
विप्रवद् वापि तं श्राद्धे श्राद्धं स्वकं पितरम् आशयेत् ॥
पिता यस्य निवृत्तः तु वृत्तः स्याज् जीवेच् चापि पितामहः
पितुः स नाम सङ्कीर्त्य कीर्तयेत् प्रपितामहम् ॥
पितामहो वा तच्छ्राद्धं भुञ्जीतेत्य् अब्रवीन् मनुः
कामं वा समनुज्ञातः स्वयम् एव समाचरेत् ॥
तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम्
तत्पिण्डाग्रं प्रयच्छेत प्रयच्छेत् तु स्वधैषाम् अस्त्व् इति ब्रुवन् ॥
पाणिभ्यां तूपसंगृह्य स्वयम् अन्नस्य वर्धितम्
विप्रान्तिके पितॄन् ध्यायन् शनकैर् उपनिक्षिपेत् ॥
उभयोर् हस्तयोर् मुक्तं यद् अन्नम् उपनीयते
तद् विप्रलुम्पन्त्य् असुराः सहसा दुष्टचेतसः ॥
गुणांश् च सूपशाकाद्यान् पयो दधि घृतं मधु
विन्यसेत् प्रयतः पूर्वं भूमाव् एव समाहितः ॥
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च
हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥
उपनीय तु तत् सर्वं शनकैः सुसमाहितः
परिवेषयेत प्रयतो गुणान् सर्वान् प्रचोदयन् ॥
नास्रम् आपातयेज् जातु न कुप्येन् नानृतं वदेत्
न पादेन स्पृशेद् अन्नं न चैतद् अवधूनयेत् ॥
अस्रं गमयति प्रेतान् कोपो ऽरीन् अनृतं शुनः
पादस्पर्शस् तु रक्षांसि दुष्कृतीन् अवधूननम् ॥
यद् यद् रोचेत विप्रेभ्यस् तत् तद् दद्याद् अमत्सरः
ब्रह्मोद्याश् च कथाः कुर्यात् पितॄणाम् एतद् ईप्सितम् ॥
स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि
आख्यानानीतिहासांश् च पुराणानि खिलानि च ॥
हर्षयेद् ब्राह्मणांस् तुष्टो भोजयेच् च शनैःशनैः
अन्नाद्येनासकृच् चैतान् गुणैश् च परिचोदयेत् ॥
व्रतस्थम् अपि दौहित्रं श्राद्धे यत्नेन भोजयेत्
कुतपं चासनं दद्यात् तिलैश् च विकिरेन् महीम् ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः
त्रीणि चात्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम् ॥
अत्युष्णं सर्वम् अन्नं स्याद् भुञ्जीरंस् ते च वाग्यताः
न च द्विजातयो ब्रूयुर् दात्रा पृष्टा हविर्गुणान् ॥
यावद् उष्मा भवत्य् अन्नं यावद् अश्नन्ति वाग्यताः
पितरस् तावद् अश्नन्ति यावन् नोक्ता हविर्गुणाः ॥
यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः
सोपानत्कश् च यद् भुङ्क्ते तद् वै रक्षांसि भुञ्जते ॥
चाण्डालश् च वराहश् च कुक्कुटः श्वा तथैव च
रजस्वला च षण्ढश् च नेक्षेरन्न् अश्नतो द्विजान् ॥
होमे प्रदाने भोज्ये च यद् एभिर् अभिवीक्ष्यते
दैवे हविषि पित्र्ये वा तद् गच्छत्य् अयथातथम् ॥
घ्राणेन सूकरो शूकरो हन्ति पक्षवातेन कुक्कुटः
श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः ॥
खञ्जो वा यदि वा काणो दातुः प्रेष्यो ऽपि वा भवेत्
हीनातिरिक्तगात्रो वा तम् अप्य् अपनयेत् पुनः ॥
ब्राह्मणं भिक्षुकं वापि भोजनार्थम् उपस्थितम्
ब्राह्मणैर् अभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥
सार्ववर्णिकम् अन्नाद्यं संनीयाप्लाव्य वारिणा
समुत्सृजेद् भुक्तवताम् अग्रतो विकिरन् भुवि ॥
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम्
उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश् च यः ॥
उच्छेषणां भूमिगतम् अजिह्मस्याशठस्य च
दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥
आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु
अदैवं भोजयेच् छ्राद्धं पिण्डम् एकं च निर्वपेत् ॥
सहपिण्डक्रियायां तु कृतायाम् अस्य धर्मतः
अनयैवावृता कार्यं पिण्डनिर्वपनं सुतैः ॥
श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति
स मूढो नरकं याति कालसूत्रम् अवाक्शिराः ॥
श्राद्धभुग् वृषलीतल्पं तद् अहर् यो ऽधिगच्छति
तस्याः पुरीषे तं मासं पितरस् तस्य शेरते ॥
पृष्ट्वा स्वदितम् इत्य् एवं तृप्तान् आचामयेत् ततः
आचान्तांश् चानुजानीयाद् अभितो रम्यताम् इति ॥
स्वधास्त्व् इत्य् एव तं ब्रूयुर् ब्राह्मणास् तदनन्तरम्
स्वधाकारः परा ह्य् आषीः सर्वेषु पितृकर्मसु ॥
ततो भुक्तवतां तेषाम् अन्नशेषं निवेदयेत्
यथा ब्रूयुस् तथा कुर्याद् अनुज्ञातस् ततो द्विजैः ॥
पित्र्ये स्वदितम् इत्य् एव वाच्यं गोष्ठे तु सुशृतम्
संपन्नम् इत्य् अभ्युदये दैवे रुचितम् इत्य् अपि ॥
अपराह्णस् तथा दर्भा वास्तुसंपादनं तिलाः
सृष्टिर् मृष्टिर् द्विजाश् चाग्र्याः श्राद्धकर्मसु संपदः ॥
दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः
पवित्रं यच् च पूर्वोक्तं विज्ञेया हव्यसंपदः ॥
मुन्यन्नानि पयः सोमो मांसं यच् चानुपस्कृतम्
अक्सारलवणं चैव प्रकृत्या हविर् उच्यते ॥
विसृज्य विसर्ज्य ब्राह्मणांस् तांस् तु नियतो वाग्यतः शुचिः प्रयतो विधिपूर्वकम्
दक्षिणां दिशम् आकाङ्क्षन् याचेतेमान् वरान् पितॄन् ॥
दातारो नो ऽभिवर्धन्तां वेदाः संततिर् एव च
श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इति ॥
एवं निर्वपणं कृत्वा पिण्डांस् तांस् तदनन्तरम्
गां विप्रम् अजम् अग्निं वा प्राशयेद् अप्सु वा क्षिपेत् ॥
पिण्डनिर्वपणं के चित् परस्ताद् एव कुर्वते
वयोभिः खादयन्त्य् अन्ये प्रक्षिपन्त्य् अनले ऽप्सु वा ॥
पतिव्रता धर्मपत्नी पितृपूजनतत्परा
मध्यमं तु ततः पिण्डम् अद्यात् सम्यक् सुतार्थिनी ॥
आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम्
धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ॥
प्रक्साल्य हस्ताव् आचाम्य ज्ञातिप्रायं प्रकल्पयेत्
ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवान् अपि भोजयेत् ॥
उच्छेषणं तु तत् यत् तिष्ठेद् यावद् विप्रा विसर्जिताः
ततो गृहबलिं कुर्याद् इति धर्मो व्यवस्थितः ॥
हविर् यच् चिररात्राय यच् चानन्त्याय कल्पते
पितृभ्यो विधिवद् दत्तं तत् प्रवक्ष्याम्य् अशेषतः ॥
तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा
दत्तेन मासं तृप्यन्ति विधिवत् पितरो नृनाम् ॥
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥
षण्मासांश् छागमांसेन पार्षतेन च सप्त वै
अष्टाव् एनस्य मांसेन ऐणेयमांसेन रौरवेण नवैव तु ॥
दशमासांस् तु तृप्यन्ति वराहमहिषामिषैः
शशकूर्मयोस् तु मांसेन मासान् एकादशैव तु ॥
संवत्सरं संवत्सरे तु गव्येन पयसा पायसेन च
वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी ॥
कालशाकं महाशल्काः खङ्गलोहामिषं मधु
आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ॥
यत् किं चिन् मधुना मिश्रं प्रदद्यात् तु त्रयोदशीम्
तद् अप्य् अक्षयम् एव स्याद् वर्षासु च मघासु च ॥
अपि नः स कुले भूयाद् यो नो दद्यात् त्रयोदशीम्
पायसं मधुसर्पिर्भ्यां प्राक् छाये कुञ्जरस्य च ॥
यद् यद् ददाति विधिवत् सम्यक् श्रद्धासमन्वितः
तत् तत् पितॄणां भवति परत्रानन्तम् अक्षयम् ॥
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम्
श्राद्धे प्रशस्तास् तिथयो यथैता न तथेतराः ॥
युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते
अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति पुष्कलाम् ॥
यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते
तथा श्राद्धस्य पूर्वाह्णाद् अपराह्णो विशिष्यते ॥
प्राचीनावीतिना सम्यग् अपसव्यम् अतन्द्रिणा
पित्र्यम् आ निधनात् कार्यं विधिवद् दर्भपाणिना ॥
रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा
संध्ययोर् उभयोश् चैव सूर्ये चैवाचिरोदिते ॥
अनेन विधिना श्राद्धं त्रिर् अब्दस्येह निर्वपेत्
हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकम् अन्वहम् ॥
न पैतृयज्ञियो होमो लौकिके ऽग्नौ विधीयते
न दर्शेन विना श्राद्धम् आहिताग्नेर् द्विजन्मनः ॥
यद् एव तर्पयत्य् अद्भिः पितॄन् स्नात्वा द्विजोत्तमः
तेनैव कृत्स्नम् आप्नोति पितृयज्ञक्रियाफलम् ॥
वसून् वदन्ति तु पितॄन् रुद्रांश् चैव पितामहान्
प्रपितामहांस् तथादित्यान् श्रुतिर् एषा सनातनी ॥
विघसाशी भवेन् नित्यं नित्यं वामृतभोजनः
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम् ॥
एतद् वो ऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम्
द्विजातिमुख्यवृत्तीनां विधानं श्रूयताम् इति ॥
मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0