भाषा

ENहिગુ
ग्रंथ पाठ

मनुस्मृति · अध्याय 2

2.1

विद्वद्भिः सेवितः सद्भिर् नित्यम् अद्वेषरागिभिः
हृदयेनाभ्यनुज्ञातो यो धर्मस् तं निबोधत ॥

2.2

कामात्मता न प्रशस्ता न चैवेहास्त्य् अकामता
काम्यो हि वेदाधिगमः कर्मयोगश् च वैदिकः ॥

2.3

संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः
व्रतानि यमधर्माश् च सर्वे संकल्पजाः स्मृताः ॥

2.4

अकामस्य क्रिया का चिद् दृश्यते नेह कर्हि चित्
यद् यद् धि कुरुते किं चित् तत् तत् कामस्य चेष्टितम् ॥

2.5

तेषु सम्यग् वर्तमानो गच्छत्य् अमरलोकताम्
यथा संकल्पितांश् चेह सर्वान् कामान् समश्नुते ॥

2.6

वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्
आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥

2.7

यः कश् चित् कस्य चिद् धर्मो मनुना परिकीर्तितः
स सर्वो ऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥

2.8

सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा
श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥

2.9

श्रुतिस्मृत्युदितं धर्मम् अनुतिष्ठन् हि मानवः
इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥

2.10

श्रुतिस् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः
ते सर्वार्थेष्व् अमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥

2.11

यो ऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः
स साधुभिर् बहिष्कार्यो नास्तिको वेदनिन्दकः ॥

2.12

वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः
एतच् चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ॥

2.13

अर्थकामेष्व् असक्तानां धर्मज्ञानं विधीयते
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥

2.14

श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्माव् उभौ स्मृतौ
उभाव् अपि हि तौ धर्मौ सम्यग् उक्तौ मनीषिभिः ॥

2.15

उदिते ऽनुदिते चैव समयाध्युषिते तथा
सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥

2.16

निषेकादिश्मशानान्तो मन्त्रैर् यस्योदितो विधिः
तस्य शास्त्रे ऽधिकारो ऽस्मिञ् ज्ञेयो नान्यस्य कस्य चित् ॥

2.17

सरस्वतीदृशद्वत्योर् देवनद्योर् यद् अन्तरम्
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥

2.18

तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः
वर्णानां सान्तरालानां स सदाचार उच्यते ॥

2.19

कुरुक्षेत्रं च मत्स्याश् च पञ्चालाः शूरसेनकाः
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्ताद् अनन्तरः ॥

2.20

एतद् देशप्रसूतस्य सकाशाद् अग्रजन्मनः
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥

2.21

हिमवद्विन्ध्ययोर् मध्यं यत् प्राग् विनशनाद् अपि
प्रत्यग् एव प्रयागाच् च मध्यदेशः प्रकीर्तितः ॥

2.22

आ समुद्रात् तु वै पूर्वाद् आ समुद्राच् च पश्चिमात्
तयोर् एवान्तरं गिर्योर् आर्यावर्तं विदुर् बुधाः ॥

2.23

कृष्णसारस् तु चरति मृगो यत्र स्वभावतः
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् त्व् अतः परः ॥

2.24

एताण् द्विजातयो देशान् संश्रयेरन् प्रयत्नतः
शूद्रस् तु यस्मिन् कस्मिन् वा यस्मिंस् तस्मिन् वा निवसेद् वृत्तिकर्शितः ॥

2.25

एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता
संभवश् चास्य सर्वस्य वर्णधर्मान् निबोधत ॥

2.26

वैदिकैः कर्मभिः पुण्यैर् निषेकादिर् द्विजन्मनाम्
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥

2.27

गार्भैर् होमैर् जातकर्म चौडमौञ्जीनिबन्धनैः
बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ॥

2.28

स्वाध्यायेन व्रतैर् होमैस् त्रैविद्येनेज्यया सुतैः
महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः ॥

2.29

प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते
मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥

2.30

नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत्
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥

2.31

मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम्
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥

2.32

शर्मवद् ब्राह्मणस्य स्याद् राज्ञो राज्ञा रक्षासमन्वितम्
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥

2.33

स्त्रीणां सुखोद्यम् अक्रूरं विस्पष्टार्थं मनोहरम्
मङ्गल्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ॥

2.34

चतुर्थे मासि कर्तव्यं शिशोर् निष्क्रमणं गृहात्
षष्ठे ऽन्नप्राशनं मासि यद् वेष्टं मङ्गलं कुले ॥

2.35

चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः
प्रथमे ऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् श्रुतिनोदनात् ॥

2.36

गर्भाष्टमे ऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्
गर्भाद् एकादशे राज्ञो गर्भात् तु द्वादशे विशः ॥

2.37

ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनो ऽष्टमे ॥

2.38

आ षोदशाद् ब्राह्मणस्य सावित्री नातिवर्तते
आ द्वाविंशात् क्षत्रबन्धोर् आ चतुर्विंशतेर् विशः ॥

2.39

अत ऊर्ध्वं त्रयो ऽप्य् एते यथाकालम् असंस्कृताः
सावित्रीपतिता व्रात्या भवन्त्य् आर्यविगर्हिताः ॥

2.40

नैतैर् अपूतैर् विधिवद् आपद्य् अपि हि कर्हि चित्
ब्राह्मान् यौनांश् च संबन्धान् नाचरेद् ब्राह्मणः सह ब्राह्मणैः सह ॥

2.41

कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः
वसीरन्न् आनुपूर्व्येण शाणक्षौमाविकानि च ॥

2.42

मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥

2.43

मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिर् एव वा ॥

2.44

कार्पासम् उपवीतं स्याद् विप्रस्योर्ध्ववृतं त्रिवृत्
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥

2.45

ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ
पैलवाउदुम्बरौ वैश्यो दण्डान् अर्हन्ति धर्मतः ॥

2.46

केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः
ललाटसम्मितो राज्ञः स्यात् तु नासान्तिको विशः ॥

2.47

ऋजवस् ते तु सर्वे स्युर् अव्रणाः सौम्यदर्शनाः
अनुद्वेगकरा नॄणां सत्वचो ऽनग्निदूषिताः ॥

2.48

प्रतिगृह्येप्सितं दण्डम् उपस्थाय च भास्करम्
प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥

2.49

भवत्पूर्वं चरेद् भैक्षम् उपनीतो द्विजोत्तमः
भवन्मध्यं तु राजन्यो वैश्यस् तु भवदुत्तरम् ॥

2.50

मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम्
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥

2.51

समाहृत्य तु तद् भैक्षं यावदन्नम् यावदर्थम् अमायया
निवेद्य गुरवे ऽश्नीयाद् आचम्य प्राङ्मुखः शुचिः ॥

2.52

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्य् उदङ्मुखः ॥

2.53

उपस्पृश्य द्विजो नित्यम् अन्नम् अद्यात् समाहितः
भुक्त्वा चोपस्पृशेत् सम्यग् अद्भिः खानि च संस्पृशेत् ॥

2.54

पूजयेद् अशनं नित्यम् अद्याच् चैतद् अकुत्सयन्
दृष्ट्वा हृष्येत् प्रसीदेच् च प्रतिनन्देच् च सर्वशः ॥

2.55

पूजितं ह्य् अशनं नित्यं बलम् ऊर्जं च यच्छति
अपूजितं तु तद् भुक्तम् उभयं नाशयेद् इदम् ॥

2.56

नोच्छिष्टं कस्य चिद् दद्यान् नाद्याद् एतत् तथान्तरा
न चैवात्यशनं कुर्यान् न चोच्छिष्टः क्व चिद् व्रजेत् ॥

2.57

अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम्
अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥

2.58

ब्राह्मेण विप्रस् तीर्थेन नित्यकालम् उपस्पृशेत्
कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन ॥

2.59

अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते
कायम् अङ्गुलिमूले ऽग्रे देवं पित्र्यं तयोर् अधः ॥

2.60

त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम्
खानि चैव स्पृशेद् अद्भिर् आत्मानं शिर एव च ॥

2.61

अनुष्णाभिर् अफेनाभिर् अद्भिस् तीर्थेन धर्मवित्
शौचेप्सुः सर्वदाचामेद् एकान्ते प्रागुदङ्मुखः ॥

2.62

हृद्गाभिः पूयते विप्रः कण्ठगाभिस् तु भूमिपः
वैश्यो ऽद्भिः प्राशिताभिस् तु शूद्रः स्पृष्टाभिर् अन्ततः ॥

2.63

उद्धृते दक्षिने पाणाव् उपवीत्य् उच्यते द्विजः
सव्ये प्राचीनावीती निवीती कण्ठसज्जने ॥

2.64

मेखलाम् अजिनं दण्डम् उपवीतं कमण्डलुम्
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥

2.65

केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते
राजन्यबन्धोर् द्वाविंशे वैश्यस्य द्व्यधिके मतः ॥

2.66

अमन्त्रिका तु कार्येयं स्त्रीणाम् आवृद् अशेषतः
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥

2.67

वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः
पतिसेवा गुरौ वासो गृहार्थो ऽग्निपरिक्रिया ॥

2.68

एष प्रोक्तो द्विजातीनाम् औपनायनिको विधिः
उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥

2.69

उपनीय गुरुः शिष्यं शिक्षयेच् छौचम् आदितः
आचारम् अग्निकार्यं च संध्योपासनम् एव च ॥

2.70

अध्येष्यमाणस् त्व् आचान्तो यथाशास्त्रम् उदङ्मुखः
ब्रह्माञ्जलिकृतो ऽध्याप्यो लघुवासा जितेन्द्रियः ॥

2.71

ब्रह्मारम्भे ऽवसाने च पादौ ग्राह्यौ गुरोः सदा
संहत्य हस्ताव् अध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥

2.72

व्यत्यस्तपाणिना कार्यम् उपसंग्रहणं गुरोः
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥

2.73

अध्येष्यमाणं तु गुरुर् नित्यकालम् अतन्द्रितः
अधीष्व भो इति ब्रूयाद् विरामो ऽस्त्व् इति चारमेत् ॥

2.74

ब्रह्मनः प्रणवं कुर्याद् आदाव् अन्ते च सर्वदा
स्रवत्य् अनोंकृतं पूर्वं परस्ताच् च विशीर्यति ॥

2.75

प्राक्कूलान् पर्युपासीनः पवित्रैश् चैव पावितः
प्राणायामैस् त्रिभिः पूतस् तत ओंकारम् अर्हति ॥

2.76

अकारं चाप्य् उकारं च मकारं च प्रजापतिः
वेदत्रयान् निरदुहद् भूर् भुवः स्वर् इतीति च ॥

2.77

त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत्
तद् इत्य् ऋचो ऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥

2.78

एतद् अक्षरम् एतां च जपन् व्याहृतिपूर्विकाम्
संध्ययोर् वेदविद् विप्रो वेदपुण्येन युज्यते ॥

2.79

सहस्रकृत्वस् त्व् अभ्यस्य बहिर् एतत् त्रिकं द्विजः
महतो ऽप्य् एनसो मासात् त्वचेवाहिर् विमुच्यते ॥

2.80

एतया र्चा विसंयुक्तः काले च क्रियया स्वया
ब्रह्मक्षत्रियविश्योनिर् गर्हणां याति साधुषु ॥

2.81

ओंकारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्ययाः
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥

2.82

यो ऽधीते ऽहन्य् अहन्य् एतां त्रीणि वर्षाण्य् अतन्द्रितः
स ब्रह्म परम् अभ्येति वायुभूतः खमूर्तिमान् ॥

2.83

एकाक्षरं परं ब्रह्म प्राणायामः परं तपः
सावित्र्यास् तु परं नास्ति मौनात् सत्यं विशिष्यते ॥

2.84

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः
अक्षरं दुष्करं त्व् अक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥

2.85

विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः
उपांशुः स्याच् छतगुणः साहस्रो मानसः स्मृतः ॥

2.86

ये पाकयज्ञास् चत्वारो विधियज्ञसमन्विताः
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥

2.87

जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः
कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥

2.88

इन्द्रियाणां विचरतां विषयेष्व् अपहारिषु
संयमे यत्नम् आतिष्ठेद् विद्वान् यन्तेव वाजिनाम् ॥

2.89

एकादशेन्द्रियाण्य् आहुर् यानि पूर्वे मनीषिणः
तानि सम्यक् प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥

2.90

श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी
पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥

2.91

बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्य् अनुपूर्वशः
कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥

2.92

एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम्
यस्मिन् जिते जिताव् एतौ भवतः पञ्चकौ गणौ ॥

2.93

इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयम्
संनियम्य तु तान्य् एव ततः सिद्धिं निगच्छति ॥

2.94

न जातु कामः कामानाम् उपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥

2.95

यश् चैतान् प्राप्नुयात् सर्वान् यश् चैतान् केवलांस् त्यजेत्
प्रापणात् सर्वकामानां परित्यागो विशिष्यते ॥

2.96

न तथैतानि शक्यन्ते संनियन्तुम् असेवया
विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥

2.97

वेदास् त्यागश् च यज्ञाश् च नियमाश् च तपांसि च
न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित् ॥

2.98

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥

2.99

इन्द्रियाणां तु सर्वेषां यद्य् एकं क्षरतीन्द्रियम्
तेनास्य क्षरति प्रज्ञा दृतेः पादाद् इवोदकम् ॥

2.100

वशे कृत्वेन्द्रियग्रामं संयम्य च मनस् तथा
सर्वान् संसाधयेद् अर्थान् अक्षिण्वन् योगतस् तनुम् ॥

2.101

पूर्वां संध्यां जपांस् तिष्ठेत् सावित्रीम् आर्कदर्शनात्
पश्चिमां तु समासीनः सदासीत सम्यग् ऋक्षविभावनात् ॥

2.102

पूर्वां संध्यां जपंस् तिष्ठन् नैशम् एनो व्यपोहति
पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥

2.103

न तिष्ठति तु यः पूर्वां नोपास्ते यश् च पश्चिमाम्
स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥

2.104

अपां समीपे नियतो नैत्यकं विधिम् आस्थितः
सावित्रीम् अप्य् अधीयीत गत्वारण्यं समाहितः ॥

2.105

वेदोपकरणे चैव स्वाध्याये चैव नैत्यके
नानुरोधो ऽस्त्य् अनध्याये होममन्त्रेषु चैव हि ॥

2.106

नैत्यके नास्त्य् अनध्यायो ब्रह्मसत्त्रं हि तत् स्मृतम्
ब्रह्माहुतिहुतं पुण्यम् अनध्यायवषट्कृतम् ॥

2.107

यः स्वाध्यायम् अधीते ऽब्दं विधिना नियतः शुचिः
तस्य नित्यं क्षरत्य् एष पयो दधि घृतं मधु ॥

2.108

अग्नीन्धनं भैक्षचर्याम् अधःशय्यां गुरोर् हितम्
आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ॥

2.109

आचार्यपुत्रः शुश्रूषुर् ज्ञानदो धार्मिकः शुचिः
आप्तः शक्तो ऽर्थदः साधुः स्वो ऽध्याप्या दश धर्मतः ॥

2.110

नापृष्टः कस्य चिद् ब्रूयान् न चान्यायेन पृच्छतः
जानन्न् अपि हि मेधावी जडवल् लोक आचरेत् ॥

2.111

अधर्मेण च यः प्राह यश् चाधर्मेण पृच्छति
तयोर् अन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥

2.112

धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा
तत्र विद्या न वप्तव्या शुभं बीजम् इवोषरे ॥

2.113

विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना
आपद्य् अपि हि घोरायां न त्व् एनाम् इरिणे वपेत् ॥

2.114

विद्या ब्राह्मणम् एत्याह शेवधिस् ते शेवधिष् टे ऽस्मि रक्ष माम्
असूयकाय मां मादास् तथा स्यां वीर्यवत्तमा ॥

2.115

यम् एव तु शुचिं विद्यान् विद्या नियतब्रह्मचारिणम् नियतं ब्रह्मचारिणम्
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥

2.116

ब्रह्म यस् त्व् अननुज्ञातम् अधीयानाद् अवाप्नुयात्
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥

2.117

लौकिकं वैदिकं वापि तथाध्यात्मिकम् एव वा
आददीत यतो ज्ञानं तं पूर्वम् अभिवादयेत् ॥

2.118

सावित्रीमात्रसारो ऽपि वरं विप्रः सुयन्त्रितः
नायन्त्रितस् त्रिवेदो ऽपि सर्वाशी सर्वविक्रयी ॥

2.119

शय्यासने ऽध्याचरिते श्रेयसा न समाविशेत्
शय्यासनस्थश् चैवैनं प्रत्युत्थायाभिवादयेत् ॥

2.120

ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति
प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते ॥

2.121

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः
चत्वारि तस्य वर्धन्ते संप्रवर्धन्ते आयुर् धर्मो यशो बलम् ॥

2.122

अभिवादात् परं विप्रो ज्यायांसम् अभिवादयन्
असौ नामाहम् अस्मीति स्वं नाम परिकीर्तयेत् ॥

2.123

नामधेयस्य ये के चिद् अभिवादं न जानते
तान् प्राज्ञो ऽहम् इति ब्रूयात् स्त्रियः सर्वास् तथैव च ॥

2.124

भोःशब्दं कीर्तयेद् अन्ते स्वस्य नाम्नो ऽभिवादने
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥

2.125

आयुष्मान् भव सौम्येति वाच्यो विप्रो ऽभिवादने
अकारश् चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥

2.126

यो न वेत्त्य् अभिवादस्य विप्रः प्रत्यभिवादनम्
नाभिवाद्यः स विदुषा यथा शूद्रस् तथैव सः ॥

2.127

ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुम् अनामयम्
वैश्यं क्षेमं समागम्य शूद्रम् आरोग्यम् एव च ॥

2.128

अवाच्यो दीक्षितो नाम्ना यवीयान् अपि यो भवेत्
भोभवत्पूर्वकं त्व् एनम् अभिभाषेत धर्मवित् ॥

2.129

परपत्नी तु या स्त्री स्याद् असंबन्धा च योनितः
तां ब्रूयाद् भवतीत्य् एवं सुभगे भगिनीति च ॥

2.130

मातुलांश् च पितृव्यांश् च श्वशुरान् ऋत्विजो गुरून्
असाव् अहम् इति ब्रूयात् प्रत्युत्थाय यवीयसः ॥

2.131

मातृश्वसा मातुलानी श्वश्रूर् अथ पितृश्वसा
संपूज्या गुरुपत्नीवत् समास् ता गुरुभार्यया ॥

2.132

भ्रातुर् भार्योपसंग्राह्या सवर्णाहन्य् अहन्य् अपि
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥

2.133

पितुर् भगिन्यां मातुश् च ज्यायस्यां च स्वसर्य् अपि
मातृवद् वृत्तिम् आतिष्ठेन् माता ताभ्यो गरीयसी ॥

2.134

दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम्
त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥

2.135

ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम्
पितापुत्रौ विजानीयाद् ब्राह्मणस् तु तयोः पिता ॥

2.136

वित्तं बन्धुर् वयः कर्म विद्या भवति पञ्चमी
एतानि मान्य मान स्थानानि गरीयो यद् यद् उत्तरम् ॥

2.137

पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च
यत्र स्युः सो ऽत्र मानार्हः शूद्रो ऽपि दशमीं गतः ॥

2.138

चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः
स्नातकस्य च राज्ञश् च पन्था देयो वरस्य च ॥

2.139

तेषां तु समावेतानां मान्यौ स्नातकपार्थिवौ
राजस्नातकयोश् चैव स्नातको नृपमानभाक् ॥

2.140

उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः
सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ॥

2.141

एकदेशं तु वेदस्य वेदाङ्गान्य् अपि वा पुनः
यो ऽध्यापयति वृत्त्यर्थम् उपाध्यायः स उच्यते ॥

2.142

निषेकादीनि कर्माणि यः करोति यथाविधि
संभावयति चान्नेन स विप्रो गुरुर् उच्यते ॥

2.143

अग्न्याधेयं पाकयज्ञान् अग्निष्टोमादिकान् मखान्
यः करोति वृतो यस्य स तस्य र्त्विग् इहोच्यते ॥

2.144

य आवृणोत्य् अवितथं ब्रह्मणा श्रवणाव् उभौ
स माता स पिता ज्ञेयस् तं न द्रुह्येत् कदा चन ॥

2.145

उपाध्यायान् दशाचार्य आचार्याणां शतं पिता
सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ॥

2.146

उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥

2.147

कामान् माता पिता चैनं यद् उत्पादयतो मिथः
संभूतिं तस्य तां विद्याद् यद् योनाव् अभिजायते ॥

2.148

आचार्यस् त्व् अस्य यां जातिं विधिवद् वेदपारगः
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥

2.149

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः
तम् अपीह गुरुं विद्याच् छ्रुतोपक्रियया तया ॥

2.150

ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता
बालो ऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥

2.151

अध्यापयाम् आस पितॄन् शिशुर् आङ्गिरसः कविः
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥

2.152

ते तम् अर्थम् अपृच्छन्त देवान् आगतमन्यवः
देवाश् चैतान् समेत्योचुर् न्याय्यं वः शिशुर् उक्तवान् ॥

2.153

अज्ञो भवति वै बालः पिता भवति मन्त्रदः
अज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्रदम् ॥

2.154

न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः
ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् ॥

2.155

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः
वैश्यानां धान्यधनतः शूद्राणाम् एव जन्मतः ॥

2.156

न तेन वृद्धो भवति येनास्य पलितं शिरः
यो वै युवाप्य् अधीयानस् तं देवाः स्थविरं विदुः ॥

2.157

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः
यश् च विप्रो ऽनधीयानस् त्रयस् ते नाम बिभ्रति ॥

2.158

यथा षण्ढो ऽफलः स्त्रीषु यथा गौर् गवि चाफला
यथा चाज्ञे ऽफलं दानं तथा विप्रो ऽनृचो ऽफलः ॥

2.159

अहिंसयैव भूतानां कार्यं श्रेयो ऽनुशासनम्
वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्मम् इच्छता ॥

2.160

यस्य वाङ्गनसी शुद्धे सम्यग्गुप्ते च सर्वदा
स वै सर्वम् अवाप्नोति वेदान्तोपगतं फलम् ॥

2.161

नारुंतुदः स्याद् आर्तो ऽपि न परद्रोहकर्मधीः
ययास्योद्विजते वाचा नालोक्यां ताम् उदीरयेत् ॥

2.162

सम्मानाद् ब्राह्मणो नित्यम् उद्विजेत विषाद् इव
अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वदा ॥

2.163

सुखं ह्य् अवमतः शेते सुखं च प्रतिबुध्यते
सुखं चरति लोके ऽस्मिन्न् अवमन्ता विनश्यति ॥

2.164

अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः
गुरौ वसन् सञ्चिनुयाद् ब्रह्माधिगमिकं तपः ॥

2.165

तपोविशेषैर् विविधैर् व्रतैश् च विधिचोदितैः
वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥

2.166

वेदम् एव सदाभ्यस्येत् तपस् तप्स्यन् द्विजोत्तमः
वेदाभ्यासो हि विप्रस्य तपः परम् इहोच्यते ॥

2.167

आ हैव स नखाग्रेभ्यः परमं तप्यते तपः
यः स्रग्व्य् अपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥

2.168

यो ऽनधीत्य द्विजो वेदम् अन्यत्र कुरुते श्रमम्
स जीवन्न् एव शूद्रत्वम् आशु गच्छति सान्वयः ॥

2.169

मातुर् अग्रे ऽधिजननं द्वितीयं मौञ्जिबन्धने
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥

2.170

तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम्
तत्रास्य माता सावित्री पिता त्व् आचार्य उच्यते ॥

2.171

वेदप्रदानाद् आचार्यं पितरं परिचक्षते
न ह्य् अस्मिन् युज्यते कर्म किञ् चिद् आ मौञ्जिबन्धनात् ॥

2.172

नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते
शूद्रेण हि समस् तावद् यावद् वेदे न जायते ॥

2.173

कृतोपनयनस्यास्य व्रतादेशनम् इष्यते
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥

2.174

यद्य् अस्य विहितं चर्म यत् सूत्रं या च मेखला
यो दण्डो यच् च वसनं तत् तद् अस्य व्रतेष्व् अपि ॥

2.175

सेवेतेमांस् तु नियमान् ब्रह्मचारी गुरौ वसन्
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थम् आत्मनः ॥

2.176

नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम्
देवताभ्यर्चनं चैव समिदाधानम् एव च ॥

2.177

वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः
शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥

2.178

अभ्यङ्गम् अञ्जनं चाक्ष्णोर् उपानच्छत्रधारणम्
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥

2.179

द्यूतं च जनवादं च परिवादं तथानृतम्
स्त्रीणां च प्रेक्षणालम्भम् उपघातं परस्य च (म्: आलम्भाअव् ॥

2.180

एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्व चित्
कामाद् धि स्कन्दयन् रेतो हिनस्ति व्रतम् आत्मनः ॥

2.181

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः
स्नात्वार्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ॥

2.182

उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान्
आहरेद् यावद् अर्थानि भैक्षं चाहरहश् चरेत् ॥

2.183

वेदयज्ञैर् अहीनानां प्रशस्तानां स्वकर्मसु
ब्रह्मचार्य् आहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम् ॥

2.184

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु
अलाभे त्व् अन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥

2.185

सर्वं वापि चरेद् ग्रामं पूर्वोक्तानाम् असंभवे
नियम्य प्रयतो वाचम् अभिशस्तांस् तु वर्जयेत् ॥

2.186

दूराद् आहृत्य समिधः सन्निदध्याद् विहायसि
सायम्: प्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ॥

2.187

अकृत्वा भैक्षचरणम् असमिध्य च पावकं
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥

2.188

भैक्षेण वर्तयेन् नित्यं नैकान्नादी भवेद् व्रती
भैक्षेण व्रतिनो वृत्तिर् उपवाससमा स्मृता ॥

2.189

व्रतवद् देवदैवत्ये पित्र्ये कर्मण्य् अथ र्षिवत्
कामम् अभ्यर्थितो ऽश्नीयाद् व्रतम् अस्य न लुप्यते ॥

2.190

ब्राह्मणस्यैव कर्मैतद् उपदिष्टं मनीषिभिः
राजन्यवैश्ययोस् त्व् एवं नैतत् कर्म विधीयते ॥

2.191

चोदितो गुरुणा नित्यम् अप्रचोदित एव वा
कुर्याद् अध्ययने यत्नम् योगम् आचार्यस्य हितेषु च ॥

2.192

शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च
नियम्य प्राञ्जलिस् तिष्ठेद् वीक्षमाणो गुरोर् मुखम् ॥

2.193

नित्यम् उद्धृतपाणिः स्यात् साध्वाचारः सुसंवृतः
आस्यताम् इति चोक्तः सन्न् आसीताभिमुखं गुरोः ॥

2.194

हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरुसन्निधौ
उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥

2.195

प्रतिश्रावणसंभाषे शयानो न समाचरेत्
नासीनो न च भुञ्जानो न तिष्ठन् न पराङ्मुखः ॥

2.196

आसीनस्य स्थितः कुर्याद् अभिगच्छंस् तु तिष्ठतः
प्रत्युद्गम्य त्व् आव्रजतः पश्चाद् धावंस् तु धावतः ॥

2.197

पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम्
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥

2.198

नीचं शय्यासनं चास्य नित्यं स्याद् गुरुसन्निधौ
गुरोस् तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥

2.199

नोदाहरेद् अस्य नाम परोक्षम् अपि केवलम्
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥

2.200

गुरोर् यत्र परिवादो निन्दा वापि प्रवर्तते
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ॥

2.201

परीवादात् खरो भवति श्वा वै भवति निन्दकः
परिभोक्ता कृमिर् भवति कीटो भवति मत्सरी ॥

2.202

दूरस्थो नार्चयेद् एनं न क्रुद्धो नान्तिके स्त्रियाः
यानासनस्थश् चैवैनम् अवरुह्याभिवादयेत् ॥

2.203

प्रतिवाते ऽनुवाते प्रतिवातानुवाते च नासीत गुरुणा सह
असंश्रवे चैव गुरोर् न किं चिद् अपि कीर्तयेत् ॥

2.204

गोऽश्वोष्ट्रयानप्रासाद प्रस्तरेषु कटेषु च
आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥

2.205

गुरोर् गुरौ सन्निहिते गुरुवद् वृत्तिम् आचरेत्
न चानिसृष्टो गुरुणा स्वान् गुरून् अभिवादयेत् ॥

2.206

विद्यागुरुष्व् एवम् एव नित्या वृत्तिः स्वयोनिषु
प्रतिषेधत्सु चाधर्माद् धितं चोपदिशत्स्व् अपि ॥

2.207

श्रेयःसु गुरुवद् वृत्तिं नित्यम् एव समाचरेत्
गुरुपुत्रेषु चार्येषु गुरुपुत्रे तथाचार्ये गुरोश् चैव स्वबन्धुषु ॥

2.208

बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि
अध्यापयन् गुरुसुतो गुरुवन् मानम् अर्हति ॥

2.209

उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने
न कुर्याद् गुरुपुत्रस्य पादयोश् चावनेजनम् ॥

2.210

गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः
असवर्णास् तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥

2.211

अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥

2.212

गुरुपत्नी तु युवतिर् नाभिवाद्येह पादयोः
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥

2.213

स्वभाव एष नारीणां नराणाम् इह दूषणम्
अतो ऽर्थान् न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥

2.214

अविद्वांसम् अलं लोके विद्वांसम् अपि वा पुनः
प्रमदा ह्य् उत्पथं नेतुं कामक्रोधवशानुगम् ॥

2.215

मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत्
बलवान् इन्द्रियग्रामो विद्वांसम् अपि कर्षति ॥

2.216

कामं तु गुरुपत्नीनां युवतीनां युवा भुवि
विधिवद् वन्दनं कुर्याद् असाव् अहम् इति ब्रुवन् ॥

2.217

विप्रोष्य पादग्रहणम् अन्वहं चाभिवादनम्
गुरुदारेषु कुर्वीत सतां धर्मम् अनुस्मरन् ॥

2.218

यथा खनन् खनित्रेण नरो वार्य् अधिगच्छति
तथा गुरुगतां विद्यां शुश्रूषुर् अधिगच्छति ॥

2.219

मुण्डो वा जटिलो वा स्याद् अथ वा स्याच् छिखाजटः
नैनं ग्रामे ऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्व चित् ॥

2.220

तं चेद् अभ्युदियात् सूर्यः शयानं कामचारतः
निम्लोचेद् वाप्य् अविज्ञानाज् जपन्न् उपवसेद् दिनम् ॥

2.221

सूर्येण ह्य् अभिनिर्मुक्तः अभिनिम्लुक्तः शयानो ऽभ्युदितश् च यः
प्रायश्चित्तम् अकुर्वाणो युक्तः स्यान् महतैनसा ॥

2.222

आचम्य प्रयतो नित्यम् उभे संध्ये समाहितः
शुचौ देशे जपञ् जप्यम् उपासीत यथाविधि ॥

2.223

यदि स्त्री यद्य् अवरजः श्रेयः किं चित् समाचरेत्
तत् सर्वम् आचरेद् युक्तो यत्र चास्य रमेन् मनः ॥

2.224

धर्मार्थाव् उच्यते श्रेयः कामार्थौ धर्म एव च
अर्थ एवेह वा श्रेयस् त्रिवर्ग इति तु स्थितिः ॥

2.225

आचार्यश् च पिता चैव माता भ्राता च पूर्वजः
नार्तेनाप्य् अवमन्तव्या ब्राह्मणेन विशेषतः ॥

2.226

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः
माता पृथिव्या मूर्तिस् तु भ्राता स्वो मूर्तिर् आत्मनः ॥

2.227

यं मातापितरौ क्लेशं सहेते संभवे नृणाम्
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैर् अपि ॥

2.228

तयोर् नित्यं प्रियं कुर्याद् आचार्यस्य च सर्वदा
तेष्व् एव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥

2.229

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते
न तैर् अनभ्यनुज्ञातो धर्मम् अन्यं समाचरेत् ॥

2.230

त एव हि त्रयो लोकास् त एव त्रय आश्रमाः
त एव हि त्रयो वेदास् त एवोक्तास् त्रयो ऽग्नयः ॥

2.231

पिता वै गार्हपत्यो ऽग्निर् माताग्निर् दक्षिणः स्मृतः
गुरुर् आहवनीयस् तु साग्नित्रेता गरीयसी ॥

2.232

त्रिष्व् अप्रमाद्यन्न् एतेषु त्रीन् लोकान् विजयेद् गृही
दीप्यमानः स्ववपुषा देववद् दिवि मोदते ॥

2.233

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम्
गुरुशुश्रूषया त्व् एवं ब्रह्मलोकं समश्नुते ॥

2.234

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः
अनादृतास् तु यस्यैते सर्वास् तस्याफलाः क्रियाः ॥

2.235

यावत् त्रयस् ते जीवेयुस् तावन् नान्यं समाचरेत्
तेष्व् एव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ॥

2.236

तेषाम् अनुपरोधेन पारत्र्यं यद् यद् आचरेत्
तत् तन् निवेदयेत् तेभ्यो मनोवचनकर्मभिः ॥

2.237

त्रिष्व् एतेष्व् इतिकृत्यं हि पुरुषस्य समाप्यते
एष धर्मः परः साक्षाद् उपधर्मो ऽन्य उच्यते ॥

2.238

श्रद्दधानः शुभां विद्याम् आददीतावराद् अपि
अन्याद् अपि परं धर्मं स्त्रीरत्नं दुष्कुलाद् अपि ॥

2.239

विषाद् अप्य् अमृतं ग्राह्यं बालाद् अपि सुभाषितम्
अमित्राद् अपि सद्वृत्तम् अमेध्याद् अपि काञ्चनम् ॥

2.240

स्त्रियो रत्नान्य् अथो विद्या धर्मः शौचं सुभाषितम्
विविधानि च शील्पानि समादेयानि सर्वतः ॥

2.241

अब्राह्मणाद् अध्यायनम् आपत्काले विधीयते
अनुव्रज्या च शुश्रूषा यावद् अध्यायनं गुरोः ॥

2.242

नाब्राह्मणे गुरौ शिष्यो वासम् आत्यन्तिकं वसेत्
ब्राह्मणे वाननूचाने काङ्क्षन् गतिम् अनुत्तमाम् ॥

2.243

यदि त्व् आत्यन्तिकं वासं रोचयेत गुरोः कुले
युक्तः परिचरेद् एनम् आ शरीरविमोक्षणात् ॥

2.244

आ समाप्तेः शरीरस्य यस् तु शुश्रूषते गुरुम्
स गच्छत्य् अञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥

2.245

न पूर्वं गुरवे किं चिद् उपकुर्वीत धर्मवित्
स्नास्यंस् तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थम् आहरेत् ॥

2.246

क्षेत्रं हिरण्यं गाम् अश्वं छत्रोपानहम् आसनम् अन्ततः
धान्यं शाकं च वासांसि वासांसि शाकं वा गुरवे प्रीतिम् आवहेत् आहरन् ॥

2.247

आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते
गुरुदारे सपिण्डे वा गुरुवद् वृत्तिम् आचरेत् ॥

2.248

एतेष्व् अविद्यमानेषु स्थानासनविहारवान्
प्रयुञ्जानो ऽग्निशुश्रूषां साधयेद् देहम् आत्मनः ॥

2.249

एवं चरति यो विप्रो ब्रह्मचर्यम् अविप्लुतः
स गच्छत्य् उत्तमस्थानं न चेह जायते पुनः ॥

मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc