मनुस्मृति · अध्याय 1
मनुम् एकाग्रम् आसीनम् अभिगम्य महर्षयः
प्रतिपूज्य यथान्यायम् इदं वचनम् अब्रुवन् ॥
भगवन् सर्ववर्णानां यथावद् अनुपूर्वशः
अन्तरप्रभवानां च धर्मान् नो वक्तुम् अर्हसि ॥
त्वम् एको ह्य् अस्य सर्वस्य विधानस्य स्वयंभुवः
अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ॥
स तैः पृष्टस् तथा सम्यग् अमितौजा महात्मभिः
प्रत्युवाचार्च्य तान् सर्वान् महर्षीञ् श्रूयताम् इति ॥
आसीद् इदं तमोभूतम् अप्रज्ञातम् अलक्षणम्
अप्रतर्क्यम् अविज्ञेयं प्रसुप्तम् इव सर्वतः ॥
ततः स्वयंभूर् भगवान् अव्यक्तो व्यञ्जयन्न् इदम्
महाभूतादि वृत्तौजाः प्रादुर् आसीत् तमोनुदः ॥
यो ऽसाव् अतीन्द्रियग्राह्यः सूक्ष्मो ऽव्यक्तः सनातनः
सर्वभूतमयो ऽचिन्त्यः स एव स एष स्वयम् उद्बभौ ॥
सो ऽभिध्याय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः
अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥
तद् अण्डम् अभवद् धैमं सहस्रांशुसमप्रभम्
तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥
आपो नरा इति प्रोक्ता आपो वै नरसूनवः
ता यद् अस्यायनं पूर्वं तेन नारायणः स्मृतः ॥
यत् तत् कारणम् अव्यक्तं नित्यं सदसदात्मकं
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥
तस्मिन्न् अण्डे स भगवान् उषित्वा परिवत्सरम्
स्वयम् एवात्मनो ध्यानात् तद् अण्डम् अकरोद् द्विधा ॥
ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे
मध्ये व्योम दिशश् चाष्टाव् अपां स्थानं च शाश्वतं ॥
उद्बबर्हात्मनश् चैव मनः सदसदात्मकम्
मनसश् चाप्य् अहंकारम् अभिमन्तारम् ईश्वरम् ॥
महान्तम् एव चात्मानं सर्वाणि त्रिगुणानि च
विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च ॥
तेषां त्व् अवयवान् सूक्ष्मान् षण्णाम् अप्य् अमितौजसाम्
संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥
यन् मूर्त्यवयवाः सूक्ष्मास् तानीमान्य् आश्रयन्ति षट्
तस्माच् छरीरम् इत्य् आहुस् तस्य मूर्तिं मनीषिणः ॥
तद् आविशन्ति भूतानि महान्ति सह कर्मभिः
मनश् चावयवैः सूक्ष्मैः सर्वभूतकृद् अव्ययम् ॥
तेषाम् इदं तु सप्तानां पुरुषाणां महौजसाम्
सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्य् अव्ययाद् व्ययम् ॥
आद्याद्यस्य गुणं त्व् एषाम् अवाप्नोति परः परः
यो यो यावतिथश् चैषां स स तावद् गुणः स्मृतः ॥
सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक्
वेदशब्देभ्य एवादौ पृथक् संस्थाश् च निर्ममे ॥
कर्मात्मनां च देवानां सो ऽसृजत् प्राणिनां प्रभुः
साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥
अग्निवायुरविभ्यस् तु त्रयं ब्रह्म सनातनम्
दुदोह यज्ञसिद्ध्यर्थम् ऋग्यजुःसामलक्षणम् ॥
कालं कालविभक्तीश् च नक्षत्राणि ग्रहांस् तथा
सरितः सागराञ् शैलान् समानि विषमानि च ॥
तपो वाचं रतिं चैव कामं च क्रोधम् एव च
सृष्टिं ससर्ज चैवेमां स्रष्टुम् इच्छन्न् इमाः प्रजाः ॥
कर्मणां च विवेकार्थं विवेकाय धर्माधर्मौ व्यवेचयत्
द्वन्द्वैर् अयोजयच् चेमाः सुखदुःखादिभिः प्रजाः ॥
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः
ताभिः सार्धम् इदं सर्वं संभवत्य् अनुपूर्वशः ॥
यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः
स तद् एव स्वयं भेजे सृज्यमानः पुनः पुनः ॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्माव् ऋतानृते
यद् यस्य सो ऽदधात् सर्गे तत् तस्य स्वयम् आविशत् ॥
यथा र्तुलिङ्गान्य् ऋतवः स्वयम् एव र्तुपर्यये
स्वानि स्वान्य् अभिपद्यन्ते तथा कर्माणि देहिनः ॥
लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥
द्विधा कृत्वात्मनो देहम् अर्धेन पुरुषो ऽभवत्
अर्धेन नारी तस्यां स विराजम् असृजत् प्रभुः ॥
तपस् तप्त्वासृजद् यं तु स स्वयं पुरुषो विराट्
तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥
अहं प्रजाः सिसृक्षुस् तु तपस् तप्त्वा सुदुश्चरम्
पतीन् प्रजानाम् असृजं महर्षीन् आदितो दश ॥
मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम्
प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च ॥
एते मनूंस् तु सप्तान् यान् असृजन् भूरितेजसः
देवान् देवनिकायांश् च महर्षींश् चामितौजसः ॥
यक्षरक्षःपिशाचांश् च गन्धर्वाप्सरसो ऽसुरान्
नागान् सर्पान् सुपर्णांश् च पितॄणांश् पितॄणां च पृथग्गणम् ॥
विद्युतो ऽशनिमेघांश् च रोहितेन्द्रधनूंषि च
उल्कानिर्घातकेतूंश् च ज्योतींष्य् उच्चावचानि च ॥
किन्नरान् वानरान् मत्स्यान् विविधांश् च विहङ्गमान्
पशून् मृगान् मनुष्यांश् च व्यालांश् चोभयतोदतः ॥
कृमिकीटपतङ्गांश् च यूकामक्षिकमत्कुणम्
सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥
एवम् एतैर् इदं सर्वं मन्नियोगान् महात्मभिः
यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥
येषां तु यादृषं कर्म भूतानाम् इह कीर्तितम्
तत् तथा वो ऽभिधास्यामि क्रमयोगं च जन्मनि ॥
पशवश् च मृगाश् चैव व्यालाश् चोभयतोदतः
रक्षांसि च पिशाचाश् च मनुष्याश् च मनुषाश् च जरायुजाः ॥
अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश् च कच्छपाः
यानि चैवम्: प्रकाराणि स्थलजान्य् औदकानि च ॥
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम्
ऊष्मणश् चोपजायन्ते यच् चान्यत् किं चिद् ईदृषम् ॥
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः
ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः
पुष्पिणः फलिनश् चैव वृक्षास् तूभयतः स्मृताः ॥
गुच्छगुल्मं तु विविधं तथैव तृणजातयः
बीजकाण्डरुहाण्य् एव प्रताना वल्ल्य एव च ॥
तमसा बहुरूपेण वेष्टिताः कर्महेतुना
अन्तःसंज्ञा भवन्त्य् एते सुखदुःखसमन्विताः ॥
एतदन्तास् तु गतयो ब्रह्माद्याः समुदाहृताः
घोरे ऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥
एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः
आत्मन्य् अन्तर्दधे भूयः कालं कालेन पीडयन् ॥
यदा स देवो जागर्ति तद् एवं चेष्टते जगत्
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥
तस्मिन् स्वपिति स्वपति तु स्वस्थे कर्मात्मानः शरीरिणः
स्वकर्मभ्यो निवर्तन्ते मनश् च ग्लानिम् ऋच्छति ॥
युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि
तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥
तमो ऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः
न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥
यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च
समाविशति संसृष्टस् तदा मूर्तिं विमुञ्चति ॥
एवं स जाग्रत्स्वप्नाभ्याम् इदं सर्वं चराचरम्
संजीवयति चाजस्रं प्रमापयति चाव्ययः ॥
इदं शास्त्रं तु कृत्वासौ माम् एव स्वयम् आदितः
विधिवद् ग्राहयाम् आस मरीच्यादींस् त्व् अहं मुनीन् ॥
एतद् वो ऽयं भृगुः शास्त्रं श्रावयिष्यत्य् अशेसतः
एतद् धि मत्तो ऽधिजगे सर्वम् एषो ऽखिलं मुनिः ॥
ततस् तथा स तेनोक्तो महर्षिमनुना भृगुः
तान् अब्रवीद् ऋषीन् सर्वान् प्रीतात्मा श्रूयताम् इति ॥
स्वायंभुवस्यास्य मनोः षड्वंश्या मनवो ऽपरे
सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥
स्वारोचिषश् चोत्तमश् च तामसो रैवतस् तथा
चाक्षुषश् च महातेजा विवस्वत्सुत एव च ॥
स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः
स्वे स्वे ऽन्तरे सर्वम् इदम् उत्पाद्यापुश् चराचरम् ॥
निमेषा दश चाष्टौ च काष्ठा त्रिंशत् तु ताः कला
त्रिंशत् कला मुहूर्तः स्याद् अहोरात्रं तु तावतः ॥
अहोरात्रे विभजते सूर्यो मानुषदैविके
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणाम् अहः ॥
पित्र्ये रात्र्यहनी मासः प्रविभागस् तु पक्षयोः
कर्मचेष्टास्व् अहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥
दैवे रात्र्यहनी वर्षं प्रविभागस् तयोः पुनः
अहस् तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम् ॥
ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः
एकैकशो युगानां तु क्रमशस् तन् निबोधत ॥
चत्वार्य् आहुः सहस्राणि वर्साणां तत् कृतं युगम्
तस्य तावच् छती संध्या संध्यांशश् च तथाविधः ॥
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥
यद् एतत् परिसंख्यातम् आदाव् एव चतुर्युगम्
एतद् द्वादशसाहस्रं देवानां युगम् उच्यते ॥
दैविकानां युगानां तु सहस्रं परिसंख्यया
ब्राह्मम् एकम् अहर् ज्ञेयं तावतीं रात्रिम् एव च तावती रात्रिर् एव च ॥
तद् वै युगसहस्रान्तं ब्राह्मं पुण्यम् अहर् विदुः
रात्रिं च तावतीम् एव ते ऽहोरात्रविदो जनाः ॥
तस्य सो ऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते
प्रतिबुद्धश् च सृजति मनः सदसदात्मकम् ॥
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया
आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः ॥
आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः
बलवाञ् जायते वायुः स वै स्पर्शगुणो मतः ॥
वायोर् अपि विकुर्वाणाद् विरोचिष्णु तमोनुदम्
ज्योतिर् उत्पद्यते भास्वत् तद् रूपगुणम् उच्यते ॥
ज्योतिषश् च विकुर्वाणाद् आपो रसगुणाः स्मृताः
अद्भ्यो गन्धगुणा भूमिर् इत्य् एषा सृष्टिर् आदितः ॥
यद् प्राग् द्वादशसाहस्रम् उदितं दैविकं युगम्
तद् एकसप्ततिगुणं मन्वन्तरम् इहोच्यते ॥
मन्वन्तराण्य् असंख्यानि सर्गः संहार एव च
क्रीडन्न् इवैतत् कुरुते परमेष्ठी पुनः पुनः ॥
चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे
नाधर्मेणागमः कश् चिन् मनुष्यान् प्रति वर्तते उपवर्तते ॥
इतरेष्व् आगमाद् धर्मः पादशस् त्व् अवरोपितः
चौरिकानृतमायाभिर् धर्मश् चापैति पादशः ॥
अरोगाः सर्वसिद्धार्थाश् चतुर्वर्षशतायुषः
कृते त्रेतादिषु ह्य् एषां आयुर् ह्रसति वयो ह्रसति पादशः ॥
वेदोक्तम् आयुर् मर्त्यानाम् आशिषश् चैव कर्मणाम्
फलन्त्य् अनुयुगं लोके प्रभावश् च शरीरिणाम् ॥
अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे ऽपरे परे
अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥
तपः परं कृतयुगे त्रेतायां ज्ञानम् उच्यते
द्वापरे यज्ञम् एवाहुर् दानम् एकं कलौ युगे ॥
सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः
मुखबाहूरुपज्जानां पृथक्कर्माण्य् अकल्पयत् ॥
अध्यापनम् अध्ययनं यजनं याजनं तथा
दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥
प्रजानां रक्षणं दानम् इज्याध्ययनम् एव च
विषयेष्व् अप्रसक्तिश् च क्षत्रियस्य समासतः समादिशत् ॥
पशूनां रक्षणं दानम् इज्याध्ययनम् एव च
वणिक्पथं कुसीदं च वैश्यस्य कृषिम् एव च ॥
एकम् एव तु शूद्रस्य प्रभुः कर्म समादिशत्
एतेषाम् एव वर्णानां शुश्रूषाम् अनसूयया ॥
ऊर्ध्वं नाभेर् मेध्यतरः पुरुषः परिकीर्तितः
तस्मान् मेध्यतमं त्व् अस्य मुखम् उक्तं स्वयंभुवा ॥
उत्तमाङ्गोद्भवाज् ज्येष्ठ्याद् ज्यैष्ठ्याद् ब्रह्मणश् चैव धारणात्
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥
तं हि स्वयंभूः स्वाद् आस्यात् तपस् तप्त्वादितो ऽसृजत्
हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥
यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः
कव्यानि चैव पितरः किं भूतम् अधिकं ततः ॥
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥
उत्पत्तिर् एव विप्रस्य मूर्तिर् धर्मस्य शाश्वती
स हि धर्मार्थम् उत्पन्नो ब्रह्मभूयाय कल्पते ॥
ब्राह्मणो जायमानो हि पृथिव्याम् अधिजायते
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥
सर्वं स्वं ब्राह्मणस्येदं यत् किं चिज् जगतीगतं
श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणो ऽर्हति ॥
स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च
आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥
तस्य कर्मविवेकार्थं शेषाणाम् अनुपूर्वशः
स्वायंभुवो मनुर् धीमान् इदं शास्त्रम् अकल्पयत् ॥
विदुषा ब्राह्मणेनेदम् अध्येतव्यं प्रयत्नतः
शिश्येभ्यश् च प्रवक्तव्यं सम्यङ् नान्येन केन चित् ॥
इदं शास्त्रम् अधीयानो ब्राह्मणः शंसितव्रतः
मनोवाग्गेहजैर् नित्यं कर्मदोषैर् न लिप्यते ॥
पुनाति पङ्क्तिं वंश्यांश् च सप्तसप्त परावरान्
पृथिवीम् अपि चैवेमां कृत्स्नाम् एको ऽपि सो ऽर्हति ॥
इदं स्वस्त्ययनं श्रेष्ठम् इदं बुद्धिविवर्धनम्
इदं यशस्यम् आयुष्यम् इदं इदं यशस्यं सततम् निःश्रेयसं परम् ॥
अस्मिन् धर्मो ऽखिलेनोक्तो गुणदोषौ च कर्मणाम्
चतुर्णाम् अपि वर्णानाम् आचारश् चैव शाश्वतः ॥
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च
तस्माद् अस्मिन् सदा युक्तो नित्यं स्याद् आत्मवान् द्विजः ॥
आचाराद् विच्युतो विप्रो न वेदफलम् अश्नुते
आचारेण तु संयुक्तः सम्पूर्णफलभाज् भवेत् संपूर्णफलभाक् स्मृतः ॥
एवम् आचारतो दृष्ट्वा धर्मस्य मुनयो गतिं
सर्वस्य तपसो मूलम् आचारं जगृहुः परम् ॥
जगतश् च समुत्पत्तिं संस्कारविधिम् एव च
व्रतचर्योपचारं च स्नानस्य च परं विधिम् ॥
दाराधिगमनं चैव विवाहानां च लक्षणम्
महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिम् एव च ॥
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासम् एव च
राज्ञश् च धर्मम् अखिलं कार्याणां च विनिर्णयम् ॥
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोर् अपि
विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम्
आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ॥
संसारगमनं चैव त्रिविधं कर्मसंभवम्
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥
देशधर्माञ् जातिधर्मान् कुलधर्मांश् च शाश्वतान्
पाषण्डगणधर्मांश् च शास्त्रे ऽस्मिन्न् उक्तवान् मनुः ॥
यथेदम् उक्तवाञ् शास्त्रं पुरा पृष्टो मनुर् मया
तथेदं यूयम् अप्य् अद्य मत्सकाशान् निबोधत ॥
मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0