भाषा

ENहिગુ
ग्रंथ पाठ

मनुस्मृति · अध्याय 11

11.1

सान्तानिकं यक्ष्यमाणम् अध्वगं सार्ववेदसम्
गुर्वर्थं पितृमात्रर्थं स्वाध्यायार्थ्य् उपतापिनः ॥

11.2

न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान्
निःस्वेभ्यो देयम् एतेभ्यो दानं विद्याविशेषतः ॥

11.3

एतेभ्यो हि द्विजाग्र्येभ्यो देयम् अन्नं सदक्षिणम्
इतरेभ्यो बहिर्वेदि कृतान्नं देयम् उच्यते ॥

11.4

सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत्
ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥

11.5

कृतदारो ऽपरान् दारान् भिक्षित्वा यो ऽधिगच्छति
रतिमात्रं फलं तस्य द्रव्यदातुस् तु संततिः ॥

11.6

धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत्
वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ॥

11.7

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये
अधिकं वापि विद्येत स सोमं पातुम् अर्हति ॥

11.8

अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः
स पीतसोमपूर्वो ऽपि न तस्याप्नोति तत्फलम् ॥

11.9

शक्तः परजने दाता स्वजने दुःखजीविनि
मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥

11.10

भृत्यानाम् उपरोधेन यत् करोत्य् और्ध्वदेहिकम्
तद् भवत्य् असुखोदर्कं जीवतश् च मृतस्य च ॥

11.11

यज्ञश् चेत् प्रतिरुद्धः स्याद् एकेनाङ्गेन यज्वनः
ब्राह्मणस्य विशेषेन धार्मिके सति राजनि ॥

11.12

यो वैश्यः स्याद् बहुपशुर् हीनक्रतुर् असोमपः
कुटुम्बात् तस्य तद् द्रव्यम् आहरेद् यज्ञसिद्धये ॥

11.13

आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः
न हि शूद्रस्य यज्ञेषु कश् चिद् अस्ति परिग्रहः ॥

11.14

यो ऽनाहिताग्निः शतगुर् अयज्वा अयज्ञश् च सहस्रगुः
तयोर् अपि कुटुम्बाभ्याम् आहरेद् अविचारयन् ॥

11.15

आदाननित्याच् चादातुर् आहरेद् अप्रयच्छतः
तथा यशो ऽस्य प्रथते धर्मश् चैव प्रवर्धते ॥

11.16

तथाऐव सप्तमे भक्ते भक्तानि षड् अनश्नता
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥

11.17

खलात् क्षेत्राद् अगाराद् वा यतो वाप्य् उपलभ्यते
आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥

11.18

ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन
दस्युनिष्क्रिययोस् तु स्वम् अजीवन् हर्तुम् अर्हति ॥

11.19

यो ऽसाधुभ्यो ऽर्थम् आदाय साधुभ्यः संप्रयच्छति
स कृत्वा प्लवम् आत्मानं संतारयति ताव् उभौ ॥

11.20

यद् धनं यज्ञशीलानां देवस्वं तद् विदुर् बुधाः
अयज्वनां तु यद् वित्तम् आसुरस्वं तद् उच्यते ॥

11.21

न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः
क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ॥

11.22

तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः
श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ॥

11.23

कल्पयित्वास्य वृत्तिं च रक्षेद् एनं समन्ततः
राजा हि धर्मषड्भागं तस्मात् प्राप्नोति रक्षितात् ॥

11.24

न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत कर्हि चित्
यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥

11.25

याज्ञार्थम् अर्थं भिक्षित्वा यो न सर्वं प्रयच्छति
स याति भासतां विप्रः काकतां वा शतं समाः ॥

11.26

देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः
स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥

11.27

इष्टिं वैश्वानरीं नित्यं निर्वपेद् अब्दपर्यये
कॢप्तानां पशुसोमानां निष्कृत्यर्थम् असंभवे ॥

11.28

आपत्कल्पेन यो धर्मं कुरुते ऽनापदि द्विजः
स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥

11.29

विश्वैश् च देवैः साध्यैश् च ब्राह्मणैश् च महर्षिभिः
आपत्सु मरणाद् भीतैर् विधेः प्रतिनिधिः कृतः ॥

11.30

प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते
न सांपरायिकं तस्य दुर्मतेर् विद्यते फलम् ॥

11.31

न ब्राह्मणो वेदयेत किं चिद् राजनि धर्मवित्
स्ववीर्येणैव ताञ् शिष्यान् मानवान् अपकारिणः ॥

11.32

स्ववीर्याद् राजवीर्याच् च स्ववीर्यं बलवत्तरम्
तस्मात् स्वेनैव वीर्येण निगृह्णीयाद् अरीन् द्विजः ॥

11.33

श्रुतीर् अथर्वाङ्गिरसीः कुर्याद् इत्य् अविचारयन्
वाक्शस्त्रं वै ब्राह्मणस्य तेन हन्याद् अरीन् द्विजः ॥

11.34

क्षत्रियो बाहुवीर्येण तरेद् आपदम् आत्मनः
धनेन वैश्यशूद्रौ तु जपहोमैर् द्विजोत्तमः ॥

11.35

विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते
तस्मै नाकुशलं ब्रूयान् न शुष्कां गिरम् ईरयेत् ॥

11.36

न वै कन्या न युवतिर् नाल्पविद्यो न बालिशः
होता स्याद् अग्निहोत्रस्य नार्तो नासंस्कृतस् तथा ॥

11.37

नरके हि पतन्त्य् एते जुह्वन्तः जुह्वतः स च यस्य तत्
तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ॥

11.38

प्राजापत्यम् अदत्त्वाश्वम् अग्न्याधेयस्य दक्षिणाम्
अनाहिताग्निर् भवति ब्राह्मणो विभवे सति ॥

11.39

पुण्यान्य् अन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः
न त्व् अल्पदक्षिणैर् यज्ञैर् यजेतेह कथं चन ॥

11.40

इन्द्रियाणि यशः स्वर्गम् आयुः कीर्तिं प्रजाः पशून्
हन्त्य् अल्पदक्षिणो यज्ञस् तस्मान् नाल्पधनो यजेत् ॥

11.41

अग्निहोत्र्य् अपविध्याग्नीन् ब्राह्मणः कामकारतः
चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥

11.42

ये शूद्राद् अधिगम्यार्थम् अग्निहोत्रम् उपासते
ऋत्विजस् ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥

11.43

तेषां सततम् अज्ञानां वृषलाग्न्युपसेविनाम्
पदा मस्तकम् आक्रम्य दाता दुर्गाणि संतरेत् ॥

11.44

अकुर्वन् विहितं कर्म निन्दितं च समाचरन्
प्रसक्तश् चेन्द्रियार्थेषु प्रसज्जन् इन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥

11.45

अकामतः कृते पापे प्रायश्चित्तं विदुर् बुधाः
कामकारकृते ऽप्य् आहुर् एके श्रुतिनिदर्शनात् ॥

11.46

अकामतः कृतं पापं वेदाभ्यासेन शुध्यति
कामतस् तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ॥

11.47

प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा
न संसर्गं व्रजेत् सद्भिः प्रायश्चित्ते ऽकृते द्विजः ॥

11.48

इह दुश्चरितैः के चित् के चित् पूर्वकृतैस् तथा
प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥

11.49

सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम्
ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥

11.50

पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम्
धान्यचौरो ऽङ्गहीनत्वम् आतिरैक्यं तु मिश्रकः ॥

11.51

अन्नहर्तामयावित्वं मौक्यं वागपहारकः
वस्त्रापहारकः श्वैत्र्यं पङ्गुताम् अश्वहारकः ॥

11.52

एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः
जडमूकान्धबधिरा विकृताकृतयस् तथा ॥

11.53

चरितव्यम् अतो नित्यं प्रायश्चित्तं विशुद्धये
निन्द्यैर् हि लक्षणैर् युक्ता जायन्ते ऽनिष्कृतैनसः ॥

11.54

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः
महान्ति पातकान्य् आहुः संसर्गश् चापि तैः सह ॥

11.55

अनृतं च समुत्कर्षे राजगामि च पैशुनम्
गुरोश् चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥

11.56

ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः
गर्हितानाद्ययोर् जग्धिः सुरापानसमानि षट् ॥

11.57

निक्षेपस्यापहरणं नराश्वरजतस्य च
भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥

11.58

रेतःसेकः स्वयोनीषु कुमारीष्व् अन्त्यजासु च
सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥

11.59

गोवधो ऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः
गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥

11.60

परिवित्तितानुजे ऽनूढे परिवेदनम् एव च
तयोर् दानं च कन्यायास् तयोर् एव च याजनम् ॥

11.61

कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम्
तडागारामदाराणाम् अपत्यस्य च विक्रयः ॥

11.62

व्रात्यता बान्धवत्यागो भृत्याध्यापनम् एव च
भृत्या भृताच् चाध्ययनादानम् अपण्यानां च विक्रयः ॥

11.63

सर्वाकारेष्व् अधीकारो महायन्त्रप्रवर्तनम्
हिंसौषधीनां स्त्र्याजीवो ऽभिचारो मूलकर्म च ॥

11.64

इन्धनार्थम् अशुष्काणां द्रुमाणाम् अवपातनम्
आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥

11.65

अनाहिताग्निता स्तेयम् ऋणानाम् अनपक्रिया
असच्छाष्ट्राधिगमनं कौशीलव्यस्य च क्रिया ॥

11.66

धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम्
स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥

11.67

ब्राह्मणस्य रुजः कृत्वा रुजःकृत्यं घ्रातिर् अघ्रेयमद्ययोः
जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥

11.68

खराश्वोष्ट्रमृगेभानाम् अजाविकवधस् तथा
संकरीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥

11.69

निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम्
अपात्रीकरणं ज्ञेयम् असत्यस्य च भाषणम् ॥

11.70

कृमिकीटवयोहत्या मद्यानुगतभोजनम्
फलैधःकुसुमस्तेयम् अधैर्यं च मलावहम् ॥

11.71

एतान्य् एनांसि सर्वाणि यथोक्तानि पृथक् पृथक्
यैर् यैर् व्रतैर् अपोह्यन्ते तानि सम्यङ् निबोधत ॥

11.72

ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत्
भैक्षाश्य् आत्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् ॥

11.73

लक्ष्यं शस्त्रभृतां वा स्याद् विदुषाम् इच्छयात्मनः
प्रास्येद् आत्मानम् अग्नौ वा समिद्धे त्रिर् अवाक्शिराः ॥

11.74

यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा
अभिजिद्विश्वजिद्भ्यां वा त्रिवृताग्निष्टुतापि वा ॥

11.75

जपन् वान्यतमं वेदं योजनानां शतं व्रजेत्
ब्रह्महत्यापनोदाय मितभुङ् नियतेन्द्रियः ॥

11.76

सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत्
धनं हि जीवनायालं गृहं वा सपरिच्छदम् ॥

11.77

हविष्यभुग् वानुसरेत् प्रतिस्रोतः सरस्वतीम्
जपेद् वा नियताहारस् त्रिर् वै वेदस्य संहिताम् ॥

11.78

कृतवापनो निवसेद् ग्रामान्ते गोव्रजे ऽपि वा
आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥

11.79

ब्राह्मणार्थे गवार्थे वा सद्यः संयक् प्राणान् परित्यजेत्
मुच्यते ब्रह्महत्याया गोप्ता गोर् ब्राह्मणस्य च ॥

11.80

त्रिवारं त्र्यवरं प्रतिरोद्धा वा सर्वस्वम् अवजित्य वा
विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ऽपि मुच्यते ॥

11.81

एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः
समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥

11.82

शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे
स्वम् एनो ऽवभृथस्नातो हयमेधे विमुच्यते ॥

11.83

धर्मस्य ब्राह्मणो मूलम् अग्रं राजन्य उच्यते
तस्मात् समागमे तेषाम् एनो विख्याप्य शुध्यति ॥

11.84

ब्रह्मणः संभवेनैव देवानाम् अपि दैवतम्
प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ॥

11.85

तेषां वेदविदो ब्रूयुस् त्रयो ऽप्य् एनः सुनिष्कृतिम्
सा तेषां पावनाय स्यात् पवित्रा पवित्रं विदुषां हि वाक् ॥

11.86

अतो ऽन्यतमम् आस्थाय विधिं विप्रः समाहितः
ब्रह्महत्याकृतं पापं व्यपोहत्य् आत्मवत्तया ॥

11.87

हत्वा गर्भम् अविज्ञातम् एतद् एव व्रतं चरेत्
राजन्यवैश्यौ चेजानाव् आत्रेयीम् एव च स्त्रियम् ॥

11.88

उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य प्रतिरभ्य गुरुं तथा
अपहृत्य च निःक्षेपं निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥

11.89

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम्
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥

11.90

सुरां पीत्वा द्विजो मोहाद् अग्निवर्णां सुरां पिबेत्
तया स काये निर्दग्धे मुच्यते किल्बिषात् ततः ॥

11.91

गोमूत्रम् अग्निवर्णं वा पिबेद् उदकम् एव वा
पयो घृतं वा मरणाद् गोशकृद्रसम् एव वा ॥

11.92

कणान् वा भक्षयेद् अब्दं पिण्याकं वा सकृन् निशि
सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥

11.93

सुरा वै मलम् अन्नानां पाप्मा च मलम् उच्यते
तस्माद् ब्राह्मणराजन्यौ वैश्यश् च न सुरां पिबेत् ॥

11.94

गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा
यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥

11.95

यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम्
तद् ब्राह्मणेन नात्तव्यं देवानाम् अश्नता हविः ॥

11.96

अमेध्ये वा पतेन् मत्तो वैदिकं वाप्य् उदाहरेत्
अकार्यम् अन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ॥

11.97

यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत्
तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥

11.98

एषा विचित्राभिहिता सुरापानस्य निष्कृतिः
अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥

11.99

सुवर्णस्तेयकृद् विप्रो राजानम् अभिगम्य तु
स्वकर्म ख्यापयन् ब्रूयान् मां भवान् अनुशास्त्व् इति ॥

11.100

गृहीत्वा मुसलं राजा सकृद् धन्यात् तु तं स्वयम्
वधेन शुध्यति स्तेनो ब्राह्मणस् तपसैव तु ॥

11.101

तपसापनुनुत्सुस् तु सुवर्णस्तेयजं मलम्
चीरवासा द्विजो ऽरण्ये चरेद् ब्रह्महणो व्रतम् ॥

11.102

एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः
गुरुस्त्रीगमनीयं तु व्रतैर् एभिर् अपानुदेत् ॥

11.103

गुरुतल्प्य् अभिभाष्यैनस् तप्ते तल्पे स्वप्याद् अयोमये
सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् वाश्लिष्येन् मृत्युना स विशुध्यति ॥

11.104

स्वयं वा शिष्णवृषणाव् उत्कृत्याधाय चाञ्जलौ
नैरृतीं दिशम् आतिष्ठेद् आ निपाताद् अजिह्मगः ॥

11.105

खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने
प्राजापत्यं चरेत् कृच्छ्रम् अब्दम् एकं समाहितः ॥

11.106

चान्द्रायणं वा त्रीन् मासान् अभ्यस्येन् नियतेन्द्रियः
हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥

11.107

एतैर् व्रतैर् अपोहेयुर् महापातकिनो मलम्
उपपातकिनस् त्व् एवम् एभिर् नानाविधैर् व्रतैः ॥

11.108

उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत्
कृतवापो वसेद् गोष्ठे चर्मणा तेन संवृतः ॥

11.109

चतुर्थकालम् अश्नीयाद् अक्षारलवणं मितम्
गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥

11.110

दिवानुगच्छेद् गास् तास् तु तिष्ठन्न् ऊर्ध्वं रजः पिबेत्
शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वीरासनो वसेत् ॥

11.111

तिष्ठन्तीष्व् अनुतिष्ठेत् तु व्रजन्तीष्व् अप्य् अनुव्रजेत्
आसीनासु तथासीनो नियतो वीतमत्सरः ॥

11.112

आतुराम् अभिशस्तां वा चौरव्याघ्रादिभिर् भयैः
पतितां पङ्कलग्नं वा सर्वोपायैर् सर्वप्राणैर् विमोचयेत् ॥

11.113

उष्णे वर्षति शीते वा मारुते वाति वा भृशम्
न कुर्वीतात्मनस् त्राणं गोर् अकृत्वा तु शक्तितः ॥

11.114

आत्मनो यदि वान्येषां गृहे क्षेत्रे ऽथ वा खले
भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥

11.115

अनेन विधिना यस् तु गोघ्नो गाम् अनुगच्छति
स गोहत्याकृतं पापं त्रिभिर् मासैर् व्यपोहति ॥

11.116

वृषभैकादशा गाश् च दद्यात् सुचरितव्रतः
अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥

11.117

एतद् एव व्रतं कुर्युर् उपपातकिनो द्विजाः
अवकीर्णिवर्ज्यं अवकीर्णिवर्जं शुद्ध्यर्थं चान्द्रायणम् अथापि वा ॥

11.118

अवकीर्णी तु काणेन गर्दभेन चतुष्पथे
पाकयज्ञविधानेन यजेत निरृतिं निशि ॥

11.119

हुत्वाग्नौ विधिवद् धोमान् अन्ततश् च समेत्य् ऋचा
वातेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाहुतीः ॥

11.120

कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः
अतिक्रमं व्रतस्याहुर् धर्मज्ञा ब्रह्मवादिनः ॥

11.121

मारुतं पुरुहूतं च गुरुं पावकम् एव च
चतुरो व्रतिनो ऽभ्येति ब्राह्मं तेजो ऽवकीर्णिनः ॥

11.122

एतस्मिन्न् एनसि प्राप्ते वसित्वा गर्दभाजिनम्
सप्तागारांश् चरेद् भैक्षं स्वकर्म परिकीर्तयन् ॥

11.123

तेभ्यो लब्धेन भैक्षेण वर्तयन्न् एककालिकम्
उपस्पृशंस् त्रिषवणं त्व् त्रिषवणम् अब्देन स विशुध्यति ॥

11.124

जातिभ्रंशकरं कर्म कृत्वान्यतमम् इच्छया
चरेत् सांतपनं कृच्छ्रं प्राजापत्यम् अनिच्छया ॥

11.125

संकरापात्रकृत्यासु मासं शोधनम् ऐन्दवम् ऐन्दवः
मलिनीकरणीयेषु तप्तः स्याद् यावकैस् त्र्यहम् ॥

11.126

तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः
वैश्ये ऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस् तु षोडशः ॥

11.127

अकामतस् तु राजन्यं विनिपात्य द्विजोत्तमः
वृषभैकसहस्रा गा दद्यात् सुचरितव्रतः ॥

11.128

त्र्यब्दं चरेद् वा नियतो जटी ब्रह्महणो व्रतम्
वसन् दूरतरे ग्रामाद् वृक्षमूलनिकेतनः ॥

11.129

एतद् एव चरेद् अब्दं प्रायश्चित्तं द्विजोत्तमः
प्रमाप्य वैश्यं वृत्तस्थं दद्याच् चैकशतं दद्याद् वैकशतं गवाम् ॥

11.130

एतद् एव व्रतं कृत्स्नं षण्मासाञ् शूद्रहा चरेत्
वृषभैकादशा वापि दद्याद् विप्राय गाः सिताः ॥

11.131

मार्जारनकुलौ हत्वा चाषं मण्डूकम् एव च
श्वगोधोलूककाकांश् च शूद्रहत्याव्रतं चरेत् ॥

11.132

पयः पिबेत् त्रिरात्रं वा योजनं वाध्वनो व्रजेत्
उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥

11.133

अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः
पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥

11.134

घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ
शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥

11.135

हत्वा हंसं बलाकां च बकं बर्हिणम् एव च
वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥

11.136

वासो दद्याद् धयं हत्वा पञ्च नीलान् वृषान् गजम्
अजमेषाव् अनड्वाहं खरं हत्वैकहायनम् ॥

11.137

क्रव्यादांस् तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम्
अक्रव्यादान् वत्सतरीम् उष्ट्रं हत्वा तु कृष्णलम् ॥

11.138

जीनकार्मुकबस्तावीन् पृथग् दद्याद् विशुद्धये
चतुर्णाम् अपि वर्णानां नारीर् हत्वानवस्थिताः ॥

11.139

दानेन वधनिर्णेकं सर्पादीनाम् अशक्नुवन्
एकैकशश् चरेत् कृच्छ्रं द्विजः पापापनुत्तये ॥

11.140

अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे
पूर्णे चानस्य् अनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥

11.141

किं चिद् एव तु विप्राय दद्याद् अस्थिमतां वधे
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥

11.142

फलदानां तु वृक्षाणां छेदने जप्यम् ऋक्शतम्
गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥

11.143

अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥

11.144

कृष्टजानाम् ओषधीनां जातानां च स्वयं वने
वृथालम्भे ऽनुगच्छेद् गां दिनम् एकं पयोव्रतः ॥

11.145

एतैर् व्रतैर् अपोह्यं स्याद् एनो हिंसासमुद्भवम्
ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ॥

11.146

अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति
मतिपूर्वम् अनिर्देश्यं प्राणान्तिकम् इति स्थितिः ॥

11.147

अपः सुराभाजनस्था मद्यभाण्डस्थितास् तथा
पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ॥

11.148

स्पृष्ट्व दत्त्वा च मदिरां विधिवत् प्रतिगृह्य च
शूद्रोच्छिष्टाश् च पीत्वापः कुशवारि पिबेत् त्र्यहम् ॥

11.149

ब्राह्मणस् तु सुरापस्य गन्धम् आघ्राय सोमपः
प्राणान् अप्सु त्रिर् आयम्य घृतं प्राश्य विशुध्यति ॥

11.150

अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टम् एव च
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः ॥

11.151

वपनं मेखला दण्डो भैक्षचर्या भैक्ष्यचर्या व्रतानि च
निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥

11.152

अभोज्यानां तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टम् एव च
जग्ध्वा मांसम् अभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥

11.153

शुक्तानि च कषायांश् च पीत्वा मेध्यान्य् अपि द्विजः
तावद् भवत्य् अप्रयतो यावत् तन् न व्रजत्य् अधः ॥

11.154

विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः
प्राश्य मूत्रपुरीषाणि द्विजश् चान्द्रायणं चरेत् ॥

11.155

शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च
अज्ञातं चैव सूनास्थम् एतद् एव व्रतं चरेत् ॥

11.156

क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे
नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥

11.157

मासिकान्नं तु यो ऽश्नीयाद् असमावर्तको द्विजः
स त्रीण्य् अहान्य् उपवसेद् एकाहं चोदके वसेत् ॥

11.158

ब्रह्मचारी व्रतचारी तु यो ऽश्नीयान् मधु मांसं कथं चन
स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥

11.159

बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च
केशकीटावपन्नं च पिबेद् ब्रह्मसुवर्चलाम् ॥

11.160

अभोज्यम् अन्नं नात्तव्यम् आत्मनः शुद्धिम् इच्छता
अज्ञानभुक्तं तूत्तार्यं शोध्यं वाप्य् आशु शोधनैः ॥

11.161

एषो ऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः
स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥

11.162

धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः
स्वजातीयगृहाद् एव कृच्छ्राब्देन विशुध्यति ॥

11.163

मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च
कूपवापीजलानां च शुद्धिश् चान्द्रायणं स्मृतम् ॥

11.164

द्रव्याणाम् अल्पसाराणां स्तेयं कृत्वान्यवेश्मतः कृत्वान्यवेश्मनि
चरेत् सांतपनं कृच्छ्रं तन् निर्यात्य् आत्मशुद्धये ॥

11.165

भक्ष्यभोज्यापहरणे यानशय्यासनस्य च
पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥

11.166

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च
चेल चैल चर्मामिषाणां च त्रिरात्रं स्याद् अभोजनम् ॥

11.167

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च
अयःकांस्योपलानां च द्वादशाहं कणान्नता ॥

11.168

कार्पासकीटजोर्णानां द्विशफैकशफस्य द्वेशफैकखुरस्य च
पक्षिगन्धौषधीनां च रज्ज्वाश् चैव त्र्यहं पयः ॥

11.169

एतैर् व्रतैर् अपोहेत पापं स्तेयकृतं द्विजः
अगम्यागमनीयं तु व्रतैर् एभिर् अपानुदेत् ॥

11.170

गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु
सख्युः पुत्रस्य च स्त्रीषु कुमारीष्व् अन्त्यजासु च ॥

11.171

पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुर् एव च
मातुश् च भ्रातुस् तनयां भ्रातुर् आप्तस्य गत्वा चान्द्रायणं चरेत् ॥

11.172

एतास् तिस्रस् तु भार्यार्थे नोपयच्छेत् तु बुद्धिमान्
ज्ञातित्वेनानुपेयास् ताः पतति ह्य् उपयन्न् अधः ॥

11.173

अमानुषीषू पुरुष उदक्यायाम् अयोनिषु
रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ॥

11.174

मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः
गोयाने ऽप्सु दिवा चैव सवासाः स्नानम् आचरेत् ॥

11.175

चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च
पतत्य् अज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥

11.176

विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्याद् एकवेश्मनि
यत् पुंसः परदारेषु तच् चैनां चारयेद् व्रतम् ॥

11.177

सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपमन्त्रिता सदृशेनोपयन्त्रिता
कृच्छ्रं चान्द्रायणं चैव तद् अस्याः पावनं स्मृतम् ॥

11.178

यत् करोत्य् एकरात्रेण वृषलीसेवनाद् द्विजः
तद् भैक्षभुग् जपन् नित्यं त्रिभिर् वर्षैर् व्यपोहति ॥

11.179

एषा पापकृताम् उक्ता चतुर्णाम् अपि निष्कृतिः
पतितैः संप्रयुक्तानाम् इमाः शृणुत निष्कृतीः ॥

11.180

संवत्सरेण पतति पतितेन सहाचरन्
याजनाध्यापनाद् यौनान् न तु यानासनाशनात् ॥

11.181

यो येन पतितेनैषां संसर्गं याति मानवः
स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ॥

11.182

पतितस्योदकं कार्यं सपिण्डैर् बान्धवैर् बहिः
निन्दिते ऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ ॥

11.183

दासी घटम् अपां पूर्णं पर्यस्येत् प्रेतवत् पदा
अहोरात्रम् उपासीरन्न् अशौचं बान्धवैः सह ॥

11.184

निवर्तेरंश् च तस्मात् तु संभाषणसहासने
दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥

11.185

ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद् धनम् वसु
ज्येष्ठांशं प्राप्नुयाच् चास्य यवीयान् गुणतो ऽधिकः ॥

11.186

प्रायश्चित्ते तु चरिते पूर्णकुम्भम् अपां नवम्
तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥

11.187

स त्व् अप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम्
सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥

11.188

एतद् एतम् एव विधिं कुर्याद् योषित्सु पतितास्व् अपि
वस्त्रान्नपानं देयं तु वसेयुश् च गृहान्तिके ॥

11.189

एनस्विभिर् अनिर्णिक्तैर् नार्थं किं चित् सहाचरेत्
कृतनिर्णेजनांश् चैव चैतान् न जुगुप्सेत कर्हि चित् ॥

11.190

बालघ्नांश् च कृतघ्नांश् च विशुद्धान् अपि धर्मतः
शरणागतहन्तॄंश् च स्त्रीहन्तॄंश् च न संवसेत् ॥

11.191

येषां द्विजानां सावित्री नानूच्येत यथाविधि
तांश् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य् उपनाययेत् ॥

11.192

प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास् तु ये द्विजाः
ब्रह्मणा च परित्यक्तास् तेषाम् अप्य् एतद् आदिशेत् ॥

11.193

यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥

11.194

जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः
मासं गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात् ॥

11.195

उपवासकृशं तं तु गोव्रजात् पुनर् आगतम्
प्रणतं प्रति पृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥

11.196

सत्यम् उक्त्वा तु विप्रेषु विकिरेद् यवसं गवाम्
गोभिः प्रवर्तिते तीर्थे कुर्युस् तस्य परिग्रहम् ॥

11.197

व्रात्यानां याजनं कृत्वा परेषाम् अन्त्यकर्म च
अभिचारम् अहीनं च त्रिभिः कृच्छ्रैर् व्यपोहति ॥

11.198

शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः
संवत्सरं यवाहारस् तत् पापम् अपसेधति ॥

11.199

श्वशृगालखरैर् दष्टो ग्राम्यैः क्रव्याद्भिर् एव च
नराश्वोष्ट्रवराहैश् च प्राणायामेन शुध्यति ॥

11.200

षष्ठान्नकालता मासं संहिताजप एव वा
होमाश् च सकला शाकला नित्यम् अपाङ्क्त्यानां विशोधनम् ॥

11.201

उष्ट्रयानं समारुह्य खरयानं तु कामतः
स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥

11.202

विनाद्भिर् अप्सु वाप्य् आर्तः शारीरं संनिषेव्य च
सचैलो बहिर् आप्लुत्य गाम् आलभ्य विशुध्यति ॥

11.203

वेदोदितानां नित्यानां कर्मणां समतिक्रमे
स्नातकव्रतलोपे च प्रायश्चित्तम् अभोजनम् ॥

11.204

हुङ्कारं ब्राह्मणस्योक्त्वा त्वम्कारं च गरीयसः
स्नात्वानश्नन्न् अहः शेषम् अभिवाद्य प्रसादयेत् ॥

11.205

ताडयित्वा तृणेनापि कण्ठे वाबध्य वाससा
विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥

11.206

अवगूर्य त्व् अब्दशतं सहस्रम् अभिहत्य च
जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥

11.207

शोणितं यावतः पांसून् संगृह्णाति महीतले
तावन्त्य् अब्दसहस्राणि तत्कर्ता नरके वसेत् व्रजेत् ॥

11.208

अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने
कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥

11.209

अनुक्तनिष्कृतीनां तु पापानाम् अपनुत्तये
शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥

11.210

यैर् अभ्युपायैर् एनांसि मानवो व्यपकर्षति
तान् वो ऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान् ॥

11.211

त्र्यहं प्रातस् त्र्यहं सायं त्र्यहम् अद्याद् अयाचितम्
त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥

11.212

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्
एकरात्रोपवासश् च कृच्छ्रं सांतपनं स्मृतम् ॥

11.213

एकैकं ग्रासम् अश्नीयात् त्र्यहाणि त्रीणि पूर्ववत्
त्र्यहं चोपवसेद् अन्त्यम् अतिकृच्छ्रं चरन् द्विजः ॥

11.214

तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान्
प्रतित्र्यहं पिबेद् उष्णान् सकृत्स्नायी समाहितः ॥

11.215

यतात्मनो ऽप्रमत्तस्य द्वादशाहम् अभोजनम्
पराको नाम कृच्छ्रो ऽयं सर्वपापापनोदनः ॥

11.216

एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत्
उपस्पृशंस् त्रिषवणम् एतच् चाण्द्रायणं स्मृतम् ॥

11.217

एतम् एव विधिं कृत्स्नम् आचरेद् यवमध्यमे
शुक्लपक्षादिनियतश् चरंश् चान्द्रायणं व्रतम् ॥

11.218

अष्टाव् अष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते
नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥

11.219

चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः
चतुरो ऽस्तम् इते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥

11.220

यथा कथं चित् पिण्डानां तिस्रो ऽशीतीः समाहितः
मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥

11.221

एतद् रुद्रास् तथादित्या वसवश् चाचरन् व्रतम्
सर्वाकुशलमोक्षाय मरुतश् च महर्षिभिः ॥

11.222

महाव्याहृतिभिर् होमः कर्तव्यः स्वयम् अन्वहम्
अहिंसा सत्यम् अक्रोधम् आर्जवं च समाचरेत् ॥

11.223

त्रिर् अह्नस् त्रिर् निशायां च सवासा जलम् आविशेत्
स्त्रीशूद्रपतितांश् चैव नाभिभाषेत कर्हि चित् ॥

11.224

स्थानासनाभ्यां विहरेद् अशक्तो ऽधः शयीत वा
ब्रह्मचारी व्रती च स्याद् गुरुदेवद्विजार्चकः ॥

11.225

सावित्रीं च जपेन् नित्यं पवित्राणि च शक्तितः
सर्वेष्व् एव व्रतेष्व् एवं प्रायश्चित्तार्थम् आदृतः ॥

11.226

एतैर् द्विजातयः शोध्या व्रतैर् आविष्कृतैनसः
अनाविष्कृतपापांस् तु मन्त्रैर् होमैश् च शोधयेत् ॥

11.227

ख्यापनेनानुतापेन तपसाध्ययनेन च
पापकृन् मुच्यते पापात् तथा दानेन चापदि ॥

11.228

यथा यथा नरो ऽधर्मं स्वयं कृत्वानुभाषते
तथा तथा त्वचेवाहिस् तेनाधर्मेण मुच्यते ॥

11.229

यथा यथा मनस् तस्य दुष्कृतं कर्म गर्हति
तथा तथा शरीरं तत् तेनाधर्मेण मुच्यते ॥

11.230

कृत्वा पापं हि संतप्य तस्मात् पापात् प्रमुच्यते
नैवं कुर्यां पुनर् इति निवृत्त्या पूयते तु सः ॥

11.231

एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम्
मनोवाङ्गूर्तिभिर् नित्यं शुभं कर्म समाचरेत् ॥

11.232

अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम्
तस्माद् विमुक्तिम् अन्विच्छन् द्वितीयं न समाचरेत् ॥

11.233

यस्मिन् कर्मण्य् अस्य कृते मनसः स्याद् अलाघवम्
तस्मिंस् तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ॥

11.234

तपोमूलम् इदं सर्वं दैवमानुषकं सुखम्
तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः ॥

11.235

ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम्
वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥

11.236

ऋषयः संयतात्मानः फलमूलानिलाशनाः
तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥

11.237

औषधान्य् अगदो विद्या दैवी च विविधा स्थितिः
तपसैव प्रसिध्यन्ति तपस् तेषां हि साधनम् ॥

11.238

यद् दुस्तरं यद् दुरापं यद् दुर्गं यच् च दुष्करम्
सर्वं तु तत् तपसा साध्यं तपो हि दुरतिक्रमम् ॥

11.239

महापातकिनश् चैव शेषाश् चाकार्यकारिणः
तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ॥

11.240

कीताश् चाहिपतंगाश् च पशवश् च वयांसि च
स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥

11.241

यत् किं चिद् एनः कुर्वन्ति मनोवाङ्गूर्तिभिर् मनोवाक्कर्मभिर् जनाः
तत् सर्वं निर्दहन्त्य् आशु तपसैव तपोधनाः ॥

11.242

तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः
इज्याश् च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ॥

11.243

प्रजापतिर् इदं शास्त्रं तपसैवासृजत् प्रभुः
तथैव वेदान् ऋषयस् तपसा प्रतिपेदिरे ॥

11.244

इत्य् यद् एतत् तपसो देवा महाभाग्यं प्रचक्षते
सर्वस्यास्य प्रपश्यन्तस् तपसः पुण्यम् उत्तमम् उद्भवम् ॥

11.245

वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रिया क्षमा
नाशयन्त्य् आशु पापानि महापातकजान्य् अपि ॥

11.246

यथैधस् तेजसा वह्निः प्राप्तं निर्दहति क्षणात्
तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ॥

11.247

इत्य् एतद् एनसाम् उक्तं प्रायश्चित्तं यथाविधि
अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥

11.248

सव्याहृतिप्रणवकाः प्राणायामास् तु षोडश
अपि भ्रूणहनं मासात् पुनन्त्य् अहर् अहः कृताः ॥

11.249

कौत्सं जप्त्वाप इत्य् एतद् वसिष्ठं च प्रतीत्य् ऋचम्
माहित्रं शुद्धवत्यश् च सुरापो ऽपि विशुध्यति ॥

11.250

सकृज् जप्त्वास्यवामीयं शिवसंकल्पम् एव च
अपहृत्य सुवर्णं तु क्षणाद् भवति निर्मलः ॥

11.251

हविष्पान्तीयम् अभ्यस्य न तमं ह इतीति च
जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥

11.252

एनसां स्थूलसूक्ष्माणां चिकीर्षन्न् अपनोदनम्
अवेत्य् ऋचं जपेद् अब्दं यत् किं चेदम् इतीति वा ॥

11.253

प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्
जपंस् तरत्समन्दीयं पूयते मानवस् त्र्यहात् ॥

11.254

सोमारौद्रं तु बह्वेनाः मासम् समाम् अभ्यस्य शुध्यति
स्रवन्त्याम् आचरन् स्नानम् अर्यम्णाम् इति च तृचम् ॥

11.255

अब्दार्धम् इन्द्रम् इत्य् एतद् एनस्वी सप्तकं जपेत्
अप्रशस्तं तु कृत्वाप्सु मासम् आसीत भैक्षभुक् ॥

11.256

मन्त्रैः शाकलहोमीयैर् अब्दं हुत्वा घृतं द्विजः
सुगुर्व् अप्य् अपहन्त्य् एनो जप्त्वा वा नम इत्य् ऋचम् ॥

11.257

महापातकसंयुक्तो ऽनुगच्छेद् गाः समाहितः
अभ्यस्याब्दं पावमानीर् भैक्षाहारो विशुध्यति ॥

11.258

अरण्ये वा त्रिर् अभ्यस्य प्रयतो वेदसंहिताम्
मुच्यते पातकैः सर्वैः पराकैः शोधितस् त्रिभिः ॥

11.259

त्र्यहं तूपवसेद् युक्तस् त्रिर् अह्नो ऽभ्युपयन्न् अपः
मुच्यते पातकैः सर्वैस् त्रिर् जपित्वाघमर्षणम् ॥

11.260

यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः
तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ॥

11.261

हत्वा लोकान् अपीमांस् त्रीन् अश्नन्न् अपि यतस् ततः
ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किं चन ॥

11.262

ऋक्संहितां त्रिर् अभ्यस्य यजुषां वा समाहितः
साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥

11.263

यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति
तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ॥

11.264

ऋचो यजूंषि चान्यानि सामानि विविधानि च
एष ज्ञेयस् त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥

11.265

आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता
स गुह्यो ऽन्यस् त्रिवृद्वेदो यस् तं वेद स वेदवित् ॥

मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc