मनुस्मृति · अध्याय 12
चातुर्वर्ण्यस्य कृत्स्नो ऽयम् उक्तो धर्मस् त्वयानघः
कर्मणां फलनिर्वृत्तिं शंस नस् तत्त्वतः पराम् ॥
स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः
अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥
शुभाशुभफलं कर्म मनोवाग्देहसंभवम्
कर्मजा गतयो नॄणाम् उत्तमाधममध्यमः ॥
तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः
दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥
परद्रव्येष्व् अभिध्यानं मनसानिष्टचिन्तनम्
वितथाभिनिवेशश् च त्रिविधं कर्म मानसम् ॥
पारुष्यम् अनृतं चैव पैशुन्यं चापि सर्वशः
असंबद्धप्रलापश् च वाङ्मयं स्याच् चतुर्विधम् ॥
अदत्तानाम् उपादानं हिंसा चैवाविधानतः
परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥
मानसं मनसैवायम् उपभुङ्क्ते शुभाशुभम्
वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ॥
शरीरजैः कर्मदोषैर् याति स्थावरतां नरः
वाचिकैः पक्षिमृगतां मानसैर् अन्त्यजातिताम् ॥
वाग्दण्डो ऽथ मनोदण्डः कायदण्डस् तथैव च
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥
त्रिदण्डम् एतन् निक्षिप्य सर्वभूतेषु मानवः
कामक्रोधौ तु संयम्य सुसंयम्य ततः सिद्धिं नियच्छति निगच्छति ॥
यो ऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥
जीवसंज्ञो ऽन्तरात्मान्यः सहजः सर्वदेहिनाम्
येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥
ताव् उभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥
असंख्या मूर्तयस् तस्य निष्पतन्ति शरीरतः
उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥
पञ्चभ्य एव मात्राभ्यः भूतेभ्यः प्रेत्य दुष्कृतिनां नृणाम्
शरीरं यातनार्थीयम् अन्यद् उत्पद्यते ध्रुवम् ॥
तेनानुभूय ता यामीः शरीरेणेह यातनाः
तास्व् एव भूतमात्रासु प्रलीयन्ते विभागशः ॥
सो ऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान्
व्यपेतकल्मषो ऽभ्येति ताव् एवोभौ महौजसौ ॥
तौ धर्मं पश्यतस् तस्य पापं चातन्द्रितौ सह
याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम् ॥
यद्य् आचरति यथाचरति धर्मं स प्रायशो ऽधर्मम् अल्पशः
तैर् एव चावृतो भूतैः स्वर्गे सुखम् उपाश्नुते ॥
यदि तु प्रायशो ऽधर्मं सेवते धर्मम् अल्पशः
तैर् भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥
यामीस् ता यातनाः प्राप्य स जीवो वीतकल्मषः
तान्य् एव पञ्च भूतानि पुनर् अप्येति भागशः ॥
एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा
धर्मतो ऽधर्मतश् चैव धर्मे दध्यात् सदा मनः ॥
सत्त्वं रजस् तमश् चैव त्रीन् विद्याद् आत्मनो गुणान्
यैर् व्याप्येमान् स्थितो भावान् महान् सर्वान् अशेषतः ॥
यो यदैषां गुणो देहे साकल्येनातिरिच्यते
स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥
सत्त्वं ज्ञानं तमो ऽज्ञानं रागद्वेषौ रजः स्मृतम्
एतद् व्याप्तिमद् एतेषां सर्वभूताश्रितं वपुः ॥
तत्र यत् प्रीतिसंयुक्तं किं चिद् आत्मनि लक्षयेत्
प्रशान्तम् इव शुद्धाभं सत्त्वं तद् उपधारयेत् ॥
यत् तु दुःखसमायुक्तम् अप्रीतिकरम् आत्मनः
तद् रजो प्रतीपं विद्यात् सततं हारि हर्तृ देहिनाम् ॥
यत् तु स्यान् मोहसंयुक्तम् अव्यक्तं विषयात्मकम्
अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् ॥
त्रयाणाम् अपि चैतेषां गुणानां यः फलोदयः
अग्र्यो मध्यो जघन्यश् च तं प्रवक्ष्याम्य् अशेषतः ॥
वेदाभ्यासस् तपो ज्ञानं शौचम् इन्द्रियनिग्रहः
धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥
आरम्भरुचिताधैर्यम् असत्कार्यपरिग्रहः
विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥
लोभः स्वप्नो ऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता
याचिष्णुता प्रमादश् च तामसं गुणलक्षणम् ॥
त्रयाणाम् अपि चैतेषां गुणानां त्रिषु तिष्ठताम्
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥
यत् कर्म कृत्वा कुर्वंश् च करिष्यंश् चैव लज्जति
तज् ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥
येनास्मिन् कर्मना लोके ख्यातिम् इच्छति पुष्कलाम्
न च शोचत्य् असंपत्तौ तद् विज्ञेयं तु राजसम् ॥
यत् सर्वेणेच्छति ज्ञातुं यन् न लज्जति चाचरन्
येन तुष्यति चात्मास्य तत् सत्त्वगुणलक्षणम् ॥
तमसो लक्षणं कामो रजसस् त्व् अर्थ उच्यते
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यम् एषां यथोत्तरम् ॥
येन यस् यांस् तु गुणेनैषां संसरान् प्रतिपद्यते
तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥
देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः
तिर्यक्त्वं तामसा नित्यम् इत्य् एषा त्रिविधा गतिः ॥
त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ॥
स्थावराः कृमिकीटाश् च मत्स्याः सर्पाः सकच्छपाः
पशवश् च मृगाश् चैव जघन्या तामसी गतिः ॥
हस्तिनश् च तुरङ्गाश् च शूद्रा म्लेच्छाश् च गर्हिताः
सिंहा व्याघ्रा वराहाश् च मध्यमा तामसी गतिः ॥
चारणाश् च सुपर्णाश् च पुरुषाश् चैव दाम्भिकाः
रक्षांसि च पिशाचाश् च तामसीषूत्तमा गतिः ॥
झल्ला मल्ला नटाश् चैव पुरुषाः शस्त्रवृत्तयः
द्यूतपानप्रसक्ताश् च जघन्या राजसी गतिः ॥
राजानः क्षत्रियाश् चैव राज्ञां चैव पुरोहिताः
वादयुद्धप्रधानाश् च मध्यमा राजसी गतिः ॥
गन्धर्वा गुह्यका यक्षा विबुधानुचराश् च ये
तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ॥
तापसा यतयो विप्रा ये च वैमानिका गणाः
नक्षत्राणि च दैत्याश् च प्रथमा सात्त्विकी गतिः ॥
यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः
पितरश् चैव साध्याश् च द्वितीया सात्त्विकी गतिः ॥
ब्रह्मा विश्वसृजो धर्मो महान् अव्यक्तम् एव च
उत्तमां सात्त्विकीम् एतां गतिम् आहुर् मनीषिणः ॥
एष सर्वः समुद्दिष्टस् त्रि त्रिष् प्रकारस्य कर्मणः
त्रिविधस् त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥
इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च
पापान् संयान्ति संसारान् अविद्वांसो नराधमाः ॥
यां यां योनिं तु जीवो ऽयं येन येनेह कर्मणा
क्रमशो याति लोके ऽस्मिंस् तत् तत् सर्वं निबोधत ॥
बहून् वर्षगणान् घोरान् नरकान् प्राप्य तत्क्षयात्
संसारान् प्रतिपद्यन्ते महापातकिनस् त्व् इमान् ॥
श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणां
चण्डालपुक्कसानां च ब्रह्महा योनिम् ऋच्छति ॥
कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम्
हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥
लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम्
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥
तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणाम् अपि
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥
हिंस्रा भवन्ति क्रव्यादाः कृमयो ऽमेध्यभक्षिणः
परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः ॥
संयोगं पतितैर् गत्वा परस्यैव च योषितम्
अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥
मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः
विविधाणि च रत्नानि जायते हेमकर्तृषु ॥
धान्यं हृत्वा भवत्य् आखुः कांस्यं हंसो जलं प्लवः
मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥
मांसं गृध्रो वपां मद्गुस् तैलं तैलपकः खगः
चीरीवाकस् तु लवणं बलाका शकुनिर् दधि ॥
कौशेयं तित्तिरिर् हृत्वा क्षौमं हृत्वा तु दर्दुरः
कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥
छुच्छुन्दरिः छुच्छुन्दरीः शुभान् गन्धान् पत्रशाकं तु बर्हिणः
श्वावित् कृतान्नं विविधम् अकृतान्नं तु शल्यकः ॥
बको भवति हृत्वाग्निं गृहकारी ह्य् उपस्करम्
रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥
वृको मृगेभं व्याघ्रो ऽश्वं फलमूलं तु मर्कटः
स्त्रीम् ऋक्षः स्तोकको वारि यानान्य् उष्ट्रः पशून् अजः ॥
यद् वा तद् वा परद्रव्यम् अपहृत्य बलान् नरः
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥
स्त्रियो ऽप्य् एतेन कल्पेन हृत्वा दोषम् अवाप्नुयुः
एतेषाम् एव जन्तूनां भार्यात्वम् उपयान्ति ताः ॥
स्वेभ्यः स्वेभ्यस् तु कर्मभ्यश् च्युता वर्णा ह्य् अनापदि
पापान् संसृत्य संसारान् प्रेष्यतां यान्ति शत्रुषु दस्युषु ॥
वान्ताश्य् उल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः
अमेध्यकुणपाशी च क्षत्रियः कटपूतनः कूटपूतनः ॥
मैत्राक्षज्योतिकः मैत्राक्षिज्योतिकः प्रेतो वैश्यो भवति पूयभुक्
चैलाशकश् च भवति शूद्रो धर्मात् स्वकाच् च्युतः ॥
यथा यथा निषेवन्ते विषयान् विषयात्मकाः
तथा तथा कुशलता तेषां तेषूपजायते ॥
ते ऽभ्यासात् कर्मणां तेषां पापानाम् अल्पबुद्धयः
संप्राप्नुवन्ति दुःखानि तासु तास्व् इह योनिषु ॥
तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम्
असिपत्रवनादीनि बन्धनछेदनानि च ॥
विविधाश् चैव संपीडाः काकोलूकैश् च भक्षणम्
करम्भवालुकातापान् कुम्भीपाकांश् च दारुणान् ॥
संभवांश् च वियोनीषु दुःखप्रायासु नित्यशः
शीतातपाभिघातांश् च विविधानि भयानि च ॥
असकृद् गर्भवासेषु वासं जन्म च दारुणम्
बन्धनानि च काष्ठानि कष्टानि परप्रेष्यत्वम् एव च ॥
बन्धुप्रियवियोगांश् च संवासं चैव दुर्जनैः
द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥
जरां चैवाप्रतीकारां व्याधिभिश् चोपपीडनम्
क्लेशांश् च विविधांस् तांस् तान् मृत्युम् एव च दुर्जयम् ॥
यादृशेन तु भावेन यद् यत् कर्म निषेवते
तादृशेन शरीरेण तत् तत् फलम् उपाश्नुते ॥
एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः
नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥
वेदाभ्यासस् तपो ज्ञानम् इन्द्रियाणां च संयमः
अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥
सर्वेषाम् अपि चैतेषां शुभानाम् इह कर्मणाम्
किं चिच् छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥
सर्वेषाम् अपि चैतेषाम् आत्मज्ञानं परं स्मृतम्
तद् ध्य् अग्र्यं सर्वविद्यानां प्राप्यते ह्य् अमृतं ततः ॥
षण्णाम् एषां तु सर्वेषां कर्मणां प्रेत्य चेह च
श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥
वैदिके कर्मयोगे तु सर्वाण्य् एतान्य् अशेषतः
अन्तर्भवन्ति क्रमशस् तस्मिंस् तस्मिन् क्रियाविधौ ॥
सुखाभ्युदयिकं चैव नैःश्रेयसिकम् एव च
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥
इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते
निष्कामं ज्ञातपूर्वं तु निवृत्तम् उपदिश्यते ॥
प्रवृत्तं कर्म संसेव्यं देवानाम् एति साम्यताम्
निवृत्तं सेवमानस् तु भूतान्य् अत्येति पञ्च वै ॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
समं पश्यन्न् आत्मयाजी स्वाराज्यम् अधिगच्छति ॥
यथोक्तान्य् अपि कर्माणि परिहाय द्विजोत्तमः
आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ॥
एतद् धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः
प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥
पितृदेवमनुष्याणां वेदश् चक्षुः सनातनम्
अशक्यं चाप्रमेयं च वेदशास्त्रम् इति स्थितिः ॥
या वेदबाह्याः स्मृतयो श्रुतयो याश् च काश् च कुदृष्टयः
सर्वास् ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥
उत्पद्यन्ते च्यवन्ते च विनश्यन्ति यान्य् अतो ऽन्यानि कानि चित्
तान्य् अर्वाक्कालिकतया निष्फलान्य् अनृतानि च ॥
चातुर्वर्ण्यं त्रयो लोकाश् चत्वारश् चाश्रमाः पृथक्
भूतं भव्यं भवद् भविष्यं च सर्वं वेदात् प्रसिध्यति ॥
शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः
वेदाद् एव प्रसूयन्ते प्रसूतिर् गुणकर्मतः ॥
बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम्
तस्माद् एतत् परं मन्ये यज् जन्तोर् अस्य साधनम् ॥
सेनापत्यं सैनापत्यं च राज्यं च दण्डनेतृत्वम् एव च
सर्वलोकाधिपत्यं च वेदशास्त्रविद् अर्हति ॥
यथा जातबलो वह्निर् दहत्य् आर्द्रान् अपि द्रुमान्
तथा दहति वेदज्ञः कर्मजं दोषम् आत्मनः ॥
वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन्
इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥
अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥
तपो विद्या च विप्रस्य निःश्रेयसकरं परम्
तपसा किल्बिषं हन्ति विद्ययामृतम् अश्नुते ॥
प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम्
त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता ॥
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना
यस् तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥
नैःश्रेयसम् इदं कर्म यथोदितम् अशेषतः
मानवस्यास्य शास्त्रस्य रहस्यम् उपदिश्यते उपदेक्ष्यते ॥
अनाम्नातेषु धर्मेषु कथं स्याद् इति चेद् भवेत्
यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्याद् अशङ्कितः ॥
धर्मेणाधिगतो यैस् तु वेदः सपरिबृंहणः
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥
दशावरा वा परिषद् यं धर्मं परिकल्पयेत्
त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् ॥
त्रैविद्यो हेतुकस् तर्की नैरुक्तो धर्मपाठकः
त्रयश् चाश्रमिणः पूर्वे परिषत् स्याद् दशावरा ॥
ऋग्वेदविद् यजुर्विच् च सामवेदविद् एव च
त्र्यवरा परिषज् ज्ञेया धर्मसंशयनिर्णये ॥
एको ऽपि वेदविद् धर्मं यं व्यवस्येद् द्विजोत्तमः
स विज्ञेयः परो धर्मो नाज्ञानाम् उदितो ऽयुतैः ॥
अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम्
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥
यं वदन्ति तमोभूता मूर्खा धर्मम् अतद्विदः
तत्पापं शतधा भूत्वा तद्वक्तॄन् अनुगच्छति ॥
एतद् वो ऽभिहितं सर्वं निःश्रेयसकरं परम्
अस्माद् अप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ॥
एवं स भगवान् देवो लोकानां हितकाम्यया
धर्मस्य परमं गुह्यं ममेदं सर्वम् उक्तवान् ॥
सर्वम् आत्मनि संपश्येत् सच् चासच् च समाहितः
सर्वं ह्य् आत्मनि संपश्यन् नाधर्मे कुरुते मनः मतिम् ॥
आत्मैव देवताः सर्वाः सर्वम् आत्मन्य् अवस्थितम्
आत्मा हि जनयत्य् एषां कर्मयोगं शरीरिणाम् ॥
खं संनिवेशयेत् खेषु चेष्टनस्पर्शने ऽनिलम्
पक्तिदृष्ट्योः परं तेजः स्नेहे ऽपो गां च मूर्तिषु ॥
मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम्
वाच्य् अग्निं मित्रम् उत्सर्गे प्रजने च प्रजापतिम् ॥
प्रशासितारं सर्वेषाम् अणीयांसम् अणोर् अपि
रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् ॥
एतम् एके वदन्त्य् अग्निं मनुम् अन्ये प्रजापतिम्
इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥
एष सर्वाणि भूतानि पञ्चभिर् व्याप्य मूर्तिभिः
जन्मवृद्धिक्षयैर् नित्यं संसारयति चक्रवत् ॥
एवं यः सर्वभूतेषु पश्यत्य् आत्मानम् आत्मना
स सर्वसमताम् एत्य ब्रह्माभ्येति परं पदम् ॥
इत्य् एतन् मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः
भवत्य् आचारवान् नित्यं यथेष्टां प्राप्नुयाद् गतिम् ॥
मूल पाठ: Manusmṛti · Edition: Manusmṛti with the commentary of Kullūka Bhaṭṭa, based on Shastri 1983 , compared with Śāstrī 1982 . Manusmṛti with the commentary of Medhātithi, based on the Calcutta Edition from 1967 and Jha 1992 . J.L. Shastri Manusmṛti with the Sanskrit commentary Manvartha-Muktāvalī of Kullūka Bhaṭṭa Delhi Motilal Banarsidass Haragovinda Śāstrī Gopāla Śāstrī Nene Manusmṛti with the Manvartha-Muktāvalī of Ku · Data entry Michio Yano Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0