मञ्जुश्रीनामसंगीति (अन्य संस्करण) · श्लोक 21-40
महार्थां नामसंगीतिं पवित्राम् अघनाशनीं
मञ्जुश्रीज्ञानकायस्य मत्तः श्रोतुं समुद्यतः ॥
तत् साधु देशयाम्य् एष अहं ते गुह्यकाधिपः
शृणु त्वम् एकाग्रमनास् तत् साधु भगवन्न् इति ॥
अथ शाक्यमुनिर् भगवां सवकलं मन्त्रकुलं महत्
मन्त्रविद्याधरकुलं व्यवलोक्य कुलत्रयं ॥
लोकलोकोत्तरकुलं लोकालोककुलं महत्
महामुद्राकुलं चाग्र्यं महोष्णीषकुलं महत् ॥
इमां षड्मन्त्रराजानं संयुक्ताम् अद्वयोदयां
अनुत्पादधर्मिणीं गाथां भाषते स्म गिरां पतेः ॥
अ आ इ ई उ ऊ ए ऐ ओ औ अं अः स्थितो हृदि
ज्ञानमूर्तिर् अहं बुद्धो बुद्धानां त्र्यध्ववर्तिनां ॥
ओं वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये ।
ज्ञानकायवागीश्वरअरपचनाये ते नमः ॥
तद्यथा भगवां बुद्धः संबुद्धो ऽकारसंभवः
अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः ॥
महाप्राणो ह्य् अनुत्पादो वागुदाहारवर्जितः
सर्वाभिलापहेत्वग्र्यः सर्ववाक्सुप्रभास्वरः ॥
महामहमहारागः सर्वसत्वरतिंकरः
महामहमहाद्वेषः सर्वक्लेशमहारिपुः ॥
महामहमहामोहो मूढधीमोहसूदनः
महामहमहाक्रोधो महाक्रोधरिपुर् महान् ॥
महामहमहालोभः सर्वलोभनिसूदनः
महाकामो महासौख्यो महामोदो महारतिः ॥
महारूपो महाकायो महावर्णो महावपुः
महानाम महोदारो महाविपुलमण्डलः ॥
महाप्रज्ञायुधधरो महाक्लेशाङ्कुशो ऽग्रणीः
महायशा महाकीर्तिर् महाज्योतिर् महाद्युतिः ॥
महामायाधरो विद्वान् महामायार्थसाधकः
महामायारतिरतो महामायेन्द्रजालिकः ॥
महादानपतिः श्रेष्ठो महाशीलधरो ऽग्रणीः
महाक्षान्तिधरो धीरो महावीर्यपराक्रमः ॥
महाध्यानसमाधिस्थो महाप्रज्ञाशरीरधृक्
महाबलो महोपायः प्रणिधिज्ञानसागरः ॥
महामैत्रीमयो ऽमेयो महाकारुणिको ऽग्रधीः
महाप्रज्ञो महाधीमां महोपायो महाकृतिः ॥
महाऋद्धिबलोपेतो महावेगो महाजवः
महर्द्धिको महेशाख्यो महाबलपराक्रमः ॥
महाभवाद्रिसंभेत्ता महावज्रधरो घनः
महाक्रूरो महारौद्रो महाभयभयंकरः ॥
मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0