भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीनामसंगीति (अन्य संस्करण) · श्लोक 41-60

41

महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः
महायाननयारूढो महायाननयोत्तमः ॥

42

महावैरोचनो बुद्धो महामौनी महामुनिः
महामन्त्रनयोद्भूतो महामन्त्रनयात्मकः ॥

43

दशपारमिताप्राप्तो दशपारमिताश्रयः
दशपारमिताशुद्धिर् दशपारमितानयः ॥

44

दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः
दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् ॥

45

दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो विभुः
अशेषविश्वार्थकरो दशाकारवशी महान् ॥

46

अनाधिर् निष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः
भूतवादी यथावादी तथाकारी अनन्यवाक् ॥

47

अद्वयो ऽद्वयवादी च भूतकोटिव्यवस्थितः
नैरात्म्यसिंहनिर्नाद कुतीर्थ्यमृगभीकरः ॥

48

सर्वत्रगो ऽमोघगतिस् तथागतमनोजवः
जिनो जितारिर् विजयी चक्रवर्ती महाबलः ॥

49

गणमुख्यो गणाचार्यो गणेशो गणपतिर् वशी
महानुभावो धौरेयो ऽनन्यनेयो महानयः ॥

50

वागीशो वाक्पतिर् वाग्मी वाचस्पतिर् अनन्तगीः
सत्यवाक् सत्यवादी च चतुःसत्योपदेशकः ॥

51

अवैवर्तिको ह्य् अनागामी खड्गः प्रत्येकनायकः
नानानिर्याणनिर्यातो महाभूतैककारणः ॥

52

अर्हन् क्षीणास्रवो भिक्षुर् वीतरागो जितेन्द्रियः
क्षेमप्राप्तो ऽभयप्राप्तः शीतीभूतो ह्य् अनाविलः ॥

53

विद्याचरणसंपन्नः सुगतो लोकवित् परः
निर्ममो निरहंकारः सत्यद्वयनये स्थितः ॥

54

संसारपारकोटिस्थः कृतकृत्यः स्थले स्थितः
कैवल्यज्ञाननिष्ठ्यूतः प्रज्ञाशस्त्रो विदारणः ॥

55

सद्धर्मो धर्मराड् भास्वां लोकालोककरः परः
धर्मेश्वरो धर्मराजा श्रेयोमार्गोपदेशकः ॥

56

सिद्धार्थः सिद्धसंकल्पः सर्वसंकल्पवर्जितः
निर्विकल्पो ऽक्षयो धातुर् धर्मधातुः परो ऽव्ययः ॥

57

पुण्यवान् पुण्यसंभारो ज्ञानं ज्ञानाकरं महत्
ज्ञानवान् सदसज्ज्ञानी संभारद्वयसंभृतः ॥

58

शाश्वतो विश्वराड् योगी ध्यानं ध्येयो धियां पतिः
प्रत्यात्मवेद्यो ह्य् अचलः परमाद्यस् त्रिकायधृक् ॥

59

पञ्चकायात्मको बुद्धः पञ्चज्ञानात्मको विभुः
पञ्चबुद्धात्ममकुटः पञ्चचक्षुर् असङ्गधृक् ॥

60

जनकः सर्वबुद्धानां बुद्धपुत्रः परो वरः
प्रज्ञाभवोद्भवो ऽयोनिर् धर्मयोनिर् भवान्तकृत् ॥

मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc