मञ्जुश्रीनामसंगीति (अन्य संस्करण) · श्लोक 1-20
अथ वज्रधरः श्रीमान् दुर्दान्तदमकः परः
त्रिलोकविजयी वीरो गुह्यराट् कुलिशेश्वरः ॥
विबुद्धपुण्डरीकाक्षः प्रोत्फुल्लकमलाननः
प्रोल्लालयन् वज्रवरं स्वकरेण मुहुर् मुहुः ॥
भृकुटीतरङ्गप्रमुखैर् अनन्तैर् वज्रपाणिभिः
दुर्दान्तदमकैर् वीरैर् वीरबीभत्सरूपिभिः ॥
उल्लालयद्भिः स्वकरैः प्रस्फुरद्वज्रकोटिभिः
प्रज्ञोपायमहाकरुणा जगदर्थकरैः परैः ॥
हृष्टतुष्टाशयैर् मुदितैः क्रोधविग्रहरूपिभिः
बुद्धकृत्यकरैर् नाथैः सार्धं प्रणतविग्रहैः ॥
प्रणम्य नाथं संबुद्धं भगवन्तं तथागतम्
कृताञ्जलिपुटो भूत्वा इदम् आह स्थितो ऽग्रतः ॥
मद्धिताय ममार्थाय अनुकम्पाय मे विभो
मायाजालाभिसंबोधेर् यथा लाभी भवाम्य् अहं ॥
अज्ञानपङ्कमग्नानां क्लेशव्याकुलचेतसां
हिताय सर्वसत्वानाम् अनुत्तरफलाप्तये ॥
प्रकाशयतु संबुद्धो भगवां शास्ता जगद्गुरुः
महासमयतत्वज्ञ इन्द्रियाशयवित् परः ॥
भगवज्ज्ञानकायस्य महोष्णीषस्य गीष्पतेः
मञ्जुश्रीज्ञानसत्वस्य ज्ञानमूर्तेः स्वयंभुवः ॥
गम्भीरार्थाम् उदारार्थां महार्थाम् असमां शिवां
आदिमध्यान्तकल्याणीं नामसंगीतिम् उत्तमां ॥
यातीतैर् भाषिता बुद्धैर् भाषिष्यन्ते ह्य् अनागताः
प्रत्युत्पन्नाश् च संबुद्धा यां भाषन्ते पुनः पुनः ॥
मायाजालमहातन्त्रे या चास्मिं संप्रगीयते
महावज्रधरैर् हृष्टैर् अमेयैर् मन्त्रधारिभिः ॥
अहं चैनां धारयिष्याम्य् आ निर्याणाद् दृढाशयः
यथा भवाम्य् अहं नाथ सर्वसंबुद्धगुह्यधृक् ॥
प्रकाशयिष्ये सत्वानां यथाशयविशेषतः
अशेषक्लेशनाशाय अशेषाज्ञानहानये ॥
एवम् अध्येष्य गुह्येन्द्रो वज्रपाणिस् तथागतं
कृताञ्जलिपुटो भूत्वा प्रह्वकायस्थितो ऽग्रतः ॥
अथ शाक्यमुनिर् भगवां संबुद्धो द्विपदोत्तमः
निर्णमय्यायतां स्फीतां स्वजिह्वां स्वमुखाच् छुभां ॥
स्मितं संदर्श्य लोकानाम् अपायत्रयशोधनं
त्रैलोक्याभासकरणं चतुर्मारारिशासनं ॥
त्रिलोकम् आपूरयन्त्या ब्राह्म्या मधुरया गिरा
प्रत्यभाषत गुह्येन्द्रं वज्रपाणिं महाबलं ॥
साधु वज्रधरः श्रीमां साधु ते वज्रपाणये
यस् त्वं जगद्धितार्थाय महाकरुणयान्वितः ॥
मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0