भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीनामसंगीति (अन्य संस्करण) · श्लोक 121-140

121

बाहुदण्डशताक्षेपः पदनिक्षेपनर्तनः
श्रीमच्छतभुजाभोगो गगनाभोगनर्तनः ॥

122

एकपादतलाक्रान्त महीमण्डतले स्थितः
ब्रह्माण्डशिखराक्रान्त पादाङ्गुष्ठनखे स्थितः ॥

123

एकार्थो ऽद्वयधर्मार्थः परमार्थो ऽविनश्वरः
नानाविज्ञप्तिरूपार्थश् चित्तविज्ञानसन्तति ॥

124

अशेषभावार्थरतिः शून्यतारतिर् अग्रधीः
भवरागाद्यतीतश् च भवत्रयमहारतिः ॥

125

शुद्धशुभ्राभ्रधवलः शरच्चन्द्रांशुसुप्रभः
बालार्कमण्डलच्छायो महारागनखप्रभः ॥

126

इन्द्रनीलाग्रसच्चीरो महानीलकचाग्रधृक्
महामणिमयूखश्रीर् बुद्धनिर्माणभूषणः ॥

127

लोकधातुशताकम्पी ऋद्धिपादमहाक्रमः
महास्मृतिधरस् तत्त्वश् चतुःस्मृतिसमाधिराट् ॥

128

बोध्यंगकुसुमामोदस् तथागतगुणोदधिः
अष्टाङ्गमार्गनयवित् सम्यक्संबुद्धमार्गवित् ॥

129

सर्वसत्वमहासङ्गो निःसङ्गो गगनोपमः
सर्वसत्वमनोजातः सर्वसत्वमनोजवः ॥

130

सर्वसत्वेन्द्रियार्थज्ञः सर्वसत्वमनोहरः
पञ्चस्कन्धार्थतत्वज्ञः पञ्चस्कन्धविशुद्धधृक् ॥

131

सर्वनिर्याणकोटिस्थः सर्वनिर्याणकोविदः
सर्वनिर्याणमार्गस्थः सर्वनिर्याणदेशकः ॥

132

द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक्
चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् ॥

133

द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित्
विंशत्याकारसंबोधिर् विबुद्धः सर्ववित् परः ॥

134

अमेयबुद्धनिर्माण कायकोटिविभावकः
सर्वक्षणाभिसमयः सर्वचित्तक्षणार्थवित् ॥

135

नानायाननयोपाय जगदर्थविभावकः
यानत्रितयनिर्यात एकयानफले स्थितः ॥

136

क्लेशधातुविशुद्धात्मा कर्मधातुक्षयंकरः
ओघोदधिसमुत्तीर्णो योगकान्तारनिःसृतः ॥

137

क्लेशोपक्लेशसंक्लेश सुप्रहीणसवासनः
प्रज्ञोपायमहाकरुणा अमोघजगदर्थकृत् ॥

138

सर्वसंज्ञाप्रहीणार्थो विज्ञानार्थो निरोधधृक्
सर्वसत्वमनोविषयः सर्वसत्वमनोगतिः ॥

139

सर्वसत्वमनो ऽन्तस्थस् तच्चित्तसमतांगतः
सर्वसत्वमनोह्लादी सर्वसत्वमनोरतिः ॥

140

सिद्धान्तो विभ्रमापेतः सर्वभ्रान्तिविवर्जितः
निःसन्दिग्धमतिस् त्र्यर्थः सर्वार्थस् त्रिगुणात्मकः ॥

मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc