भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीनामसंगीति (अन्य संस्करण) · श्लोक 101-120

101

वागीश्वरो महावादी वादिराड् वादिपुंगवः
वदतां वरो वरिष्ठो वादिसिंहो ऽपराजितः ॥

102

समन्तदर्शी प्रामोद्यस् तेजोमाली सुदर्शनः
श्रीवत्सः सुप्रभो दीप्तिर् भा भासुरकरद्युतिः ॥

103

महाभिषग्वरः श्रेष्ठः शल्यहर्ता निरुत्तरः
अशेषभैषज्यतरुः क्लेशव्याधिमहारिपुः ॥

104

त्रैलोक्यतिलकः कान्तः श्रीमां नक्षत्रमण्डलः
दशदिग्व्योमपर्यन्तो धर्मध्वजमहोच्छ्रयः ॥

105

जगच्छत्रैकविपुलो मैत्रीकरुणामण्डलः
पद्मनर्तेश्वरः श्रीमां रत्नच्छत्रो महाविभुः ॥

106

सर्वबुद्धमहाराजा सर्वबुद्धात्मभावधृक्
सर्वबुद्धमहायोगः सर्वबुद्धैकशासनः ॥

107

वज्ररत्नाभिषेकश्रीः सर्वरत्नाधिपेश्वरः
सर्वलोकेश्वरपतिः सर्ववज्रधराधिपः ॥

108

सर्वबुद्धमहाचित्तः सर्वबुद्धमनोगतिः
सर्वबुद्धमहाकायः सर्वबुद्धसरस्वतिः ॥

109

वज्रसूर्यो महालोको वज्रेन्द्रुविमलप्रभः
विरागादिमहारागो विश्ववर्णोज्ज्वलप्रभः ॥

110

संबुद्धवज्रपर्यङ्को बुद्धसंगीतिधर्मधृक्
बुद्धपद्मोद्भवः श्रीमां सर्वज्ञज्ञानकोशधृक् ॥

111

विश्वमायाधरो राजा बुद्धविद्याधरो महान्
वज्रतीक्ष्णो महाखड्गो विशुद्धः परमाक्षरः ॥

112

दुःखच्छेदमहायानो वज्रधर्ममहायुधः
जिनजिग् वज्रगाम्भीर्यो वज्रबुद्धिर् यथार्थवित् ॥

113

सर्वपारमितापूरी सर्वभूमिविभूषणः
विशुद्धधर्मनैरात्म्यं सम्यग्ज्ञानेन्दुहृत्प्रभः ॥

114

मायाजालमहोद्योगः सर्वतन्त्राधिपः परः
अशेषवज्रपर्यङ्को निःशेषज्ञानकायधृक् ॥

115

समन्तभद्रः सुमतिः क्षितिगर्भो जगद्धृतिः
सर्वबुद्धमहागर्भो विश्वनिर्माणचक्रधृक् ॥

116

सर्वभावस्वभावाग्र्यः सर्वभावस्वभावधृक्
अनुत्पादधर्मा विश्वार्थः सर्वधर्मस्वभावधृक् ॥

117

एकक्षणमहाप्राज्ञः सर्वधर्मावबोधधृक्
सर्वधर्माभिसमयो भूतान्तमुनिर् अग्रधीः ॥

118

स्तिमितः सुप्रसन्नात्मा सम्यक्संबुद्धबोधिधृक्
प्रत्यक्षः सर्वबुद्धानां ज्ञानार्चिः सुप्रभास्वरः ॥

119

इष्टार्थसाधकः परः सर्वापायविशोधकः
सर्वसत्वोत्तमो नाथः सर्वसत्वप्रमोचकः ॥

120

क्लेशसंग्रामशूरैकः अज्ञानरिपुदर्पहा
धीः शृङ्गारधरः श्रीमान् वीरबीभत्सरूपधृक् ॥

मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc