मञ्जुश्रीनामसंगीति (अन्य संस्करण) · श्लोक 141-160
पञ्चस्कन्धार्थस् त्रिष्कालः सर्वक्षणविभावकः
एकक्षणाभिसंबुद्धः सर्वबुद्धस्वभावधृक् ॥
अनङ्गकायः कायाग्र्यः कायकोटिविभावकः
अशेषरूपसंदर्शी रत्नकेतुर् महामणिः ॥
सर्वसंबुद्धबोद्धव्यो बुद्धबोधिर् अनुत्तरः
अनक्षरो मन्त्रयोनिर् महामन्त्रकुलत्रयः ॥
सर्वमन्त्रार्थजनको महाबिन्दुर् अनक्षरः
पञ्चाक्षरो महाशून्यो बिन्दुशून्यः शताक्षरः ॥
सर्वाकारो निराकारः षोडशार्धार्धबिन्दुधृक्
अकलः कलनातीतश् चतुर्थध्यानकोटिधृक् ॥
सर्वध्यानकलाभिज्ञः समाधिकुलगोत्रवित्
समाधिकायो कायाग्र्यः सर्वसंभोगकायराट् ॥
निर्माणकायो कायाग्र्यो बुद्धनिर्माणवंशधृक्
दशदिग्विश्वनिर्माणो यथावज्जगदर्थकृत् ॥
देवातिदेवो देवेन्द्रः सुरेन्द्रो दानवाधिपः
अमरेन्द्रः सुरगुरुः प्रमथः प्रमथेश्वरः ॥
उत्तीर्णभवकान्तार एकः शास्ता जगद्गुरुः
प्रख्यातो दशदिग्लोक धर्मदानपतिर् महान् ॥
मैत्रीसंनाहसंनद्धः करुणावर्मवर्मितः
प्रज्ञाखड्गधनुर्बाणः क्लेशाज्ञानरणंजहः ॥
मारारिर् मारजिद् वीरश् चतुर्मारभयान्तकृत्
सर्वमारचमूजेता संबुद्धो लोकनायकः ॥
वन्द्यः पूज्यो ऽभिवाद्यश् च माननीयश् च नित्यशः
अर्चनीयतमो मान्यो नमस्यः परमो गुरुः ॥
त्रैलोक्यैकक्रमगतिर् व्योमपर्यन्तविक्रमः
त्रैविद्यः श्रोत्रियः पूतः षडभिज्ञः षडनुस्म्र्तिः ॥
बोधिसत्वो महासत्वो लोकातीतो महर्द्धिकः
प्रज्ञापारमितानिष्ठः प्रज्ञातत्त्वत्वम् आगतः ॥
आत्मवित् परवित् सर्वः सर्वीयो ह्य् अग्रपुद्गलः
सर्वोपमाम् अतिक्रान्तो ज्ञेयो ज्ञानाधिपः परः ॥
धर्मदानपतिः श्रेष्ठश् चतुर्मुद्रार्थदेशकः
पर्युपास्यतमो जगतां निर्याणत्रययायिनाम् ॥
परमार्थविशुद्धश्रीश् त्रैलोक्यसुभगो महान्
सर्वसंपत्करः श्रीमान् मञ्जुश्रीः श्रीमतां वरः ॥
नमस् ते वरद वज्राग्र्य भूतकोटि नमो ऽस्तु ते
नमस् ते शून्यतागर्भ बुद्धबोधि नमो ऽस्तु ते ॥
बुद्धराग नमस् ते ऽस्तु बुद्धकाम नमो नमः
बुद्धप्रीति नमस् तुभ्यं बुद्धमोद नमो नमः ॥
बुद्धस्मित नमस् तुभ्यं बुद्धहास नमो नमः
बुद्धवाच नमस् ते ऽस्तु बुद्धभाव नमो नमः ॥
मूल पाठ: Mañjuśrīnāmasaṃgīti · Edition: Davidson, Ronald M.: "The Litany of Names of Manjusri. Text and Translation of the Manjusrinamasamgiti", Tantric and Taoist Studies in Honour of R. A. Stein, Mélanges Chinois et Bouddhique, vol. XX, (Brüssel 1981), pp. 1-69. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0