भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 48

48.1

बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रीमूलकल्पात् पञ्चचत्वारिंशतमः पटलविसरात् प्रथमः चतुर्भगिनीमण्डलमनुप्रवेशसमयगुह्यतमपटलविसरः परिसमाप्त इति ॥
अथाष्टचत्वारिंशः पटलविसरः ।
अथ खलु विजया नाम देवी तत्रैव पर्षदि सन्निपतिता सन्निषण्णाभूवम् । स स्वकं मण्डलोपचर्या साधनविधिं भाषयति स्म -
आदौ तावद् विविक्ते देशे प्रच्छन्ने रहसि पञ्चरङ्गिकचूर्णेन शुक्लकृष्णपीतरक्तहरितैः चूर्णैः पञ्चम्या शुभे सितकृष्णयोः पक्षे चतुर्थ्या वा मण्डलमालिखेत् । चतुर्हस्तप्रमाणं समन्ताच्चतुरस्रं चतुःकोणं चतुस्तोरणभूषितम् । समन्तान्मण्डलमध्ये महोदधि समालिखेत् चतुर्मुद्रालङ्कृतम् । मध्ये सार्थवाहश्च मुद्रामण्डलाकारं इन्दुवर्णाभं पूर्वोत्तरे कोणे जया मुद्रा अर्धचन्द्राकारसितं दक्षिणपूर्वकोणे विजया मुद्रा तृकोणाकारं पीतनिर्भासं, पश्चिमदक्षिणकोणे अजिताया मुद्रं बन्धाकारं रक्तावभासं उत्तरपश्चिमकोणे अपराजिताया मुद्रं वज्राकारं कृष्णनिर्भासं सर्वतश्च मुद्राणां ज्वालामालिनः कर्त्तव्याः ॥
पूर्ववचौक्षसमाचारेण भूत्वा चतुःकोण चत्वारः पूर्णकलशाः स्थापयितव्याः आम्रपल्लवप्रच्छादितमुखाः सर्वव्रीहिरत्नपरिपूर्णगर्भाः । मध्ये तु सार्थवाहस्य तुम्बुरेः पञ्चमं कलशं तथैवाम्रपल्लवप्रच्छादितमुखं प्रत्यग्रवस्त्रावकुण्ठिताश्च कार्याः । तच्च तथैव बलिनिवेद्यपुष्पादयो यथा मुद्रास्तथैव कार्या । तद्वर्णश्च पूष्पधूपगन्धादयः तत् सर्वं तथैव कार्यम् । चतुर्दिशं च बलिः क्षेप्तव्या । अर्धरात्रे मध्याह्ने चाभिचारुके प्रत्यूषे पौष्टिके अपराह्ने शान्तिकमस्तं गते वा सवितरि कर्मत्रयं चापि यथाकालोपदिष्टमण्डलहोमजपसाधनेषु प्रयोक्तव्यम् ॥
शुचिनो दक्षशीलाश्चं स्त्रीपुरुषादयः अव्यथिताश्च प्रवेशयितव्याः सरदारिकाश्च गुह्यमन्त्रधारिणो आदौ प्रवेशयितव्याः । प्राङ्मुखं स्थापयित्वा विजयाया मूलमन्त्रेणोदकमभिमन्त्र्य सप्ताभिमन्त्रितं कृत्वा सर्वेषामभ्यषिञ्चेत् । सकृदहोरात्रोषितानां शुचिवस्त्रप्रावृतानामष्टौ प्रभृति यावदेकं प्राङ्मुखं पश्चाद्द्वारेण प्रवेशयेत् प्रत्यग्रमुखप्रच्छादितां कृत्वा एकैकं विजयाया मुद्रं बद्ध्वा अञ्जलिं कृत्वा पीतपुष्प दत्वा क्षिपापयेत् । विजयाया मन्त्रं कृत्वा मुखमुत्साद्य मण्डलं दर्शापयेत् । प्रदक्षिणं च कारापयेत् । सर्वेषां मुद्रां दर्शयेत् । ततो ऽनुपूर्वतः सर्वे प्रवेशयितव्या यावदष्टाविति ॥
पूर्वं तावद् देवीनामाह्वाननमन्त्रेण भ्रातृसहितानां मूलमन्त्रेण यथोचित्तैः पुष्पैरावाहयेत् । पूर्वं पश्चाद् धूपं दत्वा यथोचितं नमस्कारं कृत्वा यत्रोत्सहते शिष्यः स्त्रीपुरुषदारकदारिका वा स तस्मिं मण्डले बहिरभिषेचयितव्यः राजवत् सर्वोपकरणैः यथाभिरुचितैर्वा मन्त्रं मण्डलाचार्यस्य तुष्टिर्येन वा तुष्येत तयाभिषेचयेत् । अभिषिच्य च एक वा त्रयो वा अभिषेचनीयः आर्याभिषेकेण । एकं च वक्तव्यम् । शृणु कुलपुत्रकुलदुहितुर्वा लब्धाभिषेकस्त्वमनुज्ञातः सर्वदेवताभिश्च सभ्रातृसहितैश्च स्वमन्त्रतन्त्रेषु यथेष्टं मण्डलमालिख्य स्वमन्त्राणां विधिनियमचर्याकल्पविस्तरां ददस्वेति वक्तव्यः । तदन्ये विद्याभिषेकेणाभिषेचयितव्या । द्वित्रयो वा जनाः । शेषास्तु स्वमन्त्रचर्यायाः शिक्षापयित्वा विसर्जयितव्या ॥
ततो मण्डलाचार्येण चन्दनोदकेनाभ्युक्ष्य अर्घं दत्त्वा स्वमन्त्रेणैव धूपपुष्पादिभिः देवतां विसर्जयितव्या । सर्वं चोपकरणं आत्मना ग्रहेतव्यम् । गृह्य च स्वं प्रत्यंशं त्रितीयभागं सर्वमनाथेभ्यो दातव्यम् । शेषमुदके प्लावयितव्यम् । तं पृथिवीप्रदेशं सुलिप्तं कृत्वा सुशोभितं विगतरजस्कं यथेष्टयो गन्तव्यम् । यथा स्वमन्त्रचर्यासु च तथा शिक्षापयितव्याः । सर्वे शिष्याः प्रच्छन्ने रहसि विगतजनसम्पाते स्वदेवतामुद्रांश्च बन्धापयितव्याः । तैरेव मन्त्रैः पूर्वनिर्दिष्टैर्मन्त्रैः सुविशेषतः सर्वमन्त्रा सिद्धिं गच्छन्तीति ॥
आशु सिद्धिक्रियायुक्तिमन्त्राणां च विशेषतः ।
जयाख्ये मण्डले ह्युक्तं पूर्वनिर्दिष्टहेतुभिः

48.2

तत्कर्मविधिनिर्दिष्टः विजयाख्ये मण्डले शुभे ।
द्वितीयं मण्डलमित्याहुः निर्दिष्टं तत्त्वार्थमन्त्रिभिः

48.3

विजया नामतो ज्ञेया सर्वकर्मार्थसाधिका ।
ईप्सितां साधयेदर्थां सर्वमन्त्रेषु मन्त्रवित्

48.4

पूर्वं जप्तो मन्त्रस्तु सर्वकर्मेषु मानवी ।
तत्यात्मदेवता रक्षा विजयाया तु कीर्त्यते

48.5

पराभवश्च विघ्नानां आरम्भश्च फलोन्मुखः ।
मण्डले विजयाख्ये तु द्वितीये सर्वार्थसाधने

48.6

दर्शनान्मुञ्चते पुंसः सर्वकल्विषमायतैः ।
जपाद् योगाच्च मन्त्रज्ञः पापशुद्धिश्च जायते

48.7

पराभवश्चान्येषां मन्त्राणां तु भूतले ।
परिपक्षगतां देषां स्वदुष्टादुष्टयोनिजाम्

48.8

नाशये तत्क्षणान्मन्त्री विजयाख्ये मण्डलावृतीः ।
सर्वकर्मिकमित्याहुः वश्याकर्षणभूतिकम्

48.9

सफलं कर्मजं लोके पुष्टिशान्त्यर्थसाधकम् ।
सर्वार्थसाधको ह्येष मण्डलोदधिसम्भवो

48.10

विजयाख्ये बहुमतः पुण्यः प्रशस्तः सोमपूजितो ।
नित्यं नित्यतमो पुण्यो मङ्गलो मघनाशनः

48.11

सुरूपो रूपमन्तश्च धन्यः सर्वार्थसाधकः ।
लिखनान्मन्त्रिभिः क्षिप्रं ऊर्ध्वगामर्थसाधकमितिदिति

48.12

अजितादेवमित्याहुः प्रसन्ना बुद्धशासने ।
मण्डलं त्रयमेक वै कथितं लोकपूजितम्

48.13

पूर्वं रिषिवरैर्मुख्यैः कथितं लोकचिह्नितैः ।
अधुना च प्रवक्ष्ये ऽहं अजिताख्यं मण्डलम्

48.14

यद्व तत् यथैव नियोजयेत् ।
किन्तु वर्णवरं रक्तं रक्तैश्चापि चूर्णकैः

48.15

तथैव बलिपुष्पाद्यां गन्धधूपादिभिः क्रमैः ।
सर्वरक्तमयं बाह्यमसृग्ग्रस्ताङ्गशोभनम्

48.16

तथैव मुद्रां सर्वत्रं भीमां चैव वियोजयेत् ।
बलिहोमक्रियायुक्तिः रक्तैश्चापि नियोजयेत्

48.17

कलशाश्चैव रक्ताभां रक्तवस्त्रांश्च दापयत् ।
तथैव मुखवेष्टं वा रक्तच्छत्रं तथैव च

48.18

आसनं शयनं यानं रक्तं चैव समालभेत् ।
तथैव रक्तमन्त्राणां स्त्रीपुंसार्थकारणम्

48.19

रागार्थं आवृते मन्त्रां रागिणस्यैव युज्यते ।
नान्यमन्त्रेषु मन्त्रज्ञो मतिं कारेथ कत्तृणाम्

48.20

बुद्धिमन्तः सदायोगी मन्त्रज्ञो मन्त्रमीरयेत् ।
कामार्थं सम्पदं प्राप्ता वश्याकर्षणहेतुकम्

48.21

प्राप्नुयात् सम्पदां सर्वां अजिताख्ये मण्डले ऽद्भुताम् ।
सर्वभूतवशार्थाय मण्डलं भुवि मुच्यते

48.22

कथितं मन्त्रिभिर्नित्यं चित्तविक्षेपकारणात् ।
आकृष्य महोजं कर्म वश्या भौतिकचेष्टितम्

48.23

विक्षिप्तचित्तो मर्त्यो वै आविष्टाविरलेक्षिताम् ।
दासभूतं समायातं सर्वज्ञासम्प्रतीच्छकम्

48.24

विवशं वशमायातं किङ्करानुवशवर्तिनम् ।
तादृशं मानुषं दृष्ट्वा पुनरेव सम्प्रमोक्षयेत्

48.25

स्त्रियं वा यदि वा पुंसं दारकं वाथ दारिकाम् ।
भूयो ऽपि मूलमन्त्रेण अजितेनैव मोक्षयेत्

48.26

पूर्वनिर्दिष्टकर्मैश्च विधियुक्तैर्महीतले ।
आलिखेन्मण्डलं धीमां सर्वदैव प्रयोजयेत्

48.27

सफलं कर्म निर्दिष्टं समन्त्रं मन्त्रकर्मणि ।
पूर्वमन्यप्रयोगैस्तु साधयेद् विधिमुत्तमाम्

48.28

साध्यमाना हि सिद्ध्यन्ते सर्वे माहेश्वरा गणाः ।
विधानज्ञापतो रूपं मुद्रं मन्त्रार्थतन्त्रता

48.29

क्रियायोगप्रमाणं तु कथ्यमानातिविस्तरा ।
एतत् प्रमाणतो ज्ञेयं मण्डले ऽस्मिन् निबोधताम्

48.30

हस्ता च दष्टसप्ता वा षट्पञ्चचतुरस्तथा ।
द्विहस्तहस्तमात्रं वा वृता मण्डलमुद्भवेत्

48.31

ज्येष्ठमष्टस्तथा हस्तं सप्त षट् पञ्च मध्यमाः ।
चतुर्हस्तद्विहस्तं वा हस्तमात्रं तु कन्यसम्

48.32

ज्येष्ठे शान्तिकं कुर्या तथा मध्ये तु पौष्टिकम् ।
आभिचारुकमन्त्रेषु कुर्यात् कन्यसमण्डले

48.33

वश्यार्थं सर्वभूतानां नित्यं जम्भनमोहने ।
कुर्यात् सर्वकर्माणि जापी मन्त्ररतः सदा

48.34

अजिताख्यं मण्डल निर्दिष्टं सर्वग्रहविमोक्षणम् ।
यत्र भूताः पिशाचाश्च ग्रहमातरपूतनाः

48.35

दृष्टमात्रा वशमायान्ति नित्यं जम्भितमोहिताः ।
दर्शनान्मण्डले नित्यं क्षिप्रं गच्छन्ति वश्यतामिति

48.36

अपराजिता तु देव्या वै प्रणम्य जिनवरात्मजम् ।
वज्रकं गुह्यकेन्द्रं तु मञ्जुघोषं सुभूषणम्

48.37

सर्वां बुद्धसुतांश्चैव ........ महौजसाम् ।
सभ्रातृपञ्चमां देवीमिमां वाचमुदीरयेत्

48.38

अहमप्येवंविधं कार्यं मण्डलार्थेति युक्तिजम् ।
वव्रे च शुभसङ्गीतं .... युक्यर्थाक्षरसंसृष्टिरेषप्र

48.39

महाप्रभावं महौजस्कं दुर्दान्तदमकं मतम् ।
सकृष्णं कृष्णवर्णाभं कालरात्रिसमप्रभम्

48.40

यमदूताख्यवर्णाभं .......... ।
साक्षात् विवस्वतं घोरं परप्राणहरं भयम्

48.41

यथावत् पूर्वनिर्दिष्टं देवीनां तु मण्डले ।
तथैव तत् कुर्यात् सर्वं वर्जयित्वा तु वर्णतो

48.42

श्मशाने नित्यमालेख्यं पुरे दक्षिणतः सदा ।
सधूमे ज्वालामालीढे अस्थिकङ्कालवेष्टिते

48.43

मध्यस्थे सवसृजे देशे तत्रस्थे तु महीतले ।
श्मशानभस्मना लेख्यं कृष्णवर्णे तु भूतले

48.44

यथैवं पूर्वनिर्दिष्टं मन्त्रैरर्चविधिक्रमम् ।
तत् सर्वं क्षिप्रतो मन्त्री सर्वं चैव नियोजयेत्

48.45

स्वमन्त्रं मन्त्रनाथं च तुम्बुरुं सार्थवाहकम् ।
........ महोदधिसमावृताम्

48.46

अजितायामाशु निर्दिष्टा विजया खड्गपाणिनी ।
धनुर्हस्तां सदा देवी जया तामभिनिर्दिशेत्

48.47

विचित्रप्रहरणा ह्येता विचित्राभरणभूषिता ।
विचित्रगतिसत्त्वाख्या विचित्रा वेषचेष्टिता

48.48

आलिख्य मण्डले ह्यत्र कृष्णवर्णा तु भूतले ।
परप्राणहरं ह्येतत् मण्डलं भुवि चेष्टितम्

48.49

विविधार्थक्रिया मन्त्रा कर्ममुद्भवा ।
तत् सर्वं पूर्ववत् कृत्वा पश्चात् कर्म समारभेत्

48.50

जपहोमक्षया मन्त्रा मण्डलांश्चैव दर्शनम् ।
प्रवेशं मण्डले ह्यस्मिन् तत्पूर्वं विधिमुद्भवैः

48.51

एष संक्षेपतो ह्युक्तः कथ्यमानो ऽतिविस्तरम् ।
मण्डलं देविमुख्यायाः कन्यसाया तु कीर्त्तितम्

48.52

अपराजिताख्यनामतः ज्ञेयो मण्डलं भुवि विश्रुतम् ।
अजितं सर्वतः पूर्वं राक्षसेश्वरकिन्नरैः

48.53

भूतैर्दैत्यमुख्यैस्तु यममातरसग्रहैः ।
कूष्माण्डे व्यन्तरैश्चापि पिशिताशैः सपूतनैः

48.54

तन्त्रे तु सर्वतो मन्त्रैः क्रव्यादैस्तु सकश्मलैः ।
असुराध्यक्षैः महाघोरैः सर्वभूतमहोदयैरिति

48.55

अथ तुम्बुरुः सार्थवाहो वैस्वं मण्डलमभाषयम् ।
तुम्बुराख्यं वामतो मर्त्यां वज्रधृक् तं निबोधताम्

48.56

पूर्वनिर्दिष्टमित्याहुः पुनरेव महीतले ।
प्रणम्य वज्रिणं मूर्ध्ना इमां वाचमुशिक्षिरे

48.57

सर्वं पूर्वनिर्दिष्टं मण्डलं चतुरोदयम् ।
प्रथमं सर्वकर्मान्तं द्वितीयं तु इहोच्यते

48.58

व्यतिमिश्रं तथा युक्त्या अनुपूर्वमिहागतम् ।
मण्डलं चतुराख्यं तु सर्वभूतप्रसाधकम्

48.59

शून्यवेश्म तथा नित्यं शून्यदेवकुले सदा ।
प्रच्छन्ने रहसि विस्रब्धे स्वगृहे वाववरके ऽपि च

48.60

विचित्रैरङ्गनेपथ्यै विचित्रैश्चारुपूर्णकैः ।
पञ्चरङ्गिकचूर्णैस्तु विविधैर्वा फलोद्भवैः

48.61

शालितण्डुलपिष्टैस्तु विचित्रैरङ्गमुज्ज्वलैः ।
शुक्लचूर्णैस्तथा युक्तैः चन्दनागरुधूपितैः

48.62

विमिश्रैश्चन्दनचूर्णैस्तु कुङ्कुमागरुयोजितैः ।
कर्पूरकस्तूरिकासिक्तैः प्रियङ्गुकेशरादिभिः

48.63

स्पृक्कासीरसमायुक्तैः कृष्णागरुसुधूपितैः ।
चूर्णैर्विविधगन्धैर्वा नित्यं मण्डलमालिखेत्

48.64

त्रिःस्नायी जपहोमी च त्रिचेलपरिवर्तिनः ।
व्यतिमिश्रयक्षे तथा मन्त्री सितासितसुचिह्निते

48.65

यथेष्टं तिथिनक्षत्रे नित्य मण्डलमालिखेत् ।
चतुर्हस्तप्रमाणं वै यथोक्तं विधिपूर्वके

48.66

तत् सर्वमालिखेद् धीमां मन्त्रं यत्नाद्धि चेतसा ।
चतुःकोणं चतुर्द्वारं चतुस्तोरणसंयुतम्

48.67

मध्ये सरिपतिर्नित्यं मण्डले ऽस्मिं समालिखेत् ।
मध्यस्थं पद्ममारूढं धर्मचक्रानुवर्तिनम्

48.68

शाक्यसिंहं महावीरं मन्त्री बुद्धं समालिखेत् ।
शेषं मुद्रवरैः क्षिप्रं स्वभ्रातृसहपञ्चमम्

48.69

आलिखेत् सर्वतो मन्त्री चतुःकोणे तु सर्वतः ।
ज्येष्ठात् पद्मवरे तस्थौ अधस्ताद् बुद्धस्याम्बुधेः ।
तुम्बुरे मुद्रमालेख्यं सितवर्णो ऽथ सर्वतः

48.70

सर्वे शुक्लवर्णाभा कुन्देन्दुशशिप्रभा ।
कुमुदाकारसङ्काशा सर्ववस्तुसुशुक्लका

48.71

पूर्वनिर्दिष्टयोगेन देवीनां तु विधानवित् ।
तत् सर्वं कुर्यान्मन्त्री सर्वकर्मार्थसाधनमिति

48.72

यथैव मण्डलं सर्वपटे स्मित प्रयोजयेत् ।
त्रिविधं पटनिर्दिष्टं मण्डले ऽस्मिं यथाविधि

48.73

शेषं यथेष्टवत् कुर्यात् पटमण्डले भूतले ।
आलेख्यं मन्त्रतन्त्रे ऽस्मिं यथाविहिते मते

48.74

फलके पट्टके वापि यथाकाष्ठसमुद्भवैः ।
आलेख्याः देवताः सर्वे सभ्रातृसहपञ्चमाः

48.75

यथैव मण्डले सर्वं तत् सर्वं आलिखेत् पटे ।
अम्बरे वापि निर्दिष्टं यथोचितसमुद्भवे ।
निर्दिष्टं पटमन्त्रज्ञैः प्रतिमानां तु कीर्त्यते

48.76

चन्दनं मलयमित्याहु रागं चापि सकेसरम् ।
पुन्नागं चैव मन्त्रज्ञैः नित्यं प्रतिमासु योजयेत्

48.77

पियालं पद्मकं विन्द्यात् रोध्रकाष्ठं महीतले ।
सरलं देवदारुं च काश्मीरं चैव सघण्टकम्

48.78

कुटजार्जुनजम्बूकं प्रियङ्गुष्ठोमकोद्भवम् ।
रक्तचन्दनकाष्ठं तु विशेषात् पटमुच्यते

48.79

प्लक्षोदुम्बरकाष्ठं च सहकारं विशेषतः ।
पुण्डरीकं ससर्जं वै सिन्दुवारं सिद्धोद्भवम्

48.80

वकुलं तिलकं चैव काष्ठं सप्तच्छदं तथा ।
विविधा वृक्षजातीनां पुंसस्त्रीनपुंसकाम्

48.81

सर्वेषां ग्रहणं काष्ठे मूलगण्डे ततोर्ध्वगम् ।
शाखासु सर्वतो ग्राह्या मधुकस्तिक्तकाष्ठयो

48.82

पिचुमन्दं तथा काष्ठे ऽरिष्टे भूततरौ तथा ।
पुत्रञ्जीवककाष्ठेषु नित्यं चैवाभिचारुके ।
अश्वत्थे शान्तिकं विन्द्यात् काष्ठे चापि महीतले

48.83

पौष्ट्यर्थं काष्ठमित्युक्तं अशोकं शीर्षमेव वा ।
सर्वकर्माणि सर्वत्र सर्वकाष्ठेषु योजयेत्

48.84

मूलकाष्ठेन प्रतिमाग्रा मूलनक्षत्रयोजिता ।
ततस्तम्भकृते काष्ठे ज्येष्ठनक्षत्र योजयेत् ।
ततः शाखाकृतं काष्ठं सर्वनक्षत्र योजयेत्

48.85

ततोर्ध्वनक्षत्ररेवत्या इन्दुवारेण कारयेत् ।
मूल आदित्यवारे वै स्तम्भः शुक्राद्यमीक्ष्यते

48.86

सर्ववारैस्तथा मुख्यैः सर्वग्रहगणादृते ।
मूले रसातलं गच्छेत् आसुरिं तनुमाविशेत्

48.87

ततस्तम्भकृतैः काष्ठैः गाण्डैश्चापि समुद्भवैः ।
वश्याकर्षणभूतानां जम्भस्तम्भमोहनाम्

48.88

कुर्यादाभिचारं वै तेषु प्रतिमा समाविशेत् ।
ततो र्ध्वं नभस्तलं गच्छेदूर्ध्वकाष्ठसमुद्भवैः

48.89

प्रतिमां देव्य समायुक्ते सुरयानसमाश्रयाम् ।
शाखासु सर्वतो गच्छेदन्तर्धानसुखोदयाम्

48.90

दिशां च सर्वतो मन्त्री यथेष्टं वा कर्म समारभेत् ।
काष्ठाः सर्वे तु निर्दिष्टाः प्रतिमालक्षणमिष्यते

48.91

नौयान च समारूढा देव्याकारसुभूषिताः ।
कुमार्याकारचिह्नस्तु पञ्चचीरकमूर्धजाः

48.92

तथैव करविन्यस्तौ मण्डले ऽस्मि हि बोधिताः
तुम्बुरुः सार्थवाहो वै कर्णधारो महाद्युतिः

48.93

करवालकरन्यस्तो वाहमन्तो ऽथ सव्यके ।
तिर्यग्नावगता मन्त्रा त्र्यङ्गुलद्व्यङ्गुलोद्भवा

48.94

दीर्घशो वितस्तिमात्रं वा नावं चैव सुकारयेत् ।
सुसृष्टं श्वेतसङ्काशं शङ्खेन्दुधवलसन्निभम्

48.95

जया कारयेद् धीमान् तुम्बुरुं च विशेषतः ।
विजयां पीतनिर्भासामजितां चैव सुरक्तिकाम्

48.96

अपराजिता कृष्णवर्णा वै शुक्लां चैव अनामिकाम् ।
प्रसन्नां तुम्बुरुमूर्त्त्या जयां चैव विनिर्दिशेत्

48.97

ईषिद्भ्रुकुटिनो देव्या विजया चापराजिता ।
अजिता सौम्यवेशा तु कर्तव्य थ सर्वतः

48.98

अङ्गुष्ठपर्वमात्रं वा कन्यसाङ्गुलिमात्रता ।
सवाः प्रमाणवेषाख्या कथिता सर्वमन्त्रिणैः

48.99

दन्ती भोगगदा ख्याता सौवर्णपार्थिवोद्भवाः ।
पृथिव्यामधिपत्योर्वा कुर्यामेतां सुशोभनाम्

48.100

रौप्यं ताम्रमयीं वापि प्रतिमा ख्याता वशावहा ।
आकर्षणं च भूतानां कांसी ह्युक्ता महीतले

48.101

त्रपुसीसकलोहैश्च प्रतिमा ह्युक्ताभिचारुके ।
समारै रत्नविशेषैश्च प्रवालस्फटिकसम्भवैः

48.102

कुर्यात् प्रतिमां सौम्यां आशु सिद्धिलिलुप्सुभिः ।
कपालास्थिमयैः प्रतिमैः कर्म कश्मलजोद्भवम्

48.103

शृङ्गैः विविधमुख्याद्यैः यथान्यस्तार्थलाभिनाम् ।
सिद्ध्यन्ते सर्वमन्त्रा वै क्षुद्रमन्त्राश्च भूतले

48.104

यथासम्भवतो लाभा यथाप्राप्तार्थसम्भवा ।
सिद्ध्यन्ते सर्वतः कृत्वा प्रतिमाभिश्च योजिता

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc