भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 49

49.1

इति ॥
अथ तुम्बुरुः सार्थवाहः सर्वेषां साधनविधानं समाचक्षते सामान्यतः । दन्तमयीं प्रतिमां कृत्वा देवीनां कन्यसाङ्गुलिप्रमाणामतिगुप्ते प्रदेशे आहूय मूलमन्त्रैः वामहस्तेन धूपं दत्वा जयाया मूलमन्त्रं जपेत् । अष्टसहस्रमष्टशतं वा जपं कृत्वा यन्मनीषितं तत् सर्वं स्वप्ने कथयति । त्रिसन्ध्यं सप्तदिवसानि जपः कर्तव्यः । यथेप्सितं तत् सर्वं सम्पादयन्ते । वश्याकर्षणग्रहविमोक्षणादीनि सर्वाणि क्षुद्रकर्माणि कुर्वन्ति । यथेष्टं वा सत्त्ववशीकरणे उत्तमसाधनादिषु कर्माणि निमित्तानि दर्शयति । जातीकुसुमैर्देवीनां प्रतिमां ताडयेत् । राजा वश्यो भवति ।
( वैद्य 421 ) जातीकलिकैः देवीनां प्रतिमां ताडयेत् । अष्टशतवारां पञ्चकलिकाभिः त्रिसन्ध्यं सप्तं दिवसानि । यामिच्छति राजकन्यां महाधनोपेतां वराङ्गरूपिणीं तां लभते । जातीपुष्पैः पञ्चभिः कुसुमैः प्रतिमा एकैका आहन्तव्या त्रिसन्ध्यं सप्तदिवसानि अष्टशति । यामिच्छति वराङ्गनां तां लभते । तामेव प्रतिमामादाय मूर्धनि धारयेत् । केशावृतं कृत्वा भर्ता चास्य दासत्वेनोपतिष्ठति । ऊरुमध्ये संन्यसेत् । परमसौभाग्यं लभते । गृहीत्वाध्वानं वज्रेत् । चोरैर्न मुष्यते । परबलं दृष्ट्वा स्तम्भयति । सङ्ग्राममवतरेत् । शस्त्रैर्न हन्यते । अरिं मोहयति । परसैन्यं हस्त्त्यश्वरथपर्यटतीं स्तम्भयति । अञ्जनमभिमन्त्र्याक्षीणां जपेत् । यं प्रेक्षति सो ऽस्य दासभूतो भवति । गोरोचनामभिमन्त्र्य आत्मवक्त्रे तिलकं कृत्वा यं प्रेक्षति सो ऽस्य वशो भवति । यावत् तिलकास्तिष्ठते । तावन्मैथुने ऽव्यवच्छिन्नरतो भवति । एवं वस्त्रधूपगन्धमाल्यपुष्पोपकरणविशेषांश्च यज्ञोपवीतदण्डकमण्डलुकाष्ठोपानहाशयनयानासनभोजनादिषु सर्वोपकरणविशेषां सप्ताभिमन्त्रितां कृत्वा आत्मना परैर्वा कारापयेत् । सर्वसत्त्वा वश्याभवन्ति किङ्करानुवर्त्तिनः । माषजम्बुलिकां सप्ताभिमन्त्रितां कृत्वा प्रच्छन्ने स्थाने देवीनामग्रतः अग्नौः अष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्त दिवसानि सर्वे रण्डाः सर्वे डाकिन्यः सर्वे भूतग्रहाः सर्वे च कश्मलाः वशा भवन्ति । किङ्करानुवर्तिनो योजनशतगमनागमने च गोमूत्रेण पिष्ट्वा पूर्वाहे पिण्डारकबन्दकं आम्रबन्दकं च गृह्य सहस्रसम्पादितं कृत्वा पादं लेपयेत् । दिव्योदकेन ज्येष्ठोदकेन वा सर्वकर्मसु योज्य सर्वपूजितेषु च कल्पेषु परमन्त्रविधानेनापि । किन्त्वय विशेषः । यत्र मण्डले सार्थवाहस्य तुम्बुरुर्भगवां धर्मस्वामी बुद्धः सर्वसत्त्वानामग्रः शाक्यमुनिरभिलिखितः तस्मिं मण्डले दृष्टसमयस्य कर्माणि कर्तव्यानि । आशु सर्वकर्माणि सिद्ध्यन्तीति । दशसहस्राणि पूर्वसेवाजापः कार्य इति ॥
जया स्वकल्पं भाषते । मरकतेन्द्रनीलपद्मरागस्फटिकादिभिः प्रवालाङ्कुराश्मवैदूर्यरत्नविशेषैः सुवर्णरूप्यमयैर्वा प्रतिमां कृत्वा देवीनां कन्यसाङ्गुलप्रमाणा यवफलमात्रं वा मुक्ताफलं वा प्रतिमां कृत्वा नौयानसमारूढा चतुर्भगिनीनां सभ्रातृसहितानामन्तशः प्रतिमां कृत्वा पूर्ववद् यथाभरणप्रहरणविशेषाणां देवीनां शुचौ देशे चन्दनकुङ्कुमकर्पूरोदकाभ्यषिक्ते तैरेव मण्डलं कृत्वा अतिगुप्ते स्थाने मार्गशीर्षमासे कार्त्तिकपूर्णमास्यां वा अन्ये वा सितपक्षे प्रातिहारककुसुमागमे अन्ये वा शुक्ले ऽहनि प्रशस्ते तिथौ चन्द्रभार्गववारे रोहिणीरेवत्यनुराधाज्येष्ठनक्षत्रा भिक्षाहारेण उदकसक्तवाहारेण वा हविः फलभक्षणे वा मोचाम्रफलसनालिकेरैः पूर्वं जयायाः अक्षरलक्षं जपेत् । जप्ता कृतपुरश्चरणः तथागतबिम्बोदयमण्डलं तुम्बुरुर्दृष्ट्वा कृतरक्षः शुक्लाम्बरधरः स्रग्वी मालतीकुसुमावबद्धशिरस्कः अहोरात्रोषितो भूत्वा साधनमाविशेत् । पूर्ववदर्घं कृत्वा जातीकुसुमौघं महाकृपापिण्डीतगरनागकेसरपुन्नागैर्वा एतेषामन्यतमेन नवैर्वा महतीं पूजां कृत्वा मालतीकुसुमानां पञ्च पञ्च गृहीत्वा देवीनां ताडयेत् । सभ्रातृसहितानां लक्षत्रयेण । षड्भिः मासैः विद्याधरो भवति । क्षणेन ब्रह्मलोकमपि गच्छति । दिव्यरूपी यथेष्टगतिरन्तरकल्पं जीवति । अन्यकल्पविधानेनापि सर्वलौकिकैः मन्त्रैः सिद्ध्यतीति ॥
अजिता स्वकल्पं भाषते चैव मन्त्रिणी । उभावप्येतौ महादेव्यौ स्वमन्त्रयोनिजौ सर्वकर्माणि कुर्वन्ति पूर्ववत् । किन्तु एतेषामयं विशेषः । विजयायाः पीतपुष्पैः अजितायाः रक्तपुष्पैः ( वैद्य 422 ) तद्वर्णैश्चोपकरणविशैषैः सर्वकर्माणि साधयेत् । विजयाप्येवमाहुः । प्रतिमा पीतरक्ता कार्या । पूर्ववत् तथागतमण्डलं कृत्वा तुम्बुरोः सार्थवाहस्य अजितायास्ताम्रमयी रक्तचन्दनमयीं वा मम कल्पे तु रूप्यरागमयी पीतनिर्भासः गोरोचनकुङ्कुमाक्ता च कार्या । तथैव सर्वं पूर्वनिर्दिष्टम् । उभौ परस्परतः देव्यावेवमाहुः । विजया अजिता च । यथाभिलषितमनसेप्सितं सर्वकर्माणि साधय इति ॥
अपराजिता एवमाह । अहमपि कल्पं भाषे । यन्मयोदितं मण्डले ऽस्मिं सर्वं तथैव कर्तव्यं स्वमन्त्रेणैव । श्मश नाङ्गारेण श्मशानभस्मेना वा देवीनां प्रतिमां लिख्य कृष्णपुष्पैरभ्यर्च्य शत्रोर्नामं गृह्य जपेत् गुह्ये प्रदेशे श्मशाने वा । तत्क्षणान्मृयते । उन्मत्तको वा भवति । अपस्मारेण वा गृह्यति । गोत्रोत्सादनं वा करोति । साधकस्येच्छया तत्रैव श्मशाने महामांसं जुहुयात् । अरीन् नाशयति स्तम्भयति शोषयति महाराक्षसेन गृह्णापयति गोत्रोत्सादं वा करोति साधकस्येच्छया । सर्वविषयजनपदं महामार्योपसर्गेण गृह्णापयति पुनः स्वस्थीकरोति । एवं सर्वकर्माणि क्रूराणि परप्राणहराणि सद्योपघातानि । कृष्णपक्षे चतुर्दशीनबम्यष्टमीषष्ठीचतुर्थ्यादिभिस्तिथौ कार्याणि । आदित्याङ्गारकशनैश्चरवारैरहोभिः सर्वकर्माणि सिद्ध्यन्ति । अयत्नेनैव श्मशानाङ्गारं गृह्य चण्डालकपाले नाममालिखेत् प्रतिबिम्बं वा स्त्रियः पुरुषस्य वा लिखेत् । तत्क्षणादेव सन्ध्यन्ति । भगे ऽङ्गुलिं दत्वा च प्रतिबिम्बे कपालस्थे तत्क्षणाद् दह्यमाना स्त्री आगच्छति योजनशतादपि । कपालं गृह्य जपद् अदृश्यो भवति । कज्जलं गृह्यं अक्षीण्यञ्जयेत् । मदनाग्निना दह्यमाना स्त्री आगच्छति । सर्वकर्माणि कर्तव्यानीति ॥
एवमुक्ता देव्यो भगवन्तं याचयन्ति स्म । तद् वदतु भगवां धर्मस्वामी बुद्धो स्वमन्त्रं च । या चास्माकमनुकम्पार्थं सर्वसत्त्वानां च हिताय सुखाय स्वमन्त्रचर्यात् ॥

अथ भगवां तथागतः शाक्याधिराजतनयः तां कन्यांमीषदवलोक्य भ्रातृसहितामिमां वाचमुदीरयन्ति स्म । न यूयं कन्यका भ्रातृपञ्चमा तथागतस्य गुणमहात्म्यं मन्त्रचर्याप्रभावं श्रोतुं चर्यां वा प्रतिपद्येतुम् । को ऽन्य सदेवके सश्रमणब्राह्मणिकायां पूजायां श्रोतुं चर्यां वा प्रतिपद्येतुम् । वर्जयित्वा उत्पादितबोधिचित्तानां दशभूमिप्रतिष्ठितेश्वराणां बोधिसत्त्वानां सर्वमन्त्रचर्यानिर्हारसमनुप्रवेशसर्वतथागतज्ञानमायाप्रतिविशिष्टमूर्ध्वजः को ऽन्यं शक्तः श्रोतुं ज्ञातुं वा निर्देशं मन्त्रचर्यासमनुप्रवेशमाचक्षितुं सर्वसत्त्वानां च प्रकाशयितुम् । वर्जयित्वा तथागतानामर्हतां सम्यक् सम्बुद्धानां तत्प्रतिपन्नानां च सत्त्वानामुत्पादितवोधिचित्तानाम् । न यूयं कन्यकाः शक्यथ । तेन हि बोधिचित्तमुत्पादयध्वम् । सर्वसत्त्वानामन्तिके मैत्रचित्ता हितचित्ता भवथेति ॥
एवमुक्त्वा ताः कन्यकाः तृशरणपरिगृहीताः उत्पादितबोधिचित्ताश्च निषण्णा धर्मश्रवणाय तूष्णीम्भूता इति ॥
आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् षट्चत्वारिंशतिमः पटलविसराद् द्वितीयसाधनोपयिकमण्डलप्रवेशानुविधिश्चतुःकुमार्यपटलविसरः परिसमाप्तमिति ॥
अथैकोनपञ्चाशः पटलविसरः ।
अथ ता देवता भगवन्तं शाक्यमुनिं सर्वांश्च बोधिसत्त्वां सर्वश्रावकप्रत्येकबुद्धांश्च त्रिः प्रदक्षिणीकृत्य शिरसा प्रणम्य बुद्धं भगवन्तं निरीक्षमाणाः स्थिताः अभूवं निरीक्षमाणाः समन्त्रतन्त्रकल्पविस्तराणि च । भाषन्ते स्म स्वमुद्राणां चौषध्यो यथाभिमतं भाषन्ते स्म । अनुज्ञाता तथागतेनार्हता सम्यक्सम्बुद्धेन सत्त्वानामर्थाय सर्वमुद्रामन्त्रपटलविसरं भाषते स्म स्वकं स्वकं मुद्रापटलमोषधीनां च कल्पं भाषन्ते स्म ॥
तुम्बुरुः सार्थवाहो एवमाह - आदौ तावद् गन्धेन हस्तावुद्वर्त्य चन्दनमिश्रेण वान्यैर्वा सुगन्धजातिभिर्देवीनामग्रतः प्राङ्मुखः स्थित्वोदङ्मुखो वा वामहस्तेन दक्षिणहस्ताङ्गुष्ठं मुष्टियोगेन गृहीत्वा अवसव्येन भ्रामयित्वा नाभिदेशे स्थापयेत् । मुष्टियोगेन शिरःस्थाने वा न्यसेत् । एष भगवं तुम्बुरेः सार्थवाहस्य समयमुद्रा मम । तदेव हस्तौ कर्मार्थसाधका वामहस्तेनाङ्गुष्ठमभ्यन्तरे प्रक्षिप्य दृढं प्रगृह्य मुष्टियोगेन नाभिदेशे न्यसेत् । एष भगवं मम जयाया मुद्रा सर्वकर्मकरा । तदेव मुष्टिं तर्जन्यां विकास्य तर्जयेत् । दक्षिणां दिशि सर्वबिघ्ना प्रनश्यन्ते । एष द्वितीयो महामुद्रः द्वितीयमङ्गुलिमुत्क्षिप्य पश्चिमां दिशि मावर्जयेत् । एष द्वितीयो महामुद्रः सर्वदुष्टा नागां स्तम्भयति निर्विषीकरणे च प्रयोक्तव्यः । तृतीयमङ्गुलिमुत्क्षिप्य उत्तरायां दिशि आवर्जयेत् सर्वयक्षयक्षीकिन्नरमहोरगकूष्माण्डाश्च वश्या भवन्ति । आकृष्टा एषा तृतीया महामुद्रा भवति । सर्वाशापारिपूरिका । सर्वकर्माश्चाभिमुखा भवन्ति । चतुर्थमङ्गुलिं विकास्य अभ्यन्तरस्थितमङ्गुष्ठं सङ्कोच्य हस्ततले पूर्वायां दिशि आवर्जयेत् । सर्वे देवा वश्या भवन्ति । देवानामग्रतः प्राङ्मुखो भूत्वा दर्शयेत् । सर्वभूता वश्या भवन्ति । सर्वसत्त्वानां च प्रियो भवति । एषा चतुर्था महामुद्रा सर्वकामफलप्रदा । द्वौ हस्तौ संयम्य सर्वमङ्गुलिं विकास्य अञ्जल्याकारेण मूर्धन्यास्पृशेत् । ऊर्ध्वमधश्चावलोकयेत् । आब्रह्मस्तम्बपर्यन्तात् । अधश्च रसातलम् । सर्वदेवदानवां वशमानयति । एष पञ्चमो महामुद्रः सर्वकर्मार्थसाधकः । एतदेव भगवं पञ्च महामुद्रा सर्वकामफलप्रदा भवती ति ॥
विजयां एवमाह - पञ्च एव भगवं मम महामुद्रा भवन्ति । वामहस्तेनाङ्गुष्ठाभ्यन्तरं कृत्वा यथा नखा न दृश्यन्ते तथा कार्यं दृढं मुष्टिं कृत्वा प्रहारमार्जनयोगेनाधः अवलोकयेत् । एष प्रथमा महामुद्रा । द्वितीयमपि ऊर्ध्वमवलोकने । तृतीयं दिग्दक्षिणमवलोकने चतुर्थं सर्वदिग्ग्रहणे । पञ्चमं शिरसि न्यस्तम् । एत एव पञ्चमहामुद्रा सर्वकामफलप्रदा भवन्ति इति ॥
अजिता एवमाह - उभौ हस्तौ संयम्य उभौ अङ्गुष्ठमध्ये प्रक्षिप्य सुषिरञ्जल्याकारं कृत्वा मध्यमाङ्गुलिसूचिकौ कन्यसाङ्गुलिमुच्छ्रितौ पाशाकारं कृत्वा तर्जन्यौ तथैव चानामिकाववष्टभ्य अजिता नाम महामुद्रा भवति । दुर्दान्तदमका पुण्या सर्वकर्मार्थसाधकः । तदेव मुद्रं दक्षिणां दिशि मावर्जयेत् । द्वितीया महामुद्रा विजया नाम भवति । एवं पश्चिमायां दिशि मावर्जयेत् । जया नाम महामुद्रा भवति । एवमुत्तरायां दिशि मावर्जयेत् । अपराजिता ( वैद्य 424 ) नाम भवति महामुद्रा । एवं पूर्वायां दिशि मावर्जयेत् । महासार्थवाहो नाम महामुद्रा भवति । एत एव पञ्चमहामुद्राः सर्वाशापारिपूरका भवन्ति इति ॥
अपराजिता एवमाह - पञ्च एव भगवं मम महामुद्रा भवन्ति । पूर्ववत् हस्तौ प्रक्षाल्य कृष्णपक्षे बन्धयितव्याः । तेनैव विधिना यथा साधने ऽस्मिं तथा योज्याः । दक्षिणाभिमुखं स्थित्वा देवीनामग्रतः उभौ हस्तौ संश्लिष्य मध्यमानामिकातर्जन्यादिभिः त्रिसूच्याकारं तृशूलं कृत्वा कनिष्ठिकाङ्गुलिमध्यमङ्गुष्ठौ च मध्ये प्रक्षिप्य हस्ततले ऽस्मिं मूर्ध्नि स्थाने तदा न्यसेत् । प्रथमं महामुद्रः अपराजिता नाम एवं सर्वे प्रयोक्तव्याः । यथा अजितायाः । यन्नामिका भगिन्यः भ्रातृसहिताः तन्नामकाः सर्वेषां महामुद्रा भवन्ति । यदेष हस्ततले एतत् सागरम् । यदेतदङ्गुष्ठं यद् भ्रातुस्तुम्बुरोः यदेतदङ्गुल्यः सर्वे भगिन्यः अनुपूर्वसंज्ञकाः । तर्जनी जया मध्यमा विजया अनामिका अजिता कन्यसा अपराजिता । एतदनुपूर्वक्रमेण पद्भ्यामेव योज्यः । ध्याताः नमस्कृताश्च सान्निध्यं कल्पयन्ति । चिन्तिता नाचिन्तिता मुद्रा भवन्ति । सर्वकर्मकराः सर्वाशापरिपूरकाः विषमस्थे चिन्तयितव्या महामुद्राः । भयं न भवति इति ॥

तुम्बुरुः सार्थवाह एवमाह - अथेषां सामान्यतः अगदाभिधानं भवति । अस्माकं च ओषधीनां प्रभावो येन वश्या भवन्ति सर्वभूताः । कतमं च तत् । अश्वत्थन्यग्रोधशुङ्गां गृहीत्वा क्षीरेण पीषयित्वा गोक्षीरेणालोड्य सितपक्षे अश्विनिनक्षत्रेण इन्दुवारे तिथौ सप्तम्यां पूर्वाह्ने ऋतुमत्याः स्त्रियाया अप्रसवनधर्मिन्याः सार्थवाहमन्त्रेण परिजप्य सप्तवारां तथैव मुद्रां बध्वा पाययेत् पूर्वाभिमुखां कृत्वा नारी गर्भं ग्रहेष्यते । पुत्रं जनयते दीर्घायुष्यं सुपतिना च सह स्वप्तव्यम् । तेषामेव मूलं गृहीत्वा मूलनक्षत्रेणोत्तरायां दिशि गतायां शिलायामादित्यवारेण सूक्ष्मचूर्णानि कारयेत् । यस्य ददाति स वशो भवति आहारपानभोजनादिषु गन्धमाल्यताम्बुलादिषु प्रयोक्तव्यम् । यथा शरीरेषु विशति तथा कार्यम् । स्पृशति वाचा सत्त्वेनोपतिष्ठति । तदेव शुङ्गौ तेनैव विधिना यथा स्त्रिया तथात्मना पिबेत् । स्त्रीशतमपि गच्छति अव्यवच्छिन्नरेतः । तथा स्त्रियामपि बृहल्लिङ्गतामभिनिर्वर्त्तयति । गोर्जरुकः शतपादी वा नरशक्रफलानि तथैव चूर्णमिदं पयसा सह पेयं यस्य गृहे प्रमदाशतमस्ति । एवमनेन प्रकारेण पूर्वमूलां स्वमुद्रां मन्त्रेणोपेताः वर्जयित्वा विषमुपविषं च सर्वं योज्यम् । सर्वकर्मिषु च सर्वभूतानां वशीकरणमुत्तमं साधनीयाश्चे ति ॥
जया एवमाह - जयन्तीमूलं गृह्य तथैव कर्त्तव्यं यथा तुम्बुरेः सर्वकर्माणि साधयति । अथाकाशगमनमिच्छेत् । जयन्तीमूलं तृलोहपरिवेष्टितं कृत्वा पुष्ययोगेन सोमवारेण शुक्लपक्षसप्तम्यां सपूर्णमास्यां चतुर्दश्याष्टम्यां त्रिरात्रोषितेन शुचिना कुङ्कुममिश्रं कृत्वा मुखे प्रक्षेप्तव्याः । चन्द्रग्रहे मुक्ते अन्तर्हितो भवति । स्वमन्त्रं अक्षरलक्षं जप्त्वा गुडिकां प्रक्षिप्य चन्द्रग्रहे मुक्ते विद्याधरो भवति कामरूपी यथेष्टगतिः विंशतिवर्षसहस्राणि जीवति । उद्गीर्णे पुनर्दृश्यति । मानुषे पुनः एवं सर्वकर्माणि करोती ति ॥
विजया एवमाह - किन्तु अयं विशेषः । अगस्तिवन्दाकं गृह्य ज्येष्ठोदकेन दिव्यवारिणा वा पिष्ट्वा स्वमन्त्रेणाभिमन्त्र्य पादौ म्रक्षयेद्योजनशतं गमनागमनं करोति । अखिन्नं यावन्न त्यजते । विजयामूलं गृह्य तथैव कर्तव्यम् । तथा जयायाः सर्वं करोति इति ॥
अजिता एवमाह - अजितमूलं सङ्गृह्य तथैव कर्त्तव्यम् । सर्वं साधयति इति ।
अपराजिता एवमाहं - अपराजितामूलं गृह्य शुक्लकृष्णौ सपत्रफलमूलौ सर्वं तथैव कर्तव्यं यथा सार्थवाहस्येति । किन्त्वयं विशेषः । आशुकारि क्षिप्रं सिद्ध्यतीति ।
पुत्रञ्जरी कृताञ्जली सहा च सहदेवा च महोषधी ।
छत्राधिच्छत्रा तथा देवी महाकालश्च विश्रुतः ।
नाकुली गन्धनाकुल्यौ तथा सङ्कुचितकर्णिका

49.2

एतेषां मूलमादाय शूर्जचूर्णानि कारयेत् ।
अनेन पृष्टमात्रस्तु वशमायान्ति देहिनः

49.3

रक्तशालितुषं चैव कुङ्कुमं सहचन्दनम् ।
कस्तूरिकासमायुक्तं दिव्यवारिसमप्लुतम्

49.4

त्रिलोहाकारयेवेष्टं वै गुटिकां कुर्वीत मन्त्रवित् ।
अक्षमात्रं ततः कृत्वा गुटिकां वक्त्रे तुं तां न्यसेत्

49.5

चन्द्रग्रहे ऽथ रात्रौ वा जपेन्मन्त्रं समाहितः ।
प्रभाते सिद्धमन्तस्तु यथेष्टं याति देहजः

49.6

परिवर्तयते जापं वक्त्रस्था गुटिका सदा ।
यथेष्टपशुरूपी वा समन्ताद्धिण्डति मेदिनीम्

49.7

उद्गीणे तथा युक्तिः स्वदेही भवति जापधीः ।
अन्यथा यदि वक्त्रस्था विश्वरूपा भवेत् सदा

49.8

स्वमन्त्रेणात्मरक्षं तु कृतजापी विशिष्यते ।
अन्यथा हृयते गुटिका यदि रक्षां न करोति जापी

49.9

सर्वमन्त्रास्तु सिद्ध्यन्ते मन्त्रराट् सर्वलौकिकाः ।
पूजनात् सर्वकल्पानां सर्वसर्वैश्च भाषिताम् ।
ते ऽस्मिं सिद्धिमायान्ति मन्त्रतन्त्राभिभाषिताम्

49.10

विचरन्ति महीं कृत्स्नां विचित्रा वेषधारिणो ।
गतियोनिविदेहस्थाः श्वानवायसरूपिणः ।
मार्जार तथोलूकाः मूषमण्डूकवृश्चिकाः

49.11

सर्वयोनिसमाकीर्णाः विदेहा देहविस्थिताः ।
पर्यटन्ति महीं कृत्स्नां सर्वभूतरुताविनः

49.12

सर्वसत्त्वे वशा वेषा सर्वभूते प्रियोदया ।
कुर्वन्ति च सदा मर्त्या तदा तेषां नियोजयेत्

49.13

नान्येषां कथ्यते लोके पूजिताश्चैव देवतैः ।
सर्वं च सर्वतो ज्ञेयं सर्वमन्त्रप्रसाधकम्

49.14

कथितं कथयिष्यन्ति ये चान्ये भुवि मानवाः ।
तत् सर्वं कल्पविसरं इह चोक्तं लोकमातरैः

49.15

एवमुक्तास्तु देवा वै सूत्रान्तसहपञ्चमाः ।
तूष्णीम्भूता ततस्तस्थु प्रणम्य जिनपुङ्गवम्

49.16

निषण्णो धर्मश्रवणाय तस्मिं पर्षद्वरेद्वरे ।
अधिष्ठानां च बुद्धानां अशेषाणां च जिनात्मजाम्

49.17

अध्येष्य च महावीरं तूष्णीम्भूतास्तदनन्तरे ।
अथ वज्रधृक् श्रीमां पूजयामास देवताः

49.18

साधुकारमदात् तेषां सत्त्वानुग्रहकाम्यया ।
साधु साधु ततः कन्य समये तिष्ठध्व यत्नतामिति

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc