भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 47

47.1

आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् चतुःचत्वारिंशतिमः महामुद्रापटलविसरः परिसमाप्त इति ॥
अथ सप्तचत्वारिंशः पटलविसरः ।
अथखलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तं च महापर्षन्मण्डलं अनन्तव्यूहालङ्कारसर्वज्योतिप्रभास्वरविकुर्वाणानन्तगुह्यतमं सर्वगुह्यतमं सर्वमन्त्रानुचरितं नाम समाधिं समापद्यते । समनन्तरसमापन्नस्य भगवतः ऊर्णाकोशाद् रश्मयो निश्चरन्ति स्म । सर्वतश्च समन्ता दशसु दिक्षु रित्यूर्ध्वमधस्तिर्यक् महतावभासेनावभास्य सर्वमन्त्रां सञ्चोद्य पुनरपि भगवतः ऊर्णाकोशान्तर्हिता । समनन्तरान्तर्हिते रश्मिभिः चतुर्दिक्षु च आधश्चोर्ध्वं चत्वारः कुमार्यो भ्रातृसहिता तस्मिन्नेव महापर्षन्मण्डले अधः सुमेरुपर्वतराजसमीपे बुद्धाधिष्ठानेनाधिष्ठितो ऽभूत् । सन्निपतिता सन्निषण्णा महाबोधिसत्त्वकुमारभूतं रिद्ध्या विक्रीडनसन्दशर्नार्थं महामन्त्रचर्यानिर्हारार्थं सर्वलोकोत्तरलौकिकमन्त्रचर्याक्रीडासमनुप्रवेशवशमाकर्षसमाश्वासनचर्यासमनुप्रवेशनार्थम् ॥
अथ खलु भगवां शाक्यमुनिर्वज्रपाणिं बोधिसत्त्वं महासत्त्वं तस्मिन्नेव पर्षदि सन्निपतितम् ईषिन्निरीक्ष्य सर्वं च बोधिसत्त्वगणम् ॥
अथ सा सर्वावती पर्षदिह महापृथिवी च देवतागणपरिवृता महाभूतैकमन्त्रालयं ओषध्यो महाज्योतींषि नगां सञ्चाल्य प्रचलिता रणिता प्ररणिता क्षुभिता सम्प्रक्षुभिता दक्षिणा दिगुन्नमति, उत्तरा दिगवन्नमति, पश्चिमदिगुन्नमति पूर्वा दिगवनमति, अन्तादवनमति, मध्यादुन्नमती, अन्तादुन्नमति, महतस्य चावभासस्य लोके प्रादुर्भावो ऽभूत् । अन्यानि चाप्रमेयानि असङ्ख्येयानिश्चर्याद्भुतानि प्रातिहार्याणि सन्दृश्यन्ते स्म । ताश्च देवसङ्घा निःप्रपञ्चमहतालम्बनज्ञानशान्तिपदं नाम समाधिं समापद्यते स्म । यन्न शक्यं सर्वप्रत्येकबुद्धार्हत्त्वमहाबोधिसत्त्वैरपि ज्ञातुम् । कः पुनर्वादः समापद्येतुं अन्येषां सर्वलौकिकलोकोत्तराणां तीर्थायतनानां अभिभवनार्थं सर्वमन्त्रतन्त्रानुप्रवेशनार्थं सर्वविमोक्षधर्मपरिपूरणार्थं सर्वसत्त्वानां च शान्तिपदमनुप्रापणार्थं सर्वभूतमनुकम्पाभूतकोटितथताचिन्त्यबोधिमण्डवज्रासनमाक्रमणतिष्ठपदमनुप्रापणार्थं च भगवां शाक्यमुनिः ध्यायन्तः स्थितो ऽभूत् ॥
अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो वज्रपाणिं बोधिसत्त्वं महायक्षसेनापति आमन्त्रयते स्म - भाष भाष त्वं भो जिनपुत्र सर्वमन्त्रचर्यानुप्रवेशं सर्वलौकिकमन्त्राणां सारभूतं तमं परमरहस्यं सर्वभूतसत्त्वानां समयानुप्रवेशं यथाशयमनोरथसर्वपारिपूरकं अनुज्ञातस्त्वं भो जिनपुत्र सर्वबुद्धैर्भगवद्भिः अतीतानागतप्रत्युत्पन्नैस्तथागतमन्त्रकोशसर्वज्ञतापरिपूरणार्थं इह कल्पराजपटलविसरे सर्वविक्रीडालीलाचिन्त्याश्चर्याद्भुतविकुर्वणसन्दर्शनार्थं सर्वज्ञज्ञानमुद्भावनार्थम् ॥
अथ खलु वज्रपाणिः बोधिसत्त्वो महासत्त्वः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । शृण्वन्तु भो धर्मधर सर्वतथागतानां समतानुरक्षणदक्षकथायास्यहं चतुःकुमारीणां भ्रातृसहितानां सरहस्यं पटविधानहोमजापकालक्रियानियमः प्रतिमाविधानमण्डलसमय आह्वाननविसर्जनापूजनार्घदीपगन्धधूपमाल्यविलेपनचूर्णवस्त्रनिवेदनध्वजपताकघण्टामालप्रदीपस्रग्विधिसाधनसाध्योपायनियमक्रमः ( वैद्य 403 ) शान्तिकपौष्टिकाभिचारुक अन्तर्द्धानाकाशगमनपादप्रचारिकवशीकरणावेशनविद्वेषणोत्सादनशोषणमोहनस्तम्भनमारण विविधसत्त्वाकारकरणपीडनतर्जनभर्त्सनबहुपदापदकरणक्रियो मार्गसन्दर्शनयथेष्टकर्मफलः बन्धनरोहणावन्ध्यकरणसर्वकर्ममन्त्रतन्त्रसाधनोपयिकेषु स्थानेषु नियोजनः सिद्धिपरिपूरणा । तछ्रूयतां भो जिनपुत्र ॥
अथ वज्रपाणिः श्रीमां प्रणिपत्य सुगतं विभुम् ।
उवाच मधुरां वाणिं शब्दार्थभूषिताम्

47.2

अनर्थां कर्णसुखां चैव मधुरार्थसुकूजिताम् ।
बह्वार्थकरीमिष्टां सर्वमन्त्रास्पदकरी ब्रह्मस्वरनिनादिनीम्

47.3

कलविङ्करुताघोषा स्पष्टगम्भीरसंयमी ।
+ + + + सूक्ष्मार्थतत्त्वावचोदनीम्

47.4

सर्वमन्त्रेश्वरीं श्चैव वाचं भाषे ऽथ वज्रधृक् ।
शृणोथ भूतगणाः सर्वे देवसङ्घा महर्द्धिका

47.5

वक्ष्यमाणां तथा कल्पं सविस्तरं सर्वकर्मिकम् ।
चतुर्मूर्तिर्महौजस्क चतुर्दिक्षु समागमम् ।
चतुर्वर्णसमायुक्तं चतुरक्षरभूषितम्

47.6

चतुर्मन्त्रसमोपेतं स पुमां पञ्चमाशृताम् ।
चतुर्थगतिमाहात्म्यं चतुर्भूतसमागमम्

47.7

सभ्रातृपञ्चमं ज्येष्ठं महाभूताकाशमुद्भवम् ।
सर्वत्राप्रतिहतं श्रेष्ठं सर्वमन्त्रार्थसाधनम्

47.8

सर्वकर्मकरं पूज्यं ज्येष्ठं मङ्गल्यमघनाशनम् ।
प्रवृत्तं सर्वभूतानां मन्त्ररूपेण श्रेयसाम्

47.9

चतुःकुमार्येति विख्याता कुमारा पञ्चमात्मका ।
वाय्वम्बुज्योतिषिं पृथिवीं खपञ्चमात्मकाम्

47.10

तेषां मन्त्ररूपिण्यां विपाको भवति देहिनाम् ।
पञ्चमो श्रेयसो मुख्यो भ्रातृरूपेण मन्त्रराट् ।
तेषां मन्त्रां प्रवक्ष्यामि अपराख्य शृणोथ मे

47.11

अथ ते सर्वभूता वै प्रहृष्टमनसा अभूत् ।
निषण्णा धर्मतां ज्ञात्वा सौम्यचित्ता समाहिता ।
श्रोतुकामा हि वै सर्वो निश्चलायतलोचना

47.12

अथ मञ्जुवरः श्रीमां ऊर्ध्वक्ष्य सुगतात्मजम् ।
वज्रपाणिं महायक्षं सर्वमन्त्रेश्वरालयम्

47.13

कृपावकृष्टहृदयो अपरो ऽभूत् तदन्तरे ।
.... सर्वबुद्धा वै प्रत्येकार्हश्रावका

47.14

बोधिसत्त्वा महासत्त्वा दशभूमिसमाशृता ।
सर्वसत्त्वा तथा लोके मुख्या अग्रतमाश्च ये

47.15

निषण्णा सर्वतः सर्व गतिपञ्चसुयोजिताः ।
जन्मिनो वरमुख्याश्च पराः परपूजिता

47.16

भवाग्रा ह्यावीचिपर्यन्तां अनन्तां धातुमाशृताम् ।
त्रिजन्माध्यक्षपर्यन्ता दशभूमाधिपा परा ।
श्रोतुकामा हि वै सर्वे निपेतुस्तं समागमम्

47.17

अथ वज्रधराध्यक्षो विदित्वा सर्वमागताम् ।
सत्त्वां बोधिसत्त्वांश्च सर्वमन्त्रेश्वरालयाम् ।
सुरज्येष्ठां तथा देवां दशभूम्येश्वराम्

47.18

सर्वसत्त्वां विदित्त्वैनां प्रसन्नां बुद्धशासने ।
मन्त्रं प्रत्याहरेद्धीमां मन्त्रनाथेश्वरस्तदा

47.19

नमः सर्वबुद्धानामप्रतिहतशासनानाम् अचिन्त्याद्भुतरूपिणाम् । ओम् तुरु तुरु हुलु हुलु मा विलम्ब समयमनुस्मर मम कार्यं साधय हूं हूं फट् फट् स्वाहा ॥ सर्वकर्मिको ऽयं मन्त्रः । हृदयो ऽयं सर्वबुद्धबोधिसत्त्वानां सर्वलौकिकलोकोत्तराणां सर्वव्याधिराजाधिपतीनां च मूलमन्त्रो ऽयम् अनेन सर्वकर्माणि कारयेत् ॥
सर्वद्रव्याणि साधयेत् सर्वकर्मकरो विभुः ।
अनेन तु सदा कर्म कुर्यात् क्षिप्रार्थसाधने ।
तत्र मन्त्रं प्रवक्ष्यामि देवसङ्घा शृणोथ मे

47.20

ओम् देव स्वाहा । सार्त्थवाहायस्तुम्बुरेर्मन्त्रः । ओम् जये स्वाहा । ओम् अजिते स्वाहा । ओम् पराजिते स्वाहा । एते मूलमन्त्रा सभ्रातृसहितानां चतुर्भगिनीनां लोकपूजितानां हृदयानि भवन्ति । तासाम् ओम् रूपिणी ओम् विरूपिणी विश्वात्मने । एते हृदयोद्भवा मन्त्रास्तुम्बुरेर्हृदये मन्त्रा भवन्ति । ओम् देवेशाय स्वाहा । उपहृदयानि भवन्ति । ओम् वामनि पिशाचि ओम् महाराक्षसि स्वाहा । ओम् विकृतरूपिणि स्वाहा । ओम् प्रकीर्णकेशी कृतान्तरूपिणि स्वाहा । ओम् वज्ररूपिणि कृतान्तरात्रि भयानकि स्वाहा । तुम्बुरेः सार्थवाहस्योपहृदयं भवति । ओम् चतुर्वक्त्रविभूषितमूर्ति त्रिनेत्रा लम्बोदर बहुरूपि स्वाहा । ओम् धु धु ज्वलय सर्वदिशां स्वाहा । सर्वेषां भगिनीनां भ्रातृसहितानां दिव्यस्तु मन्त्रो ऽयम् । ओम् हूं सर्वेषां शिखा । ओम् ह्रीः जः सर्वेषां शिरः । ओम् ध्यायिनि स्वाहा । सर्वेषां मन्त्रः । ओम् दृक् सर्वेषां नेत्रः । ओम् भगिनीनां भ्रातृसहितानां चन्दनकुङ्कुमानुलिप्तानां समया च रक्षितानां हिमवन्तससागरचारिणां दृढव्रतानां बुद्धधर्मसङ्घानुज्ञातानां श्रीः । ह्रीः । रीम् । व्रीः । भुजः । एष सर्वभगिनीनां ( वैद्य 405 ) सर्वभ्रातृसहितानां गात्रे महामन्त्रः । सर्वकर्मिकः प्रसिद्धः सर्वकर्मसु । परमगुह्यतमः । ओम् आयाहि महादेव विश्वरूपिणे स्वाहा । ओम् तुम्बुरे सार्थवाहस्याह्वाननमन्त्रा । ओम् गच्छगच्छ महादेव विश्वात्मने स्वाहा । तम्बुरेः सार्थवाहस्य विसर्जनमन्त्रा । ओम् आयाहि देवि कुमारिके किं चिरायसिसमयमनुस्मर । मम कार्यं सम्पादय स्वाहा । जयायाह्वाननमन्त्रा । ओम् आयाहि महाभोगिनि कार्यं मे साधय समयमनुस्मर स्वाहा । ओम् महायोगान्धरि विस्तीर्णधनप्रिये स्वाहा । अजिताया आह्वाननमन्त्रा । ओम् श्मशानवासिनि रूपपरिवर्तिनि देहानुचरे स्वाहा । अपराजिताया आह्वाननमन्त्रा पुनरेव सर्वमण्डलां लौकिकलोकोत्तरामालिखेत् । सर्वकर्मेषु च योजयेत् । परकल्पविधानेनापि ईप्सितमर्थं साधयेत् । अस्मिन्नेव कल्पविसरे मूलकल्पराजपटलसमतासम्मतश्चतुःकुमारिणां कुमारसहितानामादिमाख्यायते मन्त्रो ऽयं बुद्धात्मजो यमिच्छति ।
सर्वकर्मिकमित्याहुः बुद्धपूत्रा महर्द्धिका ।
कुलाग्रा मन्त्रमुख्याश्च सर्वमन्त्रेश्वरो विभुः

47.21

करोति विविधां कर्मां विचित्रां साधुवर्णिताम् ।
प्रसह्यं चापि भूतानां चित्तं हरति तृजन्मिनाम्

47.22

गत्यर्थवश्यताहेतुनापत्यार्थसमुद्भवम् ।
प्रसह्यं कुरुते कर्म गतियोनिविनिर्गतः

47.23

चतुर्भगिन्येति विख्याता ............ ।
सभ्रातृसहिता नित्यं महोदधिनिवासिनः

47.24

नौयानसमारूढा सभ्रातृसहपञ्चमा ।
कर्णधारो ऽथ चित्तासां तुम्बुरुर्नाम संज्ञितः

47.25

विचरन्ति महीं कृत्स्नां सत्त्वानुग्रहतत्पराम् ।
विचित्ररूपधारिण्यो विचित्राभरणभूषिताः

47.26

विचित्रैव फलं तासां विचित्रोपकरणपूजिताम् ।
पर्यटन्ति महीं सर्वां सशैलसहसागराम्

47.27

तासां मन्त्रो महाज्येष्ठः तुम्बुरुर्नाम इष्यते ।
सार्थवाहस्य मन्त्रो वै त्र्यम्बकस्य जनाधिपे ।
चतुरक्षरसंयोगा ओङ्कारसपञ्जकः

47.28

प्रथमः सर्वमन्त्राणां चार्चनं कुर्यात् गन्धधूपदीपमाल्योपहारविशेषैः बलिविधानं दत्वा जपं कुर्यात् । अनाकुलपदाक्षरैः । गुह्यप्रदेशे एषामन्यतमं श्रेष्ठं मन्त्रं गृहीत्वा त्रिःकालमष्टसहस्रं जपेत् । आगताया अर्घं दत्वा सर्वकर्माणि कारयेत् । अर्घमन्त्रं चात्र भवति । ओम् प्रविगृह्णतु भगिन्यः सभ्रातृसहिता चार्घमयमधितिष्ठन्तु स्वाहा । अर्घमन्त्रा सर्वेषां भ्रातृसहितानां सर्वोपचारमन्त्राणि भवन्ति । ओम् ज्वल ज्वल महाहुताशार्चि महाद्युतीनां ( वैद्य 406 ) स्वाहा । सर्वेषां प्रदीपमन्त्रा । ओम् धूं धूं । अरितवासिनि धूपशिखे सुरभिगन्धमनोहरे प्रतिगृह्णतु देव्यः भ्रातुसहिताः ध्यायन्तां स्वाहा । धूपमन्त्रः सर्वेषाम् । ओम् कुसुमवासिनि कुसुमाढ्ये सुरभिमाले सुगन्धिमनोहरे वने कुसुमा जाताः सुकुमाराः सुगन्धिनः । तां निवेदितो भक्त्या प्रतिगृह्णध्वं मनोजवा स्वाहा । पुष्पमन्त्रा । अनेन पूजां कुर्वीत । ओम् गन्धगन्धाधिवासे स्वाहा । गन्धमन्त्रा । ओम् बलिते बलिनि स्वाहा । बलिमन्त्रा । ओम् लालावति स्वाहा । निवेद्यमन्त्रा । ओम् सू । वस्त्रमन्त्रा । ओम् फट् । घण्टामन्त्रा । ओम् स्वरव्यञ्जनमन्त्रा । ओम् छादय छत्रमन्त्रा । ओम् दोधूयते धूयते स्वाहा । चमरमन्त्रा । ओम् केलिमहोकलिहृदयङ्गमे स्वाहा । सर्वद्रव्योपकरणाञ्जनरोचनादर्शप्रसाधनमन्त्रा । ओम् समस्तव्यापिनि स्वाहा । सर्वदिग्बन्धवज्रप्राकारमन्त्रा । ओम् मण्डलिने स्वाहा । इत्यूर्ध्वमधः बन्धमन्त्रा । सर्वतश्च समन्ताशेषबन्धं भवति । ओम् नमः सर्वबुद्धानामप्रतिहतशासनानाम् । ओम् हूं हः । सर्वकर्मिको ऽयं महाविद्याराजा शासनो नाम । वशिता सर्वभूतानां चतुःकुमारीणां सभ्रातृसहितानां पीडनो शोषणो रोधनो बन्धनः वशयिता निग्रहानुग्रहे रतः सर्वभूतग्रहमातर सर्वकर्मेषु अप्रतिहतशासनः गुह्ये प्रदेशे अववरके वा जप्यमानश्चतुर्भगिनीनां सभ्रातृसहितानां यं रोचते तं कारयति । याच्यमानस्तु यं बरं रोचते तं वरं याचयितव्या शीघ्रं वरमनुप्रयच्छति । एवं बन्धनताडनतर्जनतर्जनमारणादीनि कर्माणि कुर्वन्ति । अनेनैव विद्याराजेनोपतप्यमाना सह जप्यमाना सर्वकर्माणि कुर्वन्ति । आसां मन्त्राणि भवन्ति । विसर्जनाध्येषणादीनि कार्याणि कुर्वन्ति ॥ ओम् रूपिणी गच्छ गच्छ समयमनुस्मर स्वाहा । जयाया विसर्जनमन्त्रा । ओम् वामने पिशाचि प्रकीर्णकेशि विश्वरूपिणि गच्छ गच्छ मम कार्यं साधय स्वाहा । विजयाया विसर्जनमन्त्रः । ओम् लहु लहु रूपिणि गच्छ गच्छ समयमनुस्मर मम कार्यं समादाय स्वाहा । अजिताया विसर्जनमन्त्रा । ओम् विश्वरूपिणि विकृते विकृतानने सर्वदुष्टनिवारणि गच्छ गच्छ ममार्थं साधय स्वाहा । अपराजिताया । विसर्जनमन्त्रा एते विसर्जनाध्येषणमन्त्रा । यन्मनीषितं कार्यं । विचित्रकुसुमैरञ्जलिं पूरयित्वा याचयित्वा प्रसाद्य च देवीनामग्रतः सभ्रातृसहितानां क्षेप्तव्याः । ततस्ता मुक्ता भवन्ति । सभ्रातृसहिता सान्निध्यं च कल्पयन्ते । यथेष्टं च वरमनुप्रयच्छन्ति विचरन्ति यथासुखमिति । वाचा वक्तव्या प्रतिदिनं च कर्तव्यमेवमुपरुध्यमाना मोक्षणाच्च सान्निध्यं न परित्यजन्ति । सततक्रिया अन्यथा उपरुध्यमाना नावतिष्ठन्ते कर्तव्यम् ॥
अथ ते भगिन्यः सभ्रातृसहिताः थरथरायमानाः पीड्यमानाश्च वेपथुरुपजातशङ्का बोधिसत्त्वानुभावेन चतुर्दिक्षु रागत्य एवं वाचमुदीरयन्ते - परित्रायस्व भगवं वज्रपाणि परित्रायस्व । पीडिताः स्म भगवं सुपीडिताः स्म । गतिरन्या न विद्यते । त्वमेव भगवं शरणम् । त्वमेव त्राणमिति ॥
अत्रान्तरे विद्याराजेन शासने सुशासिता सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्या सर्वसत्त्वाश्च सर्वगतिसङ्गृहीताश्च सुविनीताश्च सुशासिता महाविद्याराजेन ( वैद्य 407 ) वज्राधिपतिनानुभावेन ताः भगिन्यः भ्रातृसहिताः भीताः सुविनीता आर्तस्वरं क्रन्दमानाः अवतिष्ठन्ते । अथ खलु मञ्जुश्रीः बोधिसत्त्वो महासत्त्वः तां देवतां भ्रातृसहितानामन्त्रयते स्म । मा भैष्टत भगिन्यः मा भैष्टथ । बुद्धं शरणं गच्छध्वम् । द्विपदानामग्रं धर्मं शरणं गच्छध्वम् । विरागाणामग्रं सङ्घं शरणं गच्छध्वम् । गणानामग्र्यम् ॥
अथ ता भगिन्यः सभ्रातृपञ्चमाः बुद्धं शरणं गच्छन्ति । एवं शरणं गच्छन्ति । सङ्घं शरणं गच्छन्ति स्म । ततस्ताः सुखसौमनस्याः परमेण सुखसौमनस्येन समन्वागता अभूवन् । मुक्तगाढबन्धनात्मानं सञ्जानते स्म । प्रीतीसुखसमर्पिताः लब्धप्रसादपरमसञ्जातहृष्टरोमकूपाः इदमुदानमुदानयन्ति स्म -
अहो आश्चर्यमिदं प्राप्तो रत्नत्रयोद्भवे ।
सुखिताः स्म क्षणाल्लब्धात् सर्वदुर्गतिघहिताः ।
सुगतौ स्वर्गमोक्षो च सदा बुद्धिनिवेशिता

47.29

ततस्तां तुष्टमनसो मञ्जुघोषं निरीक्ष च ।
प्रणिपत्य चरणौ मूर्ध्ना इदं वाचमुदीरयम् ।
त्रातस्त्वं सर्वदुःखेभ्यः गतिस्त्वं भो महाद्युतेः

47.30

यस्त्वं सर्वधर्माणां गभीरपदमक्षरा ।
त्वं देशयसे नाथ बन्धुभूत नमो ऽस्तु ते

47.31

आज्ञापय महावीर मन्त्रनाथं जिनात्मजम् ।
किमानीताः स्म देवेन आज्ञां किं करवानि ह

47.32

एवमुक्तास्तु वीरो वै सर्वबुद्धात्मजो विभुः ।
उवाच मधुरां वाणीं देवताभिः स चोदितः

47.33

गच्छ त्वं शरणं भूयः वज्रपाणिजिनात्मजे ।
अवैवर्तिकसङ्घो वै बोधिसत्त्वाग्रजोद्भवेत्

47.34

तृरत्नमादौ कृत्वा वै वंशजं जिनवरात्मजम् ।
चित्तं च बोधो ईरध्वं मैत्रचित्ता भवोत्सुका ।
ततो वा सर्वतः कृत्वा जघ्नुः स्वस्थतास्पदम्

47.35

ततस्ता देवताः सर्वे प्रणिपत्य जिनात्मजम् ।
आज्ञां सम्पाद्य सर्वं वै येन वज्री तदोन्मुखा

47.36

नमस्कृत्वा तु तां क्षिप्रं वज्रपाणिं महाद्युतिम् ।
अभिष्टुत्य ततः सर्वे स्थिताः तन्मुखोद्भवाः

47.37

प्रसमीक्ष्य तदा कन्या सभ्रातृसहपञ्चमा ।
वज्रपाणिं च यक्षेशं निरीक्षमाणाः स्थिताः ।
अभूवं नित्यार्थमास्पदा देव्यः अनित्यार्थार्थभूषिताः

47.38

प्रणेममधुरां वाचामात्ममन्त्रार्त्थशोभनाम् ।
नमस्ते सर्वबुद्धानां बोधिसत्त्वां महर्द्धिकाम्

47.39

प्रत्येकार्हसङ्घं च असतांश्चैव योगिनाम् ।
आत्ममन्त्रार्थविस्तारं कथयामो महाद्युते

47.40

यथातत्त्वावबोधार्त्थं जनानां तु महीतले ।
सरहस्यं गुह्यमन्त्राणां त्वद्वक्षान्निसृतात्मनाम् ।
अनुरक्षार्थमन्त्राणां आस्पदार्थार्त्थभूषणाम्

47.41

एवमुक्ते तु मन्त्रेशः वज्रपाणिर्महाद्युतिः ।
ईषिस्मितमुखो भूत्वा विलोक्य विकसन्मुखः

47.42

पूजायामास तां कन्यां सभ्रातृसखीजनाम् ।
अनुज्ञातं मया यूयं निर्विशङ्क भविष्यथ

47.43

संश्राव्य कल्पविस्तारं सरहस्यं समण्डलम् ।
जन्तुभिः पूजिताः नित्यं वरं वो दास्यथ सर्वदा

47.44

ऋषिभिः पूजिता यूयं यक्षराक्षसकिन्नरैः ।
गरुडैर्देवगन्धर्वैः असुरैश्चापि महर्द्धिकैः

47.45

कूष्माण्डैः मातरैश्चापि समग्रैः सोमभास्करैः ।
लोकपालैः धनाध्यक्षैः पतद्भिः वसवैस्तथा

47.46

तैरिवेयं सुराध्यक्षैः पिशाचोरगमानुषैः ।
भूताध्यक्षैः निशाध्यक्षैः पिशिताशनव्यन्तरैः ।
राक्षसाधिपमुख्यैश्च रौद्रचित्तैर्विहेठकैः

47.47

दैत्यदानवसङ्घैश्च यमैः प्रेतमहर्द्धिकैः ।
मानुषामानुषैश्चापि ब्रह्मविष्णूमहेश्वरैः

47.48

सुरमुख्यैर्महाज्येष्ठैः सिद्धचारणपूतनैः ।
योगिभिर्जिनपुत्रैश्च पूजिता वो भविष्यथ

47.49

+ + + + न सन्देहो प्रभावा वरक्रमा ।
जयाया मन्त्रमित्याहुः कल्पविस्तारविस्तरा

47.50

नव कोट्यस्तु मन्त्राणां तन्त्रकल्पसविस्तरा ।
विजया चैव मन्त्राणां षष्टिर्लब्धा प्रकीर्तिता

47.51

अजिताया तु भवेन्मात्र लक्षषोडशकोद्भवा ।
अपराजिताया तु कन्याया चतुःकोट्यः उदाहृताः

47.52

तुम्बुरेः सार्थवाहस्य नवकोट्यो ऽथ गायतः ।
तत्प्रमाणा भवेत् कल्पा नृसुरासुरपूजिताः

47.53

सर्वं शैवमिति ख्यातं सर्वैर्भूतलवासिभिः ।
मयैव निगदितं पूर्वं कल्पे मस्मिं सविस्तरे

47.54

पश्चादन्यो जनः प्राहुः कल्पमन्त्रां पृथक् पृथक् ।
तुम्बुरुः सार्थवाहस्य त्र्यम्बकस्य तु धीमतेः

47.55

अनन्ता कल्पविस्तारा शर्वस्यास्य कपर्दिने ।
यत्प्रभावार्त्थं मन्त्राणां सिद्धिं यास्यन्ति भूतले

47.56

अनुज्ञाताथ वै यूयं कलराजे ऽथ वै सदा ।
भाषध्वं मन्त्रतन्त्राणां सरहस्यं सविस्तरम् ।
सगुह्यं गुह्यतमं चापि सर्वसत्त्वसुखोदयम्

47.57

इत्युक्त्वा वज्रधृक् श्रीमां वज्रमाशृत्य लीलया ।
तूष्णीम्भूत तदा तस्थौ रत्नपङ्कजमुच्छृते

47.58

अथ ताः कन्यकाः क्षिप्रं सभ्रातृमथपञ्चमाः ।
प्रणिपत्य मन्त्रनाथं वै यक्षेशं जिनवरात्मजम्

47.59

वज्रपाणिं महावीरं मन्त्रनाथेश्वरं विभुम् ।
उवाच मधुरां वाचां एकैकामनुपूर्वतः

47.60

मण्डलं तु समासेन वक्ष्ये ऽहं भुजयोदयम् ।
ज्येष्ठमण्डलमित्याहुः जया ज्येष्ठमगायत

47.61

विजने रहसि सम्पाते विगते चैव महाजने ।
प्रच्छन्ने ऽग्रप्रसम्बाधे सरित्तीरे शिलोच्चये

47.62

विविक्ते कानने रम्ये बुद्धाध्युषितमन्दिरे ।
शून्ये देवकुले चापि शून्ये वेश्ममु शोधिते

47.63

एकवृक्षे शुभे रम्ये महोदधिसमाश्रये ।
एकलिङ्गे श्मशाने च विगते धूमपांसुभिः ।
वज्रासनमहापुण्ये धर्मचक्रे सुशोभने

47.64

यत्र शान्तिं गतो बुद्धः यत्र जातो महामुनिः ।
एते स्थाना भवेन्मुख्या मण्डलालिखने शुभा ।
गङ्गातीरे ऽथ सर्वत्र सद्वीपपुलिनाश्रये

47.65

सरिद्वराश्च मुख्या ये कीर्त्तिता लोकविश्रुता ।
तेषु तीरेषु सर्वत्र नित्यं मण्डलमालिखेत्

47.66

समन्तात् सर्वतोयान्ता महोदधिसमप्लवा ।
हिमवन्तविन्ध्या तोयान्ता प्रस्थिता निम्नगाम्बुधेः ।
सरिद्वरिष्ठेषु तीरेषु युक्तो मण्डलमालिखेत्

47.67

अन्ये वा रहसि भूभागे उडये वा सुशोभिते ।
देवायतनरम्येषु स्तूपे चापि महोच्छ्रिते ।
धातुगर्भे तथा चैत्ये वापीकूपासु वीथिकैः

47.68

तेषु तीरेषु सर्वत्र मध्ये चापि सुशोभितै ।
गोष्ठे पद्मसरत्सर्वां क्वचित् तोयाश्रयोद्भवैः ।
अन्यैर्वा स्थानाग्रैर्नित्यं विहारारामभूपितैः

47.69

यथिष्टमनसो तुष्टिः मुनिजुष्टे महीतले ।
पर्वताग्रैर्ग्रहैश्चापि कन्दरैः सानुचिह्नितः

47.70

शान्तैरावसथैर्दिव्यैः ग्रहैश्चापि विजन्तुभिः ।
ध्यानानुकूलैः प्रशस्तैश्च ऋषिमुख्यैर्निषेवितैः

47.71

यत्र वा मनसो तुष्टिः तत्र मण्डलमालिखेत् ।
एषु स्थानेषु वै नित्यं यथोदिष्टैः सुपूजितैः

47.72

निपेतुर्देवताः क्षिप्रं सान्निध्यं चापि कल्पयेत् ।
तत्र स्थाने तदा नित्यं जपहोमक्रमो विधिः

47.73

ये साध्या मन्त्रमुख्याश्च उत्तमाधममध्यमाः ।
सिद्ध्यन्ति मन्त्राः सर्वे वै सिद्धक्षेत्रेष्विहोदिते

47.74

सिद्ध्यन्ति सर्वमन्त्रा सर्वे वै ज्येष्ठमध्यमकन्यसा ।
विविधा हि भवे सिद्धिः त्रिविधैव क्रियाविधिः

47.75

त्रिप्रकारस्तु मन्त्राणां त्रिधा कालप्रभेदतः ।
त्रिसन्ध्यं सर्वमन्त्राणां त्रिधा कर्मफलोन्मुखाः

47.76

शान्तिकं कर्म निर्दिष्टं जयाख्ये मण्डले शुभे ।
विजयाख्ये तु पौष्ट्यर्थं अजिताख्ये चाभिचारुकम्

47.77

अपराजिताख्ये तथा नित्यं निर्दिष्टं क्षुद्रकर्मसु ।
सर्वकर्मसु मन्त्रज्ञः तुम्बुराख्यं समालिखेत्

47.78

पञ्चैव मण्डला ज्ञेया अम्भोधे तु निवासिनाम् ।
समन्ताच्चतुरस्रं वै उक्तिमात्रं खनेद् भुवि

47.79

चतुर्हस्ताष्टहस्तं वा संशोध्य पाणिना पुनः ।
कठण्णः शर्कराङ्गारः तुषकेशमवस्कराम्

47.80

कपालास्थिशकृदुष्टां संशोध्य पाणिना ततः ।
स्वयं चापि परैस्तत्र सर्वावस्करतां जपेत्

47.81

कृमिजन्तुसमाकीर्णाः संशोध्यः यत्नतो व्रती ।
आपूर्यारन्यमृत्तिकैः शुचिभिश्च सुगन्धिभिः

47.82

नदीकूलोद्भवैर्मेध्यैस्तथा वल्मीकाग्रसम्भवैः ।
गोष्ठभूतलयोर्मध्ये तदन्यैर्वा पार्थिवोद्भवैः

47.83

सिकताभिः समन्ताद् वै सञ्छाद्य प्रसन्नधीः ।
अथवा गोमयमिश्रैर्वा मृत्तिकाभिः समन्ततः

47.84

समन्तमालेपयेत् क्षिप्रं पञ्चगव्यसमासृतैः ।
कुङ्कुमाक्तैस्तथा स्निग्धैः विविधैः गन्धमिश्रितैः

47.85

मृत्तिकाभिः समन्ताद् वै मण्डलं तु समन्ततः ।
आलेप्य भुवि यत्ना वै मन्त्रविन्मन्त्रतन्त्रवित्

47.86

पञ्चाङ्गिकचूर्णैस्तु विविधैः धूपवासितैः ।
आलिखेन्मण्डलं दिव्यं समन्ता चतुर्हस्तकम्

47.87

अष्टहस्तप्रमाणं वा ज्येष्ठं मण्डलमुच्यते ।
चतुर्हस्तो ऽथ कनिष्ठं मध्यमं परिकीर्त्यते

47.88

पञ्चहस्तो ऽथ विख्यातः षट् हस्तो ऽथ मुक्तवाम् ।
सर्वेषां तु देवीनां सभ्रातृसहितात्मनाम् ।
मण्डलप्रमाणमित्युक्तः समन्ता च्चतुरश्रितम्

47.89

चतुर्द्वारं चतुःकोणं चतुस्तोरणभूषितम् ।
आलिखेन्मण्डलं दिव्यं प्रशस्तं चारुरूपिणम्

47.90

मध्ये कुमारमालिख्य बालरूपसुभूषणम् ।
कुङ्कुमाकारवर्णाभं वाममध्ये ऽथ संस्थितम् ।
नीलोत्पलं समन्ताद्यकरलग्नोपशोभितम्

47.91

दक्षिणे करविन्यस्तं श्रीमालं फलमायतम् ।
किञ्चिद्वरदं देवं मञ्जुघोषं महाप्रभुम्

47.92

किंचिदुन्मीलिताक्षं तु ईषित्प्रेक्षणदेवताम् ।
दक्षिणेन समन्ताद् वै महोदधि समालिखेत्

47.93

तत्रस्था नावारूढं देव्यां भ्रातृपञ्चमाम् ।
आलिखेन्मन्त्रविद्यानां सुवेषां चारुरूपिणाम्

47.94

विचित्राभरणविन्यस्तां विचित्रप्रहरणोद्यताम् ।
कुमार्याकारचेष्टानां सभ्रातृकुमारविक्रमाम्

47.95

नौयानसमारूढां सभ्रातृसहपञ्चमाम् ।
कर्णधारसमोपेतां तुम्बुरुः सार्थवाहिकाम्

47.96

महोदधि समन्ताद् वै मण्डलाभ्यन्तरं स्थितम् ।
ऋषाद्यै प्राणिभिर्युक्तं स्फोटकं वारिपूजितम्

47.97

आलिखेन्मण्डलं धीमां गुप्ते रहसि सर्वतः ।
यथा हि विधिनिर्दिष्टं तत्त्वं चापि कीर्त्तितम्

47.98

तत् सर्वं कारयेत् क्षिप्रं लौकिकेष्वेव योजयेत् ।
यावन्ति शैवतन्त्रे ऽस्मिं ये तन्त्रे चापि गारुडे

47.99

ब्रह्माद्यैरृषिमुख्यैश्च भृग्वाङ्गिरसकाश्यपैः ।
मार्कण्डमुनिवरैश्चापि पुलस्त्यागस्तिसम्भवैः

47.100

वासवैः शक्रदेवैश्च रुद्रेन्द्रसभास्करैः ।
विविधैः सत्त्वमुख्यैश्च यमाद्यैः प्रेतमहर्द्धिकैः

47.101

ग्रहमातरकूष्माण्डैः यक्षराक्षसपूजितैः ।
मानुषामानुषे लोके चित्तनाथैर्महर्द्धिकैः

47.102

पूजिता कल्पविस्तारा विष्णुरुद्रसवासवैः ।
कथिता कल्पमहात्म्यं निखिलाश्चैव भूतले

47.103

तस्मिं मण्डले योज्या सिद्ध्यन्तीह न संशयः ।
विविधा योनिमुख्यैस्तु विविधाकारचेष्टितैः

47.104

कथिता कथयिष्यन्ति देवीनां कल्पविस्तराम् ।
तस्मिं समये नियोक्तव्या जयाख्ये मण्डले भुविरिति

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc