भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 40

40.1

बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् आर्यमञ्जुश्रियमूलकल्पात् सप्तत्रिंशतिमः महाकल्पराजपटलविसराद् उत्तमसाधनोपयिकसर्वकर्मार्थसाधनतत्त्वेषु प्रथमः ध्यानपटलविसरः परिसमाप्त इति ॥
अथ चत्वारिंशः पटलविसरः ।
अथखलु भगवां शाक्यमुनिः शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः त्वदीये महाकल्पराजे पटलविसरे ध्यानजे ऽनाश्रवे परमशिवशान्तीभूते अत्यन्तभूतकोटिधर्मधातुप्रविष्टे सर्वतथागतधर्मनेत्रीमनुगते परमनिर्वाणमार्गां सानुप्रविष्टे आर्यपथक्षेमशान्तीभूते महाधर्मनैरात्म्यशून्यतास्वभावमनुप्रविष्टे सर्वलौकिकलोकोत्तरतत्त्वावतारध्यानानुगतमनुप्रविष्टे सर्वमन्त्रचर्यासाधनविधिसमासक्रीडानाटकबालचर्याविस्फूर्यानानुगतसन्तोषणसत्त्वचर्यानुगतैः । कतमं च तत् ॥
शृणु त्वं मञ्जुरव थ्रीमां सर्वसत्त्वानुवर्तनम् ।
ध्यानं सर्वज्ञतो ज्ञेयं सर्वमन्त्रार्थसाधनम्

40.2

पूरणं सर्वमन्त्राणां शोधनं पापकर्मिणाम् ।
यं ध्यात्वा च जनाः सर्वे सिद्धिं प्राप्स्यन्त्यनांविलाम् ।
सर्वाकारवरोपेतां ध्यानसौख्यमचिन्तिताम्

40.3

बोधित्वं त्रिविधं प्राप्य उत्तमाधममध्यमाः ।
अतुलां मन्त्रसिद्धिं च अस्तुवन्ति जना भवेत् ।
सर्वार्थसाधनं लोके यशःकीर्त्तिसुखोदयम्

40.4

दीर्घायुष्कतां लोके ऽस्मिं देवानां च महद्गतिम् ।
सर्वाशावाप्तितां क्षिप्रं प्राप्नुवन्ति न संशयः

40.5

द्विप्रपञ्चानुत्तरां बोधिं लप्स्यते ध्यानचिन्तकाः ।
सर्वसत्त्वाहितह्यग्रं सर्वमन्त्रेषु कीर्त्यते

40.6

स्मरणादेव मन्त्रेषु सर्वतन्त्रेषु च पुनः ।
सिद्धयः सिद्धिहेतूनां क्षिप्रमाशानिबन्धनम्

40.7

आशास्यं भुवि तां मर्त्या पुनर्गच्छन्ति देवता ।
आजहार पुरं दिव्यं देवतामन्दिरेष्विह

40.8

तिष्ठन्ते मन्त्रराट् सर्वे तन्मुखापिध्यायिने ।
आगत्य च पुनः सर्वं देवतामन्त्ररूपिणाम्

40.9

कथयन्ति यथातथ्यं शुभाशुभफलोद्भवम् ।
वाचां प्रबुद्धः स्वप्ने प्रत्यक्षं वाथ जापिने

40.10

शुभोदयं फलं कर्म प्रत्यक्षं वापि देवताम् ।
पश्यन्ते स्वप्नगताः सर्वे मन्त्रिणा वापि तदन्तरे

40.11

इतरां चापि न पश्यन्ते जापिनो मन्त्रलौकिका ।
ध्यानेन पापं क्षीयेत जपे चापि सुपुष्कले

40.12

सिध्यन्ते मन्त्रराट् सर्वे अचिरात् तस्य मन्त्रिणः ।
प्रभावा ध्यानयोगस्य अचिन्त्याद्भुतचेष्टिता

40.13

एवमुक्तस्तु धीरेण शाक्यसिंहेन तापिना ।
भून्मञ्जुरवस्तूष्णीं शुद्धावासपुरे तदा

40.14

सर्वे देवगणा मुख्या त्रिधा धातुसमाश्रिता ।
अमुचद् वाक्यवरं शुद्धं सर्वमन्त्रेश्वरं गुरुम्

40.15

साधु साधु महावीर साधु धर्मेश्वरो विभोः ।
यस्त्वं हि सर्वसत्त्वानां हितार्थं मन्त्रजापिनाम्

40.16

ध्यानां च तत्त्वनिर्दिष्टं पूर्वनिर्दिष्टतामिति ।
इदानीं तु महावीर + + + + + + + + + + + +

40.17

एवमुक्ताः सुराः स + अग्रा ह्यग्रतमे हिताः ।
तूष्णीम्भूतास्ततस्तस्मिन् शुद्धावासपुरे पुरे

40.18

इत्युवाच महाधीरो मुनिस्तेजो + + + + + ।
शुभया वाचाया दिव्यां लोकतत्त्वार्थदर्शनम्

40.19

कथयामास सम्बुद्धः मधुराक्षरघोषजम् ।
शृणोथ भूतगणाः सर्वे स्थिता त्रिविधालया

40.20

ध्यानं च भवनिर्देशं कथ्यन्तः समाहिताः ।
अनेकार्थमनानात्वं नैरात्म्यं तत्त्वदर्शनम्

40.21

सर्वमन्त्रार्थरिधिंसार्थं विविधार्थं तु लौकिके ।
सर्वधर्मेश्वरा लोके येनायान्ति सुचिन्तिता ।
क्षिप्रं च जापिनां सर्वे आशु मन्त्रार्थसिद्धये

40.22

आदौ ध्यायीत महावीरं रत्नकेतुं तथागतम् ।
रत्नशैलनिषण्णं तु गुहायां रत्नजोद्यते ।
पद्मरागमयं दिव्यं महापद्मं महोन्नतम्

40.23

भगवां तत्र निषण्णस्थं पर्यङ्के धर्मदेशितम् ।
ध्यायन्तं महावीरं पद्मसम्भवमेव तु

40.24

पद्मोत्तरं च सम्बुद्धं पद्माभं चैव बुद्धिमाम् ।
ध्यायीत मुनिवरां पञ्च रत्नाभं च तथागतम्

40.25

समतः सुप्रतिष्ठिता ज्ञेया गुहेष्वेव पञ्चसु ।
सर्वां शैलमयां साद्रि पद्मरागमयं क्वचित्

40.26

भिन्नेन्द्रनीलमाभासं क्वचित् स्फटिकसन्निभम् ।
उच्छ्रयं मरकताभासं प्रमाणं चापि शताष्टकम्

40.27

योजनानां सहस्रं तु लक्षषोडशविस्तरम् ।
उपरिष्टात्तु सम्बुद्धा अपर्यन्ता नरोत्तमा

40.28

इत्यूर्ध्वमधः सर्वदिग्विदिशश्चापि सर्वतो ।
प्राप्तं मुनिवरैः सर्वं सम्बुद्धैर्द्विपदोत्तमैः

40.29

चन्द्राभासं च निर्भासैः श्वेतपुण्डरिकासनैः ।
हंसगोक्षीरनिर्भासैः शङ्खकुन्देन्दुहिमप्रभैः

40.30

सम्बुद्धैः सर्वमिदं व्याप्तं इत्यूर्ध्वमधस्सप्ततिर्यकम् ।
सद्व्योम्नि पुष्पवर्षाद्यैः सुरमुख्यैः समन्ततः

40.31

अदृश्यकायसारूप्यैः उपरिष्टात् खसमागतैः ।
अधश्चात्मानं सदा चिन्तेत् पर्यङ्केनोपविष्टकम्

40.32

पद्मपत्रे स्थितं मुख्यं शरीरं चापि निर्मलम् ।
अभिषिञ्चन्तं सदापश्यन्तं तोयधाराभिः सर्वतः

40.33

असङ्ख्येयैर्मुनिमुनिमुख्यैः सम्बुद्धैः द्विपदोत्तमैः ।
प्रसृतैर्दक्षिणाग्रकरैः समन्तादङ्गुलिभिः सदा

40.34

शुक्लतोया बहुभिः बहुधाराभिरूर्ध्वतः ।
समन्तात् सर्वतश्चैव मूर्त्ति चात्मान एव तु

40.35

अष्टाङ्गसलिलधाराभिः सुगन्धैर्लयशीतलैः ।
अच्छैरनाविलैश्चैव सर्वव्याधिहरैस्तथा

40.36

जरामृत्युविनाशिन्यैः भिन्नस्फटिकसन्निभैः ।
तादृशैस्तोयधाराभिः आत्मानं चापि चिन्तयेत्

40.37

अभिषिञ्च्यात्मतो चिन्त्या तैश्चाप्यायितमानसः ।
समन्ताद् वारिधाराभिस्ततो ध्यायी सुखी भवेत्

40.38

सन्तुष्टमानसो धीमां पश्येद् ज्ञानं तदासनम् ।
चित्ते समाधितां लिप्स्ये पञ्चाभिज्ञासु चिन्त्यधीः

40.39

एवं युक्तः सदा योगी पश्येद् धर्मां तदा स्वयम् ।
दिव्यं श्रोत्रं तथा ज्ञानं पूर्वजातिमनुस्मरम्

40.40

ऋद्धिविक्रीडितं ज्योतिर्दिव्यं चक्षुरनावृतम् ।
परचित्तगत्तिं चिन्तां सर्वसत्त्वाश्रयं तम्

40.41

सर्वं ज्ञास्यति योगीशो तदा युक्तेः समाहितः ।
अनिवर्त्त्यः सदा बोधो अनुत्तरायां न संशयः

40.42

बुद्धभूमिगतां धर्मां प्रथमायामविकल्पतः ।
प्राप्स्यते ऽसौ सदा जापी अनिवर्त्यो ऽमृते पदे

40.43

अनाभोगेनैव सम्यङ्मन्त्राः सिध्यन्ति सर्वतः ।
ये च लोकोत्तराः सर्वे अभिमुख्यैः प्रभाषिताः

40.44

बोधिसत्त्वैस्तु सर्वत्र अब्जा वज्रोद्भवाश्च ये ।
लौकिका ये च मन्त्रा वै ब्रह्मरुद्रेन्द्रभाषिता

40.45

यक्षमुख्यगणैः सर्वैः ........ ।
मातृभूतग्रहगणैः यक्षराक्षसकिन्नरैः

40.46

देवैर्नागगरुडैश्च सिद्धविद्याधरैस्तदा ।
कूश्माण्डैर्व्यन्तरैश्चापि कश्मलैः पिशिताशनैः

40.47

परप्राणहरैश्चापि राक्षसैः प्रेतदुःस्वपैः ।
पिशाचैः भृतयक्षैश्च अनेकाकारजातिजैः

40.48

ये मन्त्रा भाषिता लोके + + + + + ।
ते तस्य योगिनो यान्ति ईषद् बोधाय बोधिता

40.49

क्षिप्रं सिद्धितां यान्ति मन्त्रा सर्वार्थसाधकाः ।
वचनं तस्य वै मन्त्रः क्षिप्रं तत्त्वार्थदर्शिने

40.50

ऋषयो ये च वै देवाः मानुषोद्भवाः ।
प्रसह्य वृत्ता मुख्याश्च स्त्रीपुंसाश्चापुंसकाः

40.51

सर्वे महर्द्धिकाश्चापि उत्तमाधममध्यमाः ।
सर्वे लौकिका चापि ये मन्त्रा लोकपूजिता

40.52

तैश्चाप्यथ मनैश्च मन्त्रैश्चापि मन्त्रजाः ।
भाषिता मुनिमुख्यैश्च सर्वे सिद्ध्यन्ति योगिने

40.53

तन्त्रमन्त्रगताश्चापि ओषध्यो मणिभूषणाः ।
सर्वे मन्त्रवरा तस्य उत्तमाधममध्यमाः

40.54

सर्वाशावाप्तये वापि अक्षरे क्षरते यदा ।
सिद्ध्यते तस्य बैं युक्तस्य मन्त्रिणे एवं युक्तस्य मन्त्रिणे

40.55

एवमुक्तस्य मन्त्रस्य धीमन्तस्य विशेषतः ।
प्रथमं चिह्नलिङ्गस्तु मन्त्राणां सिद्धिहेतवः

40.56

शरीरं जायते श्रेष्ठं पद्माभासं सुखोदयम् ।
गात्रस्य शैत्यता चापि चन्दनेन्दीवरगन्धिता

40.57

कर्पूरागरुसौगन्ध्यं पद्मकिञ्जल्कवर्णतः ।
वक्त्राद् रोमकूपेभ्यः गन्धो वान्ति सचाम्पकम्

40.58

जातीयूथिकपुन्नागं नागकेसरवकुलम् ।
धानुष्कारी ससौगन्धी जातिमल्लिककोलजम्

40.59

विविधां धूपमुख्या वा विविधा पुष्पजातयः ।
विविधा गन्धमुख्याश्च विविधा द्रव्यजातयः ।
विविधा सर्वगता गन्धाः शुभकर्मसमोचिताः

40.60

तेषां गन्धवरं हृद्यं अभिभूयोभिप्रवर्तते ।
दिव्यं मान्दारवं गन्धं सकिञ्जल्कं सकोकणम् ।
सकस्तूर्यकं लोके अभिभूयं तां प्रवायते

40.61

ततश्चिह्नमिमां ज्ञात्वा गात्रे वै चापि शैत्यताम् ।
चित्तैकाग्रतां चैवं मुखं चैव विवेकजम्

40.62

प्रथमं ध्यानजं चैवं चित्तं ज्ञात्वा तु तीरितम् ।
सुखदुःखमुपेक्षाय निर्वृते चापि विरागताम्

40.63

उपेक्षं स्मृतिपरिशुद्धिं द्वितीये प्रेरयते जापी ।
तृतीयं चित्ततो ध्यानं चतुर्थं अश्रयतो व्रती

40.64

यथा मुनिवरोद्दिष्टं ध्यानं सर्वतो शुभम् ।
तथा मन्त्रगतो जापी ध्यायेदेकाग्रमनोमयम्

40.65

ये निर्दिष्टाद्याबुद्धैस्तु वर्तमानमनागतैः ।
सम्बुद्धैः श्रावकैश्चापि सूत्रान्ताश्चापि कीर्तिताः

40.66

तेषु योगेषु मन्त्रज्ञाः अनुपूर्व्या ध्यानमाचरेत् ।
निर्वर्त्त्यं श्रावकी बोधि प्रत्येकजिनमुद्भवाम्

40.67

महाकरुणानुभावीत महामैत्रीं चापि यत्नतः ।
यद् यद् गोत्रागतं चित्तं तथा चित्तं तु भावयेत्

40.68

परहितचित्तान्मैत्री परदुःखकृपालुता करुणा ।
परतुष्टिमुदिता परदोषमुपेक्षणमुपेक्षा

40.69

इत्युवाच महाभागा सम्बुद्धा द्विपदोत्तमा ।
अनित्यदुःखमनात्माशून्य तत्त्वं शिवं पदम्

40.70

क्षेमं शिवं परं स्थानं निर्दिष्टं लोकनायकैः ।
क्षणिकः सर्वसंस्काराः त्रिविधास्तत्त्वेष्वचेष्टिता

40.71

त एवासंस्कृता धर्मास्त्रिविधा बोधिसंस्थिता ।
त एव शिवतमा लोके कथिता बोधिपरायणैः

40.72

पुद्गलाभावनैरात्म्यं तीक्ष्णपतनवर्णितम् ।
तं नास्ति शिवे मार्गे क्षेमे बुद्धोपदेशिते

40.73

अत्यन्तनिष्ठे धर्मे ऽस्मिं भूतकोटिसमाश्रिते ।
धर्मधातुसमानं ते अस्तिनास्तिविवर्जिते

40.74

शुभे धर्मोदये बोधो त्रिप्रकारसमोदिते ।
अत्यन्तनिष्ठे मोक्षे च बहुधा भेदमाश्रिते

40.75

सुप्रयुक्ते सुनिर्दिष्टे सर्वबुद्धैः सुदेशिते ।
मार्गे स्थिते ऽथ मन्त्रज्ञः सर्वपापहरे शिवे

40.76

ये धर्मा मुनिवरैः सर्वैः प्रतीत्योत्पन्ना शुभाशुभाः ।
सर्वे ते जातिभिर्योगे ध्यातव्या मुनिहेतुभिः

40.77

श्रावकानां तु या शिक्षा अधिशीलानुप्रवर्त्तते ।
अधिचित्तं च यद् ज्ञानं श्रावण्यफलहेतुकम्

40.78

अनास्वरं सस्वरं ज्ञेयं जापिभिः सर्वदा स्वयम् ।
ज्ञातव्यं खड्गिणा शिक्षा प्रत्येकार्हसम्भवाम्

40.79

सर्वसत्त्वाख्यसत्त्वैवं सुस्वरं त्रिदिवोदितम् ।
यथाजिनैश्च निर्दिष्टं मार्गतत्त्वानुगामिनम्

40.80

साश्रवानाश्रवं ध्यानं संवरं च शुभोदयम् ।
यथावृत्ति यथालिङ्गं तथा शिक्षासु व्यवस्थितम्

40.81

तद्धर्मासेवतो जापी मन्त्रसिद्धि समश्नुते ।
ध्येयं च ध्यानजं पुण्यं पुण्यं ब्रह्मशुभोदयम्

40.82

तस्य सिद्धि सदा ज्ञेया ध्यानैः पुण्यैश्च बृंहितैः ।
उपोह्य सर्वतो मन्त्री जपहोमरतो व्रती

40.83

ध्यातव्यः सर्वतो मुख्यः जिनपुत्रो महर्द्धिकः ।
मञ्जुघोषो महावीरः कुङ्कुमाकारसमत्त्विषः

40.84

ईषिस्मितमुखो देवो सव्यामाभोगमण्डलः ।
प्रसन्नमूर्त्तिः पद्मस्थः समन्तरश्म्यावभासितः

40.85

पूर्वनिर्दिष्टजे स्थाने स्वमूर्त्त्याभिषेकसेविते ।
उपरिष्टात् तोयताराणां मध्ये जिनवरालये

40.86

तत्रस्थं तु सुखासीनं ध्यायीतं मञ्जुरवं शुभम् ।
सर्वबुद्धोर्ध्वकं दृष्टिं सनमस्कारं शुभं प्रभुम्

40.87

वामे करविन्यस्तं नीलोत्पलं शुभम् ।
दक्षिणेन करे ह्युक्त शुचिस्थाने सदाशुभे

40.88

सनमस्कारं सदा बुद्धं ईषच्छीलासबालिशम् ।
तं ध्यात्वा मुनिपुत्रे वै सदा मन्त्री पुनः पुनः

40.89

तत्रस्थो ध्यानजो धीमां आतुरायां तु पश्यति ।
सर्वे ते व्याधिनिर्मुक्ता दृष्टमात्रेण मन्त्रिणा

40.90

अधश्च पश्यत्पातालं सर्वे भूमिगता धना ।
वशिता सर्वमन्त्रज्ञः नित्योच्चाटनमन्त्रिणाम्

40.91

यदूर्ध्वं समपश्येत् सिद्धां व्योम्नानुगामिनाम् ।
सर्वं वशयिता लोके सिद्धद्रव्याणि सर्वतः

40.92

अथोत्तरां दिशां पश्येद् यक्षाध्यक्षांश्च सर्वदा ।
कूष्माण्डा वित्तदाश्चैव वित्तेशश्च महर्द्धिका

40.93

ईशानो भूतपतिश्चैव + + + + + + + + ।
औषध्यो हमेजाः सर्वे रुद्रश्चैव सहोमया

40.94

किन्नरा मरुगन्धर्वा ऋषयो गरुडस्तथा ।
सर्वसत्त्वाश्रया ये च तथोत्तरा विदिशे

40.95

विदिक्षु चैव सर्वत्र तथा स्थावरजङ्गमाः ।
सर्वे स्युर्वशमायान्ति दृष्टमात्रेण जापिने

40.96

एवं पश्चिमतो ज्ञेयं वरुण महर्द्धिकः ।
महानागैः सदा सर्वं दृष्ट्वा यान्ति सम्मूर्च्छिता

40.97

एवं वैवस्वतां लोकां यमश्चैव महर्द्धिकः ।
सर्वे ये राक्षसा दुष्टा घोररूपा महर्द्धिका

40.98

ससुता भृत्यवर्गैश्च परप्राणहराः खगाः ।
पिशिताश्चनरूपाश्च भीमरूपानुगाः सदा

40.99

व्यन्तरा कश्मलाश्चैव प्रेताप्रेतमहर्द्धिका ।
पिशाचा भूतक्रव्यादा व्यालश्चैव महर्द्धिकाः

40.100

अनेकाकाररूपास्तु अनेकाकारयोनिजाः ।
रूपा मनोजवाश्चैव सत्त्वा हिण्डन्ति मेदिनीम्

40.101

दारुणा रुधिरगन्धेन समन्ताद् योजनं शतम् ।
सहस्रं पुनरायान्ति सप्तसप्ते ऽनुगे सदा ।
मानुषाणां विहेठन्तां पर्यटन्ति महीतले

40.102

आहारार्त्थिनः केचित् केचित् क्रीडानुगामिनः ।
सर्वे स्युर्वशमायान्ति दृष्टमात्रेण जापिने ।
एवं पूर्वयां तथा दिक्षि पूर्वाध्यक्षादिशानुगः

40.103

सवितुः सर्वनक्षत्रा सज्योतिग्रहचन्द्रमा ।
महोत्पादोपग्रहां सत्त्वे विराजाश्चैव दिशां पतिः

40.104

ससुतो सपरिवारो वै शस्त्री वा चापि सर्वतः ।
सर्वे ते वशमायान्ति ध्यानेनावर्जिते जिता

40.105

विदिक्षुश्चैव सर्वत्र सर्वं सर्वासु दिक्षुषु ।
सुरश्रेष्ठा सुरश्चैव स्त्रीपुंसादये भुवि

40.106

सर्वसत्त्वा तथा लोके मानुषा अमानुषोद्भवा ।
सर्वे ते वशमायान्ति ये सत्त्वा त्रिषु स्थावरा

40.107

ये तु धातुजा मुख्या तथा मध्यमकन्यसाः ।
सर्वे ते वशमायान्ति अदृश्यो दृश्याश्च ध्यायिने

40.108

त्रिविधं ध्यानजं कर्म ज्येष्ठमध्यमकन्यसम् ।
ज्येष्ठे उत्तमां बोधिं प्राप्य ध्यायी निवर्त्तते

40.109

अनुत्तरं च पदं शान्तं प्रत्येकं मार्गखड्गिणाम् ।
कन्यसा श्रावकी बोधिः प्राप्यते परनिश्रिता

40.110

प्रतीत्योत्पत्तिकधर्माणां हेतुसम्भूतलक्षणम् ।
तेषां निरोधधर्माणां एवं वादी नरोत्तमः

40.111

साक्षात्क्रियेन मर्हत्त्वं चतुरो पटलसम्भवाम् ।
हेत्वाभासविद ज्ञानं शून्यता दुःखसम्भवम्

40.112

नैरात्म्यधर्मतो निष्ठं अत्यन्तं भूतकोटिजम् ।
निरोधमार्गवद् ज्ञेयनर्हत्वं चापि कन्यसम्

40.113

आलयोद्धातनो वर्त्त्मापर्छेदो वदनात्मताम् ।
पिपासा प्रतिपच्छोषावर्त्मोपछेदो ऽथ देहिनाम्

40.114

कामनद्यां सहतृष्णां शोकशल्यो ऽथ देहिनाम् ।
रुध्यन्ते सर्वतो ध्याने मार्गे ऽस्मिं ध्यानजे हिते

40.115

त्रिप्रकारं तथा कर्म अनेकाकारचिह्नितम् ।
त्रिधा चैव समुख्याणां त्रिविधा बोधिकीर्तिता

40.116

कन्यसं श्रावके बोधिः प्रत्येकार्हखड्गिणाम् ।
मध्यमे च सदा लोके निर्दिष्टा जिनवरैः पुरा

40.117

उत्तमं तु सदा बोधिं सम्यक् सम्बुद्धतां गतिम् ।
एवमाद्या प्रयोगेन त्रिधा कर्मक्रियाक्रमम्

40.118

शतधा भिद्यते तत्र सहस्रो ऽथ मसङ्ख्यकम् ।
व्रीह्यङ्कुरवद् ज्ञेयं पुनः क्षेत्राङ्कुरवत् सदा

40.119

ततो ऽङ्कुराङ्कुरवन्नित्यं सन्तत्या सम्प्रकीर्तिताम् ।
वीजोषधवत् कर्म शुक्लधर्मसमन्वितः

40.120

सत्त्वविज्ञानसन्तत्या पुनस्तोयतरद् भवत् ।
प्रवर्तते ध्यानजा धर्मा पुनध्यीयीत बुद्धिमाम्

40.121

यथा ध्यानगता योगी शुद्धिं पश्येत् सर्वतः ।
त्रिधिधं त्रिप्रकारं तु अनेकाकारसम्भवाम्

40.122

सिद्धिं मन्त्रयुक्तिं च समाधिं चैव कीर्तितम् ।
धारण्या बोधिसत्त्वानां त्रिविधैव समोदिता

40.123

अनेकाकारवरोपेता मन्त्राश्चैव सुपूजिता ।
लौकिका लोकमुख्याश्च तथा लोकोत्तरा सदा

40.124

सौगतीवर्त्ममास्थाय ध्यानं ध्यानपरम्परा ।
सिध्यन्ते सर्वमन्त्रा वै सर्वसत्त्वार्त्थदर्शनाम्

40.125

प्राप्नुवस्तं जनाः सर्वे ध्यायतां सर्वतो हिताम् ।
यशः कीर्तियथायुष्यं सर्वव्याधिप्रणाशनम्

40.126

मार्गतत्त्वार्थदं ज्ञानं जीवितं चापि सुपुष्कलम् ।
प्राप्नुवध्वं नराः श्रेष्ठाः नित्यं ध्याने समाहिताः

40.127

एष योगः समासेन निर्दिष्टो मुनिवरैः पुरा ।
अधुना च मयोक्तेदं विधियोगं समाहितम्

40.128

मयाप्यनुत्तरां बोधिं सम्प्राप्ते मे ऽमृते पदम् ।
एभिरेव समायोगैः मन्त्रैश्चापि सुपूजिताः

40.129

ध्यानकर्मगतैः दिव्यैः शुभैश्चापि समाधिभिः ।
प्राप्यमनुत्तरं ज्ञानं बुद्धत्वं भगवानाह

40.130

अपरं तु प्रवक्ष्यामि तन्मे निगदतः शृणु ।
क्रीडार्थं सर्वमन्त्राणां क्रीडाशतकर्मजम्

40.131

ध्यानजेनैव प्रयोगेण शृणु मञ्जुरवो जनाः ।
सदा हिताहितं ज्ञेयं मन्त्रिणां च विकुर्वणम्

40.132

ध्यानजेनैव योगेन कुर्याद् बालिशबुद्धिनाम् ।
आदौ तावद् सदा ध्यायेन्महानागोच्छ्रयं जले

40.133

महोदधिः समन्ताद् वै शैलराजविभूषितम् ।
रत्नशृङ्गं महोच्चं वै चतुरन्तमयं शुभम्

40.134

तत्रासीनं महात्मानं बुद्धं त्रैलोक्यविश्रुतम् ।
सुनेत्रं धर्मभूयिष्ठं अमिताभं च जिनोत्तमम्

40.135

जिनपुत्रं सदा श्वेतं लोकेशं च यशस्विनम् ।
पद्मकेतुं महासत्त्वं महाकरुणजोद्भवम्

40.136

सुनेत्रे मुनिवरे स्थाने कुमारं बालरूपिणम् ।
सदा मञ्जुरवं विन्द्याद् विचित्रो भूतिलक्षणम्

40.137

इन्दीवरकरं वामे दक्षिणे सुगतानभम् ।
जले यो ऽत्र महानागो अनन्तो नाम नामतः

40.138

सर्वश्वेतस्तथा नित्यं सप्तशीर्षजैः स्फटैः ।
तं ध्यात्वा चिन्तयेज्जापी विचित्रालङ्कारभूषितम्

40.139

सुगतात् सम्प्रतीच्छन्तं तन्मुखं चापि चिन्तयेत् ।
एवं नन्दोपनन्दौ च नागराजौ महर्द्धिकौ

40.140

तत्प्रमाणोच्छ्रितौ वृद्ध्या द्विगुणं चापि सर्वतः ।
अनन्तकर्कोटकस्तुल्यैः पद्मश्चापि महर्द्धिकः

40.141

कुलिकः शङ्खपालश्च कपिलश्चापि वर्णतः ।
महापद्मो ऽथ नागेन्द्रः पद्माभश्च लते सदा

40.142

वासुकिस्तक्षकश्चैव ईषित्किञ्जल्कवर्णतः ।
पद्माभौ सर्वतो ज्ञेयौ विचित्राकारभूषणौ

40.143

शङ्खश्चैव महानागो शुक्लाभो वर्णतः शुभौ ।
शङ्खपालो मणिर्नागः श्वेताभो ईषि वर्णतः ।
सागरश्च महानागः मुचिलिन्दश्चैव विश्रुतः

40.144

कृष्णनागो ऽथ सर्वत्र कृष्णवर्णाः प्रकीर्तिताः ।
सर्वे तुल्यप्रमाणास्तु नन्दोपनन्दो ऽथ सुर्च्छ्रितौ

40.145

एलपत्रो ऽथ नागेन्द्रो भोगवां लोकविश्रुतः ।
सागरो ह्युरगाध्यक्षः अचिन्त्याद्भुतचेष्टितः

40.146

करोति विविधां कर्मां शुक्लांश्चैव निबोधताम् ।
मृतकं विषसुप्तां वा सागरे नैव कारयेत्

40.147

वस्त्रेनावृत कृत्वा वै ध्यानयोगेन धीमता ।
आकृत्य सागरे स्थाने शीघ्रमुत्तिष्ठते मृतः

40.148

विषसुप्तस्य सदा नागो पादेनाक्रम्य चालयेत् ।
तं न्यसेत् सागरे स्थाने निर्विषो भवति तत्क्षणात् ।
एवं ज्वरपिशाचांश्च क्रव्यादां व्यन्तरां शुभाम्

40.149

रक्षसां प्रेतकूष्माण्डां पिशाचोरगमातराम् ।
ग्रहश्चैव सदा लोके परप्राणहरां नराम्

40.150

+ + + + + + + विचित्रा श्रममाश्रिता ।
मानुषिं तनुमाश्रित्य तिष्ठन्ते भुवि मानुषाम्

40.151

गृह्णन्ते बालिनां सत्त्वां तेषां ध्यानेनानेन चिन्तयेत् ।
सागरस्य तु नागेन्द्रा चिन्त्यादग्रतोत्थितम् ।
ध्यायीत मातरं सत्त्वं क्षिप्रं मुञ्चति बालिसम्

40.152

एवं दष्टमदष्टानां कीटलूतोत्थितां नृणाम् ।
दद्रुकिटिमकुष्ठानां पामाकण्डूविचर्चिकाम् ।
अन्यां चोत्थितां चैव नित्यं भगन्दररोहिताम्

40.153

प्लीहमेदोदरां चैव तथा पद्मं सुपद्मकम् ।
यक्षाणां सपद्मकं चैव तथा पद्मोत्तरं कृशम्

40.154

ज्वररोगगतां सर्वां बाध्यन्तां नृजबालिसाम् ।
सर्वां सागरे स्थाने सन्यसेत् पन्नगोत्तमे

40.155

विविधायासदुःखानां सर्वव्याधिगदर्त्तिनाम् ।
सन्यसेत् सागरे स्थाने ध्यानचिन्त्याहितेन वै ।
क्षिप्रं मोचयते नागः सुगताज्ञां प्रतीच्छकः

40.156

एवञ्चमुरगैः सर्वैः सर्वकर्मकरैः शिवैः ।
उरगाध्यक्षैस्तदा सर्वं व्याप्तमम्भोदतिर्यगम्

40.157

समन्तात् सर्वतो श्रेष्ठा उरगाध्यक्षा महर्द्धिकाः ।
समयज्ञा मञ्जुघोषस्य आज्ञे दीक्षणतत्पराः ।
दैवयक्षाश्रिता नित्यं मानुषाणां शुभोदयाः

40.158

व्यतिमिश्रैस्तु कर्मज्ञैर्व्यतिमिश्रफलोदया ।
काले वर्षधरा नित्यं धार्मिकां वृत्तिमाश्रिताम्

40.159

समन्तात् तोयधाराभिः + + + + + + + ।
सस्यौषध्ये तथा ब्रीह्यां निष्पन्ने फलति हैतुकम्

40.160

मेघरूपेण माश्लिष्टा पर्यटन्ति महीतले ।
महर्द्धिका महेशाख्या कल्पस्था महोदया ।
तेषां भोगवती नाम पुरी अम्भोदमाश्रिता

40.161

यदा धर्मपरा मर्त्त्या जम्बूद्वीपेषु सर्वतः ।
ततो तिष्ठन्ते महानागाः परिवाराश्च तेषु वै

40.162

तदा देवासुरे युद्धे अनुभूय जयैषिणः ।
जम्बूवृक्षगता तस्थुः जम्बूद्वीपं च मध्यतः

40.163

पुनः पुनर्नरां भेजे सर्वत्राप्रतिगोचराः ।
सर्वशुक्लगतां कर्मां तेषु नागेषु योजयेत्

40.164

कुर्वन्ति समये भ्रष्टा ये नागा जलमाश्रिता ।
कीटवोपद्रुतां सर्वां विषां स्थावरजङ्गमाम् ।
मुमुचुः सर्वतो नागा आसुरो पक्षमाश्रिताः

40.165

प्रमाथी झलुझलुश्चैव कपर्दी चापि महोदधिः ।
भीमो भीषणश्चैव दुर्मुखो बहुमुखस्तथा

40.166

एते चान्ये महानागा अतिदर्पाभिमानिनः ।
कृष्णकर्मे स्थिता नित्यं व्यतिमिश्रेण वा परे

40.167

महेशाख्या भीमरूपाश्च विषोग्रथिजनाजने ।
अधर्मिष्ठा यदा मर्त्त्या जम्बूद्वीपनिवासिनः

40.168

तदा महाभयं कुर्युर्विषमूर्च्छातिदारुणम् ।
छर्दिर्भ्रमिश्च जायेत महामार्योपद्रवां बहूम्

40.169

दुष्टशरीसृपां लोके विसृजन्त्यहितोदया ।
एवं ते च महानागा बहुप्रकारोपद्रवाशुभा

40.170

अनावृष्टि अनावृष्टिं विसृजन्त्यहिते रता ।
तेषां च दर्पनाशाय इदं ध्यानं समारभेत्

40.171

मञ्जुघोषं महाधीरं बोधिसत्त्वं महर्द्धिकम् ।
वामोत्पलकरं सव्यं दक्षिणेन वरप्रदम् ।
भिन्नगोरोचनाभासं हेमकुङ्कुमविद्विषम्

40.172

गरुडं पक्षिराजानं आरूढं सुगतात्मजम् ।
ध्यायीत मस्तके तेषां दंष्ट्रिणां सर्वविषोत्कटाम्

40.173

ततस्ते भिन्नहृदयाः त्रस्तोद्विग्नमानसाः ।
पुनर्निवर्त्त्य गच्छन्ते प्रविशन्ते च रुषालयम्

40.174

उत्पातां बहुविधां दृष्ट्वा अशुभांश्चैव सशब्दकाम् ।
एवं ध्यायीत मन्त्रज्ञ मञ्जुघोषं समाहितः

40.175

बहुप्रकारा मन्त्रज्ञ नागदंष्ट्रां प्रकल्पयेत् ।
अनेकाकाररूपास्तु अण्डजांश्च प्रदंशिनाम्

40.176

वक्ष्ये सम्यग्बुद्ध्या शास्त्रदृष्टेन कर्मणा ।
तद्गोत्रजश्च उरगा वै दशन्ते भुवि मानुषाम्

40.177

तेषां विधिदृष्टेन शास्त्रेणैव गरुत्मना ।
कुर्यात् सर्वाणि कर्माणि पक्षिराजेन देहिनाम्

40.178

कृष्णशुक्लादयो नागा ये नागा भुवि मण्डले ।
विचरन्ति महीं कृत्स्नां सूर्यरूपेण देहिनाम्

40.179

साध्यासाध्ये ततो ज्ञात्वा विषं च चतुरो हिताम् ।
पित्तश्लेष्मगतं चैव वायुव्यतिविमिश्रिताम्

40.180

श्लेष्मणा वारुणेत्याहुः शुक्लवर्णो ऽथ मण्डलः ।
पित्तमज्ञेयजं नाम तृकोणाकारसम्भवाम्

40.181

अग्निवर्ण सदा रक्तमीषद् बाहुभपिङ्गलम् ।
कुलस्थमिव बन्धान्तं चतुरस्रं व्यतिमिश्रितम्

40.182

माहेन्द्रमिति तं ज्ञेयं कृष्णवर्णं महोन्नतम् ।
श्लेष्माणां च गजेत्याहुः पित्तजं द्वेषसम्भवम्

40.183

मोहं वायुजं ज्ञेयं व्यतिमिश्रं कृष्णवर्णितम् ।
तदेव सात्त्विकं विन्द्याच्छेलष्मणं शुक्लवर्णितम्

40.184

राजतं पैत्तिकं ज्ञेयं पीतरक्तावभासितम् ।
तामसं वातिकं ज्ञेयं व्यतिमिश्रहितोत्वताम्

40.185

व्यन्तरेष्वपि सर्वेषु कीटविस्फोटकादिषु ।
सरीसृपेषु च सर्वत्र व्यतिमिश्रं लिङ्गमीक्षयेत्

40.186

कृष्णाभं तत्रमुद्यन्तं मञ्जुघोषं सुचिन्तयेत् ।
गरुत्मस्थं सुखासीनं बालरूपं सुखोदयम् ।
चिन्तयेद् व्यन्तरैर्दुष्टं मानुषेषादसन्धिषु

40.187

ततो ऽर्द्धं चिन्तयेद् दिव्यं कुमारं बालरूपिणम् ।
विश्वरूपं महात्मानं गरुत्मत्तोपरिस्थितम्

40.188

तदासीनं महाभागं शरत्काण्डाकारविद्विषम् ।
ऊसभ्यां चिन्तयेद् धीमान् नाभिस्यादध्योमगम्

40.189

पीताभं चिन्तयेद् ध्यायी उरःस्थाने सुसुप्तिगम् ।
मञ्जुघोषं महावीर्यं पक्षिराजाग्रवाहनम्

40.190

शिरःस्थाने तथाचिन्त्यः ध्यायीत गरुडध्वजम् ।
शुक्लाभं वैनतेयस्थं बहिस्थं चाथ चिन्तयेत्

40.191

सात्त्विके विषमूर्च्छा तु श्लेष्मं वमन्ति सर्वतः ।
लाला च स्रुवते ऽजस्रं निमज्जते च मुहुर्मुहुः ।
तं विद्यात् सात्त्विकं दष्टं शुक्लपक्षाहितो भवेत्

40.192

भ्रमते कम्पते चैव स्तब्धे क्षोभे सर्वेश्वरः ।
विषे च पित्तजे मूर्च्छा दाघो जायति दारुणाम्

40.193

राजसे दंष्ट्रिणे दष्ट्रो एतद् भवति चेष्टितम् ।
तामसे तमसं मोहः मूर्च्छा निद्रा च जायते

40.194

व्यतिमिश्रैर्व्यतिमिश्रं तु चेष्टा भवति दारुणम् ।
सत्त्वे भवति शुक्लाभः दंष्ट्रे भवति मानुषे

40.195

राजसी पीतवज्ज्ञेयः छविवर्णाश्च किञ्चन ।
कृष्णवर्णाथ मोहात्मा छविवर्णाथ जायते

40.196

व्यतिमिश्रे धूम्रवर्णस्तु आपाण्डुश्चापि क्वचित्तथा ।
सात्त्विको राजसश्चैव शुक्लपक्षाहिजोद्भवा

40.197

तामसो मिश्रिणश्चैव अहिजा कृष्णवर्णिनाम् ।
तत्कुलाकुलिनो ह्येते उरगाध्यक्षेश्वरो सु वे ।
आसुरं पक्षमाश्लिष्टा विचरन्ति महीतले

40.198

दंशतेषां मानुषां लोके अधर्मिष्ठा नागजातयः ।
क्रूराः क्रूरतरा लोके आहारार्थपरा सदा

40.199

केचिद् विहेठनार्थाय दंष्ट्रिणो प्राणहरा परे ।
विषनिर्नाशनार्थाय सर्वदंष्ट्रोपजीविनाम्

40.200

इदं ध्यानवरं मुख्यं यथालिङ्गानुवर्निनम् ।
सन्न्यसेत् प्राणिनां चिन्त्या क्षिप्रं मुञ्चति तद्विषम्

40.201

सर्वदा सर्वकालं तु सर्वव्याधिषु योजयेत् ।
सर्वोपद्रवां हन्ति ध्यानेष्वेव प्रतिष्ठिता

40.202

यथा नागा तथा सत्त्वा राक्षसा ग्रहमातरा ।
परप्राणहराश्चैव दुष्टचित्ताथ मानुषाः ।
सर्वव्याधिमता लोके लिङ्गेष्वेव तु योजयेत्

40.203

ध्यानं ध्येयं तथा मुक्तिं कर्मं चापि सदा न्यसेत् ।
कुमाररूपं माङ्गल्यं पवित्रमघनाशनम्

40.204

मञ्जुघोषं महावीरं जिनपुत्रं महर्द्धिकम् ।
सगरुत्मन्ते सुखासीनं उदयन्ते रविमण्डले

40.205

ध्यायीत सर्वतो मुख्यं मन्त्रनाथेश्वरं विभुम् ।
सर्वत्र चिन्तितो ध्यानसर्वव्याधिप्रनाशनः

40.206

सर्वकर्माणि कुर्वीत सर्वसत्त्वेषु सर्वदा ।
सर्वं स्तम्भयते ह्येष सर्वं शोभयते शुभम्

40.207

सर्वमन्त्राश्च लोकानां अस्मिन् ध्याने निबोधिता ।
सिद्धिं गच्छन्ति ते क्षिप्रं परकल्पे ऽपीहोदिता

40.208

ये च ताथागता मन्त्रा वज्राब्जकुलयोरपि ।
+ + + + + शक्रेन्द्रब्रह्मरुद्रयोः

40.209

आदित्यवसवेन्द्राणां नक्षत्रग्रहज्योतिषाम् ।
गरुडोरगयक्षाणां ऋषिमुख्या सपूतनाम् ।
सर्वमन्त्राश्च सिद्ध्यन्ते अस्मिं कल्पे तु ध्यायिने

40.210

परतन्त्रविधाने ऽपि स्वतन्त्रेणाभ्यन्तरेण वा ।
कुर्यात् कर्मसिद्धिं च क्षिप्रं ध्यानगतेन वै ।
आदित्यमण्डले ध्यात्वा उदयन्ते विश्वरूपिणम्

40.211

कुमारं बालिशाकारं शिशुभूषणभूषितम् ।
आरूढमण्डले दीप्तं गरुत्मन्ते ऽथ वैनते

40.212

मीदृशाकारमव्यक्तं मूर्जे चापि सुचिन्तिते ।
दृष्ट्वा परबलस्तम्भं जायते च मनीषितम्

40.213

सर्वे च दष्टाः स्तभ्यन्ते नृत्यन्ते च परस्परम् ।
हसन्ते आतुराः सर्वे ग्रहाविष्टाश्च देहिनाम्

40.214

ज्वरार्ता मूर्च्छिता ये च उत्तिष्ठन्ते द्रुतं ततः ।
क्रन्दन्ते विविधा आर्ता भीमनादं करोति वै

40.215

ग्रहमातरकूष्माण्डैः गृहीतानां भुवि मानुषाम् ।
एभिर्लिङ्गैस्तदा मन्त्री लक्षयेदेतां समाहितः

40.216

इच्छया मोचयेत् क्षिप्रं विषसङ्क्रमणं तु वै ।
क्रीडापयति भूतानां तदा योगी रिरिंसया

40.217

आदित्यमण्डले नाडी प्रयोक्तव्या विषमूर्च्छिते ।
रविनाडीप्रयोगेण सर्वप्राणि स चालयेत्

40.218

निर्विषो भवते सुप्तः विषस्थावरजङ्गमः ।
ततोत्तिष्ठते क्षिप्रं विषसुप्तो न संशयः

40.219

अन्यश्च वर्द्धते क्षिप्रं विषार्त्तो भुवि भूतले ।
पुनरन्यो पुनश्चापि अन्यादन्यतरो ऽपि वा

40.220

एवम्प्रकारैः सर्वत्र शतशो ऽथ सहस्रः ।
यावन्नाडीप्रयोगेण तावद् भूतानि पाचयेत्

40.221

वस्त्रकुद्यस्तथा कुम्भे अस्मतोयहुताशने ।
क्षणेन चालयेन्नाडीं तत्रस्थं विषमाविषे

40.222

सर्वे ह्यातुराः स्वस्थास्तत्क्षणादेव भूतले ।
एवमाद्यप्रयोगेण कुर्यात् कर्म शताष्टकम् ।
असङ्ख्यं च विधिं कुर्यात् परमन्त्रासृतेन वा

40.223

एष प्रयोगः समासेन ध्यानो ह्युक्तो ऽथ जापिनाम् ।
प्रयोक्तव्यः कल्पनिखिलः परतन्त्रो गरुत्मनः

40.224

मतं सङ्कल्पजं प्रोक्तं शैवं चापि विशेषतः ।
सर्वे च लौकिका मन्त्रा प्रयोक्तव्या ध्यानविस्तरे

40.225

इह मञ्जुरवे कल्पे ध्यानेनैव विशेषतः ।
सर्वतन्त्रप्रयोगैश्च मन्त्रैश्चापि सुपूजिते ।
मतयो ये ऽपि कल्पार्थाः प्रयोक्तव्या इह ते सदा

40.226

योगे ऽस्मिन् ध्यानये दिव्ये कल्पराजोदिते इह ।
ध्यानेन सर्वे नियोक्तव्या युक्तिहेतुनिरञ्जने

40.227

सूक्ष्मश्चित्तविषये मन्त्रसिद्धिनिबन्धने ।
मुनिपुत्रोदिते शुद्धे सर्वबुद्धार्थमोदिते ।
जापिनो ध्यायते नित्यं सर्वसिद्धिसुपुष्कला

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc