भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 39

39.1

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् षट्त्रिंशतिमः मुद्रामण्डलतन्त्रसर्वकर्मविधिपटलविसरः परिसमाप्त इति ॥
अथैकोनचत्वारिंशः पटलविसरः ।
अथखलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य सर्वांश्च लोकधातुं बुद्धचक्षुषा सर्वसत्त्वानामवलोक्य पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः त्वदीयमन्त्रतन्त्रमुद्रापटलविसरे सर्वलौकिकलोकोत्तरसमयमण्डलानुप्रविष्टे सामान्याविधानचर्यानिर्हारे समनुप्रवेशसत्त्वामाश्रये अचिन्त्याचेष्टित सर्वमन्त्राणां सर्वमुद्राणां सर्वमण्डलानां सर्वसत्त्वानां सर्वमन्त्रानुप्रविष्टानां निधाननिर्देशचर्या समासतो व्याचक्षते तच्छ्रूयताम् ॥
अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः भगवतश्चरणयोर्निपत्य अध्येषयति स्म । अध्येषयतु मे सुगतः अस्माकमनुकम्पायै लोकस्यानुग्रहाय । तद् भविष्यति महतो जनकायस्यार्थाय हिताय सुखाय लोकानुकम्पायै । तद् वदतु मे सुगत सर्वमन्त्राणां जपहोमआप्यायनपूजननियमसर्वतन्त्रमुद्रेषु समयप्रवेशानुनिगमसाधनोपयिकविधानं सर्वमण्डलेषु सर्वलौकिकलोकोत्तरविधिविशेषणोपयिकपटलविसरम् ॥
एवमुक्ते भगवां मञ्जुभाणी तदन्तरमभूत् सर्वज्ञ वान्यं तूष्णीं तस्थौ तदन्तरम् ॥
तुष्टः मञ्जुरवो धीरः सुगतज्ञ प्रतीच्छयम् ।
सर्वबुद्धाश्च सर्वत्र सर्वधातुसमागता

39.2

बोधिसत्त्वास्तु सर्वे वै सर्वश्रावकखड्गिणः ।
सर्वसत्त्वा त्रिधा ये च अनादिभवचक्रके

39.3

निबद्धा योनिजा ये च गतिपञ्चसुयोजिता ।
सर्वभूतगणाध्यक्षा राक्षसोरगमानुषा

39.4

दैत्यदानवयक्षाश्च कूष्माण्डकटपूतना ।
देवमुख्या गणाध्यक्षा मातराश्च महर्द्धिकाः

39.5

सर्वे ग्रहगणा लोके चन्द्रसूर्या परेस्तथा ।
ब्रह्मेन्द्रधनदा रुद्रा विष्णुस्कन्दविरूढका

39.6

धृतराष्ट्रकुबेराश्च सर्वे वै वसवस्तथा ।
सर्वभूताश्च सर्वत्र सत्त्वधातुसमाश्रिताः

39.7

शुभाशुभफलै कर्मैः निबद्धा गतिसूत्रके ।
मुक्तामुक्तश्च सर्वत्र आगता समये स्थिताः

39.8

बुद्धाधिष्ठानबला ऋद्ध्या शृण्वन्तेह त्रिधा स्थिताः ।
शुभयोनिजसम्भूता अशुभैश्चैव स्वकर्मभिः

39.9

शृण्वन्ते सर्वबुद्धा वै शुद्धावासपुरे तदा ।
तदा धर्मं सौगतं चार्यं अग्रधर्मशुभोदयम्

39.10

मन्त्रमुद्रत्रिधायुक्तं नियतं चापि कीर्तितम् ।
क्षेमं शिवतमं मार्गं आर्याष्टाङ्गिकं तदा

39.11

त्रिधा कर्मपथं श्रेष्ठं निर्वाणपुरगामिनम् ।
दानशील तदा ध्यानं तृधा मार्गोपदेशितम्

39.12

भगवानुवाच सर्वज्ञ मन्त्रमार्गाङ्गप्रवर्तनम् ।
ईषस्मितमुखो धीर मञ्जुघोषं निरीक्ष च

39.13

वाक्यं च शुभया युक्तं इदं ब्रह्मरवो तदा ।
शृण्वन्तो भूतगणाः सर्वे स्थिता सौम्या विशारदाः

39.14

मा वो समयाद् भ्रंशो भविष्यति अनर्थकम् ।
अहितं दीर्घरात्रं वो बुद्धवाक्यमजानकाः

39.15

प्रतिष्यथ तमस्यन्धे वत्स दूरीभविष्यथ ।
इदं वः श्रेयसे युक्ता मन्त्रमुद्रा समीरिताः

39.16

करिष्यथा सदा लोका सदानुग्रहनिग्रहम् ।
मन्यथा मत्क्रियायुक्तं क्रोधो वै च यमान्तकः

39.17

करिष्यति न सन्देहः सदा निग्रहतां युगे ।
आदौ पुष्पाभिकीर्णे वै विविक्ते विजने सदा

39.18

कर्तव्ये मण्डले बुद्ध्या ध्यानेनावर्ज्य सर्वतः ।
आदौ च सर्वबुद्धानां पद्मं ध्यायीत बुद्धिमाम्

39.19

द्वितीयं पद्ममुद्यन्तं अर्कस्यैव महाद्युतिम् ।
तत्रस्थो मञ्जुवरः श्रीमां कुमाराकारचिह्नितः

39.20

पञ्चचीरकमूर्धानो जानुकर्णककोर्परः ।
फलितः कृताञ्जलिपुटो बालो पृच्छन्तं सुगतं विदुम्

39.21

वाचं च शुभया युक्तां वदन्तो सुगतालये ।
यो वै सर्वबुद्धानां महापद्मं स्फटिकोद्भवम्

39.22

वैदूर्यमयं पद्मं किञ्जल्कं हेमजोद्भवम् ।
महामरकतीनालां कर्णिकां सह हेमजम्

39.23

महाविटपसंघातं महारत्नविभूषितम् ।
पद्मरागमयैः कलिकैः अनेकाकारसुभूषितैः

39.24

अश्मगर्भमयैर्दिव्यैः अङ्कुरैश्च विभूषितम् ।
पद्मं मुनिवरे ध्यात्वा महोच्चं गगनाश्रितम्

39.25

तस्मान्न्यूनतरं पद्मं समचिह्नं सुशोभनम् ।
तन्मनः धामतो ध्यायेन्मन्त्री प्रत्येकार्हश्रावकाम्

39.26

तस्मान्न्यूनतरं पद्म तृतीयं चित्तेन यत्नधीः ।
चतुर्थं पद्ममावर्तं तस्माद्ध्रस्वतमं विदुः

39.27

ध्यायीत पञ्चमं पद्मं ह्रस्वाह्रस्वतमं सदा ।
समाकारसमोद्योतं व्योमं संस्थितसर्वतम्

39.28

कुर्यात् तस्य विदो पद्मं चित्तया सप्तगे स्थितम् ।
वज्रपाणेः तथा पद्मं उदयन्तं रवेर्यथा

39.29

दक्षिणेन विदोः पद्मे तथा मञ्जुरवः सदा ।
ततो ह्रस्वतरं पद्मं लोकीशस्य महात्मनः

39.30

तृतीयं पद्ममित्येव समन्तद्योतिलाभिने ।
चतुर्थं पद्ममित्येव अक्षयप्रतिभानता

39.31

ईषिद् विमलगते ह्रस्वं कमलं पञ्चमतत्त्विते ।
तस्मात् षष्ठतमो यो पद्मः आर्यं चाधर्मसंज्ञितम्

39.32

अधश्चैव समन्ताद् वै उदधिं चापि चिन्तयेत् ।
महानागे ऽर्धनिर्यान्तो ऽनन्तः नन्दोपनन्दकौ

39.33

सर्वश्वेता महानागाः सर्वालङ्कारभूषिताः ।
अब्धोर्जाता स्मितमुखो गगनालम्बनदृष्टयः

39.34

सप्तशीर्षमहाभोगो मणिकुण्डलभूषिता ।
पुरुषाकारदिव्यास्तु अर्धभोगोरगस्तथा

39.35

सप्तस्फटा ससौम्यास्तु अर्धचक्षुर्गतोर्ध्वार्मा ।
वामतो मुनिवरा पद्मे पञ्चमुष्णीषसंस्थिताम्

39.36

चक्रवर्ति तथाद्यन्तां शक्रायुधसुतेजिताम् ।
एकाक्षरश्चक्रवर्तिस्तेजोराशिः सितोन्नतः

39.37

अभ्युन्नतो जयोष्णीषविद्याराजमहर्द्धिकः ।
वज्रपाणिश्च यक्षेशः अधश्चैव सुचिन्तयेत्

39.38

एतेषु चित्तं धीमां रूपिभिः सर्वदा सदा ।
आत्मनश्च धियो युक्तो मन्त्रविन्मन्त्रराड् जमे

39.39

तत्रस्थं नियमस्थं वै पद्मपत्रोपविष्ट वै ।
ध्यायीत अधश्चात्मानं पर्यङ्केनोपविष्ट वै

39.40

सर्वपापांश्च देशी मुनिनामन्तिके सदा ।
तत्रस्थो नियमजो रूषी अध्येष्य मुनिवरां वराम्

39.41

धर्मचक्रानुवर्तन्तां तिष्ठन्तां सुगतात्मजाम् ।
तेषां पुण्यमतुलम् अनुमोद्येव जापधीः

39.42

सुशुक्लमालतीकुसुमां पुन्नागं नागकेसराम् ।
चम्पकाशोकतिलकां तगर्यांश्चैव समल्लिकाम्

39.43

क्षिपेत् पुष्पाञ्जलिं दिव्यां सव्यांश्चैव सुशोभनाम् ।
सभूतामप्यभूतां वा धिया युक्तां सुशोभनाम्

39.44

विविधां पूजावरां कुर्युर्विद्या च इव मनोरमाम् ।
विविधां धूपवरांश्चैव तथा गन्धानुलेपनाम्

39.45

चित्तेनेव तु तत् कुर्यात् सभूता मध्यभावतः ।
निवेद्य वलिमन्त्रैर्वै प्रदीपांश्चैव तदा न्यसेत्

39.46

विविधाकारसम्पन्ना विचित्रश्चित्रभोजनाम् ।
अनेकाकारसम्पन्नां दध्योदनमशालिकाम्

39.47

यबगोधूममुद्गैश्च खाद्यभोज्यसुभूषितैः ।
निवेद्य सुगते भवत्या दद्याच्चात्मानमेव तु

39.48

तथ्येन नान्यथा चापि चित्त येनापि शिष्यते ।
एषा श्रद्धा मया पूजा सर्वपूजेषु शिष्यते

39.49

मं ध्यात्वा जापिनः सर्वे नियतं बोधिमवाप्नुयात् ।
सफला मन्त्रसिद्धिश्च जायते च न संशयः

39.50

इहैव जन्म निःसत्त्वा सिध्यन्ते मन्त्रदेवता ।
अन्यजन्मान्तरे वापि केचित् सिद्ध्यन्ति मानवाः

39.51

विचित्रां भोगसम्पत्तिं विशेषांश्चापि पुष्कलाम् ।
विविधा कालमनोवाग् ध्यानं चापि त्रिधा पुरा

39.52

बुद्धैर्बुद्धशतैश्चापि प्रत्येकार्हश्रावकैः ।
त्रिःप्रकारा तथा बोधिः प्राप्नुवन्तो यशस्विनः

39.53

एतैस्त्रिप्रकारैस्तु मन्त्रसिद्धिरिहोदिता ।
त्रिप्रकारैस्तु सत्त्वाख्यै उत्तमाधममध्यमे

39.54

त्रिधा कर्म समुद्दिष्टम् .......... ।
प्रणीतं ध्यानतां प्रोक्तं मध्यमं शीलजं स्मृतम्

39.55

कन्यसं दानजं मुख्यं तच्चैव तु पुनस्त्रिधा ।
प्रणीतं धर्मदानं तु मध्यमं तु गतं तथा

39.56

वाक्यमामिपदानं तु कन्यसे व तु कीर्त्यते ।
शीलं चापि त्रिधा प्रोक्तमित्युवाच मुनिः पुरा

39.57

बुद्धत्वपरिणामाख्यं अग्र्यं शीलमिति स्मृतम् ।
प्रत्येकबोधो मध्यं तु कन्यसं श्रावकोद्भवम्

39.58

एतल्लोकोत्तरं शीलं लौकिकं तु प्रकथ्यते ।
तच्चापि त्रिविधा ज्ञेयं सास्रवोत्पत्तिकारणम्

39.59

मुमुक्षुबुद्धिभिर्भक्त्याधिज्ञप्त्या अभिज्ञसम्भवा ।
श्रेष्ठा ज्येष्ठतमा लोके कथ्यन्ते ऋषिवरैः सदा

39.60

एतदग्रमयं लोके शीलमाहुर्मनीषिणः ।
मध्यमं देवज ज्ञेयं कन्यसं तु नृपद्वराम्

39.61

तच्चापि त्रिप्रकारैस्तु त्रिधा कर्मेषु योजितैः ।
त्रिधा च त्रिविधैश्चैव पुनर्मुक्तं त्रिद्विसप्तपञ्चशः

39.62

त्रिसप्तं सप्ततिं तच्चापि त्रिधा भिन्नम् ।
प्रादुर्भूतो ऽङ्कुरो ऽङ्कुराः ध्यानजं चैवमत्यन्तो

39.63

सुरेश्वरौ पुनः त्रीणि पुनरष्टाष्टभूषितम् ।
यथैव पूर्वनिर्दिष्टं ध्यानेष्वेव च कथ्यते

39.64

एवं तरङ्गवद् भिन्नं पुनर्ज्वालेव गच्छति ।
बुद्बुदाकारवद् ज्ञेयं क्षणोत्पत्तिप्रभङ्गुरम्

39.65

एवमेवाद्यप्रयोगेन शतधा भिद्यते पुनः ।
सहस्रशश्च सदा ज्ञेयमसंख्येयाद्यलक्षितम्

39.66

साध्यते ध्यानजं कर्म अग्र्यं मानसोद्भवम् ।
तस्माद् ध्यानवतं मन्त्रं चित्तं बोधाय नामितम्

39.67

अयनेनैव ते सिद्धिं लप्स्यन्ते मन्त्रदेवताम् ।
तस्मात् सर्वप्रयत्नेन जापिभिः सिद्धिलिप्सुभिः

39.68

कर्तव्या मानसी पूजा बुद्धानां सर्वतः सदा ।
इहैव जन्मनि सिद्धिं नित्यं ध्यानरतस्य तु

39.69

सर्वत्राप्रतिहतो ह्येष ध्यानजो शीलसंवरः ।
दानतो विभवो धर्मः शीलतो सुरवरोदयम्

39.70

उत्पत्तिध्यानादाना श्रवे .......... ।
एतत् संक्षेपतो ह्युक्तं जापिनां मन्त्रसिद्धयै

39.71

यं बुध्वा मन्त्रिणः सर्वे क्षिप्रमन्त्रेषु सिद्धये ।
क्षिप्रं चानुत्तरां बोधिं प्राप्नुवन्ति न संशयमिति

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc