मञ्जुश्रीमूलकल्प · अध्याय 41
इति बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पाद् अष्टत्रिंशतिमः महाकल्पराजपटलविसराद् द्वितीयसर्वलोकतत्त्वार्थतारक्रीडाविधिसाधनोपयिकसर्वकर्मध्यानपटलनिदेशः परिवर्तः समाप्तः ॥
अथ एकचत्वारिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः, पुनरपि शुद्धावासभवनमवलोक्य, मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः! सर्वबुद्धानुमोदिते त्वदीयमहाकल्पराजमहाविसरे महामन्त्रचर्यानुवर्तके सर्वसमयानुप्रविष्टे महामूलकल्प्रप्रविष्टास्पदभूते पञ्चमसर्वभूतरुतज्ञानाभिज्ञानं सर्वभूतरुतज्ञानाचिन्त्यगोचरं एष ते पक्षिराट् गरुत्मा स्वमन्त्रचर्यानुवर्तनरुतज्ञानाभिज्ञानां सर्वमन्त्राणां सर्वमन्त्राणां सर्वकल्पानां स्वसमयमनुप्रविष्टसर्वलौकिकानाम् एष एव ते भाषिष्यति सर्वतिर्यग्योनिगतानां सर्वपक्षिराजगरुत्मनां सर्वमन्त्रकल्पगोचररुतज्ञानं च चरितं चेति ॥
अथ खलु तस्मात् पर्षन्मण्डलाद् वैनतेयो गरुत्मा बोधिसत्त्वाधिष्ठानेनानेकैर्गरुडशतसहस्रैः परिवृतः उत्थायासनात् पर्षन्मण्डलं प्रदक्षिणीकृत्य, येन मञ्जुश्रीः, तेनोपसङ्क्रम्य, महाबोधिसत्त्वस्य पादौ कृताञ्जलिपुटः, मञ्जुश्रियमेतदवोचत् - अहं महाबोधिसत्त्व अस्मिं महाकल्पराजे सत्त्वानामर्थाय हिताय सुखाय कर्मान्तरशतं सरहस्यं भाषिष्ये । तत् साधु महाबोधिसत्त्व अनुमोदतु । अथ मञ्जुश्रीर्वैनतेयमेतदवोचत् - भाष भाष महासत्त्व सत्त्वानुकम्पया ।
अथ वैनतेयो बुद्धाधिष्ठानेन स्वकीये आसने निषद्य, प्रहृष्टमनसि कर्मोत्तरशतं सरहस्यं भाषति स्म ।
नमः समन्तबुद्धानामप्रतिहतशासनानाम् । तद्यथा - ओम् शकुन महाशकुन विततपक्ष सर्वपन्नगनाशक खख खाहि खाहि समयमनुस्मर । हुम् तिष्ठ बोधिसत्त्वो ज्ञापयति स्वाहा । कर्मोत्तरशतं भाषते स्म ।
नागाकर्षणं, नागदमनं, नागनिग्रहणं दष्टमदष्टावेशनं, वाचया सर्पमावाहानं, सर्पनिग्रहकरणं विषक्रीडनं, सर्वविषक्रामणं, वाचा मनसा बुद्ध्या वा, पोषधिको त्रिरात्रोषितः, शुक्लद्वादश्यां नदीतीरे शुचौ देशे पञ्चरङ्गिकसूत्रेणाष्टहस्तं मण्डलकं कृत्वा, अष्टपद्मप्रतिष्ठितं, तत्र मध्ये भगवां धर्मं देशयमानः लिखेत् । तस्य दक्षिणेनार्यमञ्जुश्रियं कृताञ्जलिपुटो भगवतो मुखमवलोकयमानं लिखेत् । भगवतो बुद्धस्य वामे नारायणं चतुर्भुजं लिखेत् सर्वप्रहरणहस्तम् । तत्समीपे गरुडं विकृतरूपम् । तदनन्तरं विनताभरणं च लिखेत् । आर्यमञ्जुश्रियस्य पृष्ठतः आर्याक्षयमतिं सुधनं सुभूतिं च लिखेत् कृताञ्जलिपुटा । एवमभ्यन्तरमण्डले लेख्य, पूर्वद्वारे बाह्यतः शुल्कभस्मना वज्रं समालिखेत् दक्षिणेन कृष्णवर्णिकया खड्गम् उत्तरेण पीतवर्णिकया गदं लिखेत् । पश्चिमेन रक्तवर्णं पाशं समालिखेत् ॥
एवं बाह्यमण्डलेभ्यः मूलमन्त्रेण सर्वदेवाह्वाननं कृत्वा, सर्वपुष्पैः सर्वगन्धैरभ्यर्च्य, गुगुळुधूपं, त्रिमधूरेण च बलिं दत्त्वा, तेषामग्रतः खदिरसमिद्भिरग्निमुपसमाधाय, सर्वसत्त्वेभ्यः कारुण्यचितमुपस्थाप्य, नागासनोपविष्टः सर्पकण्टकानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् । ततः सिद्धिनिमित्तं सर्पा आगच्छन्ति । अर्घ्यो देयः । एवं सिद्धिर्भवति । ( वैद्य 358 ) स्वमन्त्रमावर्त्य वदेत् - मम सिद्धिं विधाय गच्छत । ततो गच्छन्ति । ततो विसर्ज्य मूलमन्त्रेणैव समभ्युक्षयेत् । ततः कर्मं समारभेत् । सर्वं च बलिद्रव्यमप्सु क्षिपेत् । पश्चाद् वाचामात्रेण सर्वविषकर्माणि करोति ॥
विद्वेषणं कर्तुकामः सर्पास्थीनि विषाक्तामेकविंशत्याहुतिं जुहुयात् । विद्वेषो भवति ॥
उत्सादयितुकामः सर्पनिर्मोकखण्डानामेकविंशत्याहुतिं जुहुयादुत्सद्यति । काकपक्षाणामेकविंशत्याहुतिं जुहुयात् सद्यः काकवद् भ्रमति । स्त्रीपुरुषवशीकरणे सर्षपाणां घृताक्तानामेकविंशत्याहुतिं जुहुयाद् वश्या भवन्ति । राजानं राजमात्रं वशीकरणे परमान्नस्य घृताक्तस्य एकविंशत्याहुति जुहुयाद् वशो भवति । लोष्टकमभिमन्त्र्य, अग्नौ प्रक्षिपेत् न तपति । तृणेन मोक्षः । उक्तेन मत्स्या न बध्यन्ति । चेतनमचेतनं वा सत्त्वं छोटिकया आकर्षयति । सर्वव्याधिने उदकाभिषेचनेन स्वस्थो भवति । दण्डमभिमन्त्र्य द्वारमाहरेत्, अपावृतं भवति । तमेव दण्डं नीलपटप्रावृतं गृह्य सङ्ग्रामे गच्छेत्, परसैन्यं दर्शनाद् भिद्यति । स्वशाटके ग्रन्थिबन्धनेन सर्वमन्त्राः स्तम्भिता भवन्ति । मुक्ते मोक्षः । सर्पवदनं भस्मना पूरयेत् । यस्य नामं गृह्य करोति, स मूको भवति । गण्डविषं सकृज्जप्तेन उदकेन हनेत् । गण्डं सङ्कुचति । पतति च परविद्या । अनेन बध्नीत । तथैव मोक्षयति । इष्टकमभिमन्त्र्य मावर्त्त्य जपेत् । परबद्धग्रन्थिं स्तोभयति । एवं वर्षापयितुकामः पूर्वोक्तं मण्डलकं लेख्य, पूजां कृत्वा, अग्निमुपसमाधाय, वरुणसमिधानामष्टसहस्रं जुहुयात्; आढकं वर्षति । एवं यावद्दशाढकं वर्षति । पिप्पलामभिमन्त्र्य हस्तेन गृह्य, यावद्दिशं क्षिपति; तत्र अशनं सङ्क्रामति । अग्निदाहेप्येष एव विधिः । उदकमवतरणमेवं कर्तव्यम् । नागानुत्सारयति । मृन्मयं सर्पं कृत्वा यमिच्छति तं दशापयति । अङ्गारसर्पस्य एष एव विधिः । पुनरपि मोक्षयति । सर्षपान् सप्तजप्तान् चतुर्दिशं क्षिपेत् । सर्पा आगच्छन्ति । मण्डलबन्धः कार्यः । पानीयेनाभ्युक्ष्य विसर्जयेत् । उदकेन मोक्षणं लेष्टुना नागाकार्षणं पांसु परिजप्य उदके क्षिपेत्; निर्विष भवन्ति । धनुं गृह्य अलोहाश्चत्वारः शराः चतुर्दिशं क्षेप्तव्या । सर्पं शरचलितं गृह्य आगच्छन्ति । स च नागो वक्तव्यः । विषं प्रतिपिबेति । पिबति दष्टकोत्तिष्ठति । अथ सर्पाणि शल्लयितुं पानीये पानीयेनाभ्युक्ष्य तस्य तस्य शराः पतन्ति । सर्पश्चाक्षतो भवति । वल्मीकमृत्तिकया चत्त्वारो नकुला कर्तव्या । पानीयमभिमन्त्र्याभ्युक्षयेद्ः; गत्वा सर्पापहाया गच्छन्ति । आगता वक्तव्याः - विषं प्रतिपिबस्वेति । पिबन्ति मृतक उत्तिष्ठति । अङ्गारमभिमन्त्र्य, रेखां कृत्वा, अर्कलतया ताडयेत्; ततः सर्पो वध्यैराकृष्यमाणो आगच्छति । विषं प्रतिपिबेति पिबति । दष्टको निर्विषो भवति । ध्वजं छत्रं वाभिमन्त्रयेत् । यावन्तो मृतकाः विषपीतकाश्च सर्वे निरीक्ष्य निर्विषा भवन्ति वादित्रमभिमन्त्र्य वादयेत् । श्रुत्वा निर्विषा भवन्ति । पांसुना पञ्चरङ्गिकेण मण्डलमालिख्य तालशब्दं दातव्यम् । ततो नागाः सर्पाश्चतुर्दिशमागच्छन्ति । ते मण्डलं प्रविशन्ति । न भेतव्यम् । शिखाबन्धमात्मरक्षां च कारयेत् । अक्षिण्यभिमन्त्र्य क्रुद्धौ निरीक्ष्य वामाङ्गुष्ठं निपीडयेत् । तत्क्षणादेव पतति । सर्प ( वैद्य 359 ) इव रूपेण कुरुते । मुक्ते मोक्षः । एवं वाचया दष्टमदष्टं वा वेशयति मोक्षयति । विष्णुनिर्माल्यमभिमन्त्र्य यत्र रथ्यायां गृहे वा क्षिपति, तत्क्षणादेव सर्पो मानुषं दशति । पानीयेनाभ्युक्षिता निर्विषा भवन्ति । हस्तोत्क्षेपेण षण्मासिकमुपस्तोभम् । आत्मान अभिमन्त्र्य सर्पैर्यथेष्टं दंशापयेत् । विषो ऽस्य न क्रमते । कटककेयूरकुण्डलैरात्मान रलङ्करोति । पांसुमभिमन्त्र्य कर्णे जपेत् । उदकेनापि व्यजनेनापि मनसा सिद्धिर्मन्त्रमावर्त्य भूमौ पांसुं दद्यात् । मृतक उत्तिष्ठति । महामांस घृतेन सह धूपः पुष्टिकरणम् । मानुषास्थिचूर्णं काकोलूकपक्षाणि च धूपः मारणम् । मदनं तुषबीजानि उत्सादनो धूपः । सर्षपराजिकाधूपं ज्वरकरणं, कोद्रवबिडालविष्ठं विद्वेषणं, कपालचूर्णमधूकचूर्णं चैकतः कृत्वा मधुना सह धूपः उत्सादने । मोरङ्गी एरण्डनालं उत्सादने धूपः । गोपित्तं मानुषास्थि च घृतेन शत्रोर्मारणे धूपः ।
मत्स्याण्डं प्रसन्ना च कर्पासास्थिसमन्वितम् ।
देशान्तरगतस्य धूपः शीघ्रमानयति नरम्
विदलानि मसूराणां मांसं कुक्कुटाण्डस्य तु ।
एष प्रविशतस्य धूपो देयः अकार्षणमतः परम्
भल्लातकस्य वीजानि तिलतैलेन योजयेत् ।
एषाकर्षणधूपः दद्यादाकर्षणस्य
घृतगुग्गुलुं दद्यात् । धूपो रोगनाशनम् । तिलसर्षपैर्धूपं दत्वा तान्येव जुहुयात् । सप्तरात्रं त्रिसन्ध्यं यस्य नाम्ना वशः । लवणं राजिकाहुतिमष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम् । महापुरुषवशीकरणम् । कपालचूर्णं सहस्राभिमन्त्रितं कृत्वा यमिच्छति तं चूर्णेन संस्पृश्य वशमानयति । श्मशानभस्मसहितेन यं चूर्णयति तं ज्वरेण गृह्णापयति मोक्षयति । नकुलरोमाणि सर्षपाणि च सर्पनिर्मोकं यस्य नाम्ना धूपो दहति स सर्वलोकविद्विष्टो भवति । तिलैर्वशीकरणं, अर्थोत्पादनानि च कुरुते । तिलतण्डुलैर्घृताक्तैर्नारी वशमानयति । यवतिमण्डूकवसां नागस्थाने त्रिरात्रं जुहुयात् । देवां वर्षापयति । मृण्मयं गरुडं कृत्वा करसम्पुटेन गृह्य अंसमात्रमुदकमवतीर्य अर्द्धरात्रं जपेत्, यस्य नाम्ना स वशो भवति । श्मशाने तण्डुनां प्रकीर्य देवहृदयं स्थाप्य प्रहरणं जपेत् वृत्तिं कल्पयति, सपरिवारस्य । नकुलमूषकरोमाणि कर्पासास्थिधूपः सर्वभूतवशङ्करः । विषं भल्लातकं मधुना सहधूपः वशीकरणम् । कुक्कुटाण्डकपालानि कटुतैलेन सह धूपं वशीकरणम् । पलाशं सुरसबीजामि मदनपुष्पाणि धूपो वशीकरणे । शतपुष्पा देवदारुं पुरीषं मण्डूकं चटकस्य धूपो वश्यार्थः । यवास्तिला दूर्वा च गोमूत्रेण धूपो वशीकरणे । हरितालं काकजिह्वा च शोणितेन धूपः मूकीकरणे । मानुषरोमाणि गोमांसेनैकतस्तैलेन संयुक्तो धूपो रोगकरणे । काकपक्षोलूकपक्षाणि च निम्बतैलेन उच्चाटने । गुग्गुलुघृतं सीधुसहितं धूपो ऽयं सर्वसत्त्वप्रियङ्करः । पत्रकं त्वचं तुरुष्के धूपं सर्वसत्त्वानुबन्धकरम् । आज्ञाकरो भवति । तुरुष्कं ( वैद्य 360 ) चन्दनं कर्पूरेण सह अञ्जनं राजवशीकरणम् । पूजाबलिविधानं कृत्वा विष्णुप्रतिमाया अग्रतः उपरिष्टान्महामांसाहुतीनष्टौ हुत्वाष्टसहस्रं जपेत् त्रिरात्रम्, द्रव्यं यमिच्छति । श्मशानभस्मना प्रतिकृतिं कृत्वा महामांसधूपं दत्त्वा कुशविण्डकोपविष्टः अष्टसहस्रं जपेत् रात्रौ श्मशाने, यमिच्छति तमानयति । आज्ञां करोति । उच्चाटने कर्पासातुषां जुहुयात् काकपक्षैः क्षणादुच्चाटनो भवति । श्मशान उदुम्बरसमिधाभिरग्निं प्रज्वाल्य कपालोपविष्टः सर्पकञ्चुकं जुहुयात् । अन्नमक्षयं भवति । श्मशानास्थिचूर्णं सर्षपसहितमष्टसहस्रं जुहुयात् यस्य नाम्ना, स योजनशतादागच्छति । सर्वकामेषु कर्तव्यः । देवो श्वेतचन्दनेन विततपक्ष सर्वनागाभरणं तीक्ष्णघोरं विकृताननं विकृतनखं पद्मोपविष्टं अधोदत्तदृष्टिं निम्नतरं काष्ठे कुट्ये भित्तौ वा पोषधिकेन कर्मकारेण कारापयेत् । वितस्तिमात्रं कृत्वा तस्याग्रतः सर्वकर्माणि कुर्यात् । पलाशे पुष्टिकामेन, बैल्वं वश्यार्थहेतुना, उदुम्बरं च पुत्रकामाय, गोकामः शिरीषमयं मधुकं वा द्रव्यकामः कारयेद् विधिवत् । सूकरमांसेन फलकामम् । अश्वमांसेनापत्यं भवति । कृष्णसारमांसेन श्रियार्थी, पृथुतमानुकीर्तिकामो वा स्त्रीकामः पृथिवीकामो वा, व्याघ्रमांसं व्यवहारदिविजयार्थी महामांसम् वस्त्रार्थी हस्तिबला राजवशिकरणे अतिबला राजामात्यवशीकरणे अश्वगन्धां जुहुयात् । उत्सादे हस्तिरोमाणि, पिचुमर्दमभिचारे तु एते काष्ठा प्रोक्ताः ॥
पटकरणं भवति । धातुसौवर्ण पौष्टिके प्रक्तिः । रजतादीं कीर्तिवृद्धये । काकपक्षहोमेनोत्सादयति । गृध्रपक्षैर्मारयति । कौशिकपक्षैर्विद्वेषयति । मयूरपक्षैर्विद्वेषयति । मयूरपक्षैर्धनानि दद्यात् । तित्तिरिपक्षैः स्त्रीं मगुलिपक्षैः पुत्रां, काकपक्षैः सुवर्णम्, टिट्टिभिपक्षैर्मोहनम् । श्वमांसेनोत्सादयति, महिषमांसेनाकर्षयति, आभिचारुके महामांसेन, शान्तिके मृगरोमाणि कन्यार्थी उलूकरोमाणि देशघातेच्छा गलरोमाणि विद्वेषणे मानुषरोमाणि आभिचारुके मानुष्यरोमाणि शत्रुनाशने सर्वेष्वेव तेषु त्रिसन्ध्यं सप्ताहिको होमः । स्मरणमात्रेणाहं सर्वविषकर्माणि करोमि । सततजपेन सर्वकर्माणि करोमि । यो मम भगवं अस्मिं कल्पराजे मन्त्रं साधयमानः त्रिसन्ध्यमुदीरयिष्यति, तस्याहं सर्वविषोपद्रवचिकित्सां करिष्यामि । पृष्ठतो ऽनुबद्धो भविष्यामि ॥
अथ तस्मिन् समये स्वरूपमुद्रां भावयति स्म । अङ्गुष्ठौ परस्परवेष्टितौ कृत्वा शेषाङ्गुल्यो पक्षवत् संस्थिता स्याद् । गरुडरूपमेव मम प्रोक्तं पिनाकिना मुद्रा ॥
अस्य सन्दर्शनान्नागा विद्रवन्ति भयार्दिता ।
अघोमुखास्तु अङ्गुल्यः मन्त्रेणानेन मन्त्रवित्
ओम् जः ॥
नागदमनीति विख्याता नागानां दर्पनाशनी ।
पद्मकोशप्रतीकाशौ अङ्गुल्यः पार्श्वतः स्थितौ
अङ्गुष्ठौ मध्यतः स्थाप्य निष्पीड्याङ्गुल्यं तु यत्नतः ।
नागदमनीति विख्याता दिव्या दिव्येषु कर्मसु
अनामिका तर्जनी चैव मध्यमेन सुसंस्थितम् ।
अङ्गुष्ठौ वक्त्रसंस्थानं शेषा पार्श्वतः स्थिताः
गरुडनादेति विख्याता सर्वनागानुत्रासिनी ।
यानि च मयोक्तानि सर्वमन्त्रेषु साधने
लौकिके गारुडे शास्त्रे + + + + + + + ।
सर्वे ते ऽनेनैव कर्तव्या सर्वसत्त्वानुकम्पया
किञ्चित्कार्या अशेषास्तु मूलकल्पार्थसाधका ।
अस्मिं कल्पवरे नित्यं सर्वसत्त्वानुवर्णिते
प्रसिद्धाः सर्वकर्मार्थाः सर्वसत्त्वार्थपुष्कलाः ।
ते वै मन्त्रमुख्ये तु प्रयोक्तव्याः कर्मविस्तरे
इह कल्पवरे मूले प्रतिष्ठा क्ष्मातलेन ते ।
समुषत्सर्वभूतानामिह मन्त्रसृतैर्गुणैः
विस्तरेज्ञः सर्वतो दृष्ट्या सर्वसत्त्वानुकम्पने ।
प्रसिद्धं सिद्धिकामानां हेतुयुक्तिसमाश्रिताम्
कुर्युः सर्वतः सिद्धिः सर्वमन्त्रेषु देहिनाम् ।
सर्वसत्त्वाश्च सान्निध्यं कल्पेषु मनसेप्सितम्
इतिहासपुरावृत्तं वर्तमानमनागतम् ।
कथयन्त्येष संयोगान्मन्त्रमुद्रसमीरणात्
आकृष्टा एष भूतानां मन्त्रो ऽयमपराजितः ।
ईशानः सर्वभूतानां रुद्रो ऽयं सुरपूजितः
तम्बको त्र्यक्षराज्ञेयो कल्पस्थो ऽथ महीतले ।
हिमाद्रिनिलयो नित्यं उमापतिमहेश्वरः
तृशूली खड्गधृग् ज्ञेयः पिनाकी वृषभध्वजः ।
गणाध्यक्षः शूलिनश्चैव महेशाख्यो ऽथ महर्द्धिकः
अक्षरो ऽक्षरमित्याहुः कपर्दी तु गदायुधः ।
एष मन्त्रो महार्थस्तु सर्वभूतार्थकम्पकः ।
कुर्यात् सर्वाणि कर्माणि सर्वकर्मेषु साधनम्
एष देवो महात्मा वै महादेवेति कीर्त्यते ।
प्रसिद्धः सर्वकर्मार्थे फलहेतुसदाप्रदे ।
तस्य मन्त्रं प्रवक्ष्यामि शृणुध्वं भूतिकांक्षिणः
ओम् स्थः नमः सर्वबुद्धानामप्रतिहतशासनानाम् ।
त्रैलोक्यगुरूणामचिन्त्याद्भुतरूपिणाम् । शिवोद्भवोद्भव भुवनत्रयपूजिताय हूं हूं फट् फट् ॥
एष मन्त्रो महामन्त्रः सर्वशत्रुभयप्रदः ।
आयुषत् सर्वभूतानां कर्म शान्तिकपौष्टिके ।
सर्वेष्वेव हि कर्मेषु प्रयोक्तव्यो मनसोद्भवै
सर्वभूतरुतज्ञानं अभिज्ञज्ञानचेष्टितम् ।
अभिज्ञवशिता चैवं सर्वशास्त्रज्ञतां समम् ।
प्राप्नुयात् पुष्कलां चार्थां फलहेतुसमुद्भवाम्
यावन्त्यो लौकिका मन्त्रा सर्वाश्च सुपुष्कला ।
तां सर्वां प्राप्नुयान्मन्त्री सिद्धमन्त्रस्तु बुद्धिमां
यावन्तो लौकिका मन्त्रा शैवाश्चापि सुपूजिता ।
मन्त्रा गुरुत्मने चापि सिद्धिहोमफलोन्मुखम्
सर्वलौकिकमन्त्रास्तु इन्द्ररुद्रोद्भवोद्भवा ।
ते स्युर्मन्त्रराट् सर्वे निबद्धा विधिहेतुतः
याम्याग्निवायुतोयानां कुबेरो मातरो दया ।
सङ्ख्या द्वादशका ह्येषा ब्रह्मेशानपूरकाः ।
सवितुः शक्रदेवानां पितामहसुपूजका
कामधात्वेश्वरा ख्याता ये मन्त्रामरचारिणाम् ।
सर्वे ते वशमायान्ति मन्त्रे नामीरिताधिप
+ + + स्वयाम्यदग्निनां दिवौकसजलौकसाम् ।
दिङ्मन्दिराश्रया ये च विदिक्षु श्चापि चारिणः
तदोर्ध्वं नभस्तले चापि अधः पातालधामकाः ।
पथोश्रयसमापन्ना फणिनो ये महर्द्धिका
हिमाद्रिकुक्षिसंविष्टा विन्ध्यकुक्षौ समाश्रिता ।
महाधातुवरे चित्रे महाशैले ऽथ विश्रुते
नानादेवगणाकीर्णे सिद्धचारणसेविते ।
अप्सरोगणसङ्गीते सुमेरो रविरिवोज्ज्वले
यत्रस्था ये ऽत्र नागा वै ये तु भूतगणाश्रया ।
विचित्ररूपिणो ये वा ततः स्था ये समागता ।
सर्वे ते वशमायान्ति मन्त्रेणानेन योजिता
ये च दिव्यगणा मन्त्रा सर्वभूतभयप्रदा ।
सर्वे ते वशमायान्ति मन्त्रेणानेन योजिता
गिरिगह्वरदुर्गेषु विचित्रैः कन्दरोदरैः ।
मन्दिरैर्हेमसङ्काशैर्निवसन्ति महीतले
सर्वभूतगणाध्यक्षा विविधा हारिणो जनाः ।
+ + + + + + + + निवासेष्वभिकीर्तितैः
दिव्यभूतगणाध्यक्षा विचित्राश्चैव रूपिणः ।
सर्वभूतगणाश्चैव विचरन्ति महीतले
विविधाकारमुख्यास्तु विचित्रा रूपगताश्रया ।
विविधाकारविचारस्थौ विविधाम्बरभूषणा
ते सर्वे मन्त्रमुख्येन पथेवारपश्यता ।
अनेता सर्वमन्त्राणां लौकिकानां महर्द्धिकाम्
सर्वभूतवशं कर्ता प्रभ्रमन्तेश्वरो वरः ।
सर्वमन्त्रेश्वरां मुख्यां यमरुद्रेन्द्रवासवाम्
मन्त्रनाथो ऽथ मुख्यस्तु सर्वलौकिकमग्रजी ।
विभर्ति सर्वतो मन्त्रां कल्पांश्चैव सुपुष्कलाम्
एष मन्त्रेश्वरो देव अधिपतिः सर्वमन्त्रराट् ।
सर्वविघ्नेश्वरो मन्त्री स्मर्तव्यः सर्वजापिभिः ।
उग्रमुग्रे ऽथ मन्त्राणां प्रभुरेव प्रगीयते
सर्वस्मिं शैवतन्त्रे वै सर्वलौकिकचेष्टितैः ।
चरितं चापि भूतानां रुतं चापि जपेत् सदा ।
मन्त्रिभिः सर्वकालं वै प्रयोक्तव्यः सिद्धिकांक्षिभिः
वैनतेयस्तदा पक्षी प्रणम्य जिनवरात्मजाम् ।
मञ्जुश्रियं तथा नित्यं सर्वां बुद्धसुतान् तथा ।
उवाच मधुरां वाणीं पक्षिराट् स महाबलः
भाष भाष महासत्त्व गम्भीरार्थसुनिश्चित ।
धर्मनैरात्म्यतत्त्वस्य अग्रधर्मप्रतिष्ठित
मयोक्तं कल्पविस्तारं मूल्यमन्त्रार्थगोचरम् ।
अभिसंक्षेपतो ज्ञेयं सर्वमन्त्रेष्वराधिकम्
लौकिकेष्वेव मन्त्रेषु प्रयोज्यः सर्वसाधने ।
नाभ्यन्तरपदं मन्त्रं मयोक्तं यं प्रशस्यते
जिनपुत्रैस्तु महावीरैः सर्वश्रावकखड्गिभिः ।
नान्योत्कृष्टतमं मन्त्रं मयि बुद्धिः प्रयुज्यते
ईषिस्मितमुखो धीर मञ्जुघोषमथाब्रवीत् ।
अथाह मधुरं वाक्यं शब्दार्थास्पदभूषणम्
एष ते सुवर्णमाख्यातः धर्मस्वामी नरोत्तमः ।
विसृक्षुः सर्वमन्त्राणां धर्मनैरात्म्यदेशकः
जगद्गुरुर्महावाईरो बुद्ध आदित्यबान्धवः ।
प्रणेता सर्वमन्त्राणामग्रमन्त्रेश्वरो वरः
प्रभुरेकमनार्थो धर्मधात्वीश्वरो गुरुः ।
सर्वसत्त्वानुकम्पार्थ अस्माकं च सुखोदयः
धर्मकोटिगतो निष्ठो भूतकोटिमनालयः ।
एष ते सर्वमन्त्राणां कथयन्त्याशु महाद्युतिः
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0