मञ्जुश्रीमूलकल्प · अध्याय 19
इति ।
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रियमूलकल्पात् षोडशपटलविसराद् द्वितीयो ग्रहनक्षत्रलक्षणक्षेत्रज्योतिषज्ञानपरिवर्त पटलविसरः ।
अथ एकोनविंशः पटलविसरः ।
अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म - अस्ति मञ्जुश्रीः तृतीयमपि ज्योतिषज्ञाननियमपरिवर्तं भाषिष्ये पूर्वकैः सम्यक् सम्बुद्धैर्भाषितं चाभ्यनुमोदितं च त्वदीयमन्त्रतन्त्रार्थकल्पितम् । शृणु साधु च सुष्ठु च मनसि कुरु ॥
एवमुक्ते भगवता शाक्यमुनिना मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवां, तेनाञ्जलिं प्रगृह्य, भगवन्तमेतदवोचत् । तत् साधु भगवां भाषतु ज्योतिषज्ञानपटलविसरम् । तद् भविष्यति सत्त्वानामर्थाय हिताय सुखाय । देवमनुष्याणां सर्वमन्त्रचर्यानुप्रविष्टानां च सत्त्वानामनुत्तरायां सम्यक् सम्बोधो, अभिप्रस्थितानां च, उपायकौशल्यमन्त्रचर्या सुखेन साधयिष्यन्ति । सर्वसत्त्वानुकूलं योगविधानकर्मानुकूलं कालनियमनिष्यन्दितकर्मस्वकतां नक्षत्रवारग्रहयोनिक्षेत्रराशिसमोदयाम् । तद् भविष्यति सुखसाधनोपायं मन्त्रानुवर्तनं सुखविपाकं तद् भविष्यति ते बोधिसत्त्वानां विष्पन्दितविकुर्वण ऋद्ध्यधिष्ठानम् ॥
एवमुक्ते मञ्जुश्रिया कुमारभूतेन अथ भगवां मञ्जुश्रियं कुमारभूतमेतदवोचत् । साधु साधु मञ्जुश्रीः! यस्तथागतमेतमर्थं परिपृच्छसे । तेन हि शृणु साधु च सुष्ठु च मनसि कुरु । भाषिष्ये सर्वसत्त्वानामर्थाय । एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवतश्चरणयोर्निपत्य, निषण्णो धर्मश्रवणाय ॥
अथ भगवां सर्वावन्तं शुद्धावासभवनमाभया स्फुरित्वा, सर्वबुद्धावलोकनद्योतनीं नाम समाधिं समापद्यते स्म । समनन्तरसमापन्नस्य भगवतः कायान्नीलपीतावदातमाञ्जिष्ठस्फटिकवर्णादयो रश्मयो निश्चरन्ति स्म । निर्गत्य च सत्त्वानां बुद्धक्षेत्रां अवभास्य, सर्वाणि च ग्रहनक्षत्रयोनिं समाश्रयराशितारां भवनान्यवभास्य, गगनतलगतां नरकतिर्यक्प्रेतदेवभवनमनुष्यसर्वसत्त्वभवनानि चावभास्य सर्वदुःखानि च प्रतिप्रस्रभ्य सर्वसत्त्वानां पुनरेव भगवतः शाक्यमुनेः कार्ये ऽन्तर्द्धीयते स्म ॥
अथ भगवान् शाक्यमुनिस्तस्मात् समाधेर्व्युत्थाय सर्वां तां नक्षत्रग्रहराशिदेवसङ्घानामन्त्रयते स्म । शृण्वन्तु भवन्तः सर्वनक्षत्रदेवसङ्घाः यो ह्यस्मिन् धर्मविनये मन्त्रचर्यायां समनुप्रविष्ट इह कल्पविसरे तत् साधयेत् सर्वमन्त्राणां सर्वद्रव्यकर्मविधानादिषु, न भवद्भिस्तत्र विघ्नं कर्तव्यं सर्वैरेव सन्निपतितैः रक्षाविधानसान्निध्यं कथयितव्यम् । यो ह्येनं समयमतिक्रमेत्, तस्य यमान्तकः क्रोधराजा सर्वनक्षत्रग्रहाणां तत्क्षणादेवमपर्यन्तलोकधातुस्थितानां ससुतानां सबान्धवां सपार्षदानानयति स्म, सर्वेषां च मूर्धनि स्थित्वा पादेनाक्रम्य विविधानि क्रूरकर्मऋद्धिप्रातिहार्याणि दर्शयति स्म, बुद्धाधिष्ठानेन प्राणैर्वियोजयति स्म, समये च स्थापयति स्म, विकृतरूपमात्मानं दर्शयति स्म, अन्ते सर्वभूतयक्षराक्षसनक्षत्रग्रहराशयो निसत्त्वगरुडमरुतमहोरगगणा ( वैद्य 139 ) सर्वैर्भीतास्त्रस्ताः, थरथरायमानाः, महाविक्रोशं कुर्वाणः भगवतः पादयोर्निपत्य प्रकम्प्यमाना एवमाहुः - परित्रायस्व भगवन् परित्रायस्व । सुगत अनाथाः स्म, अत्राणाः स्म, महाक्रोधराज भयभीता जीवितं नो भगवान् समनुप्रयच्छास्माकम् । इत्येवमुक्त्वा तूष्णीम्भूताः प्रवेपमानगात्राः ॥
अथ भगवान् शाक्यमुनिः । तां नक्षत्रग्रहसङ्घातांश्च यक्षराक्षसप्रेतपिशाचमातरगणानामन्त्रयते स्म । मा भैष्टथ मार्षाः भो भैष्टथ मार्षाः नास्ति अथागतानामन्तिक उपसङ्क्रान्तानां भयं वा मरणं वा । सर्वदुःखा निवार्यो हि मार्षाः बुद्धं शरणं गच्छेद्, विपदानामग्र्यं धर्मं शरणं गच्छेद्, विरागाणामग्र्यं सङ्घं शरणं गच्छेद्, गणानामग्र्यं न तस्य भवति लोमहर्षम् । वाञ्छन्ति तत्त्वो वाकः पुनर्वादो मृत्युभयं सर्वभयदुःखेभ्यो मुक्त एव द्रष्टव्यः । सर्वसांसारिकं भयं न कदाचिद् विद्यते । दुःखोपशमं शान्तिं निज्वरं सन्नियतं बोधिपरायणं पदमवाप्नुयादिति ॥
अथ तत्क्षणादेव भगवता तेषां सर्वदुःखानि ऋद्ध्या प्रतिप्रमुग्धानीति यमान्तकश्च क्रोधराजा भगवतश्चरणयोर्निपत्य, मञ्जुश्रियस्य कुमारभूतस्य समीपे सन्निषण्णो धर्मश्रवणाय । सर्वे च ते ग्रहनक्षत्रगणाः सर्वदुःखानि च प्रतिप्रस्रभ्यन्ते स्म । सर्वश्च केतवो प्रशान्ता निषण्णाश्च धर्मश्रवणाय स्वस्थीभूता एकाग्रमनसो भगवन्तं व्यवलोकमाना विस्मयोत्फुल्लनयना + द्विल्पमनसश्च संवृत्ता अभूवं ॥
अथ भगवता लोकानुकम्पार्थं तथा तथा धर्मदेशना कृता चतुरार्यसत्यसम्प्रयुक्ता यथा यथा तैः सत्त्वैः कैश्चित् सत्यानि दृष्टानि कैश्चिदर्हत्वं कृतम्, कैश्चित् प्रत्येकबोधः, कैश्चिदनुत्तरायां सम्यक् सम्बोधौ चित्तान्युत्पादितानि, सर्वं च नियताव्याकृतानुत्तरायां सम्यक् सम्बोधौ, सर्वैश्च पिथितान्यपापदुर्गतिविनिपातानि देवमनुष्योपपत्तौ द्वाराण्युत्पादितानि, स्वर्गार्गलमपावृतम् । सर्वे च समयमधितिष्ठन्ति ॥
अथ भगवान् शाक्यमुनिस्तेषामनुशयं ज्ञात्वा, विनयकालसमयमनन्तरमेव तेषां विनीतां सत्त्वां ज्ञात्वा, धर्मं भाषते स्म ॥
अरिदुःखसमाक्रान्तं दोषजं विनिधाश्रयम् ।
अभावो देवगणाः सर्वे पृज्यन्ते शासने इह
आरभध्वं परं वीर्यं बोधिसोपानहेतुकम् ।
प्राप्नुयादेव सङ्घाताः शान्तनिज्वरमालयम्
अशोकं विरजं क्षेमं निर्वाणं वापि नैष्ठिकम् ।
निर्मलं गगनतुल्याख्यं अभावं तु स्वभाविकम्
परं प्राप्स्यथानिन्दितं दिव्यं सुजुष्टमनावृतम् ।
अनित्यदुःखशून्यार्थमनात्मं तु समोदितम् ।
भावयन्तो दिवा सर्वं प्राप्स्यन्ते चैव नैष्ठिकमिति
मन्त्रतन्त्राभिधानेन चर्या चैव सुखोदया ।
कथिता जिनवरैः श्रेष्ठा मन्त्रसिद्धिरुदाहृता
उपायं सत्त्वानां अग्रे नियोगेनैव धीमतैः ।
कथिता मन्त्रसिद्धिस्तु फलकाले समोदये
विचित्रं कर्मणां जाति विचित्रेव योजिता ।
विचित्रा कर्मतः सिद्धिर्विचित्रं कर्मयोनिजम्
विचित्रा चित्ररूपेण मन्त्रैरेभिर्नियोजिता ।
विचित्रार्थाः कर्मविस्तरा विचित्रं कर्म उच्यते
कर्म चिन्त्या तथा चित्रं अचिन्त्यं चापि चिन्तितम् ।
तस्मात् प्रारम्भन्मन्त्री मन्त्रचित्रेषु पुष्कलाम्
राशयः कथिताश्चित्रा तेषु जाता नरा सदा ।
सदेवासुरमुख्यास्तु विविधा प्राणिविहङ्गमा
तेषां च यानि चिह्नानि तानि सिद्धिषु योजयेत् ।
मेषराशौ तथा जातः मनुजा वा दिवौकसा
बह्वपत्यो बहुभाष्यो सुरूपश्चापि जायते ।
वणिक् शीली तथा शूरः मनुजः स्त्रीषु वर्णितः
वक्रो लुब्धचित्तश्च भूपतिर्गृहसेविनः ।
तत्रस्थश्चन्द्रमा प्रोक्तः सर्वकर्मे प्रयोजयेत्
आदित्यो यदि दृश्येत मेपराशिसमाश्रितः ।
तत्र कर्म सदा सिद्धि क्रूरकर्मसुयोजिताम्
यानं गमनं चैव आसनं शयनं सदा ।
न भजेत् तन्त्रमन्त्रज्ञो विरुद्धा सर्वयोगिभिः ।
तत्र जातः सदा मर्त्यो मन्त्रं देयाभिचारुकम्
वृषराशौ तदा जातो मनुजो भोगवान्सदा ।
स्त्रीषु कान्तः सदा लुब्धः धर्माधर्मविचारकः
ग्राम्यसेवी सदाध्यक्षो देवराङ्गानि बोधताम् ।
तत्रस्थश्चन्द्रमा जातो धार्मिको ऽसौ सुरेश्वरः
भवेत् तस्य चित्तं वै राज्यमाश्रयता सदा ।
तस्य मन्त्रा सदा देया चैत्या जिनभाषितः
तेन चन्द्रार्थयुक्तेनराश्रयो ऽर्थनिबोधिताः ।
गमनागमनं कर्म स्मश्रुकर्म च युक्तिमाम्
आचरेद् ग्रहकर्माणि न कुर्याद्याभिचारुकम् ।
सर्वकर्मसमुद्योगं मन्त्रसिद्धिसुखोदयम्
आलिखेन्मण्डलादीनां बुद्धबिम्बांश्च कारयेत् ।
सिद्धद्रव्यसुराश्रेष्टा साध्यमाना दिवौकसा ।
सिध्यन्ते मन्त्रिभिर्युक्ता नक्षत्रेष्वेव रिसिषु
मिथुनायां यदा जातो मानुषो ऽथ दिवौकसः ।
तेषां च गतिचिह्नानि सिद्धिकालं निबोधताम्
आढ्यो उद्युक्तचित्तश्च शठो मूर्खो ऽथ जायते ।
तत्रस्थो यदि विख्यातः नक्षत्रा निशि भूषणम्
ततः कान्तो कवेन्मर्त्यो बन्धूनां वल्लभः सदा ।
धनाढ्यो युक्तिमन्तश्च महेशाख्यो ऽथ जायते
शेषै ग्रहैः क्रूरैस्तु विविधैश्चापि कुत्सितैः ।
जायते धूर्त्तरागार्त्तः व्याधिभिश्च समाकुलः
नेदद्युस्तस्य मन्त्रा वै शान्तिकं पौष्टिकं परम् ।
क्षुद्रां कश्मलांश्चैव क्रव्यादां पिशिताशिनाम् ।
क्रूरै ग्रहमुख्यैस्तु दर्शनाश्च भवेत् सदा
एतेषां मन्त्रसिध्यर्थं क्रूरकर्मेषु योजये ।
निषिअद्धं गमनं तत्र अग्रपञ्चविवर्जितम्
गमनागमनयोस्तत्र न सिद्धिः सर्वकर्मसु ।
क्षुद्रकर्म तथा तेषां दद्यः सर्वतो जाना
सिताख्यौ ग्रहमुख्यौ तौ पातकौ द्वे परे ऽपरौ ।
चतुर्था ग्रहमुख्यानां दर्शनं श्रेयसोद्भवम्
उभौ रक्तौ उभौ कृष्णौ दर्शनं क्रूरकर्मिणाम् ।
सितौ शुक्लेन्दुमुख्यौ तौ पीतकौ बुधबृहस्पतौ
अर्काङ्गारकश्चैव रक्तौ तौ दिशि भूमिजौ ।
षण्डो राहो तथा कृष्णौ विचित्रा शेषका ग्रहा
नानाग्रहगृहा प्रोक्ता विचित्रा धातुसुभूषिताः ।
विचित्राकृतयः केचिद् विचित्रप्रहरणोद्यता
नानाधातुगणाध्यक्षा नानाऋषिपुरातनै ।
शिष्यन्ते ग्रहाणां सर्वं अप्सराभिश्च किन्नरैः
गगनस्था वर्णतो याता गतियोनिविदिता ।
अन्तरीक्षचराः सर्वे नक्षत्रैः सहचारिणः
व्योम्नि धानसमायाता विचित्रा गतिचेष्टिता ।
महर्द्धिका प्रभावतः गत्या रूपवेषसमाश्रयात्
कथिता मुनिवरैः सर्वैः कर्मतत्त्वार्थयोजिताः ।
चतुर्थे ऽहनि संयुक्ताश्चतुःसत्त्वनियोजिताः
चत्वारो ग्रहवरा प्रोक्ता सितो पीतो ऽर्थसाधकाः ।
शेषाः क्रूरकर्मसु रक्तौ कृष्णौ च योजितौ
नाचरेत् सर्वकर्माणि शान्तिकानि विशेषतः ।
कृष्णरक्तौ ग्रहौ ह्येतौ तिथौ चापि चतुर्दशी
नाचरेत् सर्वकार्याणि क्षुद्रकर्माणि साधयेत् ।
मानुषे साधयेदर्थी गणनामे शुभोदयाम्
तैरेव कारयेत् क्षिप्रं आसनं शयनं सदा ।
मन्दिरं च विशेद्धीमां सर्वदुर्गाणि कारयेत्
कर्कटराशिजातस्थो दृश्यते मनुजाः शुभः ।
शास्ता च भवेत् क्षिप्रं राजानश्चक्रवर्तिनः
भवन्ते जन्मिनो बोधो पूर्वकर्मसमुद्भवैः ।
शुक्रेन्द्रग्रहमुख्यानां दर्शनं चैव जायताम्
शुभे ऽहनि शुभे देशे बोधिसत्त्व अजायत ।
पुष्यनक्षत्रयोगेन जायन्ते मरुपूजिता
बुद्धास्त्रैलोक्यगुरवो ऽन्ये ऽपि महर्द्धिकाः ।
राज्यकर्त्ता निकृन्ता च बहुप्राणिनराधिपाः
जायन्ते विविधा लोके शन्यर्काङ्गारचिह्निताः ।
केचिज्जनभूयिष्ठा मर्त्या कर्मपरायणा
जायन्ते विविधाचारा पुष्ये जातापि ते सदा ।
तस्मात् कर्मफलं विद्धि गतिमात्मानचेष्टिता
केवलं तु सदाचारा ग्रहकर्मनियोजिता ।
लोकधर्मानपेक्षेह निर्दिशन्ति तथा जिनाः
कर्म लोकवैचित्र्यं लोकधातुसमाधिजम् ।
भाजनं सर्वलोकनामाश्रयोद्भवसम्भवम्
विचित्रं कथितं लोके सुराः श्रेष्ठां निबोधताम् ।
कर्मजं हि पुरा प्यासी कथयामास वत्सलः
सत्त्वसाधारणा धीमां बोधिसत्त्वो महर्द्धिकः ।
मञ्जुघोषस्तदा वव्रे सत्त्वानां हितकाम्यया
कर्मजं कथितं सर्वं मन्त्रतन्त्रसविस्तरम् ।
एषो वः सुराः सर्वे धर्मो ह्येकेन यः सदा
कर्कटो राशिजातस्य दद्यान्मन्त्रं तु पौष्टिकम् ।
ततः परेण सिंहस्य राशिर्दृश्यति मानवाम्
सिंहजातो भवेन्मर्त्य अशून् लुब्ध एव तु ।
स्त्रीशठो मांसभोजी स्याद् गिरिकन्दरवासिनः
सेनापत्य तथा नित्यं कारयेच्च वसुन्धराम् ।
महीपालो महाध्यक्षः क्रूरकर्मा सदा शुचिः
कृतघ्नः कृतमन्त्रश्च पापकर्मसदारतः ।
मित्रद्रोही सदा लुब्धः शठश्चैवमजायत
ग्रहैश्चापि सदा दृष्टा सितैः पीतैश्च धीमतैः ।
जायते धार्मिकस्तत्र कृष्णैश्चापि शठः स्मृतः
तत्र कर्म समुद्दिष्टं पौष्टिकं सिद्धिलिप्सिताम् ।
उत्तिष्ठं खेचरं चापि अतिमानसमोद्गतम्
नान्यं कर्म समुद्वेतं समानं चापि वर्जयेत् ।
ततः परेण सिंहस्य कन्यराशिरिति स्मृतः
तत्र जातो भवेद्धूर्तस्तस्करः कृपणः शठः ।
स्त्रीषु कान्तः सदा लुब्धः क्रूरः साहसिकः सदा
मूर्खः परदारी च स्तब्धो मानोन्नतः सदा ।
शुभनक्षत्रवारेण शुभदृष्टिग्रहोदितैः
पीतशुक्लैर्ग्रहैर्दृष्टा जायन्ते च महाधनाः ।
शुद्धमन्त्रः सदा धीमान् शुचिवृत्तिसमाश्रये
सम्भूता मन्त्रतन्त्राश्च साधयेत् महीतले ।
क्षिप्रमर्थकरा ये तु पुष्ट्यर्था ये तु कीर्तिता
साधयेन्मन्त्रवित् सर्वां जिनाङ्गीकुलयोरपि ।
जिनेन्द्रमुख्या ये मन्त्रा बहुधा चापि कीर्तिता
साधयेन्मन्त्रवित् सर्वां राश्यर्थेष्वेव जातिषु ।
ततः परेण भवेद् राशिः तुलानामनि कीर्तिता
प्रसिद्धां कर्मभूयिष्ठां तन्नासेवेत् तदाश्रिताम् ।
तुलायां जायते धीमान्मन्त्रसिद्धिषु योजितः
न कारयेत् साधनां सर्वां उत्तिष्ठं भूनिबन्धनाम् ।
सर्वमन्त्रप्रसिद्ध्यर्थं गतियोनिषु आचरेत्
धूर्तः कृपणो लुब्धः मत्सरी चैव जायते ।
तुलायां राशिजातस्थो दृश्यते च सदा रतः
तं कुर्यात् सदा मन्त्री तस्मिं राशौ समासृतः ।
यं न चाचक्षते लोके भूमिरर्थार्थसम्पदाम्
ग्रहमुख्ये तदा जातो पीतैः शुक्लैश्च सर्वतः ।
न भजेन्मन्त्रसिद्धिं च यत्नरक्षार्थसम्पदे
क्षणमात्रे तथा सर्वं साध्यन्तं नियोजितैः ।
शुभैर्ग्रहैर्यदा दृष्टः पीतैः शुक्लैश्च सर्वतः
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0