भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 20

20.1

महात्मा जायते शूरः धार्मिको ऽथ नराधिपः ।
क्रूरतरैर्ग्रहैर्दृष्टः शन्यर्काङ्गारसिंहजैः ॥ म्म्क्_19.71(="80") ॥
तुलाया जातराश्यर्थः मत्सरो भवते पुमां ।
बहुरोगो दरिद्रश्च व्याधिरोगार्तसमुद्भवम् ॥ म्म्क्_19.72(="81") ॥
प्रचण्डः सर्वकर्मेषु क्रूरः साहसिकः सदा ।
न भजेच्छान्तिकर्माणि जिनतत्त्वाङ्गभाषितम् ॥ म्म्क्_19.73(="82") ॥
रौद्रं कुरुते कर्मां वज्रिणे समुदयोदिताम् ।
आभिचारुककर्माणि नानायुद्धकृतानि तु ॥ म्म्क्_19.74(="83") ॥
तस्मिं राशौ सदा तत्र कुले तत्र समुद्भवे ।
कुत्सिता जिनवरैः कर्म सिद्धिमायाति तत्र तु ॥ म्म्क्_19.75(="84") ॥
प्रधानगुणविस्तारं प्रभावं चापि वर्जयेत् ।
प्रवासगमनं चैव नाचरेद्दिशि माशुजम् ॥ म्म्क्_19.76(="85") ॥
मन्दरं वाहनं चापि सत्त्वधातुकृताकृतम् ।
नाचरेत् सर्वकर्माणि तस्मिं राशौ दिवाकरे ॥ म्म्क्_19.77(="86") ॥
वृश्चिकात्तु समुत्पादे सत्त्वयोनि समाश्रयेत् ।
भवते लिङ्गवैचित्र्यं कथ्यमानं निबोधताम् ॥ म्म्क्_19.78(="87") ॥
तीव्रः साहसिकः क्रूरो दुर्धर्षो मानदर्पितः ।
वक्रो लुब्धस्तथा मर्त्यो जायते वसुधातले ॥ म्म्क्_19.79(="88") ॥
प्राज्ञो धार्मिको विद्वान् वक्रश्चैव दुरासदः ।
स्त्रीषु कान्तो भवेन्मर्त्यः कृतज्ञो दृढपराक्रमः ॥ म्म्क्_19.80(="89") ॥
तन्त्रमन्त्रसदोद्युक्तः सेवायां गुरुपूजकः ।
दर्शनं ग्रहमुख्यानां शुक्रचन्द्रबुधो गुरुः ॥ म्म्क्_19.81(="90") ॥
प्रशस्तं श्रेयसं लक्ष्यं आयुरारोग्यवर्द्धनम् ।
तेषां दर्शनसिद्ध्यर्थं मन्त्रिणामूर्ध्वसाधने ॥ म्म्क्_19.82(="91") ॥
शन्यर्काङ्गारकौ राहुः पश्यति तं नरं यदा ।
क्रूरः साहसिको वक्रो जायते रौद्रकर्मकृत् ॥ म्म्क्_19.83(="92") ॥
तेषां च वज्रिणे मन्त्राः सिद्ध्यन्ते क्रूरकर्मिणाम् ।
नागच्छेत् सर्वतो मर्त्यो दिनेष्वेव सुकुत्सितैः ॥ म्म्क्_19.84(="93") ॥
ततः परेण धन्वाख्यं राशिमुक्तं तथागतैः ।
जायन्ते बहुधा मर्त्या गतिदेशसमाश्रयात् ॥ म्म्क्_19.85(="94") ॥
अन्ते च शोभनाः सर्वे बाल्या दुःखभागिनः ।
यथाविभागनिर्देशा आयुषः परिकीर्तिताः ॥ म्म्क्_19.86(="95") ॥
तथा धनार्थनिष्पत्तिं वाचिष्ये अर्थसम्पदाम् ।
स्वयोनिं नाशयेन्नित्यं परयोनिं विवर्द्धयेत् ॥ म्म्क्_19.87(="96") ॥
वहपत्यो बहुभाष्य बहुरागरतिप्रियः ।
असंयतो भवेन्मर्त्यः धनूराशिसमाश्रयात् ॥ म्म्क्_19.88(="97") ॥
प्रभुः श्रीमां सदा दक्षो धार्मिको वापि जायते ।
दर्शनं यदि मुख्यानां ग्रहाणां सितपीतकाम् ॥ म्म्क्_19.89(="98") ॥
तेषामाचरेन्मन्त्रा नानाप्रहरणोद्भवाम् ।
नानाशस्त्रफला वापि वस्त्रभूषणवाहना ॥ म्म्क्_19.90(="99") ॥
नानाधातुकृतांश्चैव नानाधातुफलोद्भवाम् ।
सिद्ध्यन्ते तस्य मन्त्रं वै मुनिजुष्टाङ्गसम्भवा ॥ म्म्क्_19.91(="100") ॥
ततः परेण कर्माणि सर्वद्रव्यैस्तु कारयेत् ।
प्रसवेत् सर्वतो मन्त्री गतिदेशनिरत्ययाम् ॥ म्म्क्_19.92(="101") ॥
स्वालयं वाहनम् चापि स्वसुतां च निवेशनम् ।
भुषजं सर्वमिष्टं तु महार्थं चोर्ध्वगामिनम् ॥ म्म्क्_19.93(="102") ॥
सिद्धये तस्य मुक्तात्मा क्षिप्रमेव करे स्थिता ।
ततः परेण राश्यायां मकरस्थो दृश्यते सम ॥ म्म्क्_19.94(="103") ॥
तेषु जातः सदा मर्त्यः लिङ्गैरेतैर्हि लक्षयेत् ।
मातृभक्तो पितृभक्तश्च ख्यातो बहुमतः प्रभुः ॥ म्म्क्_19.95(="104") ॥
दुःसहः सर्वदुःखानामाढ्यो ऽपि धनसञ्चकः ।
कृपणो लुब्धचित्तश्च शठश्चैवमजायत ॥ म्म्क्_19.96(="105") ॥
शुक्रेन्द्रग्रहदृष्टानां सर्वसम्पत्ति जायते ।
कृष्णरक्तग्रहा ये तु क्रूरकर्मा तु पूर्ववत् ॥ म्म्क्_19.97(="106") ॥
नागच्छेत् तत्र मन्त्रज्ञः विदिशां चैव सर्वतः ।
दुष्टां साधयेत् कर्मां अनिष्टं चैव वर्जयेत् ॥ म्म्क्_19.98(="107") ॥
वमनगमनं चैव उत्तरां दिशिमाश्रयेत् ।
महासमुद्रार्थगतां द्रव्यां नौयानमाविशेत् ॥ म्म्क्_19.99(="108") ॥
प्राप्नुयात् सम्पदां तत्र निम्नमाध्यक्षदेशजम् ।
ततः परेण कुम्भेति मकरात् समुदितात् परः ॥ म्म्क्_19.100(="109") ॥
कुम्भराशिसमाख्येया सत्त्वजाताश्रया सदा ।
बहुधा बहुलिङ्गास्तु कथिता ते नरोत्तमैः ॥ म्म्क्_19.101(="110") ॥
विचित्रा चित्ररूपास्तु वर्णजातिसमाश्रयात् ।
श्यामवर्णो विशालाक्षो जायन्ते बहुमता नराः ॥ म्म्क्_19.102(="111") ॥
मैथुनाशक्तवस्ते तु ग्राम्यधर्मार्थचिन्तकाः ।
कृतज्ञा धार्मिका प्रोक्ता मन्त्रजाः कुम्भराशयः ॥ म्म्क्_19.103(="112") ॥
शुक्लपीता ग्रहा दृष्टा लोके ऽस्मिन् सम्प्रपूजिताः ।
कृष्णरक्ता ग्रहा ये तु दृष्टजातिसमोदया ॥ म्म्क्_19.104(="113") ॥
व्यङ्गा कृपणयो मूर्खा चपलाः तस्करावहा ।
बहुरोगा दरिद्राश्च जायन्ते मानवा सदा ॥ म्म्क्_19.105(="114") ॥
तेषां न कारयेत् कर्म उत्तमं मुनिपूजितम् ।
अङ्गार्थसम्भवा येन दद्युः सर्वकर्मसु ॥ म्म्क्_19.106(="115") ॥
न गच्छेत् प्राप्य तीरान्तं अतो नैवापि वर्णितम् ।
कुर्यात् वज्रकुले कर्म मन्त्रसिद्धिलिलिप्सया ॥ म्म्क्_19.107(="116") ॥
क्रूरं क्रूरकर्मान्तं स्फट् हुङ्कारभूषितम् ।
मन्त्रं साधयेच्चात्र क्रोधराजसुयोजितम् ।
सिद्ध्यन्ते पापकर्मास्तु रौद्रकर्मासु योजिता ॥ म्म्क्_19.108(="117") ॥
ततः परेण मीनेति राशिरुक्ता तथागतैः ।
तत्रस्था मानवाः सर्वे दृश्यन्ते बहुलिङ्गिनः ॥ म्म्क्_19.109(="118") ॥
मीनराशिसमाजाता रूपाण्येतानि समुद्भवैः ।
प्रभुर्मानधीः श्रीमां भोगसम्पच्छतान्वितः ।
प्रभवः सर्वलोकानां जायते ऽसौ महीतले ॥ म्म्क्_19.110(="119") ॥
क्षिप्रमर्थकरो धीमां नराधिपो ऽथ अजायत ।
शुक्रेन्दुदर्शनाज्जातः भवेल्लोके नरोत्तमः ॥ म्म्क्_19.111(="120") ॥
दर्शनाद् बुधजीवानां धनाढ्यो ऽथमजायत ।
प्रांशुमूर्त्तिर्विशालाक्षः स्त्रीषु कान्तो भवेत् सदा ॥ म्म्क्_19.112(="121") ॥
बह्वमित्रो नराध्यक्षः कुटिलश्चैवमजायत ।
बहुमित्रो ऽथ शुक्रश्च जायते मित्रवत्सलः ॥ म्म्क्_19.113(="122") ॥
ततः परेण क्रूरो वै ग्रहमुख्यो दिवाकरः ।
पश्यते यद्यसौ मर्त्यान् शनिराहुसु भूमिजा ॥ म्म्क्_19.114(="123") ॥
तदा कष्टमिति ध्वजः क्रूरश्चैव जायते ।
पूर्ववत् कथिता ह्येते ग्रहाः कृष्णान्तशुक्लयोः ॥ म्म्क्_19.115(="124") ॥
कुर्यात् सर्वकर्माणि मीनराशिसमाश्रयाः ।
तत्रस्थश्चन्द्रमां पश्येत् सर्वांश्चैव साधयेत् ॥ म्म्क्_19.116(="125") ॥
अतः परेण राशीनां गजमानुषमानुषाम् ।
गन्धर्वा राक्षसा गरुडाश्चापि पन्नगाः ॥ म्म्क्_19.117(="126") ॥
तेषां स्वरूपतो जातिगतिदेशमचिह्नितः ।
मना उद्भवस्तेषां लिङ्गैरेवैस्तु लक्षयेत् ॥ म्म्क्_19.118(="127") ॥
यथा सत्त्वप्रकृतिश्च तथा लिङ्गं विभाष्यते ।
स्वमन्त्रा भाषिता ह्येतैः तेषां चैव नियोजयेत् ॥ म्म्क्_19.119(="128") ॥
राशयः कथिता लोके द्वादशैव गणोद्भवाः ।
गणिता ग्रहमुख्यैस्तु नक्षत्रैस्तु नियोजिताः ॥ म्म्क्_19.120(="129") ॥
संक्षेपात् कथिता ह्येते कथ्यमानातिविस्तरा ।
मानुषाणां तदा चक्रे नक्षत्रे ग्रहमण्डलैः ॥ म्म्क्_19.121(="130") ॥

अत ऊर्ध्वं तु देवानां ऋषीणां च महर्द्धिकम् ।
ज्ञानं प्रवर्त्तते तत्र एतन्मानुषचेष्टितम् ॥ म्म्क्_19.122(="131") ॥
अचिन्त्या बुद्धधर्माणां ज्ञानदृष्टि नरोत्तमाम् ।
साधयेत् सर्वमन्त्रज्ञः राशिजातौ समुद्भवा ॥ म्म्क्_19.123(="132") ॥
+ रनक्षत्रां तिथयो नित्यं शुक्लपक्षे समाचरेत् ।
सिद्धिस्तेषु सदा प्रोक्ता कृष्णे कृष्णकर्मिणाम् ॥ म्म्क्_19.124(="133") ॥
ग्रहैः सितैः पीतैः दिनैश्चैव समाचरेत् ।
शुक्लपूर्णगता चन्द्रे पौर्णमास्येषु योजयेत् ॥ म्म्क्_19.125(="134") ॥
प्रतिपच्छुक्लपक्षे तु तृतीये चैव रोचयेत् ।
पञ्चमी सप्तमी चैव दशम्येकादशोद्भवाम् ॥ म्म्क्_19.126(="135") ॥
त्रयोदश्यां तथा शुक्ले सर्वकर्माणि आचरेत् ।
पुष्ट्यर्थं शान्तियोगं च गमनागमनं शुभाशुभम् ॥ म्म्क्_19.127(="136") ॥
आलोख्या मन्त्रतन्त्रस्थं नृत्यगीतरतिः सदा ।
भूषणं यानमावासं क्षुरकर्मं च धीमता ॥ म्म्क्_19.128(="137") ॥
प्रयोक्ताः सर्वतो विद्वां मर्त्यैश्चापि श्रीमतैः ।
भोगसम्पत्सदासिद्धिरिष्टसत्त्वसमागमम् ॥ म्म्क्_19.129(="138") ॥
निर्दिष्टं मुनिमुख्यैस्तु अन्य अन्यकर्माणि अन्यतः ।
धनार्थिभिः श्रीमतैः क्षिप्रं कुर्यान्मन्त्रार्थसाधनम् ॥ म्म्क्_19.130(="139") ॥
+ + + + + + + + + चन्द्रशुक्रगुरुर्बुधैः ।
वारैर्ग्रहवरैर्दिव्यैः सुपूजितैः शुचिमङ्गलैः ॥ म्म्क्_19.131(="140") ॥
तिथियुक्तैः समासेन निर्दिष्टैश्चापि भावयेत् ।
घोरैर्घोररूपैस्तु ग्रहैर्मन्त्रैस्तिथिभिः सदा ॥ म्म्क्_19.132(="141") ॥
आचरेद् रौद्रकर्माणि कृष्णे कृष्णकर्मिणाम् ।
गतिदेशसमासं च युक्तिमन्त्रार्थसाधने ॥ म्म्क्_19.133(="142॥
ग्रहा") राश्यर्थनक्षत्रा तिथयश्च समोदिता ।
कर्मसिद्धिप्रभावं च नियमं सर्वकर्मसु ॥ म्म्क्_19.134(="143") ॥
इति ।
बोधिसत्त्वपिटकावतसंकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पात् सप्तदशमः पटलविसरात् तृतीयो ज्योतिषज्ञानपटलविसरः परिसमाप्त इति ।
अथ विंशः पटलविसरः ।
अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीस्त्वदीयकल्पविसरे सर्वभयोत्पादनिमित्तनिर्घातगतानि आश्चर्यनिमित्तलिङ्गानि कथयन्ति शुभाशुभं सुभिक्षदुर्भिक्षपरराष्ट्रगमनं अनावृष्टिमतिवृष्टिं सत्त्वानां सूचयन्ति महासाधनादिषु यो विघ्नं कारयन्ति ततो साधकेन च मन्तव्यं साध्यासाध्यानि च तस्मिं देशे कर्तव्यमकर्तव्येति ज्ञातव्यम् । ततो यदि न शोभनानि निमित्तानि भवन्ति तस्माद् देशादपक्रम्य अन्यत्र गत्वा साधयितव्यानि । अथ चेच्छोभनानि निमित्तानि भवन्ति । तस्मिन्नेव देशे साधयितव्यानि । तत्रैव च स्थातव्यम् । एवं ज्ञात्वा साधकेन मन्त्रचर्याभियुक्तेन कर्तव्यमकर्तव्यमिति मन्त्रचर्यायां निमित्तानि ज्ञात्वा शुभाशुभं बोद्धव्यमिति ॥
अथ खलु मञ्जुश्रीः कुमारभूतो भगवतः पादयोर्निपत्य पुनरप्येवमाह - तत् साधु भगवां देशयतु निमित्तज्ञानपरिवर्तविसरम् । तद् भविष्यति सर्वसत्त्वानां हिताय सुखाय सर्वमन्त्रचर्याभियुक्तानां बोधिसत्त्वानां महासत्त्वानां शुभाशुभफलोदयनिमित्तलिङ्गानि । यस्ते सर्वसत्त्वा मन्त्रचर्यानुप्रविष्टा साध्यासाध्यं कालनिमित्तं ज्ञात्वा स्थातव्यं, प्रक्रमितव्यमिति पश्यन्ते ॥
एवमुक्ते भगवां शाक्यमुनिः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । तेन हि मञ्जुश्रीः शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये ऽहं ते ॥
आदौ तावद् भवेल्लिङ्गमुत्पातानां समोदयम् ।
महद् भयमनादिस्थममानुषाणां तु चेष्टितम्

20.2

सर्वे च ग्रहनक्षत्राः कूष्माण्डा ग्रहराक्षसाः ।
मातरा देवताश्चैव सर्वे प्रेता महर्द्धिकाः

20.3

दर्शयन्ति तदा लिङ्गं महोत्पातानां च सम्भवे ।
आदिमन्तं ततो मध्यं अशुभं चैव ते तदा

20.4

भूमिस्थितिर्नाशकं च कथयन्ति विविधाश्रयात् ।
सर्वमानुषसत्त्वेषु भूतले ऽस्मिन्निबोधताम्

20.5

कबन्धा विविधाश्चापि पक्षिणश्च समाकुलाः ।
दृश्यन्ते सर्वतो लोके तस्माद् देशादपक्रमेत्

20.6

रात्रौ शक्रायुधं दृष्ट्वा धनुश्चापि विशेषतः ।
शरनाराचपाशाश्च विविधा प्रहरणोद्भवाः ।
दृश्यन्ते गगनाद् रात्रौ तस्माद् देशादपक्रमेत्

20.7

चन्द्रबिम्बे यदाकाशे दृश्यन्ते विकृतरूपिणः ।
कबन्धा पुत्तलाश्चैव नृत्यन्ता गगनालये ।
सुषिरं छिद्रमित्याहुर्दृश्यते शशिमण्डले

20.8

पुरुषा उच्चनीचाश्च युध्यन्तां शशिमण्डले ।
दृश्येयुर्मानुषे लोके तस्माद् देशादपक्रमेत्

20.9

विविधा प्राणहराश्चापि नानाभूतगणास्तथा ।
नृत्यमानाश्च युध्येयुस्तस्माद् देशादपक्रमेत्

20.10

मण्डलाकारंसङ्काशं दृश्यस्थः शशिमण्डलम् ।
तादृशं तु ततो दृष्ट्वा तस्माद् देशादपक्रमेत्

20.11

युद्ध्यन्तां सर्वसङ्ख्यांश्च दृश्यन्ते शशिमण्डले ।
एकस्तत्र पतेत् क्षिप्रं यस्य यो दिशिमाश्रितः ।
तं देवदिशिमित्याहुः भूपतिर्मृयते ध्रूवम्

20.12

तादृशं दृष्ट्वा सत्त्वाख्यं विविधाकारसम्भवम् ।
अचिरात् तत्र भयात् क्षिप्रं तस्माद् देशादपक्रमेत्

20.13

शरनाराचशक्तिश्च दृष्ट्वा तत्र निशाकरे ।
तस्करोपद्रवं क्षिप्रं शस्त्रसम्पातजं भयम्

20.14

दृष्ट्वा विकृतरूपास्तु नानासत्त्वसमाश्रयाम् ।
रात्रौ भूतले चन्द्रे तस्माद् देशादपक्रमेत्

20.15

कृष्णवर्णा विहङ्गास्तु शुक्ला चैव सपीतलाः ।
रक्ताश्चैव तथा धूम्राः स्वभावविकृताश्रया

20.16

ते वै विवर्णवर्णास्तु दृश्यन्ते भूतले यदा ।
तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत्

20.17

शुक्ला पक्षा भवेत् कृष्णा कृष्णा पक्षा तथा सिता ।
दृश्यन्ते विकृतरूपास्तु विहङ्गाश्चैव महीतले ।
तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत्

20.18

मृगक्रोष्टुकगणाः सर्वे प्रविशेयुर्ग्राममालयम् ।
श्वापदा व्यालिनो धूर्ता म्लेच्छोपद्रवतस्कराः

20.19

भवेयुर्भयकृतं तेषां दुर्भिक्षं वापि वर्णितम् ।
विविधा भूतगणाश्चापि दृश्यन्ते तु महीतले

20.20

विकृताविकृतरूपिण्यः यक्षराक्षसकिन्नराः ।
दिवा रात्रौ तथा नित्यं नृत्यन्ते च महीतले ।
तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत्

20.21

नरनारीकुमारांश्च क्रन्देयुर्भृशं भूतले ।
रात्रौ दिवा तथा नित्यं व्याधिस्तत्र मिहागमः

20.22

उरगा विकृतबीभत्सा दृश्यन्ते वसुधातले ।
गृहे रथ्ये तथा भिन्ध्या मन्दिरे वृक्षसन्निधौ ।
सर्वतो व्याप्य तिष्ठन्ते भवेत् तत्र महाभयेम्

20.23

महामार्योपसर्गं च विषविस्फोटमूर्च्छनम् ।
दुर्भिक्षं राष्ट्रभङ्गं च भवेत् तत्र जनागमे

20.24

विकृताविकृतबीभत्सा पक्षिणश्वानक्रोष्टुका ।
ऊर्ध्वतुण्डा यदाकाशे रवन्ते विकृतानना

20.25

अर्धरात्रौ तु मध्याह्ने उभे मर्त्ये च कुत्सिता ।
भवेन्महाभयं क्षिप्रं परचक्रसमागमम्

20.26

दुर्भिक्षमतिवृष्टिश्च भवेत् तत्र समासतः ।
मासमेकेन सप्ताहान्महादुःखोपपीडिताः

20.27

अन्योन्यं भूतले वासा मानुषा तस्कराग्निना ।
महाशस्त्रभयं तत्र तस्माद् देशादपक्रमेत्

20.28

गगनस्था सर्वतो मेघा दृश्यन्ते च वक्रसम्भवा ।
स्फुटाकाराथ रौद्राश्च तीव्रगर्जननादिनः

20.29

सप्तस्फुटा द्विश्चतुर्वा च दृश्यन्ते उरगाश्रयाः ।
सुघोरा घोरवक्राश्च दृश्यन्ते गगनाश्रया

20.30

तादृशं लक्षणं दृष्ट्वा अचिअरात् तत्र महाभयम् ।
महामार्योपद्रवं च ज्वरो व्याधिः रोगाश्चैव महाभयाः

20.31

सद्यः प्राणहराः क्षिप्रं विषाः स्थावरजङ्गमाः ।
उत्सृजन्ति तदा मेघां तदा वृष्टिं च दारुणम्

20.32

नश्यते भूतयस्तत्र अन्योन्या निरपेक्षिणः ।
तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत्

20.33

महाप्रपातदुर्भिक्षमुल्कापातां समन्ततः ।
धूमकेतोश्च निर्घातां दिशादाहां कथयिष्यामि ते

20.34

शृणु प्रपातं दृश्यस्थं उल्किनां चैव जायते ।
रात्रौ दिवा समन्ता वै उल्कापातो भवेद् यदि ।
महाभयमनारोग्यं ज्ञात्वा मन्त्री व्रजेत् ततः

20.35

महोल्काज्वलमानाया दिशं गच्छेत् वै सदा ।
तादृशं नृपतीनां भङ्गः यतो वक्त्रं ततो भयम्

20.36

विदिशां पतते उल्कां समन्ताद्वै निशि सर्वदा ।
तत्र देशे महाव्याधिः दुर्भिक्षनृपघातनम्

20.37

दिवारात्रौ यदा उल्का पतते वै समन्ततः ।
तादृशं च भवेन्मृत्युर्नृपतीनां च मन्त्रिणाम् ।
तं बुद्ध्वा मन्त्रजापी स्याद् ज्ञात्वा तस्माद्देशादपक्रमेत्

20.38

उल्किनः प्रपते युद्धाद् यतो पुच्छस्ततो भयम् ।
अन्या वा दृश्यते भङ्गो नृपतीनां रणसङ्कटे

20.39

महाक्षोभं तदा चक्रे महोल्का ग्रहचिह्निते ।
समन्तात् पतते क्षिप्रं तस्माद् देशादपक्रमेत्

20.40

यादृशं उल्कमावेश्य आश्रयात् पतते सदा ।
तां दिशं व्याधिदुर्भिक्षं राष्ट्रभङ्गं च जायते

20.41

गमनागमनयोर्मृत्युस्तारकाणां तदाश्रयात् ।
यो ऽयं नक्षत्रजातस्थः तस्य मृत्युभयं भवेत्

20.42

द्विरात्रान्नश्यते जन्तुर्नक्षत्रा पतते भुवि ।
नराधिपानां च सर्वेषामेष एव विधिर्भवेत्

20.43

यो ऽयं पश्यते देवः इष्टं + ष्वेदमाकुलम् ।
रात्रौ दर्शने ऽवश्यं प्रतिमायां दिवा तदा ।
तस्य मृत्युभयं विद्यान्मासैः षट्भिस्तदा स्मृतः

20.44

प्रतिमा चलिता यस्य देवतेष्टस्य जन्तुनः ।
हसते रुदते चैव तं देशं वर्जयेत् सदा

20.45

प्रतिमा पतते चैव विशीर्यते वा स्वकात्मना ।
तस्य भङ्गं भवेत् क्षिप्रं गृहाश्चैव नराधिपे ।
कुर्वन्ति विविधाकारां लिङ्गां विविधरूपिणाम्

20.46

प्रतिमा यदि दृश्यस्था देवायतनमन्दिरे ।
तादृशं तु ततो दृष्ट्वा तस्माद् देशादपक्रमेत्

20.47

समन्तात् सर्वतो मन्त्री पश्येयुः प्रतिमां सदा ।
विकृतरूपबीभत्सां नानाविकृतमाश्रिताम्

20.48

स्वयं वा पश्यते मन्त्री अन्यैर्वा भुवि ।
तादृशं लक्षणं दृष्ट्वा तस्माद् देशादपक्रमेत्

20.49

अर्घरात्रे तथा यामे तृतीये ऽर्धे यदि दृश्यते ।
तारकाणां महावृष्टिं तस्माद् देशादपक्रमेत्

20.50

चतुर्थभागे तथा रात्रौ तारका क्षिप्रगामिनः ।
खद्योत इव गच्छन्ति तं देशं सर्वतो न भजेत्

20.51

बसुधातलेन गच्छन्ति तस्मिं देशे ततो व्रजेत् ।
यत्र संशयते वृष्टि यत्र गच्छन्ति तारकाः

20.52

तं देशं मा विशेत् क्षिप्रं यत्र वृष्टि महद् भयम् ।
तं देशं नश्यते क्षिप्रं परचक्रसमागमम्

20.53

दुर्भिक्षं शस्त्रसम्पातं तं विद्यात् देशमाकुलम् ।
चोरोरगव्यालानां म्लेच्छधूर्तसमागमम्

20.54

तं देशं नराधिपां नित्यं प्रवसेत् सर्वतो दिशम् ।
विलुप्तराज्यो विभ्रष्टपरचक्रसमाश्रितः

20.55

वर्षा अष्ट एकं च तं देशं तत्र लेभिरे पुनः ।
प्राप्नुयात् तदा राज्यं देशादागमनं पुनः

20.56

ज्ञात्वा दुपक्रमात् सर्वां विक्रियां क्रिययोजिताम् ।
क्रियाकालं समासेन तं जापी आरभेत् सदा

20.57

उल्कापात महान्तो वै दृश्यते यदि मिश्रितम् ।
समन्तान्नित्यकालं च तस्माद् देशादपक्रमेत्

20.58

उल्किनो बहुधाकारा दृश्यन्ते विविधाश्रया ।
विचित्रा चित्ररूपिण्यः यक्षिण्यश्च महर्द्धिकाः

20.59

ज्वलन्तां वक्त्रदेशाभ्यां क्रव्यादांश्च पिशाचिकाः ।
तस्मात् परीक्षयेदुल्कां लिङ्गैरेभिः समोदिताम्

20.60

अतिदीर्घ तथा ह्रस्वो मध्याश्चैव प्रकीर्तिता ।
चतुर्हस्ता द्विहस्ता वा हस्तमात्रप्रमाणतः

20.61

दृश्यन्ते भूतले मर्त्यैराश्रयन्ते महोदया ।
महाप्राणा स्वरूपाश्च देवतैषा महर्द्धिका

20.62

विचित्राकाररूपास्तु हूतास्ते च दिवौकसाम् ।
देवासुरे ऽय सङ्ग्रामे वर्तमाने महद्भये

20.63

शक्रमाज्ञामिह क्षिप्रं गच्छन्ते ऽथ भूतले ।
जम्बूद्वीपगतां मर्त्यां नराश्यक्षां नराधिपाम्

20.64

पश्यन्ते सर्वलोकांश्च धर्माधर्मविचारकाम् ।
मातृज्ञा पितृभक्ताश्च कुले ज्येष्ठापचायका

20.65

महामन्त्रधरा सर्वे जापिनो यद्यजाम्बूद्वीपगता नराः ।
तदा देवा महोत्सवापि जायन्ते तदा दैत्यां कुर्वन्ते च पराभवम्

20.66

धर्मिष्ठा भूलते मर्त्या जाम्बूद्वीपनिवासिनः ।
महोत्साहं तदा काले तृदशाध्यक्षो ऽथ वासवः

20.67

तदा भग्नवतोत्साहा असुरा भिन्नमानसा ।
अभिमानं लभेतां येन पाताले तेन ताः

20.68

प्रविशन्ते स्वपुरं तत्र भिन्नमाना कृतव्यथाः ।
महाप्रमोदं तदा देवा लेभिरे तृदशेश्वराः

20.69

तदा जम्बूद्वीपे ऽथ सर्वत्र सुभिक्षमारोग्यते जनाः ।
स्वस्था च सर्वतो जग्मुः नरनारी गतव्यथा

20.70

तस्मात् सर्वप्रकारेण बुद्धेः भक्तिः कृथे जनाः ।
धर्मसङ्घे च भूयिष्ठे गतद्वन्द्वे निरामये

20.71

पूजां कुरुथ मर्त्यातो लालिलिप्सः सर्वसम्पदाम् ।
मन्त्रचर्यां तदा चक्रे वव्रे वाचां शुभोदया

20.72

दशकर्म यथालोकां सम्प्रतिष्ठा निरोपगाम् ।
कुरुध्वं जनसम्पातां त्रिधा शुद्धेन मानसाः

20.73

विरतिः प्राणिवधे नित्यं अदत्तं वापि नाचरेत् ।
न भजेदङ्गनादन्यां अगम्यापरिवर्जिताम् । जपेत्

20.74

सन्तुष्टिः स्वेन धर्मेण सङ्कुरुध्व जनसत्तमाः ।
मृषावादं न भाषेत विपाकं यद्यदुःखदम्

20.75

नाभाषेत् कर्कशां वाणीं सर्वसत्त्वार्थदुःखदाम् ।
यत्किञ्चित् क्लेशसंयुक्तां वाचादर्थविवर्जिताम्

20.76

शून्या धर्मार्थसंयुक्तामभिन्नां नाचरेत् सदा ।
पैशुन्यं वर्जयेन्नित्यं वचनं परभेदने

20.77

क्लिष्टचित्तस्य सर्वत्र निषिद्धं मुनिपुङ्गवैः ।
अभिध्यं नाचरेत् कर्म परसत्त्वोपकारिणः

20.78

यो यस्य सदा सृतं न कुर्याद् द्वेषसमुत्थितम् ।
व्यापादं वर्जयेत् कर्म सत्त्वद्वेषमनास्पदम्

20.79

उपघातं परसत्त्वस्य न कुर्यात् सर्वतो जनाः ।
मिथ्यादृष्टिं न कुर्यान्तां सर्वधर्मविनाशिनीम्

20.80

नास्ति दत्तं हुतं चैव न चेष्टमन्त्रसाधने ।
न सिध्यन्ते तथा मन्त्राः सर्वतन्त्रार्थकल्पिताः

20.81

न बुद्धानां सुखोत्पत्तिः न शान्तं निर्वाणमिष्यते ।
न चापि चर्या तथा बोधो प्रत्येकार्थसम्भवाम्

20.82

न चार्हत्वं भुवि लोके ऽस्मिं नापि धर्मेषु जायते ।
स्वभावैषा विविधा लोके अर्थादर्थतथातथा

20.83

एवमाद्यां अनेकांश्च विविधाकारचिह्निता ।
न तां भजेत् सदा मन्त्री पापदृष्टिसमुद्भवाम्

20.84

दशकर्म यथा प्रोक्ता विरत्या स्वर्गोपगा स्मृताः ।
भावना चैव फलं तेषां निर्वाणामर्थसम्भवाम्

20.85

अनिष्टा तु भवे लोके तदा सुराणां पराजयम् ।
दैत्यानां वर्धते मानः अतिदर्पार्थसम्भवाम्

20.86

जनालये तदा सर्वं जम्बूद्वीपनिवासिनः ।
बाध्यन्ते व्याधिभिः क्षिप्रं अन्योन्यां ते ऽपि मूर्छिता

20.87

जनाध्यक्षास्तदा सर्वे अन्योन्यापराधिनः ।
क्षिप्रं नश्यन्ति ते सर्वे मुनिधर्मार्थवर्जिताः

20.88

समरे क्रुद्धचित्तानां शस्त्रसम्पातमृत्यवः ।
न ते भेजे देवमुख्यानां तर्जन्यापद्यनालये

20.89

बुद्धं धर्म तथा सङ्घं न पूजेदशुभा नृपा ।
न मन्त्रां जप्तु ते क्षिप्रं ते नृपा तस्थुरे सदा

20.90

विनश्यन्ते तदा लोका विविधायासमूर्छिताः ।
ततस्ते दैत्यवराः क्षिप्रं सुसंरब्धा रुरोह तम्

20.91

सुमेरुपर्वतमूर्धानमाविशन्ते जनसत्तमाः ।
परिषण्डो तदा मेरो विभजेन्मन्दिरा शुभौ

20.92

समन्ताद्वनविध्वस्तं दिवौकसां कारयन्ति ते ।
विविधा रथवरै रूढा नानाभरणभूषिता

20.93

नानाप्रहरणा दद्युः पुरः श्रेष्ठां पराजयाम् ।
ततस्ते खरं भेजे अप्सराणां भज जग्रहे

20.94

ईश्वराः प्रभवः सर्वे असुरास्ते वलदर्पिताः ।
जग्राह सुरकन्यां वै सुधा चैव च भोजनम्

20.95

ततस्ते सुरवराः श्रेष्ठाः प्रविष्टाः नगरोत्तमम् ।
मेरुमूर्ध्नि ततो गत्वा नगरं दर्शनाश्रयम्

20.96

शक्रानुयाता सर्वे वै पिशिता द्वारपुरोत्तमे ।
न तु माया पुरी भीतिः उपजग्मु मुदाश्रयम्

20.97

निवर्त्य तत्र वै सर्वे स्वालयं जग्मु ते सुरा ।
यदेका मन्त्रसिद्धिस्तु निवशेर्जन्युमाश्रयम्

20.98

जप्तमन्त्रो ऽपि वा मर्त्यः निवसं तत्र आलये ।
तत्र देशे न चार्तीनि न दुर्भिक्षं न शत्रवः

20.99

न रोगा नापि भयं विद्याज्जप्तमन्त्रे स्थिते भुवि ।
न चास्या दस्यवः सर्वे शक्नुवन्तीह हिंसितुम्

20.100

न चार्तिमृत्यवस्तत्र अमर्यादा प्रवर्तते ।
न रुजा व्याधिसम्मूर्छा ज्वररोगापहारिणः

20.101

बिभ्यन्ते भूतले तस्मिं जप्तमन्त्रो यदाश्रयः ।
ये ऽत्र मन्त्रवरा ह्युक्ता जिनेन्द्रकुल + द्भवा

20.102

अब्जाके तु तथा मन्त्रा मन्त्रिणं मन्त्रपूजिताः ।
तत्र मन्त्रवरां मन्त्री जह्नुजोपमहर्द्धिकाम्

20.103

तदा ते सुरवरा श्रेष्ठा असुराणां तु पराजयः ।
एवमुक्ता गुणा ह्यत्र दृश्यते भूतले कदा

20.104

तार्किका विविधाकारा कथयन्तीह महीतले ।
ग्रहमेषो इति श्र्त्या अवतारार्थविस्तरा

20.105

गीतं ऋषिवरैर्ज्ञानमुल्किनां ग्रहचिह्निताम् ।
निर्दिष्टं तत्र निर्देशः निघातस्य प्रवक्ष्यते

20.106

उल्कापाते यदां लोका निर्घातो भुवि मण्डले ।
प्रद्युन्नागर्जना कस्माच्छ्रूयते च महीतले

20.107

भृशं चुचुक्षुत्र तद्देशं तिथिरेभि समायुतैः ।
अतुल्यशब्दनिर्घोष रौद्रां वापि तमाह्वयाम्

20.108

श्रूयते गर्ज च क्षिप्रं महामेघवचः श्रूयते ।
षष्ठ्यचमथमष्टम्यां त्रयोदश्यामथ श्रूयते

20.109

कृष्णपक्षे तथा नित्यं द्वादश्यां तु चतुर्दशी ।
नक्षत्रैरेभि संयुक्ता वारैश्चापि ग्रहोत्तमैः

20.110

अश्विन्यां कृत्तिकानां च भरण्यां यातं निबोधताम् ।
पूर्वभद्रपदे चैव आर्द्रामघाश्लेषसंयुक्ते

20.111

+ + + + + + + + + ग्रहैश्चापि सुपूजिते ।
शन्यर्काङ्गारकैः क्रूरैः भूम्या निपतते यदा

20.112

अवर्षोदकर्मा क्रूरं शब्दो निघात उच्यते ।
महद् भयं तत्र देशे वै दुर्भिक्षं राष्ट्रमर्दनम्

20.113

परचक्रभयं विद्यान्नानाव्याधिमहद्भयम् ।
निर्घातं पतते चोर्व्यां नक्षत्रैरेभि कीर्तितैः

20.114

वारैरशुभैश्चापि ग्रहैः कृष्णरक्तकैः ।
तत्र देशे नृपो भृशं हन्यते शस्त्रिभिः सदा

20.115

तस्मिं काले रौद्रे च कर्माणि तत्र देशे तदा जपेत् ।
विविधा व्याधयस्तत्र अर्थनाशश्च दृश्यते

20.116

मृत्युस्तत्र भवेद् व्याधिर्दुर्भिक्षैश्चापि निन्दितैः ।
अनावृष्टि सदाकाले द्वादशाब्दानि निर्दिशेत्

20.117

पश्चिमां दिशमाश्रित्य प्रपते भूतले नभात् ।
निर्घातं मृत्युसङ्कीर्णं दृश्यते मृत्युतस्करैः

20.118

मध्याह्ने तु तदा काले युवाप्यस्तमिते ऽपि वा ।
उदयन्तं भास्करं रक्ते सुशब्दैः श्रावकैरेवम्

20.119

त्रिःसन्ध्यात् कुत्सितः शब्दः शेषकाले तु तुष्टये ।
अर्धरात्रे यदा शब्दः निर्घातस्य महद् भयम्

20.120

गुप्तां पुरवरां तत्र कारयन्तु नृपोत्तमा ।
नानाम्लेच्छगणा धूर्ता तस्कराधिष्ठितापि ते

20.121

परद्रव्योपकारार्थं कुर्वन्तीह महीतले ।
शेषकाले भवेच्छब्दः निर्घातस्य सुपुष्कलम्

20.122

मन्त्रिमुख्यो भवेत् तत्र बहुव्याधिसमाकुलम् ।
बहुव्याधितत्वं च नृपास्तस्य विधीयते

20.123

पत्नी वा हन्यते तस्य मन्त्रिमुख्यस्य हन्यतः ।
सर्वे सौल्किकास्तत्र नानाजातिसमाश्रिताः

20.124

हन्यन्ते मृत्युना ते ऽपि तथा जीवकसेवका ।
प्रकृष्टा वणिजा मुख्या नियुक्ता सर्वतो नृपाः

20.125

मध्याह्नपरिमित्याहुः ऋषिभूतो रवे तदा ।
निर्घातमतुले शब्दं यदा शुश्रावते जनाः

20.126

व्याधिभिर्व्यस्तसर्वत्र भवतीह महीतले ।
अन्यथा तुमुलं शब्दो यदि शुश्राव मानवा

20.127

अकस्मात् सर्वतो नित्यं नृपस्तत्र न जीवते ।
दक्षिणां दिशमाशृत्य निर्घातो पततेच्छुभः

20.128

विद्युच्चोर्ध्वं तथा वृष्टिरचिरात् तं विनिर्दिशेत् ।
पूर्वायां दिशिमाश्रित्य शुश्रुवः यदि नादिते

20.129

निर्घातस्य भवेत् तत्र प्राच्याध्यक्षो विनश्यति ।
हिमाद्रिकुक्षिसन्निविष्टा जनास्तत्र निवासिनः

20.130

शुश्राव शब्दं महाभैरवे ग्रहे चिह्निते ।
तस्मिं देशे जनाध्यक्षो विनश्यन्ते म्लेच्छतस्कराः

20.131

वत्से वत्साश्च ये मुख्या नेपालाधिपतिस्तदा ।
हन्यन्ते शत्रुभिः क्षिप्रं नानाद्वीपनिवासिनः

20.132

विदिक्षु भैरवंं नादे ऊर्ध्वमुत्तरतो भवेत् ।
कामरूपेश्वरो हन्या गौडाध्यक्षेण सर्वदा

20.133

लौहित्यात् परतो ये वै जराध्यक्षाथ जीविना ।
कलशाह्वा चर्मरङ्गाश्च समोतद्याश्च वङ्गकाः

20.134

नृपांश्च विविधां हन्या सशब्दे भैरवा ग्रहे ।
पूर्वदक्षिणतो भागे यदि शब्दो महद् भयम्

20.135

कलिङ्गा कोसलाश्चैव सामुद्रा म्लेच्छवासिनः ।
हन्यन्ते शस्त्रिभिः क्रूरैः तदाध्यक्षाश्च नृपा चराः

20.136

पूर्वपश्चिमतो भागे यदा शब्दो महान् भवेत् ।
मेघगर्जनवत् क्रूरो दिवारात्रौ महाम्बुदे

20.137

तं निर्घातमिति वेद्मि देवसङ्घा निबोधताम् ।
शुभाशुभं तदा चक्रे मानुषाणां जनोत्तमाः

20.138

यदा शुभे च नक्षत्रे लग्ने चापि शुभोत्तमे ।
तिथिश्रेष्ठे सिते चापि शब्दो शुश्राव मेदिनीम्

20.139

शुभो सुभिक्षमारोग्यं सम्पत् क्रीडाय साधनम् ।
सिद्धमन्त्रस्तु जायेत् वरदा जापिनां सदा

20.140

तदा काले भवेत् सिद्धिः सर्वकर्मसु योजिता ।
क्रूरैर्ग्रहैश्चापि विद्यात् शुभैश्चापि फलोदया

20.141

कर्मसिद्धिर्भवेत् तत्र सर्वकर्मसु योजिता ।
निर्घाता बहुधा प्रोक्ता क्ष्मातले ऽस्मिन निबोधता

20.142

केचित् प्राणहराः सद्यः केचित् सत्यफलोदया ।
सर्वार्थसाधना केचिच्छब्दा गम्भीरनादिनः

20.143

तं च शब्दं श्रुयात् क्षिप्रं देवसङ्घा निबोधताम् ।
धीरो गम्भीरयुक्तश्च स्तनितं चापि गर्जिते

20.144

दीर्घदुन्दुभयो यद्वत् तच्छब्दसम्मुखावहम् ।
स शब्दो भैरवः क्रूरो यथानिर्दिष्टकारकः

20.145

उल्कापातसमे काले भूमिकम्पान्न जायते ।
शब्दं क्रूरनिर्घोषं निर्दिशं चापि योजयेत्

20.146

महद् भयं तदा विद्यात् सर्वनिर्देशभामिमाम् ।
सत्त्वाघातं ततो विद्यात् दुर्भिक्षं व्याधिसम्भवम्

20.147

अमानुषं च तदा चक्रे मायोपद्रवादिकम् ।
भूपालां तदा मृत्युर्दिवसैस्त्रिंशविंशतिः ।
यथोद्दिष्टकराः सर्वे शब्दा रौद्रनिनादिते

20.148

भूमिकम्पं तु निर्दिक्ष्ये कथ्यमानं निबोधत ।
नक्षत्रेष्वेव कम्पा ये + + + + + + + + + + + + +

20.149

तिथिभिः सर्वत्र योज्यं स्यान्नक्षत्रं चापि युक्तवाम् ।
निर्घाते यथा सर्वं कर्मेष्वेव योजयेत्

20.150

अश्विन्यां चलिता भूमिर्दुर्भिक्षं चापि निर्दिशेत् ।
भरण्यां कृत्तिकां चैव उभौ कम्पौ सुखौदयौ ।
रोहिण्यां मृगशिरः कम्पो जायते अर्थसम्पदः

20.151

आर्द्रः पुनर्वसुश्चैव नक्षत्रा परिचिह्नितौ ।
एषु कम्पेद् यथा पृथ्वी तत्र देशे महद्भयम्

20.152

मध्यदेशा विनश्यन्ते तद्देशाश्च नराधिपाः ।
पुष्ये यदि कम्प्येत मूर्वी भूतलवासिनीम् ।
तत्र देशे शिवं शान्तिं सुभिक्षमारोग्यं विनिर्दिशेत्

20.153

आश्लेषायां चलते क्षिप्रं कृत्स्ना चैव वसुन्धरा ।
तत्र देशे समाकीर्णं म्लेच्छतस्कररौद्रिभिः

20.154

मघासु चलिता भूमिः सर्वेष्वेव न सर्वतः ।
अङ्गदेशे विनश्यन्ते मागघो नृपतिस्तथा ।
मागधा जनपदाः सर्वे पीड्यन्ते व्याधितस्करैः

20.155

उभौ फल्गुननक्षत्रे क्ष्माकम्पो यदि जायते ।
हिमाद्रिकुक्षिसन्निविष्टा गङ्गामुत्तरतस्तदा

20.156

हन्यन्ते व्याधिभिः क्षिप्रं वृजिमैथिलवासिना ।
वैशाल्यामधिपाः सर्वे हन्यन्ते अर्तिभिस्तदा

20.157

विविधा म्लेच्छमुख्यास्तु हिमाद्रेः सानुसम्भवाः ।
निवस्ताः कुक्षिमध्ये वै नितम्बेष्वेव द्रोणयः ।
म्लेच्छाध्यक्षवरा मुख्या हन्यन्ते ऽस्त्रिभिः सदा

20.158

हस्तचित्रौ यदा भूमिश्चलते सन्ध्ययोर्यदा ।
म्लेच्छतस्करनराध्यक्षा हन्यन्ते शस्त्रिभिः सदा

20.159

स्वात्या विशाखयुक्त्या वै नक्षत्रेष्वेव योजिता ।
चलते मेदिनी कृत्स्ना दृश्यन्ते वणिजा परे

20.160

वणिजाध्यक्षवराः श्रेष्ठा मुख्याश्चैव शुक्लिनः ।
व्याधिभिः शस्त्रसम्पातैर्विनश्यन्ते जलचारिणः ।
अनुराधे ज्येष्ठविख्याते नक्षत्रेष्वेव सर्वदा

20.161

भ्रमते वसुमती कृत्स्ना नमते चापि दारुणम् ।
यदा उन्नतनिम्नस्था पर्वता निम्नगा वरा

20.162

क्ष्मातलं कम्पते क्रूरं उभे सङ्घ्ये तदा परे ।
भवेत् तत्र भयं क्षिप्रं दुर्भिक्षं चापि निन्दितम्

20.163

मरणं दिवसैः षड्भिर्महानृपस्य भवेत् तदा ।
नश्यन्ते पुरवरा क्षिप्रं मध्यदेशेषु ते जनाः

20.164

ईषच्च चलिता भूमिरनुराधायां शुभोदया ।
सस्यनिष्पत्ति सर्वत्र मध्या यदि जायते

20.165

मूलाषाढामिति ज्ञेयं नक्षत्रेष्वेव कम्पते ।
पूर्व उत्तराषाढे तृधा दुःखसमोदये

20.166

व्याधिदुर्भिक्ष सर्वत्र तस्करादिभि पीड्यते ।
मेदिनी सर्वतो ज्ञेया यदि कम्पो भवेद् दिवा

20.167

श्रवणासु चलिता भूमिर्धनिष्ठेष्वेव सर्वतः ।
सुभिक्षमायुरारोग्यं दुर्भिक्षैश्चापि वर्जिता

20.168

मेदिनी सस्यसम्पन्ना यदि कम्पो भवेन्निशम् ।
शतभिषे भद्रपदे चापि यदि कम्पेत मेदिनी

20.169

दुर्भिक्षं राष्ट्रभङ्गं वै दृश्यते तत्र आस्पदे ।
हन्यते तस्करे मर्त्या दुर्भिक्षं चापि कुत्सितम्

20.170

भवन्ति भूतले मर्त्या अर्धरात्रे निशि कम्पते ।
उत्तरासु च सर्वासु रेवत्यासु च कीर्त्तिता

20.171

उभौ नक्षत्रौ सर्वत्र रेवती भद्रपदस्तथा ।
एतेष्वेव हि सर्वत्र यदा कम्प अजायत

20.172

नक्षत्रेष्वेव पूर्वोक्तकम्पो दृष्टः सुखावहः ।
एते कम्पा समाख्याता निर्घाता वरचिह्निता

20.173

उल्कापातसमे काले त्रिदोषा जन्तुपीडना ।
निर्याते च यदा पूर्विं निर्दिष्टं विस्तरान्वितम्

20.174

गुहास्तत्रैव कर्तव्या सर्वं चैव दिशाह्वये ।
सरवः कम्पनिर्दिष्टः सालोकश्चापि सुखान्वितम्

20.175

सिद्धिकाले तदा सर्वे दृश्यन्ते मन्त्रजापिनाम् ।
योगिनां च तथा सिद्धि अभिक्षां तु सम्भवे

20.176

बोधिसत्त्वानां तथा जाते बुद्धबोधिं च प्राप्तये ।
प्रभावा ऋषिमुख्यानां ऋद्ध्या वर्जितचेतसाम्

20.177

सुरश्रेष्ठस्तदा काले आगमं चापि कीर्तयेत् ।
सालोका सरवा मूरी घोषनिःस्वनगर्जनम् ।
कम्पमुत्पद्यते क्षिप्रं एतेष्वेव च कारणैः

20.178

निःशब्दा च निरालोका यदा कम्पेत मेदिनी ।
नारकाणां तु सत्त्वानां चलितानां तु निर्दिशेत् ।
दुःखं बहुविधैः खिन्ना मया कायाति भीषणा

20.179

तेषां च कर्मजं दुःखं पश्यमावृत्ति दृश्यते ।
कथितां कर्मनिर्घोषां तं जनानृषिसत्तमा

20.180

निबोध्यमखिलं सर्वं धारयध्व सुखेच्छया ।
केतुना दृश्यते सर्वं गगनस्थं तु कीर्तयेत्

20.181

रात्रौ दिवा च कथ्येते दृश्यन्ते चोत्तरा नभे ।
मध्याह्नि सर्वत्र दृश्यते दीर्घतो ध्रुवा

20.182

धूम्रवर्णा महारश्मा धूमायन्तं महद् भयम् ।
यदेव देशमाशृत्य धूमयेत नभस्तलम्

20.183

तदेव देशे नृपो ह्यग्रो हन्यते व्याधिभिर्ध्रुवम् ।
यदेव ग्रहमाशृत्य वारं नक्षत्रमुज्ज्वला

20.184

दृश्यते धूम्ररेखायाः गगने चापि उज्ज्वलम् ।
तदेव राशिनक्षत्रं ग्रहं चैव सुलक्षयेत्

20.185

तदेव हन्यते जन्तुः शस्त्रिभिर्व्याधिभिस्तदा ।
यस्मात् तु दृश्यते रेखा धूम्रवर्णा महद्भया

20.186

तं देशं नाशयेत् क्षिप्रं ग्रहः क्रूरो न संशयः ।
स्निग्धा च नीलसङ्काशा धूम्ररेखामजायत

20.187

तच्छिवं शान्तिकं विद्यादायुरारोग्यवर्धनम् ।
रूक्षवर्णा विवर्णा वा धूम्रवर्णा तु निन्दिता

20.188

प्रशस्ता शुक्लसङ्काशा चतुरश्मिसमुद्भवा ।
सौम्या कीर्तिता नित्यं शुभवर्णफलप्रदा

20.189

कीर्तिता पुष्पलक्ष्मीकं तं विद्याद्यत्र मा तिथाः ।
हिमपुञ्जनिभा शुभ्रा स्निग्धस्फटिकसन्निभा

20.190

सोमसौम्य विज्ञेया रूक्षवर्णसमप्रभा ।
कल्याणं चार्थनिष्पत्तिं दुःखनिर्वाणते दृशम्

20.191

+ + + + + + + + + + + यस्मिन् देशे समोदिता ।
नक्षत्रे वापि युक्ते ऽग्रे तले तारकमण्डले

20.192

निर्गते नभसि विख्याते दृश्यते यं महीतले ।
सर्वा समन्तादायुरारोग्यं जाता ये तारकाश्रयाः

20.193

प्रभविष्णु भवेत् तत्र सुखी धर्मचरः प्रभुः ।
श्रेष्ठो जायते मर्त्यः तस्मैः नक्षत्रमाश्रयेत्

20.194

ग्रहे वा शुचिते प्रोक्ता सर्वदुःखनिवारणी ।
रेखा च दृश्यते यत्र तं विद्यात् सुखसमर्पितम्

20.195

प्रहृष्टरूपसम्पन्नस्निग्धाकारभूषितम् ।
रेखा नभस्तले याता धूमायन्ती महद्भया

20.196

ततो ऽन्यश्रेयसि युक्ता प्रशस्ता वापि नभस्तले ।
शिवं सुभिक्षमारोग्यं तं देशं विदुर्बुधाः

20.197

धार्मिकं तत्र भूयिष्ठं धूमकेतोरजायते ।
सिता स्फटिकसङ्काशा प्रभाः सञ्चेयु सर्वतः

20.198

एकशः श्रीमतो ख्याताः तारके ऽस्मिं नभस्तले ।
ततः स्फटिकसङ्काशा रश्म्या चापि मूर्तिजः

20.199

प्रभवः श्रीमतः ख्यातः तस्मिन् नक्षत्रमाश्रयेत् ।
केतवो बहुधा हुक्ता सहस्रौ द्वौ त्रयो ऽथ वा

20.200

त्रिंशमेकं च बहुधा नानाकर्मफलोदया ।
केचिच्छ्रेष्ठा तथा मध्या केचिद्धर्मपरान्मुखाः

20.201

उदयन्तं तदा केचिन्महद्भयसुदारुणा ।
स्निग्धाकारसमा ज्ञेया स्फटिकाकारसमप्रभा

20.202

स्निग्धा शोभना ज्ञेया स्फटिकाकारसमप्रभा ।
स्निग्धा शोभना ज्ञेया चारुवर्णाल्पभोगता

20.203

केचित् तिर्यगः क्रूरा उत्तरा दक्षिणा परा ।
श्रेयसा चैव भूतानां उदयन्ते शशिसमप्रभा

20.204

महाप्राणा विकृतास्तु अतिदीर्घा नृपनाशना ।
मध्ये उदिता ह्येते प्राच्यावस्थितरश्मिजाः

20.205

पूर्वपश्चिमतो याता पूर्वदेशाधिपतिं हनेत् ।
पूर्वपश्चिमतो याता पश्चाद् देशा नृपतिं हनेत्

20.206

समन्ताद् रश्मिजातायाः समन्ताद् दुर्भिक्षमादिशेत् ।
विदिक्षा ह्युदिता ह्येते म्लेच्छप्रत्यन्तगणधिका

20.207

निहनेत् सर्वतो याता तस्मिं स्थाने समादिशेत् ।
धूम्रवर्णा विवर्णास्तु रूक्षवर्णा महाभयाः

20.208

प्रभवः सर्वतो याता सर्वप्राणिषु आदिशेत् ।
दिवा सर्वतो नित्यं मध्याह्ने यदि दृश्यते यदा ।
महद् दुःखं महोत्पातं नृपतीनां तदा विशेत्

20.209

यत्र तिर्यग्गता रेखा यत्र स्थिते समोदिता ।
तत्रस्था नृपतिं हन्ति यस्मिं देशे समागता

20.210

दिवा विदिक्षु निर्दिष्टा महाव्याधिसमागमम् ।
तस्करोपद्रवां मृत्युं तस्मिं स्थाने समादिशेत्

20.211

नीलवर्णं यदाकाशे दिवा पश्येत केतवम् ।
विविधायासदुःखैस्तु विविधोपद्रवभूमिपा

20.212

समन्तात् कथिता ह्येते महादुःखभयानकाः ।
यातिरौद्रा विदाह्युक्ता रात्रौ केचित् शुभोदया

20.213

रक्तवर्णं यदा पश्येत् केतुश्चन्द्रसमाश्रितम् ।
रुधिराक्तां महीं क्षिप्रं शस्त्रसम्पातितं तदा

20.214

पृथिव्यां क्षिप्रमसृक्र + + रात्र्यवसुन्धराम् ।
बहुसत्त्वोपघाताय बहुदुःखनिराश्रयम्

20.215

जायन्ते जनपदास्तत्र यस्मिं स्थाने समादिशेत् ।
पीता च पीतनिर्भासा दृश्यते व्योम्नि मूर्तिना

20.216

हरिद्राकारसङ्काशा हरितालसमप्रभा ।
हेमवर्णा यदाकाशे केतवो उदयन्ति वै ।
तत्र विद्यान्महद् दुःखं सर्वसत्त्वेषु लक्षणम्

20.217

महामारिगताध्यक्षो जनास्वेव निबोधिता ।
द्वादशाब्दं तथा हन्ति अनावृष्ट्योपद्रवादिषु

20.218

अतिकृष्णा रौद्रमित्याहुरतिधूम्रास्तु वर्जिता ।
अतसीपुष्पसङ्काशा पावकोच्छिष्टवर्जिता

20.219

महामेघसमाकारा नीलकज्जलवर्णिता ।
वराहाकार तथा केचित् परपुष्टसमप्रभा ।
दृश्यन्ते गगना घोरा तस्माद् देशादपक्रमेत्

20.220

महाक्रूरा तथा रौद्रा दृश्यन्ते क्रूरकर्मिणः ।
महादुःखं महाघोरं मार्योपसृष्टिरेव वा ।
महादुर्भिक्षमित्याहुस्तस्मिं देशे भयानकम्

20.221

ओड्रपुष्पसमाकारं रक्तभास्करविद्विषम् ।
असृग्वर्णं यदा पश्येदुदितं केतुनभस्तलम्

20.222

सर्वत्र व्याधितद्वेगं बहुसत्त्वोपरोधिनम् ।
नृपतीनां तदा मृत्युस्तत्क्षणादेवमादिशेत्

20.223

अकस्मात् पश्यते यो हि नरो वा यदि वा स्त्रियः ।
तस्य मृत्यु समादिष्टं सप्ताहाभ्यन्तरेण तु

20.224

द्विरात्रैस्त्रिभिर्वापि दिवसैः शस्त्रिभिर्हन्यते ।
तदा दिवा वा यदि वा पश्येदकस्मान्निशिरेव वा

20.225

तस्य मृत्यु समादिष्टा तत्क्षणादेव भूतले ।
विषेण हन्यते जन्तुः शस्त्रिभिर्वा न संशयः

20.226

शुक्ला स्निग्धवर्णाश्च निशिरेव सुखोदया ।
अन्यथा दर्शनं नेष्टं विविधाकाररूपिणाम्

20.227

स्वकायपरकाये वा यदि केतुसमाश्रिता ।
रात्रौ चापि दिवा चापि सद्यः प्राणहराः स्मृता

20.228

शुक्लवर्णां यदा पश्ये शशिगोक्षीरसमप्रभाम् ।
हिमकुन्दसमाकारां नानारत्नसमप्रभाम् ।
तस्य राज्यं समाख्यातं सिद्धिर्वा मन्त्रजापिने

20.229

एते केतवो इष्टा शरीरे मन्दिरे ऽपि वा ।
स्वसैन्यपरसैन्ये वा यत्रस्थं तत्र फलप्रदम् ।
तमाहुः कीर्तितां श्रेष्ठां नानाचित्रसमप्रभाम्

20.230

दृश्यन्ते सर्वतो मर्त्यैः बह्वानर्थावहाः स्मृताः ।
सर्वतः कथिता मर्त्यैर्विग्रहे मन्दिरे ऽपि वा

20.231

केतवः सिद्धकायानां सर्वेष्टाः सफलाः स्मृताः ।
अन्यथा कुत्सिताः सर्वे बहुदुःखभयप्रदाः

20.232

सर्वे वै कथिता ह्येते केतवो ग्रहचिह्निताः ।
पूर्ववत् कथितं सर्वं तिथिनक्षत्रराशिजाः

20.233

विविधैर्वारयोगैस्तु ग्रहैश्चापि महर्द्धिकाः ।
पूर्ववत् सर्वमित्येषां कथिताः सर्वतः लोके

20.234

तदा सर्वे ते संज्ञिनो केचिच्चारुसमप्रभा ।
चित्रा क्वचित्ततः शुभ्रः स्निग्धो वर्णतः शुभः

20.235

सुनेत्रो नेत्रनामः शुशिकुन्दसमप्रभः ।
सुभ्रू सुनयनश्चैव रुग्मवर्णः सहेमजः

20.236

सर्वे सिता विचित्राश्च नानानामसमोदिताः ।
षड्वर्णानामपि तेषां केतूनां निबोधिता

20.237

नानावर्णरूपाणां तत्संज्ञाश्च प्रयोजयेत् ।
नानाविकृतिनो ये ऽपि घोराः सुदारुणाः

20.238

ये मया कथिता पूर्वं तत्संज्ञाश्च सर्वतः ।
एवमाद्याधिका प्रोक्ता केतवो बहुरूपिणः

20.239

मानुषाणां तदा चक्रे शुभाशुभफलोदयाः ।
विग्रहा ग्रहमुख्यानां दृश्यते च समन्ततः

20.240

देवासुरे च युद्धे वै दर्शयन्ति तदात्मनाम् ।
महाप्रभावा महेशाख्या दिव्या दिव्ययोनयः

20.241

सिताः शुभोदयाः सर्वे देवपर्षत्समाश्रिताः ।
विकृताविकृतरूपास्तु कुत्सिता विकृतवर्णिनः ।
सर्वे वै असुरपक्षे तु क्रूरकर्मान्तचारिणा

20.242

यदा देवासुरे युद्धे वर्तमाने महद्भये ।
असुराः पराजिता देवैः केतवः सूचयन्ति ते ।
दर्शने भू(त)ले मर्त्यं प्रदद्युः सर्वतो नभः

20.243

सिताः शुभफला नित्यमिष्टाश्चैव सुरप्रिया ।
दर्शयन्ति तदात्मानं देवपक्षसमाश्रिताः ।
मर्त्यानां तदा क्षिप्रं सुभिक्षमारोग्यविनिर्दिशेत्

20.244

असुरैर्निर्जिता देवा यदा काले भवन्ति वै ।
तदा विकृवर्णास्तु क्रूरकर्मनियोजिता ।
असुराणां तदा पक्षे केतव उदयन्ति वै

20.245

तदा सर्वतः क्रूरा वाता वायन्ति जन्तुनाम् ।
महावृष्टिमनावृष्टिनागाश्चैव क्रूरिणः

20.246

मुमोच विषजां तोयं बहुव्याधिसमाकुलम् ।
मानुषाणां तदा चक्रे विषविस्फोटमूर्च्छनम्

20.247

विविधा राक्षसा चैव दैत्ययक्षसमाश्रिता ।
कुर्वन्ति मानुषां हिंसामतिदारुणविघ्नकाम्

20.248

प्राणोपरोधिनं दुःखं कुर्वन्तीह महीतले ।
अश्मवृष्टिं तदाकाशे प्रपतेद् भूतले तदा

20.249

महावाताः प्रवायन्ति तस्मिं काले तु भीषणाः ।
प्रचण्डा वायवो वान्ति बहुसत्त्वापकारिणः

20.250

नानातिर्यगता प्राणा सस्यनाशं प्रचक्रिरे ।
बहुभूतगणाः क्रूरा कुर्वन्तीह च भूतले ।
मानुषाणां तदा विघ्नं चक्रिरे प्राणोपरोधिनाम्

20.251

एवंप्रकारा ह्यनेकाश्च बहुविघ्नसमाश्रया ।
नानातिर्यग्गताश्चैव चण्डाः श्वापदमौरगाः

20.252

विविधा नागयोनिस्था सत्त्वानामपकारका ।
प्राणोपरोधिनं कुर्वन्ति विविधा म्लेच्छतस्करा

20.253

कपिला भासतो वर्णा वाता क्रूराश्च अग्निजाः ।
वायन्ति विविधा लोके यदा देवपराजयेत्

20.254

अधर्मिष्ठा तदा मर्त्या जाम्बूद्वीपगता सदा ।
तदा ते देवपक्षास्तु हीयन्ते दैत्ययोनिभिः

20.255

यदा धर्मवतः सत्त्वा भूतले ऽस्मिं समागता ।
बुद्धधर्मरताः श्रेष्ठा सङ्घे चैव सदा वरा

20.256

मातृपितृभक्ताश्च सत्यसत्त्वा जपे रता ।
तदा ते सर्वतो देवा निर्जिजे दैत्ययोनिजम्

20.257

तदा सस्यफलसम्पन्ना बहुपूर्णा वसुन्धरा॥
दीर्घकालायुषो मर्त्या बहुसङ्ख्यपरायणा

20.258

धार्मिका नृपतयः सर्वे सुखदाः सौख्यपरायणाः ।
तदा तासु सुखा दैत्या ह्लादिनो व्याधिनाशकाः ।
भवेयुः सर्वे ते लोके सुखकारणशीतलाः

20.259

नातिशीता न चोष्णा वै ऋतवः सुखदा सदा ।
नानापक्षिगणाश्चैव कूजयेन्मधुरं सदा

20.260

बहुपुष्पफलाढ्या तु तरवः सर्वतो शुभा ।
सर्वे व्याधिविनिर्मुक्ता जन्तवो भूनिवासिनः

20.261

न चोद्वेगं तदा चक्रे नृपतिर्धार्मिको भवेत् ।
बहुधान्यसुखाश्चैव नानारत्नथ मन्दिरम्

20.262

पश्यते सर्वयोन्यांस्तु जम्बूद्वीपगता नराः ।
फलाढ्या तरवो नित्यं बहुक्षीराश्च धेनवः

20.263

धर्मायतनशत्राश्च कूपवाक्य समन्ततः ।
कुर्वन्ते च जनाः सर्वे जम्बूद्वीपगता नराः

20.264

बहुधा बहुविधाश्चैव प्राणिधर्मरतः स्थिताः ।
समन्तात् सर्वतो तेषां यस्य पूर्णा वसुन्धरा

20.265

विपरीता तदन्यथा तेषां भ्रष्टमर्यादचेष्टिताम् ।
कर्मे युगाधमे काले अन्यथा फलमादिशेत्

20.266

निःफलं सफलं चैव + + + + + + + + + + ।
विकृतं हेतुजं कर्म अशुभा चैव कामयेत्

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc