भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 18

18.1

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् पञ्चदशमः कर्मस्वकप्रत्ययपटलविसरः परिसमाप्त इति ।
अथाष्टादशः पटलविसरः ।
अथ भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तं च पर्षन्मण्डलं मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः त्वदीयमन्त्रचर्याभियुक्तस्य बोधिसत्त्वचर्यापरिपूरणार्थाभिप्रायस्य बोधिसत्त्वस्य महासत्त्वस्य क्रियाकालक्रमणयोगानुकूलयोगचर्यानुकूलनक्षत्रव्यवहारामुवर्तनक्रमं सर्वमन्त्रचर्यार्थसाधनोपयिकपटलविसरम् । भाषिष्ये, तं शृणु, साधु च सुष्ठु च मनसि कुरु ॥
एवमुक्ते भगवता मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् । आश्चर्यं भगवन् यावद् भाषितं परमेणानुग्रहेणानुगृहीता बोधिसत्त्वा महासत्त्वा सर्वबोधिसत्त्वचर्यानुवर्तिनां सर्वमन्त्रचर्यार्थपरिपूरकाणां सत्त्वानाम् । तद्वदतु भगवानस्माकमनुकम्पार्थम् । एवमुक्तो मञ्जुश्रीः कुमारभूतः कृताञ्जलिपुटो भगवन्तमवलोकयमानः ताः तूष्णीमेवमवस्थितो ऽभूत् ॥
अथ खलु भगवान् शाक्यमुनिर्लोकानुग्रहकाम्यया ।
वज्रेन्द्रवचनं श्रेष्ठं हितार्थं सर्वदेहिनाम्

18.2

इदं भोः भद्रमुखाः श्रेष्ठं नक्षत्रं हिताहितं ।
सर्वमन्त्रार्थचर्यायां युक्तायुक्ताः समाहिताः

18.3

सिद्धमर्थं तथापूर्णमनुकूलं चापि कथ्यते ।
सिद्धिहेतोस्तथा मन्त्री मन्त्रं तन्त्रोपलक्षयेत्

18.4

शुचे ऽहनि शुचौ देशे शुचाचाररते सदा ।
प्रशस्ते तिथिनक्षत्रे शुक्लपक्षे सदा शुचिः

18.5

स्नातो ध्यायी व्रती मन्त्री मन्त्रतन्त्रार्थकोविदः ।
होम जाप तथा सिद्धिं कुर्यात् कर्म सविस्तरम्

18.6

रेवती फल्गुनी चित्रा मघा पुष्यार्थसाधिका ।
अनूराधा तथा ज्येष्ठा मूला चापि वर्णिता

18.7

आषाढावुभौ भाद्रपदौ सदा सिद्ध्यर्थ श्रवणा ।
सिद्ध्यर्थं श्रवणा श्रेष्ठा धनिष्ठा चापि वर्णिता

18.8

सिद्धिहेतोस्तथा मन्त्रै रोहिण्या मृगशिरास्तथा ।
अश्विन्यौ पुनर्वसूयुक्ते नक्षत्रौ स्वातिरेवतौ

18.9

प्रशस्ता गणिता ह्यते विद्यासाधनतत्पराः ।
एतेषामिन्दुवारं तु विधिरेवमुदाहृतम्

18.10

शैत्यैः शान्तिकं शेषकाले ततो विद्यापुष्ट्यर्थं चापि तत्परम् ।
मध्याह्ने दिनकरे कर्म चन्द्रे चापि गर्हितम्

18.11

अर्धरात्रे स्थिते चन्द्रे कुर्यात् कर्माभिचारुकम् ।
तृतीये याममनुप्राप्ते पुष्टिहेतोः समारभेत्

18.12

पुष्ट्यर्थं साधयेन्मन्त्रं भोगहेतोस्तदा नृषु ।
उदयन्तं भास्करं विद्यात् सर्वकर्मेषु युक्तितः

18.13

रक्ताभावे तथा भानोः कुर्यात् कर्माभिचारुकम् ।
शेषकाले ततो विद्यात् पूर्वाह्ने रविमण्डले

18.14

युगमात्रोत्थिते तथा नित्यं कुर्याच्छान्तिककर्मणि ।
ततो द्विहस्तितो ज्ञेयं प्रमाणे चैव गभस्तिने

18.15

कुर्याच्छान्तिककर्माणि शान्तिकेष्वपि योजिते ।
मन्त्रमुद्रैस्तथाश्रेष्ठैर्जिनाग्रकुलसम्भवैः

18.16

मध्याह्ने सवितरि प्राप्ते कुर्यादाभिचारुकम् ।
अतःपरेण आकृष्येद् वश्यार्थं च योजितम्

18.17

युगमात्रावनते भानौ अपराहोपगते तथा ।
कुर्यात् सर्वकर्माणि क्षुद्रार्थे च योजिताः

18.18

ततः परेण काले ते सूर्यं धानमते तदा ।
वश्याकर्षणसर्वाणि कुर्यात् कर्माणि धीमतः

18.19

अस्तं याते तदा भानौ रक्ताकारसमप्रभे ।
कुर्यात् तानि कर्माणि रक्ताभाससमोदिताम्

18.20

कान्तकामाः सदा कुर्यात् कर्मैश्चापि रागिभिः ।
कुलत्रये ऽपि शान्यं कथितं कर्म निन्दितम्

18.21

कन्यार्थी कारयेत् क्षिप्रं कर्मकालसमोदितम् ।
प्रथमे यामे तदा कर्म साधयेत् सत्त्वयोजितः

18.22

अतः परेण सर्वत्र सर्वकर्माणि कारयेत् ।
अर्धरात्रे तदा चन्द्रा ग्रहः पश्येद् वसुन्धराम्

18.23

प्रविशेत् पश्चिमां देशां तस्मिन् काले समोदिताम् ।
ततः परेण ग्रहः पश्ये सूर्यो सनराधिपाम्

18.24

प्रसवे दक्षिणां देशां सिद्ध्यर्थी मन्त्रयोजितः ।
मर्त्ये ऽपि लभते क्षिप्रं कार्यसिद्धिं तु पुष्कलाम्

18.25

अजापी जापिनश्चापि + + + लभते फलम् ।
यथेष्टां कुरुते सिद्धिं जापिनस्यापि धीमते

18.26

तृतीये यामे सदा गच्छेद् दिशं चापि यत्नतः ।
दक्षिणपश्चिमान्मध्ये व्रजेत् तत्र फलोद्भवी

18.27

उदयन्ते तथा भानौ प्रभवोदुत्तरां दिशम् ।
ततः परेण कालान्ते युगमात्रोत्थिते रवौ

18.28

गच्छद् विदिशं तन्त्रज्ञः सिद्धिकामफलोद्भवाम् ।
पश्चिमोत्तरयोर्मध्यं स देशः परिकीर्तितः

18.29

अजापी जापिनस्यापि युक्तिरुक्ता तथागतैः ।
निर्दिष्टां कार्यनिष्पत्तौ सिद्धमन्त्रस्य वा तदा

18.30

मध्याह्ने पूर्वतो गच्छेद् दिशांश्चैव सर्वतः ।
ततः परेण कर्माणि + + + + + कारयेत्

18.31

अर्धरात्रे तदा चन्द्रो ग्रहः पश्येद् वसुन्धराम् ।
कालान्ते विदिशान्ते मुनि + + + + बोधिना

18.32

पूर्वमुत्तरयोर्मध्ये सदृशः सिद्धि लिप्सताम् ।
ततः परेण दिशः प्रोक्ताः पूर्वदक्षिणयोः सदा

18.33

कथितः कालभेदश्च दिशश्चैव विदिक्षु वा ।
अपराह्ने तथा भानोः प्रविशे दैत्यमालयम्

18.34

सुरङ्गेषु च सर्वेषु सत्त्वेषु कूपवासिषु ।
सर्वथा श्रीमुखेष्वेव सर्वत्र पातालोद्भववासिनाम्

18.35

ततः परेण यामान्ते रक्ताङ्गे ग्रहमण्डले ।
प्रविशेद् यक्षयोनीनां निलयांश्चैव सुकश्मलाम्

18.36

व्रजेत् परिगृहां क्षिप्रकालेष्वेव नियोजितम् ।
उत्तिष्ठन्तं साधयेन्मन्त्रं प्रसादाश्रयसम्भवाम्

18.37

आरुरुक्ष पुराग्रं वै असिद्धिः सिद्धिरेव वा ।
आरुरोह स्वकावासं प्रासादाग्रं तु मानवी

18.38

सिद्धन्ते चिन्तिता तस्य कालेष्वेव सुयोजिताः ।
मन्त्रसिद्धिः सदा तस्य मन्त्रतन्त्रविशारदैः

18.39

दिशे गमनेनैव सिद्धिमात्रां समुच्यते ।
अमन्त्री मानवः क्षिप्रं लभते फलसम्भवाम्

18.40

ईप्सितां साधयेदर्थां ग्राम्यांश्चैव च मानुषाम् ।
काला निगमतः प्रोक्तं दिशांश्चैव समन्ततः

18.41

प्रसवेत् सर्वतो मन्त्री कालेष्वेह देशेषु च ।
अश्विनी भरणिसंयुक्ता कृत्तिका मृगशिरास्तथा

18.42

एतेष्वेव हि सर्वत्र नक्षत्रेष्वेव योजिता ।
शान्तिकं कर्म निर्दिष्टं फलहेतुसमोदयम्

18.43

रोहिण्यां साधयेदर्थां पुष्टिकामः सदा जापी ।
आर्द्रायां कारयेत् कर्म वश्याकर्षणहेतुभिः

18.44

पुनर्वस्वो तथा पुष्ये साधयेद्धनसम्पदाम् ।
विचित्राभरणवस्त्रांश्च अञ्जनं समनःशिलाम्

18.45

रोचनां गैरिकांश्चैव आज्यं चैव सुपूजितम् ।
वश्याकर्षणमेधां च पुष्येषु च नियोजयेत्

18.46

आश्लेषायां तथा कर्मा आकृष्टाप्रहरणादयम् ।
मघासु कुर्यात् तथा कर्म राज्यमर्थाभिवार्धनम्

18.47

फल्गुन्यावुभौ श्रेष्ठौ आरुरोह स्ववाहनम् ।
विचित्राणि कर्माणि हस्तेनैव विधीयते

18.48

स्वात्यां विशाखयोः कुर्याद् द्रव्यकर्मसमुद्भवम् ।
अनुराधा तथा ज्येष्ठा उभौ नक्षत्रयोजितौ

18.49

सिद्धिकामः सदा कुर्याद् राज्यकामस्तथा सदा ।
भौम्यार्थसम्पदांश्चापि विविधां योनिजां पराम्

18.50

साधयेद् धननिष्पत्तिं नक्षत्रेष्वेव योजिताः ।
उभौ ह्यषाढौ तथा प्रोक्तौ जन्तुकर्मसु योजयेत् ।
धातुजेष्वपि सर्वत्र दृश्यते सिद्धिमानवे

18.51

मूले मूलकर्माणि ओषध्यां विविधोद्भवाम् ।
साधयेन्मन्त्रतन्त्रज्ञो मूलनक्षत्रयोजिताम्

18.52

श्रवणेष्वेव सर्वत्र कुर्याच्छ्रावण्यवर्णिताम् ।
निर्वाणप्रापकं धर्मं प्रव्रज्यां चापि योजयेत्

18.53

धनिष्ठेषु सदा कुर्याद् धूपपुष्करिसाधनाम् ।
वृक्षां वाहनां चैव वस्त्रांश्चैव विधानवित्

18.54

कुर्यात् शतभिषक् कर्म हिंसाप्राणिषु निर्दयाम् ।
प्राणापरोधसत्त्वेषु कुत्सितां तां विवर्जयेत्

18.55

उभौ भद्रपदौ श्रेष्ठौ भूम्यामर्थनिवारकौ ।
सम्पदा कुरुते क्षिप्रं कर्मेष्वेव हि योजितौ

18.56

सेनापत्यार्थसाधने + + + + + + + + + + + ।
राज्ये धननिष्पत्तिभूषणाभरणादिषु

18.57

नानाधातुगणांश्चैव + + + + यथेप्सिताम् ।
साधयेन्मन्त्रतन्त्रज्ञ उभौ नक्षत्रयोजितौ

18.58

रेवत्यां साधयेद् द्रव्यं नानाधातुसमुद्भवाम् ।
साधयेन्मन्त्रकर्माणि नानारत्नसमुद्भवम् ।
सर्वोदकानि सर्वाणि साधयेन्मन्त्रवितं सदा

18.59

अश्विन्यश्च भरण्यश्च कृत्तिकानां तथांशकम् ।
एतदङ्गारके प्रोक्तं क्षेत्रं चैव नभस्तले

18.60

तस्या वार तथा कीर्त्तिं सौम्यां साधये च तदा महीम् ।
कृत्तिकं त्र्यंशकं विद्यात् रोहिणीमृगशिरो परौ

18.61

एतद् भार्गवे विद्यात् क्षेत्रं चैवं नभस्तले ।
मृगशिरांशं तथा चैवं आद्रायां च सुयोजिताः

18.62

पुनर्वसुश्च तदा विद्याच्छान्त्यर्थं क्षेत्रमुद्भवम् ।
पुष्याङ्गं तथाश्लेषं मघं चैव निबोधितम्

18.63

एतद् भानोः सदा क्षेत्रं कुर्यादाभिचारुकम् ।
फल्गुन्या तु उभौ साङ्गौ ग्रहचिह्नितचिह्नितौ

18.64

इन्दुवारं तथा विद्यात् क्षेत्रं तस्य निशाकरे ।
हस्तचित्रौ तथा सांशौ कुर्यात् कर्मातिमानितम्

18.65

बुधस्थाने तु उद्दिष्टः सर्वकर्मप्रसाधकः ।
स्वात्या विशाखसंयुक्ता सांशा वापि कीर्तिता

18.66

द्वितीयं क्षेत्रनिर्दिष्टं दिवाकरस्य न संशयः ।
अनुराधाज्येष्ठसांशौ तौ निर्दिष्टौ पृथिवीसुतौ

18.67

द्वितीयमङ्गारकक्षेत्रं वृश्चिकातसमुद्भवः ।
सर्वधर्मार्थसंयुक्तं कर्मयुक्तार्थसाधयेत्

18.68

वर्जयेद् धीमतो हिंसां प्राणहिंसाभिचारुकाम् ।
साधयेद् विविधानर्थां कर्मांश्चैव सुपुष्कलाम्

18.69

मूलाषाढौ तथा प्रोक्तौ उभौ सांशत्रिकोद्भवौ ।
एतद् बृहस्पतेः क्षेत्रं नभःस्थं दृश्यते भुवि

18.70

साधयेत् कर्म युक्तात्मा विधानाच्च निवारकाम् ।
महाभोगार्थसम्पत्ती सफलांश्चैव फलोद्भवाम्

18.71

धन्विनि राशिनिर्दिष्टो कुर्यात् सर्वसम्पदाम् ।
श्रवणा धनिष्ठनिर्दिष्टा शतभिषां सममोदिता

18.72

एतत् शनिश्चरक्षेत्रं द्वितीयं कथितं पुरा ।
राश्यमकरनिर्दिष्टा सर्वानर्थनिवारकः

18.73

तत्रस्थो यदि कर्माणि आरभेत विचक्षण ।
सिध्यत्ययत्नान्मन्त्रज्ञस्तस्मिं काले प्रयोजिता

18.74

राश्यः कुम्भनिर्दिष्टा प्रोक्ता मुनिभिः पुरा ।
उभौ भद्रपदौ प्रख्यौ रेवती च यशस्विनी

18.75

अङ्गहीना तथा पूर्वा शुभेन्द्रग्रहचिह्निताः ।
प्रशस्ताः शोभनाः सर्वे तत् क्षेत्रं गुरवे + दा

18.76

मीनराशिसमासेन कथितं लोकचिह्नितैः ।
ग्रहः प्रधान सर्वत्र तिर्यङ्मुक्ता सर्वकर्मसु

18.77

सप्तैते कथिता ह्यग्रमानुषाणां गणागमे ।
अनन्ता ग्रहमुख्यास्तु अनन्ता ग्रहकुत्सिताः ।
मध्यस्था कथिता ह्येते मानुषाणां हिताहिता

18.78

इति ।
तेषां सत्त्वप्रयोगेषु निर्दिष्टा मन्त्रजापिनाम् ।
सत्त्वासत्त्वं तथा कालं नियमं चैव कीर्तितम्

18.79

नाग्रहो धर्मसंयुक्तं न कर्मो ग्रहचिह्नितम् ।
संयोगग्रहनक्षत्रो मन्त्रसिद्धिमुदाहृता

18.80

न सिद्धिः कालमिति ज्ञेया नासिद्धिः कालमुच्यते ।
सिद्ध्यसिद्धावुभावेतौ सङ्गाकालतः क्रमा ।
विपरीतरता धर्मा न धर्मा धर्मचारिणः

18.81

धर्मकर्मसमायोगा संयुक्तः साधयिष्यति ।
न दैवात् कर्ममुक्तस्तु सिद्धिर्न सिद्धिर्देवमुद्भवा

18.82

तत्कर्मश्च सिद्धिश्च दैवमेव नियोजयेत् ।
न दैवात् कर्ममुक्तस्तु दैवं कर्ममितःपरम्

18.83

कर्मकं तु मतः प्रोक्तं विधिनिर्दिष्टहेतुना ।
ग्रहा कर्ममुक्तास्तु नक्षत्राश्च सुपूजिताः

18.84

तस्मात् कर्म समं तेषां कर्मार्थं सिद्धिरिष्यते ।
कथिता गणना ह्येते कर्म एव सदैवतम्

18.85

न ग्रहा राशयो योनिरक्षताश्च सुपूजिताः ।
कर्म एष सदा विद्यात् विधिमुक्ता समोदिता

18.86

फलोद्भवं च सदा कर्म युक्तिर्मन्त्रेषु भाषिता ।
तस्माद् युक्तितः कर्म न ग्रहो नापि राश्यजा

18.87

नक्षत्राणां तिथीनां च गतियोनि समासतः ।
कालप्रमाणनियमश्च न परं कर्मयोः सदा

18.88

तस्मात् तन्त्रवित् सेव धर्म एव नियोजयेत् ।
अनन्तग्रहाणां लोके राशयो विविधा परे

18.89

तिथयो गणिता सङ्ख्ये क्षेत्रश्चैव नियोक्तृभिः ।
तस्मात् संक्षेपतो वक्ष्ये कथ्यमानं निबोधताम्

18.90

मेषो वृषो मिथुनश्च कर्कटश्च सुयोजितः ।
सिंहकन्यतुलं चैव वृश्चिकधन्विनौ परौ

18.91

मकरः कुम्भ इति ज्ञेयौ मीनवानरयो ऽपरे ।
मानुषो देवराशिश्च अपरो गरुडापरौ

18.92

यक्षराक्षसाराश्यो तिर्यक्प्रेतशुभौ परे ।
नरका राशिनिर्दिष्टा अनन्ता गतियोनिजा

18.93

निर्दिष्टा राशयः सर्वे नानाधातुसमुद्भवाः ।
असङ्ख्येया मुनिभिः प्रोक्ता राशयो बहुधा परे

18.94

तेषां गतिचिह्नानि सत्त्वयोनिसमाश्रयम् ।
कथितं कथयिष्ये ऽह अनन्तां नक्षत्रा ग्रहाम् ।
क्षेत्रा च बहुधा प्रोक्ता नानाग्रहनिषेविता

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc