माण्डूक्योपनिषत्कारिका · अध्याय 3
उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते ।
प्रागुत्पत्तेर् अजं सर्वं तेनासौ कृपणः स्मृतः
अतो वक्ष्याम्य् अकार्पण्यम् अजाति समतां गतम् ।
यथा न जायते किञ्चिज् जायमानं समन्ततः
आत्मा ह्य् आकाशवज्जीवैर् घटाकाशैर् इवोदितः ।
घटादिवच् च संघातैर् जाताव् एतन् निदर्शनम्
घटादिषु प्रलीनेषु घटाकाशादयो यथा ।
आकाशे संप्रलीयन्ते तद्वज् जीवा इहात्मनि
यथैकस्मिन् घाटाकाशे रजोधूमादिभिर् युते ।
न सर्वे संप्रयुज्यन्ते तद्वज् जीवाः सुखादिभिः
रूपकार्यसमाख्याश् च भिद्यन्ते तत्र तत्र वै ।
आकाशस्य न भेदो ऽस्ति तद्वज् जीवेषु निर्णयः
नाकाशस्य घटाकाशो विकारावयवौ यथा ।
नैवात्मनः सदा जीवो विकारावयवौ तथा
यथा भवति बालानां गगनं मलिनं मलैः ।
तथा भवत्य् अबुद्धानाम् आत्मापि मलिनो मलैः
मरणे संभवे चैव गत्यागमनयोर् अपि ।
स्थितौ सर्वशरीरेषु आकाशेनाविलक्षणः
संघाताः स्वप्नवत् सर्वे आत्ममायाविसर्जिताः ।
आधिक्ये सर्वसाम्ये वा नोपपत्तिर् हि विद्यते
रसादयो हि ये कोशा व्याख्यातास् तैत्तिरीयके ।
तेषाम् आत्मा परो जीवः खं यथा संप्रकाशितः
द्वयोर् द्वयोर् मधुज्ञाने परं ब्रह्म प्रकाशितम् ।
पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः
जीवात्मनोर् अनन्यत्वम् अभेदेन प्रशस्यते ।
नानात्वं निन्द्यते यच् च तद् एवं हि समञ्जसम्
जीवात्मनोः पृथक्त्वं यत् प्रागुत्पत्तेः प्रकीर्तितम् ।
भविष्यद्वृत्या गौणं तन् मुख्यत्वं हि न युज्यते
मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर् या चोदितान्यथा ।
उपायः सो ऽवताराय नास्ति भेदः कथञ्चन
आश्रमास्त्रिविधा हीनमध्यमोत्कृष्टदृष्टयः ।
उपासनोपदिष्टेयं तदर्थम् अनुकम्पया
स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम् ।
परस्परं विरुध्यन्ते तैरयं न विरुध्यते
अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ।
तेषाम् उभयथा द्वैतं तेनायं न विरुद्ध्यते
मायया भिद्यते ह्य् एतन् नान्यथाजं कथञ्चन ।
तत्त्वतो भिद्यमाने हि मर्त्यताम् अमृतं व्रजेत्
अजातस्यैव भावस्य जातिम् इच्छन्ति वादिनः ।
अजातो ह्य् अमृतो भावो मर्त्यतां कथम् एष्यति
न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा ।
प्रकृतेर् अन्यथाभावो न कथञ्चिद् भविष्यति
स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् ।
कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः
भूततो ऽभूततो वापि सृज्यमाने समा श्रुतिः ।
निश्चितं युक्तियुक्तं च यत् तद् भवति नेतरत्
नेह नानेति चाम्नायाद् इन्द्रो मायाभिर् इत्य् अपि ।
अजायमानो बहुधा मायया जायते तु सः
संभूतेर् अपवादाच् च संभवः प्रतिषिध्यते ।
को न्व् एनं जनयेद् इति कारणं प्रतिषिध्यते
स एष नेति नेतीति व्याख्यातं निह्नुते यतः ।
सर्वम् अग्राह्यभावेन हेतुनाजं प्रकाशते
सतो हि मायया जन्म युज्यते न तु तत्त्वतः ।
तत्त्वतो जायते यस्य जातं तस्य हि जायते
असतो मायया जन्म तत्त्वतो नैव युज्यते ।
वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते
यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः ।
तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः
अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन् न संशयः
मनोदृश्यम् इदं द्वैतं यत् किञ्चित् सचराचरम् ।
मनसो ह्य् अमनीभावे द्वैतं नैवोपलभ्यते
आत्मसत्यानुबोधेन न संकल्पयते यदा ।
अमनस्तां तदा याति ग्राह्याभावे तदग्रहम्
अकल्पमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते ।
ब्रह्म ज्ञेयम् अजं नित्यम् अजेनाजं विबुध्यते
निगृहीतस्य मनसो निर्विकल्पस्य धीमतः ।
प्रचारः स तु विज्ञेयः सुषुप्ते ऽन्यो न तत्समः
लीयते हि सुषुप्ते तन् निगृहीतं न लीयते ।
तद् एव निर्भयं ब्रह्म ज्ञानलोकं समन्ततः
अजम् अनिन्द्रम् अस्वप्नम् अनामकम् अरूपकम् ।
सकृद्विभातं सर्वज्ञं नोपचारः कथञ्चन
सर्वाभिलापविगतः सर्वचिन्तासमुत्थितः ।
सुप्रशान्तः सकृज्ज्योतिः समाधिर् अचलो ऽभयः
ग्रहो न तत्र नोत्सर्गश् चिन्ता यत्र न विद्यते ।
आत्मसंस्थं तदा ज्ञानम् अजाति समतां गतम्
अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः ।
योगिनो बिभ्यति ह्य् अस्माद् अभये भयदर्शिनः
मनसो निग्रहायत्तम् अभयं सर्वयोगिनाम् ।
दुःखक्षयः प्रबोधश् चाप्य् अक्षया शान्तिर् एव च
उत्सेक उदधेर् यद्वत् कुशाग्रेणैकबिन्दुना ।
मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः
उपायेन निगृह्णीयाद् विक्षिप्तं कामभोगयोः ।
सुप्रसन्नं लये चैव यथा कामो लयस् तथा
दुःखं सर्वम् अनुस्मृत्य कामभोगान् निवर्तयेत् ।
अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति
लये संबोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः ।
सकषायं विजानीयात् समप्राप्तं न चालयेत्
नास्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत् ।
निश्चलं निश्चरच् चित्तम् एकीकुर्यात् प्रयत्नतः
यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।
अनिङ्गनम् अनाभासं निष्पन्नं ब्रह्म तत् तदा
स्वस्थं शान्तं सनिर्वाणम् अकथ्यं सुखम् उत्तमम् ।
अजम् अजेन ज्ञेयेन सर्वज्ञं परिचक्षते
न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते ।
एतत् तद् उत्तमं सत्यं यत्र किञ्चिन् न जायते
मूल पाठ: Māṇḍūkyopaniṣatkārikā (also known as Gauḍapādakārikā, Māṇḍūkyakārikā or Āgamaśāstra) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0