माण्डूक्योपनिषत्कारिका · अध्याय 4
ज्ञानेनाकाशकल्पेन धर्मान्यो गगनोपमान् ।
ज्ञेयाभिन्नेन संबुद्धस् तं वन्दे द्विपदां वरम्
अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः ।
अविवादो ऽविरुद्धश् च देशितस् तं नमाम्य् अहम्
भूतस्य जातिम् इच्छन्ति वादिनः केचिद् एव हि ।
अभूतस्यापरे धीरा विवदन्तः परस्परम्
भूतं न जायते किञ्चिद् अभूतं नैव जायते ।
विवदन्तो ऽद्वया ह्य् एवम् अजातिं ख्यापयन्ति ते
ख्याप्यमानाम् अजातिं तैर् अनुमोदामहे वयम् ।
विवदामो न तैः सार्धम् अविवादं निबोधत
अजातस्यैव धर्मस्य जातिम् इच्छन्ति वादिनः ।
अजातो ह्य् अमृतो धर्मो मर्त्यतां कथम् एष्यति
न भवत्य् अमृतं मर्त्यं न मर्त्यम् अमृतं तथा ।
प्रकृतेर् अन्यथाभावो न कथञ्चिद् भविष्यति
स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम् ।
कृतकेनामृतस् तस्य कथं स्थास्यति निश्चलः
सांसिद्धिकी स्वाभाविकी सहजा अकृता च या ।
प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या
जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः ।
जरामरणम् इच्छन्तश् च्यवन्ते तन्मनीषया
कारणं यस्य वै कार्यं कारणं तस्य जायते ।
जायमानं कथम् अजं भिन्नं नित्यं कथं च तत्
कारणाद् यद्य् अनन्यत्वम् अतः कार्यम् अजं यदि ।
जायमानाद् धि वै कार्यात् कारणं ते कथं ध्रुवम्
अजाद् वै जायते यस्य दृष्टान्तस् तस्य नास्ति वै ।
जाताच् च जायामानस्य न व्यवस्था प्रसज्यते
हेतोर् आदिः फलं येषाम् आदिर् हेतुः फलस्य च ।
हेतोः फलस्य चानादिः कथं तैर् उपवर्ण्यते
हेतोर् आदिः फलं येषाम् आदिर् हेतुः कलस्य च ।
तथा जन्म भवेत् तेषां पुत्राज् जन्म पितुर् यथा
संभवे हेतुफलयोर् एषितव्यः क्रमस् त्वया ।
युगपत्संभवे यस्माद् असंबन्धो विषाणवत्
फलाद् उत्पद्यमानः सन् न ते हेतुः प्रसिध्यति ।
अप्रसिद्धः कथं हेतुः फलम् उत्पादयिष्यति
यदि हेतोः फलात् सिद्धिः फलसिद्धिश् च हेतुतः ।
कतरत् पूर्वनिष्पन्नं यस्य सिद्धिर् अपेक्षया
अशक्तिर् अपरिज्ञानं क्रमकोपो ऽथ वा पुनः ।
एवं हि सर्वथा बुद्धैर् अजातिः परिदीपिता
बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि स ।
न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते
पूर्वापरापरिज्ञानम् अजातेः परिदीपकम् ।
जायमानाद् धि वै धर्मात् कथं पूर्वं न गृह्यते
स्वतो वा परतो वापि न किञ्चिद् वस्तु जायते ।
सद् असत् सदसद् वापि न किञ्चिद् वस्तु जायते
हेतुर् न जायते ऽनादेः फलं चापि स्वभावतः ।
आदिर् न विद्यते यस्य तस्य ह्य् आदिर् न विद्यते
प्रज्ञप्तेः सनिमित्तत्वम् अन्यथा द्वयनाशतः ।
संक्लेशस्योपलब्धेश् च परतन्त्रास्तिता मता
प्रज्ञप्तेः सनिमित्तत्वम् इष्यते युक्तिदर्शनात् ।
निमित्तस्यानिमित्तत्वम् इष्यते भूतदर्शनात्
चित्तं न संस्पृशत्य् अर्थं नार्थाभासं तथैव च ।
अभूतो हि यतश् चार्थो नार्थाभासस् ततः पृथक्
निमित्तं न सदा चित्तं संस्पृशत्य् अध्वसु त्रिषु ।
अनिमित्तो विपर्यासः कथं तस्य भविष्यति
तस्मान् न जायते चित्तं चित्तदृश्यं न जायते ।
तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम्
अजातं जायते यस्माद् अजातिः प्रकृतिस् ततः ।
प्रकृतेर् अन्यथाभावो न कथञ्चिद् भविष्यति
अनादेर् अन्तवत्त्वं च संसारस्य न सेत्स्यति ।
अनन्तता चादिमतो मोक्षस्य न भविष्यति
आदावन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा ।
वितथैः सदृशाः सन्तो ऽवितथा इव लक्षिताः
सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।
तस्माद् आद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः
सर्वे धर्मा मृषा स्वप्ने कायस्यान्तनिदर्शनात् ।
संवृत्ते ऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः
न युक्तं दर्शनं गत्वा कालस्यानियमाद् गतौ ।
प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते
मित्राद्यैः सह संमन्त्र्य संबुद्धौ न प्रपद्यते ।
गृहीतं चापि यत् किञ्चित् प्रतिबुद्धो न पश्यति
स्वप्ने चावस्तुकः कायः पृथग् अन्यस्य दर्शनात् ।
यथा कायस् तथा सर्वं चित्तदृश्यम् अवस्तुकम्
ग्रहणाज् जागरितवत् तद्धेतुः स्वप्न इष्यते ।
तद् धेतुत्वात् तु तस्यैव सज्जागरितम् इष्यते
उत्पादस्याप्रसिद्धत्वाद् अजं सर्वम् उदाहृतम् ।
न च भूताद् अभूतस्य संभवो ऽस्ति कथञ्चन
असज् जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः ।
असत्स्वप्ने ऽपि दृष्ट्वा च प्रतिबुद्धौ न पश्यति
नास्त्य् असद्धेतुकम् असत् सदसद्धेतुकं तथा ।
सच् च सद्धेतुकं नास्ति सद्धेतुकम् असत् कुतः
विपर्यासाद् यथा जाग्रद् अचिन्त्यान् भूतवत् स्पृशेत् ।
तथा स्वप्ने विपर्यासाद् धर्मांस् तत्रैव पश्यति
उपलम्भात् समाचाराद् अस्ति वस्तुत्ववादिनाम् ।
जातिस् तु देशिता बुद्धैर् अजातेस् त्रसतां सदा
अजातेस् त्रसतां तेषाम् उपलम्भाद् वियन्ति ये ।
जातिदोषा न सेत्स्यन्ति दोषो ऽप्य् अल्पो भविष्यति
उपलम्भात् समाचारान् मायाहस्ती यथोच्यते ।
उपलम्भात् समाचाराद् अस्ति वस्तु तथोच्यते
जात्याभासं चलाभासं वस्त्वाभासं तथैव च ।
अजाचलम् अवस्तुत्वं विज्ञानं शान्तम् अद्वयम्
एवं न जायते चित्तम् एवं धर्मा अजाः स्मृताः ।
एवम् एव विजानन्तो न पतन्ति विपर्यये
ऋजुवक्रादिकाभासम् अलातस्पन्दितं यथा ।
ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा
अस्पन्दमानम् अलातम् अनाभासम् अजं यथा ।
अस्पन्दमानं विज्ञानम् अनाभासम् अजं तथा
अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः ।
न ततो ऽन्यत्र निस्पन्दान् नालातं प्रविशन्ति ते
न निर्गता अलातात् ते द्रव्यत्वाभावयोगतः ।
विज्ञाने ऽपि तथैव स्युर् आभासस्याविशेषतः
विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः ।
न ततो ऽन्यत्र निस्पन्दान् न विज्ञानं विशन्ति ते
न निर्गतास् ते विज्ञानाद् द्रव्यत्वाभावयोगतः ।
कार्यकारणताभावाद् यतो ऽचिन्त्याः सदैव ते
द्रव्यं द्रव्यस्य हेतुः स्याद् अन्यद् अन्यस्य चैव हि ।
द्रव्यत्वम् अन्यभावो वा धर्माणां नोपपद्यते
एवं न चित्तजा धर्माश् चित्तं वापि न धर्मजम् ।
एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः
यावद् धेतुफलावेशस् तावद् धेतुफलोद्भवः ।
क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः
यावद् धेतुफलावेशः संसारस् तावदायतः ।
क्षीणे हेतुफलावेशे संसारं न प्रपद्यते
संवृत्या जायते सर्वं शाश्वतं नास्ति तेन वै ।
सद्भावेन ह्य् अजं सर्वम् उच्छेदस् तेन नास्ति वै
धर्मा य इति जायन्ते जायन्ते ते न तत्त्वतः ।
जन्म मायोपमं तेषां सा च माया न विद्यते
यथा मायामयाद् बीजाज् जायते तन्मयोङ्कुरः ।
नासौ नित्यो न चोच्छेदी तद्वद् धर्मेषु योजना
नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा ।
यत्र वर्णा न वर्तन्ते विवेकस् तत्र नोच्यते
यथा स्वप्ने द्वयाभासं चित्तं चलति मायया ।
तथा जाग्रद् द्वयाभासं चित्तं चलति मायया
अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः ।
अद्वयं च द्वयाभासं तथा जाग्रन् न संशयः
स्वप्नदृक् प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान् ।
अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा
स्वप्नदृक्चित्तदृश्यास् ते न विद्यन्ते ततः पृथक् ।
तथा तद् दृश्यम् एवेदं स्वप्नदृक्चित्तम् इष्यते
चरञ् जागरिते जाग्रद् दिक्षु वै दशसु स्थितान् ।
अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा
जाग्रच् चित्तेक्षणीयास् ते न विद्यन्ते ततः पृथक् ।
तथा तद् दृश्यम् एवेदं जाग्रतश् चित्तम् इष्यते
उभे ह्य् अन्योन्यदृश्ये ते किं तद् अस्तीति चोच्यते ।
लक्षणाशून्यम् उभयं तन् मते नैव गृह्यते
यथा स्वप्नमयो जीवो जायते म्रियते ऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च
यथा मायामयो जीवो जायते म्रियते ऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च
यथा निर्मितको जीवो जायते म्रियते ऽपि च ।
तथा जीवा अमी सर्वे भवन्ति न भवन्ति च
न कश्चिज् जायते जीवः संभवो ऽस्य न विद्यते ।
एतत् तद् उत्तमं सत्यं यत्र किञ्चिन् न जायते
चित्तस्पन्दिकम् एवेदं ग्राह्यग्राहकवद् द्वयम् ।
चित्तं निर्विषयं नित्यम् असङ्गं तेन कीर्तितम्
यो ऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्य् असौ ।
परतन्त्राभिसंवृत्या स्यान् नास्ति परमार्थतः
अजः कल्पितसंवृत्या परमार्थेन नाप्य् अजः ।
परतन्त्रादिनिष्पत्त्या संवृत्या जायते तु सः
अभूताभिनिवेशो ऽस्ति द्वयं तत्र न विद्यते ।
द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते
यदा न लभते हेतून् उत्तमाधममध्यमान् ।
तदा न जायते चित्तं हेत्वभावे फलं कुतः
अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया ।
अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः
बुद्ध्वा निमित्ततां सत्यां हेतुं पृथग् अनाप्नुवन् ।
वीतशोकं तथाकामम् अभयं पदम् अश्नुते
अभूताभिनिवेशाद् धि सदृशे तत् प्रवर्तते ।
वस्त्वभावं स बुध्वैव निःसङ्गं विनिवर्तते
निवृत्तस्याप्रवृत्तस्य निश्चला हि तथा स्थितिः ।
विषयः स हि बुद्धानां तत् साम्यम् अजम् अद्वयम्
अजम् अनिद्रम् अस्वप्नं प्रभातं भवति स्वयम् ।
सकृद्विभातो ह्य् एवैष धर्म धातुस्वभावतः
सुखम् आव्रियते नित्यं दुःखं विव्रियते सदा ।
यस्य कस्य च धर्मस्य ग्रहेण भगवान् असौ
अस्ति नास्त्य् अस्ति नास्तीति नास्ति नास्तीति वा पुनः ।
चलस्थिरोभयाभावैर् आवृणोत्ये व बालिशः
कोठ्यश् चतस्र एतास् तु ग्रहैर् यासां सदा वृतः ।
भगवान् आभिर् अस्पृष्टो येन दृष्टः स सर्वदृक्
प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदम् अद्वयम् ।
अनापन्नादिमध्यान्तं किम् अतः परम् ईहते
विप्राणां विनयो ह्य् एष शमः प्राकृत उच्यते ।
दमः प्रकृतिदान्तत्वाद् एवं विद्वाञ् शमं व्रजेत्
सवस्तु सोपलम्भं च द्वयं लौकिकम् इष्यते ।
अवस्तु सोपलम्भं च शुद्धं लौकिकम् इष्यते
अवस्त्व् अनुपलम्भं च लोकोत्तरम् इति स्मृतम् ।
ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम्
ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम् ।
सर्वज्ञता हि सर्वत्र भवतीह महाधियः
हेयज्ञेयाप्यपाक्यानि विज्ञेयान्य् अग्रयाणतः ।
तेषाम् अन्यत्र विज्ञेयाद् उपलम्भस् त्रिषु स्मृतः
प्रकृत्याकाशवज् ज्ञेयाः सर्वे धर्मा अनादयः ।
विद्यते न हि नानात्वं तेषां क्वचन किञ्चनः
आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः ।
यस्यैवं भवति क्षान्तिः सो ऽमृतत्वाय कल्पते
आदिशान्ता ह्य् अनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः ।
सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम्
वैशारद्यं तु वै नास्ति भेदे विचरतां सदा ।
भेदनिम्नाः पृथग्वादास् तस्मात् ते कृपणाः स्मृताः
अजे साम्ये तु ये केचिद् भविष्यन्ति सुनिश्चिताः ।
ते हि लोके महाज्ञानास् तच् च लोको न गाहते
अजेष्व् अजम् असंक्रान्तं धर्मेषु ज्ञानम् इष्यते ।
यतो न क्रमते ज्ञानम् असङ्गं तेन कीर्तितम्
अणुमात्रे ऽपि वैधर्म्ये जायमाने ऽविपश्चितः ।
असङ्गता सदा नास्ति किमुतावरणच्युतिः
अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः ।
आदौ बुद्धास् तथा मुक्ता बुध्यन्त इति नायकाः
क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु तायिनः ।
सर्वे धर्मास् तथा ज्ञानं नैतद् बुद्धेन भाषितम्
दुर्दर्शम् अतिगम्भीरम् अजं साम्यं विशारदम् ।
बुद्ध्वा पदम् अनानात्वं नमस्कुर्मो यथाबलम्
मूल पाठ: Māṇḍūkyopaniṣatkārikā (also known as Gauḍapādakārikā, Māṇḍūkyakārikā or Āgamaśāstra) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0