भाषा

ENहिગુ
ग्रंथ पाठ

माण्डूक्योपनिषत्कारिका · अध्याय 2

2.1

वैतथ्यं सर्वभावानां स्वप्न आहुर् मनीषिणः ।
अन्तःस्थानात् तु भावानां संवृतत्वेन हेतुना

2.2

अदीर्घत्वाच् च कालस्य गत्वा देशान् न पश्यति ।
प्रतिबुद्धश् च वै सर्वस् तस्मिन् देशे न विद्यते

2.3

अभावश् च रथादीनां श्रूयते न्यायपूर्वकम् ।
वैतथ्यं तेन वै प्राप्तं स्वप्न आहुः प्रकाशितम्

2.4

अन्तस्थानात् तु भेदानां तस्माज् जागरिते स्मृतम् ।
यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते

2.5

स्वप्नजागरितस्थाने ह्य् एकम् आहुर् मनीषिणः ।
भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना

2.6

आदावन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा ।
वितथैः सदृशाः सन्तो ऽवितथा इव लक्षिताः

2.7

सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।
तस्माद् आद्यन्तवत्वेन मिथ्यैव खलु ते स्मृताः

2.8

अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् ।
तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः

2.9

स्वप्नवृत्ताव् अपि त्व् अन्तश् चेतसा कल्पितं त्व् असत् ।
बहिश् चेतोगृहीतं सद् दृष्टं वैतथ्यम् एतयोः

2.10

जाग्रद्वृत्तावपि त्व् अन्तश् चेतसा कल्पितं त्व् असत् ।
बहिश्चेतोगृहीतं सद् युक्तं वैतथ्यम् एतयोः

2.11

उभयोर् अपि वैतथ्यं भेदानां स्थानयोर् यदि ।
क एतान् बुध्यते भेदान् को वै तेषां विकल्पकः

2.12

कल्पयत्य् आत्मनात्मानम् आत्मा देवः स्वमायया ।
स एव बुध्यते भेदान् इति वेदान्तनिश्चयः

2.13

विकरोत्य् अपरान् भावान् अन्तश्चित्ते व्यवस्थितान् ।
नियतांश् च बहिश्चित्त एवं कल्पयते प्रभुः

2.14

चित्तकाला हि ये ऽन्तस् तु द्वयकालाश् च ये बहिः ।
कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः

2.15

अव्यक्ता एव ये ऽन्तस् तु स्फुटा एव च ये बहिः ।
कल्पिता एव ते सर्वे विशेषस् त्व् इन्द्रियान्तरे

2.16

जीवं कल्पयते पूर्वं वचो भावान् पृथग्विधान् ।
बाह्यान् आध्यात्मिकांश् चैव यथाविद्यस् तथास्मृतिः

2.17

अनिश्चिता यथा रज्जुर् अन्धकारे विकल्पिता ।
सर्पधारादिभिर् भावैस् तद्वद् आत्मा विकल्पितः

2.18

निश्चितायां यथा रज्ज्वां विकल्पो विनिवर्तते ।
रज्जुर् एवेति चाद्वैतं तद्वद् आत्मविनिश्चयः

2.19

प्राणादिभिर् अनन्तैश् च भावैर् एतैर् विकल्पितः ।
मायैषा तस्य देवस्य यया संमोहितः स्वयम्

2.20

प्राण इति प्राणविदो भूतानीति च तद्विदः ।
गुणा इति गुणविदस् तत्त्वानीति च तद्विदः

2.21

पादा इति पादविदो विषया इति च तद्विदः ।
लोका इति लोकविदो देवा इति च तद्विदः

2.23

वेदा इति वेदविदो यज्ञा इति च तद्विदः ।
भोक्तेति च भोक्तृविदो भोज्यम् इति च तद्विदः ॥ मन्दुप्क्_2. 22 ॥
सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः ।
मूर्त इति मूर्तविदो ऽमूर्त इति च तद्विदः

2.24

काल इति कालविदो दिश इति च तद्विदः ।
वादा इति वादविदो भुवनानीति तद्विदः

2.25

मन इति मनोविदो बुद्धिर् इति च तद्विदः ।
चित्तम् इति चित्तविदो धर्माधर्मौ च तद्विदः

2.26

पञ्चविंशक इत्य् एके षड्विश इति चापरे ।
एकत्रिंशक इत्य् आहुर् अनन्त इति चापरे

2.27

लोकांल् लोकविदः प्राहुर् आश्रमा इति तद्विदः ।
स्त्रीपुंनपुंसकं लैङ्गाः परापरम् अथापरे

2.28

सृष्टिर् इति सृष्टिविदो लय इति च तद्विदः ।
स्थितिर् इति स्थितिविदः सर्वे चेह तु सर्वदा

2.29

यं भावं दर्शयेद् यस्य तं भावं स तु पश्यति ।
तं चावति स भूत्वासौ तद्ग्रहः समुपैति तम्

2.30

एतैर् एषो ऽपृथग्भावैः पृथग् एवेति लक्षितः ।
एवं यो वेद तत्त्वेन कल्पयेत् सो ऽविशङ्कितः

2.31

स्वप्नमाये यथा दृष्टं गन्धर्वनगरं यथा ।
तथा विश्वम् इदं दृष्टं वेदान्तेषु विचक्षणैः

2.32

न निरोधो न चोत्पत्तिर् न बद्धो न च साधकः ।
न मुमुक्षुर् न वै मुक्त इत्य् एषा परमार्थता

2.33

भावैर् असद्भिर् एवायम् अद्वयेन च कल्पितः ।
भावा अप्य् अद्वयेनैव तस्माद् अद्वयता शिवा

2.34

नात्मभावेन नानेदं न स्वेनापि कथञ्चन ।
न पृथङ् नापृथक् किञ्चिद् इति तत्त्वविदो विदुः

2.35

वीतरागभयक्रोधैर् मुनिभिर् वेदपारगैः ।
निर्विकल्पो ह्य् अयं दृष्टः प्रपञ्चोपशमो ऽद्वयः

2.36

तस्माद् एवं विदित्वैनम् अद्वैते योजयेत् स्मृतिम् ।
अद्वैतं समनुप्राप्य जडवल्लोकम् आचरेत्

2.37

निःस्तुतिर् निर्नमस्कारो निःस्वधाकार एव च ।
चलाचलनिकेतश् च यतिर् यादृच्छिको भवेत्

2.38

तत्त्वम् आध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु बाह्यतः ।
तत्त्वीभूतस् तदारामस् तत्त्वाद् अप्रच्युतो भवेत्

मूल पाठ: Māṇḍūkyopaniṣatkārikā (also known as Gauḍapādakārikā, Māṇḍūkyakārikā or Āgamaśāstra) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc