भाषा

ENहिગુ
ग्रंथ पाठ

माण्डूक्योपनिषद् (टीका सहित) · अध्याय 1

1.1

__________
मन्दुप्च्_6
एष हि स्वरूपावस्थः सर्वेश्वरः साधिदैविकस्य भेदजातस्य सर्वस्येशिता नैतस्माज् जात्यन्तरभूतो ऽन्येषाम् इव ।
"प्राणबन्धनं हि सोम्य मनः"(छा.उ.6 । 8 । 2) इति श्रुतेः ।
अयम् एव हि सर्वस्य सर्वभेदावस्थो ज्ञातेत्येष सर्वज्ञः ।
एषो ऽन्तर्याम्य् अन्तरनुप्रविश्य सर्वेषां भूतानां नियन्ताप्य् एष एव ।
अत एव यथोक्तं सभेदं जगत्प्रसूयत इत्य् एष योनिः सर्वस्य ।
यत एवं प्रभवश् चापि यश् च प्रभवाप्ययौ हि भूतानाम् एष एव ॥6॥
==========================================================================
अथ गौडपादीयकारिकाः
स्तर्त् मन्दुप्क् 1.1
अत्रैतस्मिन् यथोक्ते ऽर्थ एते श्लोका भवन्ति
बहिःप्रज्ञो विभुः विश्वो ह्य् अन्तःप्रज्ञस् तु तैजसः ।
घनप्रज्ञः तथा प्राज्ञ एक एव त्रिधा स्मृतः

1.2

मन्दुप्क्च्_1.1
बहिःप्रज्ञ इति ।
पर्यायेण त्रिस्थानत्वात् स अहम् इति स्मृत्या प्रतिसन्धानाच् च स्थानत्रयव्यतिरिक्तमेकत्वं शुद्धत्वम् असङ्गत्वं च सिद्धम् इत्य् अभिप्रायः ।
महामत्स्यादिदृष्टान्तश्रुतेः ॥1॥
स्तर्त् मन्दुप्क् 1.2
जागरितावस्थायाम् एव विश्वादीनां त्रयाणाम् अनुभवप्रदर्शनार्थो ऽयं श्लोकः
दक्षिणाक्षिमुखे विश्वो मनस्य् अन्तस् तु तैजसः ।
आकाशे च हृदि प्राज्ञस् त्रिधा देहे व्यवस्थितः

1.3

मन्दुप्क्च्_1.2
दक्षिणम् अक्ष्येव मुखं तस्मिन्प्राधान्येन द्रष्टा स्थूलानां विश्वो ऽनुभूयते"इन्धो ह वै नामैष यो ऽयं दक्षिणे ऽक्षन् पुरुषः" ।
इति श्रुतेः ।
इन्धो दीप्तिगुणो वैश्वानरः ।
आदित्यान्तर्गतो वैराज आत्मा चक्षुषि च द्रष्टैकः ।
नन्व् अयो हिरण्यगर्भः क्षेत्रज्ञो दक्षिणो ऽक्षि(क्ष)ण्यक्ष्णोर्नियन्ता द्रष्टा चान्यो देहस्वामी ।
न स्वतो भेदानभ्युपगमात् ।
"एको देवः सर्वभूतेषु गूढः"(श्वे.उ.6 । 11) इति श्रुतेः ।
"क्षेत्रज्ञं चापि मां विद्धिं सर्वक्षेत्रेषु भारत" ।
(गीता 13 । 2) "आविभक्तं च भूतेषु विभक्तमिव च स्थितम्" ।
(गीता 13 । 16) इति स्मृतेः ।
"सर्वेषु करणेष्व् अविशेषे ऽपि दक्षिणाक्षण्य् उपलब्धिपाटवदर्शनात् तत्र विशेषेण निर्देशो विश्वस्य ।
दक्षिणाक्षिगतो रूपं दृष्ट्वा निमीलिताक्षस् तदेव स्मरन् मनस्यन्तः स्वप्न इव तदेव वासनारूपाभिव्यक्तं पश्यति ।
यथात्र तथा स्वप्ने ।
अतो मनस्यन्तस् तु तैजसो ऽपि विश्व एव ।
आकाशे च हृदि स्मरणाख्यव्यापारोपरमे प्राज्ञ एकीभूतो घनप्रज्ञ एव भवति मनोव्यापाराभावात् ।
दर्शनस्मरण एव हि मनःस्पन्दिते तदभावे हृद्येवाविशेषेण प्राणात्मनावस्थानम् ।
"प्राणो ह्य् एवैतान् सर्वान् संवृङ्क्ते"(छा.4 । 3 । 3) इति श्रुतेः ।
तैजसो हिरण्यगर्भो मनःस्थत्वात् ।
"लिङ्गं मनः"(बृ.उ4.4.6) ।
"मनोमयो ऽयं पुरुषः" (बृ.उ5 । 3 । 1) इत्यादिश्रुतिभ्यः ।
ननु व्याकृतः प्राणः सुषुप्ते ।
तदात्मकानि करणानि भवन्ति ।
कथम् अव्याकृतता?
नैष दोषो ऽव्याकृतस्य देशकालविशेषाभावात् ।
यद्यपि प्राणाभिमाने सति व्याकृततैव प्राणस्य तथापि पिण्डपरिच्छिन्नविशेषाभिमाननिरोधः प्राणोभवतीत्यव्याकृत एव प्राणः सुषुप्ते परिच्छिन्नाभिमानवताम् ।
यथा प्राणलये परिच्छिन्नाभिमानिनां प्राणो ऽव्याकृतस् तथा प्राणाभिमानिनो ऽप्य् अविशेषापत्तावव्याकृतता समाना प्रसवबीजात्मकत्वं च तदध्यक्षश् चैको ऽव्याकृतावस्थः ।
परिच्छिन्नाभिमानिनाम् अध्यक्षाणां च तेन एकत्वम् इति पूर्वोक्तं विशेषणमेकीभूत प्रज्ञानघन इत्याद्युपपन्तम् ।
तस्मिन्न् उक्तहेतुत्वाच् च ।
कथं प्राणशब्दत्वम् अव्याकृतस्य ।
"प्राणबन्धनं हि सोम्य मनः"(छा.उ6 । 8 । 2) इति श्रुतेः ।
ननु तत्र"सदेव सोम्य"(छा.उ6 । 2 । 1) इति प्रकृतं सद्ब्रह्म प्राणशब्दवाच्यम् ।
नैष दोषो बीजात्मकत्वाभ्युपगमात्सतः ।
यद्य् अपि तद्ब्रह्म प्राणशब्दवाच्यं तत्र तथापि जीवप्रसवबीजात्मकत्वम् अपिरत्यज्य एव प्राणशब्दत्वं सतः सच्छब्दवाच्यता च ।
यदि हि निर्बीजरूपं विवक्षितं ब्रह्माभविष्यत्"नेति नेति"(बृ.उ.4.4.2.24.5.15)"यतो वाचो निवर्तन्ते"(तै.उ.2.9)"अन्यदेव तद्विदिताद् अथाविदितात्"(के.उ1.3) इत्यवक्ष्यत"न सत्तन्नासदुच्यते"(गीता.13.12) इति स्मृतेः ।
निर्बीजतयैव चेत् सति लीनानां सुषुप्तप्रलययोः पुनरुत्थानानुपपत्तिः स्यात् ।
मुक्तानां च पुनरुत्पत्तिप्रसङ्गो बीजाभावाविशेषात् ।
ज्ञानदाह्यबीजाभावे च ज्ञानानर्थक्यप्रसङ्गः ।
तस्मात् स बीजत्वाभ्युपगमेन एव सतः प्राणत्वव्यपदेशः सर्वश्रुतिषु च कारणत्वव्यपदेशः ।
अत एव"अक्षरात्परतः परः"(मु.उ2.1.2) ।
"सबाह्याभ्यान्तरो ह्य् अजः" (मु.उ2.1.2) ।
"यतो वाचो निवर्तन्ते"(तै.उ2.9) ।
"नेति नेति"(बृ.उ4.4.12) इत्यादिना बीजवत्वापनयनेन व्यपदेशः ।
तां बीजावस्थां तस्यैव प्राज्ञशब्दवाच्यस्य तुरीयत्वेन देहादिसंबन्धजाग्रदादिरहितां पारमार्थिकीं पृथग्वक्ष्यति ।
बीजावस्थापि न किञ्चिदवेदिषमित्युत्थितस्य प्रत्ययदर्शनाद्देहे ऽनुभूयत एवेति त्रिधा देहे व्यवस्थितेत्य् उच्यते ॥2॥
स्तर्त् मन्दुप्क् 1.3-4
विश्वः हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत

1.4

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दश् च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत

1.5

मन्दुप्क्च्_1.3-4
उक्तार्थौ श्लोकौ ॥3-4 ॥
स्तर्त् मन्दुप्क् 1.5
त्रिषु धामसु यद्भोज्यं भोक्ता यश् च प्रकीर्तितः ।
वदैतदुभयं यस् तु स भुञ्जानो न लिप्यते

1.6

मन्दुप्क्च्_1.5
त्रिषु धामसु जाग्रदादिषु स्थूलप्रविविक्तानन्दाख्यं भोज्यम् एकं त्रिधाभूतम् ।
यश् च विश्वतैजसप्राज्ञाख्यो भोक्तैकः स अहम् इत्येकत्वेनप्रतिसंधानाद्द्रष्टुत्वाविशेषाच् च प्रकीर्तितः ।
यो वेदैतदुभयं भोज्यभोक्तृतयानेकधा भिन्नं स भुञ्जानो न लिप्यते ।
भोज्यस्य सर्वस्यैकस्य भोक्तुर् भोज्यत्वात् ।
न हि यस्य यो विषयः स तेन हीयते वर्धते वा न ह्य् अग्निः स्वविषयं दग्ध्वा काष्ठादि तद्वत् ॥5॥
स्तर्त् मन्दुप्क् 1.6
प्रभवः सर्वभावानां सताम् इति विनिश्चयः ।
सर्वं जनयति प्राणश् चेतो ऽंशून् पुरुषः पृथक्

1.7

मन्दुप्क्च्_1.6
सतां विद्यमानानां स्वेनाविद्याकृतनामरूपमायास्वरूपेण सर्वभावानां विश्वतैजसप्राज्ञभेदानां प्रभवोत्पत्तिः ।
वक्ष्यति च"वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते"इति ।
यदि ह्य् असताम् एव जन्म स्याद् ब्रह्मणो ऽव्यवहार्यस्य ग्रहणद्वाराभावादसत्वप्रसङ्गः ।
दृष्टं च रज्जुसर्पादीनाम् अविद्याकृतमायाबीजोत्पन्नानां रज्ज्वाद्य् आत्मना सत्वम् ।
न हि निरास्पदा रज्जुसर्पमृगतृष्णिकादयः क्वचिद् उपलभ्यन्ते केनचित् ।
यथा रज्ज्वां प्राक्सर्पोत्पत्ते रज्ज्वात्मनां सर्पः सन्नेव आसीद् एवं सर्वभावानाम् उत्पत्तेः प्राक्प्राणबीजात्मनैव सत्वम् ।
इत्यतः श्रुतिर् अपि वक्ति"ब्रह्मैवेदम्"(मु.उ2.2.11)"आत्मैवेदम् अग्र आसीत्"(बृ.उ.1.4.1) इति ।
सर्वं जनयति प्राणश्चेतोंऽशूनंशव इव रवेश् चिदात्मकस्य पुरुषस्य चेतोरूपा जलार्कसमाः प्राज्ञतैजसविश्वभेदेन देवतिर्यगादिदेहभेदेषु विभाव्यमानाश् चेतोंशवोयेतान् पुरुषः पृथग् विषयभावविलक्षणान् अग्निविष्फुलिङ्गवत् सलक्षणाञ्जलार्कवच् च जीवलक्षणांस्त्वितरान् सर्वभावान् प्राणो बीजात्मा जनयति"यथोर्णनाभिः"(मु.उ.1.1.7)"यथाग्नेः क्षुद्रार्विस्फुलिङ्गाः"(बृ.उ.2.1.20) इत्यादिश्रुतेः ॥6॥
स्तर्त् मन्दुप्क् 1.7
विभूतिं प्रसवं त्व् अन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायासरूपेति सृष्टिर् अन्यैः विकल्पिता

1.8

मन्दुप्क्च्_1.7
विभूतिर् विस्तारेश्वरस्य सृष्टिर् इति सृष्टिचिन्तका मन्यन्ते न तु परमार्थचिन्तकानां सृष्टव् आदर इत्य् अर्थः ।
"इन्द्रो मायाभिः पुरुरूपेयते" (बृ.उ.2.5.19) इति श्रुतेः ।
न हि मायाविनं सूत्रम् आकाशे निक्षिप्य तेन सायुधम् आरुह्य चक्षुर्गोचरताम् अतीत्य युद्धेन खण्डशश्छिन्नं पतितं पुनरुत्थितं च पश्यतां तत् कृतं मायादिसतत्वचिन्तायाम् आदरो भवति ।
तथैवायं मायाविनः सूत्रप्रसारणसमः सुषुप्तस्वप्नादिविकासस्तदारूढमयाविसमश् च तत्स्थः प्राज्ञतैजसादिः ।
सूत्रतदारूढाभ्यामन्यः परमार्थमायावी स एव भूमिष्ठो मायाछन्नो ऽदृश्यमान एव स्थितो यथा तथा तुरीयाख्यं परमार्थतत्त्वम् ।
अतस् तच् चिन्तायाम् एवादरो मुमुक्षूणामार्याणां न निष्प्रयोजनायां सृष्टव् आदर इत्यतः सृष्टिचिन्तकानाम् एवैते विकल्पेत्य् आह स्वप्नमायासरूपेति ।
स्वप्नरूपा मायासरूपा चेति ॥7॥
स्तर्त् मन्दुप्क् 1.8
इच्छामात्रं प्रभोः सृष्टिर् इति सृष्टौ विनिश्चिताः ।
कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः

1.9

मन्दुप्क्च्_1.8
इच्छामात्रं प्रभोः सत्यसंकल्पत्वात् सृष्टिर् घटादिः संकल्पनामात्रं न संकल्पनातिरिक्तम् ।
कालाद् एव सृष्टिर् इति केचित् ॥8॥
स्तर्त् मन्दुप्क् 1.9
भोगार्थं सृष्टिर् इति अन्ये क्रीडार्थम् इति चापरे ।
देवस्यैष स्वभावो ऽयम् आप्तकामस्य का स्पृहा

1.10

__________
मन्दुप्च्_7
नन्व् आत्मनश् चतुष्पात्वं प्रतिज्ञाय प्रादत्रयकथनेन एव चतुर्थस्यान्तः प्रज्ञादिभ्यो अन्यत्वे सिद्धे नान्तः प्रज्ञ इत्यादि प्रतिषेधो ऽनर्थकः ।
न सर्पादिविकल्पप्रतिषेधेन एव रज्जुस्वरूपप्रतिपत्तिवत्त्र्यवस्थस्य एवात्मनस् तुरीयत्वेन प्रतिपिपादयिषितत्वात् ।
"तत्त्वमसि"(छा.उ.6.8.16) इतिवत् ।
यदि हि त्र्यवस्थात्मविलक्षणं तुरीयम् अन्यत् तत्प्रतिपत्तिद्वाराभावाच्छास्त्रोपदेशानर्थक्यं शून्यतापत्तिर् वा ।
रज्जुर् इव सर्पादिभिर्विकल्प्यमाना स्थानत्रये ऽप्य् आत्मैक एवान्तः प्रज्ञादित्वेन विकल्प्यते यदा तदान्तः प्रज्ञत्वादिप्रतिषेधविज्ञानप्रमाणसमकालमेवात्मन्य् अनर्थप्रपञ्चनिवृत्तिलक्षणफलं परिसमाप्तम् इति तुरीयाधिगमे प्रमाणान्तरं साधनान्तरं वा म मृग्यम् ।
रज्जुसर्पविवेकसमकाल इव रज्ज्वां सर्पनिवृत्तिफले सति रज्ज्वधिगयस्य ।
येषां पुनस् तमो ऽपनयव्यतिरेकेण घटाधिगमे प्रमाणं व्याप्रियते तेषां छेद्यावयवसम्बन्धवियोगव्यतिरेकेणान्य् अन्यतरावयवे ऽपिच्छिदिर्व्या प्रियत इत्य् उक्तं स्यात् ।
यदा पुनर्घटतमसो विवेककरणे प्रवृत्तं प्रमाणमनुपादित्सिततमोनिवृत्तिफलावसानं छिदिरिवच्छेद्यावयवसंबन्धविवेककरणे प्रवृत्ता तदवयवद्वैधीभावफलावसाना तथा नान्तरीयकं घटविज्ञानं न तत् प्रमाणफलम् ।
न च तद्वद् अप्य् आत्मन्य् अध्यारोपितान्तः प्रज्ञत्वादिविवेककरणे प्रवृत्तस्य प्रतिषेधविज्ञानप्रमाणस्यानुपादित्सितान्तः प्रज्ञत्वदिनिवृत्तिव्यतिरेकेण तुरीये व्यापार उपपत्तिः ।
अन्तः प्रज्ञत्वादिनिवृत्तिसमकालमेव प्रमातृत्वादिभेदनिवृत्तेः ।
तथा च वक्ष्यति"ज्ञाते द्वैतं न विद्यते"(माण्डू.का.1.18) इति ।
ज्ञानस्य द्वैतनिवृत्तिक्षणव्यतिरेकेण क्षणान्तरानवस्थानात् ।
अवस्थाने चानवस्थाप्रसङ्गाद् द्वैतानिवृत्तिः ।
तस्मात् प्रतिषेधविज्ञानप्रमाणव्यापारसमकालैर् वात्मन्य् अध्यारोपितान्तः प्रज्ञत्वाद्यनर्थानिवृत्तिर् इति सिद्धम् ।
नान्तः प्रज्ञम् इति तैजसप्रतिषेधो न बहिष्प्रज्ञम् इति विश्वप्रतिषेधः ।
न उभयतः प्रज्ञम् इति जाग्रत्स्वप्रयोरन्तरालावस्थाप्रतिषेधः ।
न प्रज्ञानघनम् इति सुषुप्तावस्थाप्रतिषेधो बीजभावाविवेकरूपत्वात् ।
न प्रज्ञम् इति युगपत्सर्वविषप्रज्ञातृत्वप्रतिषेधः ।
नाप्रज्ञम् इति चैतन्यप्रतिषेधः ।
कथं पुनरन्तः प्रज्ञत्वादीनाम् आत्मनि गम्यमानानां रज्ज्वादौ सर्पादिवत् प्रतिषेधादसत्वं गम्यत इत्य् उच्यते ।
ज्ञस्वरूपाविशेषे ऽपीतरेतरव्यभिचाराद्रज्ज्वादाव् इव सर्पधारादिविकल्पित भेदवत् सर्वत्राव्यभिचाराज्ज्ञस्वरूपस्य सत्यत्वम् ।
सुषुप्ते व्यभिचरतीति चेन् न ।
सुषुप्तस्यानुभूयमानत्वात्"न हि विज्ञातुर् विज्ञातेर् विपरलोपो विद्यते"(बृ.उ.4.3.30) इति श्रुतेः ।
अत एवादृष्टम् ।
यस्माद् अदृष्टं तस्माद् अव्यवहार्यम् ।
अग्राह्यं कर्मेन्द्रियैः ।
अलक्षणमलिङ्गम् इत्य् एतद् अननुमेय् इत्य् अर्थः ।
अत एवाचिन्त्यम् ।
अत एवाव्यपदेश्यं शब्दैः ।
एकात्मप्रत्ययसारं जाग्रदादिस्थानेष्व् एको ऽयम् आत्मेत्यव्यभिचारी यः प्रत्ययस्तेनानुसरणीयम् ।
अथवैक आत्मप्रत्ययः सारं प्रमाणं यस्य तुरीयस्याधिगमे तत् तुरीयमेकात्मप्रत्ययसारम् ।
"आत्मेत्येवोपासीत"(बृ.उ.1.4.7) इति श्रुतेः ।
अन्तः प्रज्ञत्वादिस्थानिधर्मः प्रतिषेधः कृतः ।
प्रपञ्च उपशमम् इति जाग्रदादिस्थानधर्माभावोच्यते ।
अत एव शान्तमविक्रियं शिवं यतो ऽद्वैतं भेदविकल्परहितम् ।
चतुर्थं तुरीयं मन्यन्ते प्रतीयमानपादत्रयरूपवैलक्षण्यात् ।
स आत्मा स विज्ञेय इति प्रतीयमानसर्पभूछिद्रदण्डादिव्यतिरिक्ता यथा रज्जुस् तथा तत्त्वमसीत्यादिवाक्यार्थ आत्मा"अदृष्टो द्रष्टा"(बृ.उ.3.7.23)"न हि द्रष्टुर् दृष्टेविपरिलोपो विद्यते"(बृ.उ.4.3.23) इत्यादिभिरुक्तो यः ।
स विज्ञेय इति भूतपूर्वगत्या ज्ञाते द्वैताभावः ॥7॥
स्तर्त् मन्दुप्क् 1.10
अत्रैते श्लोका भवन्ति
निवृत्तेः सर्वदुःखानाम् ईशानः प्रभुर् अव्ययः ।
अद्वैतः सर्वभावानां देवास् तुर्यो विभुः स्मृतः

1.11

मन्दुप्क्च्_1.10
प्राज्ञतैजसविश्वलक्षणानां सर्वदुःखानां निवृत्ते ईशानस् तुरीय आत्मा ।
ईशान इत्य् अस्य व्याख्यानं प्रभुर् इति ।
दुःखनिवृत्तिं प्रति प्रभुर् भवतीत्य् अर्थः ।
तद् विज्ञाननिमित्तत्वाद् दुःखनिवृत्तेः ।
अव्ययो न व्येति स्वरूपान् न व्यभिचरतीति यावत् ।
एतत् कुतः ।
यस्माद् अद्वैतः सर्वभावानां रज्जुसर्पवन्मृषात्वात् स एष देवो द्योतनात् तुरीयश् चतुर्थो विभुव्यापी स्मृतः ॥10॥
स्तर्त् मन्दुप्क् 1.11
विश्वादीनां सामान्यविशेषभावो निरूप्यते तुर्ययाथात्म्यावधारणार्थम्
कार्यकारणबद्धौ ताव् इष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस् तु द्वौ तौ तुर्ये न सिध्यतः

1.12

मन्दुप्क्च्_1.11
कार्यं क्रियत इति फलभावः ।
कारणं करोतीति बीजभावः ।
तत्त्वाग्रहणान् यथाग्रहणाभ्यां बीजफलभावाभ्यां तौ यथोक्तौ विश्वतैजसौ बद्धौ संगृहीताविष्येते ।
प्राज्ञस् तु बीजभावेनैव बद्धः ।
तत्त्वाप्रतिबोधमात्रम् एव हि बीजं प्राज्ञत्वे निमित्तम् ।
ततो द्वौ तौ बीजफलभावौ तत्वाग्रहणान् यथा ग्रहणे तुर्ये न सिध्यतो न विद्येते न सम्भवत इत्य् अर्थः ॥11॥
स्तर्त् मन्दुप्क् 1.12
कथं पुनः कारणबद्धत्वं प्राज्ञस्य तुरीये वा तत्त्वाग्रहणान् यथाग्रहणलक्षणौ बन्धौ न सिध्यत इति ।
यस्मात्
नात्मानं न पराश् चैव न सत्यं न अपि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा

1.13

मन्दुप्क्च्_1.12
आत्मविलक्षणम् अविद्याबीजप्रसूतं बाह्यं द्वैतं प्राज्ञो न किञ्चन संवेत्ति तथा विश्वतैजसौ ।
ततश् चासौ तत्त्वाग्रहणेन तमसान्यथा ग्रहणबीजभूतेन बद्धो भवति ।
यस्मात् तुरीयं तत्सर्वदृक्सदा तुरीयादन्यस्याभावात् सर्वदा सदैवैति सर्वं च तद्द्दृक्चेति सर्वदृक् तस्मान् न तत्त्वाग्रहणलक्षणं बीजं तत्र ।
तत् प्रसूतस्यान्यथाग्रहणस्याप्यतैवाभावो न हि सवितरि सदा प्राकाशात्मके तद् विरुद्धम् अप्रकाशनम् अन्यथा प्रकाशनं वा सम्भवति ।
"न हि द्रष्टुर् दृष्टेर् विपरिलोपो विद्यते"
(बृ.उ.4 । 3 । 23) इति श्रुतेः ।
अथ वा जाग्रत्स्वप्नयोः सर्वभूतावस्थः सर्ववस्तुदृगाभासस् तुरीयैवेति सर्वदृक्सदा"नान्यद् अतो ऽस्ति द्रष्टृ"(बृ.उ.3.8.11) इत्यादि श्रुतेः ॥12॥
स्तर्त् मन्दुप्क् 1.13
द्वैतस्याग्रहणं तुल्यम् उभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते

1.14

मन्दुप्क्च्_1.13
निमित्तान्तरप्राप्ताशङ्कानिवृत्यर्थो ऽयं श्लोकः ।
कथं द्वैताग्रहणस्य तुल्यत्वात् कारणबद्धत्वं प्राज्ञस्य एव न तुरीयस्येति प्राप्ताशङ्का निवर्त्यते ।
यस्माद्बीजनिद्रायुतस् तत्त्वाप्रतिबोधो निद्रा ।
स एव च विशेषप्रतिबोधप्रसवस्य बीजं सा बीजनिद्रा तया युतः प्राज्ञः ।
सदा दृक्स्वभावत्वात् तत्त्वाप्रतिबोधलक्षणा निद्रा तुरीये न विद्यते ऽतो न कारणबन्धस्तस्मिन्नित्याभिप्रायः ॥13॥
स्तर्त् मन्दुप्क् 1.14
स्वप्ननिद्रायुताव् आद्यौ प्राज्ञस् त्व् अस्वप्ननिद्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चितः

1.15

मन्दुप्क्च्_1.14
स्वप्नो ऽन्यथाग्रहणं सर्प इव रज्ज्वाम् ।
निद्रोक्ता तत्त्वाप्रतिबोधलक्षणं तम इति ।
ताभ्यां स्वप्ननिद्राभ्यां युक्तौ विश्वतैजसौ ।
अतस् तौ कार्यकारणबद्धाव् इत्य् उक्तौ ।
प्राज्ञस् तु स्वप्नवर्जितकेवलैव निद्रया युत इति कारणबद्ध इत्य् उक्तम् ।
नोभयं पश्यन्ति तुरीये निश्चिता ब्रह्मविदो विरुद्धत्वात् सवितरीव तमः ।
अतो न कार्यकारणबद्ध इत्य् उक्तस् तुरीयः ॥14॥
स्तर्त् मन्दुप्क् 1.15
कदा तुरीये निश्चितो भवतीत्युच्यते
अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वम् अजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदम् अश्नुते

1.16

मन्दुप्क्च्_1.15
स्वप्नजागरितयोरन्यथा रज्वां सर्प इव गृह्णतस्तत्त्वं स्वप्नो भवति ।
निद्रा तत्त्वम् अजानतस् तिसृष्ववस्थासु तुल्या ।
स्वप्ननिद्रयोस् तुल्यत्वाद् विश्वतैजसयोर् एकराशित्वम् ।
अन्यथाग्रहणप्राधान्याच् च गुणभूता निद्रेति तस्मिन् विपर्यासः स्वप्नः ।
तृतीये तु स्थानेतत्त्वाज्ञानलक्षणा निद्रैव केवला विपर्यासः ।
अतस् तयोः कार्यकारणस्थानयोर् अन्यथाग्रहणाग्रहणलक्षणविपर्यासे कार्यकारणबन्धरूपे परमार्थतत्वप्रितबोधतः क्षीणे तुरीयं पदम् अश्नुते ।
तदोभयलक्षणं बन्धरूपं तत्रापश्यंस् तुरीये निश्चितो भवतीत्य् अर्थः ॥15॥
स्तर्त् मन्दुप्क् 1.16
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजम् अनिद्रम् अस्वप्नम् अद्वैतं बुध्यते तदा

1.17

मन्दुप्क्च्_1.16
यो ऽयं संसारी जीवः सोभयलक्षणेन तत्त्वाप्रतिबोधरूपेण बीजात्मनान्यथाग्रहणलक्षणेन चानादिकालप्रवृत्तेन मायालक्षणेन स्वप्नेन ममायं पिता पुत्रो ऽयं नप्ता क्षेत्रं पशवो ऽहम् एषां स्वामी सुखी दुःखी क्षयितो ऽहम् अनेन वर्धितश् चानेन इत्य् एवंप्रकारान् स्वप्नान् स्थानद्वये ऽपि पश्यन् सुप्तः ।
यदा वेदान्तार्थतत्त्वाभिज्ञेन परमकारुणिकेन गुरुणा नास्यैवं त्वं हेतुफलात्मकः किं तु तत्त्वम् असीति प्रतिबोध्यमानस् तदैवं प्रतिबुध्यते
कथम्? नास्मिन् बाह्यम् आभ्यन्तरं वा जन्मादिभावविकारो ऽस्त्य् अतो ऽजं सबाह्याभ्यन्तरसर्वभाविकारवर्जितम् इत्यर्थः ।
यस्माज् जन्मादिकारणभूतं नास्मिन्न् अविद्यातमोबीजं निद्रा विद्यत इत्य् अनिद्रम् ।
अनिद्रं हि तत् तुरीयमत एवास्वप्नं तन् निमित्तत्वाद् अन्यथाग्रहणस्य ।
यस्माच् चानिद्रम् अस्वप्नं तस्माद् अजम् अद्वैतं तुरीयम् आत्मानं बुध्यते तदा ॥16॥
स्तर्त् मन्दुप्क् 1.17
प्रपञ्चनिवृत्या चेत् प्रतिबुध्यते ऽनिवृत्ते प्रपञ्चे कथम् अद्वैतम् इत्य् उच्यते
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रम् इदं द्वैतम् अद्वैतं परमार्थतः

1.18

मन्दुप्क्च्_1.17
सत्यम् अवं स्यात् प्रपञ्चो यदि विद्येत रज्ज्वां सर्प इव कल्पितत्वान् न तु स विद्यते ।
विद्यमानश् चेन् निवर्तेत न संशयः ।
न हि रज्ज्वां भ्रान्तिबुद्ध्या कल्पितः सर्पो विद्यमानः सन्विवेकतो निवृत्तः ।
नैव माया मायाविना प्रयुक्ता तद् दर्शिनां चक्षुर्बन्धापगमे विद्यमाना सती निवृत्ता ।
तथेदं प्रपञ्चाख्यं मायामात्रं द्वैतं रज्जुवन् मायाविवच्चद्वैतं परमार्थतस् तस्मान् न कश्चित् प्रपञ्चः प्रवृत्तो निवृत्तो वास्तीतीत्य् अभिप्रायः ॥17॥
स्तर्त् मन्दुप्क् 1.18
ननु शास्ता शास्त्रं शिष्य इति विकल्पः कथं निवर्तत इत्य् उच्यते
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशाद् अयं वादो ज्ञाते द्वैतं न विद्यते

1.19

__________
मन्दुप्च्_11
सुषुप्तस्थानः प्राज्ञो यः स ओंकारस्य मकारस् तृतीया मात्रा ।
केन सामान्येनेत्य् आह सामान्यमिदम् अत्र मितो ऽमितिर्मानं मीयत इव विश्वतैजसौ प्राज्ञेन प्रलयोत्पत्त्योः ।
प्रवेशनिर्गमाभ्यां प्रस्थेनेत यवास् तथौंकारसमाप्तौ पुनः प्रयोगे च प्रविश्य निर्गच्छत इवाकारोंकारौ मकारे ।
अपीतेर् वा ।
अपीत्य् अप्य् अय एकीभावः ।
ओंकार उच्चारणे ह्य् अन्त्याक्षर एकीभूताविवाकार ओंकारौ ।
तथा विश्वतैजसौ सुषुप्तकाले प्राज्ञे ।
अतो वा सामान्याद् एकत्वं प्राज्ञम् अकारयोः ।
विद्वत्फलम् आह मिनोति ह वेदं सर्वं जगद् याथात्म्यं जानातीत्य् अर्थः ।
अपीतिश् च जगत् कारणात्मा भवतीत्य् अर्थः ।
अत्राव् अत्रावान्तरफलवचनं प्रधानसाधनस्तुत्यर्थम् ॥11॥
स्तर्त् मन्दुप्क् 1.19
अत्रैते श्लोका भवन्ति
विश्वस्यात्वविवक्षायाम् आदिसामान्यम् उत्कृष्टम् ।
मात्रासंप्रतिपत्तौ स्याद् आप्तिसामान्यम् एव च

1.20

मन्दुप्क्च्_1.19
विश्वस्यात्वमकारमात्रत्वं यदा विवक्ष्यते तदादित्वसामान्यमुक्तन्यायेनोत्कटमुद्भृतं दृश्यत इत्य् अर्थः ।
अत्वविवक्षायामित्य् अस्य व्याख्यानं मात्रासंप्रतिपत्ताव् इति ।
विश्वस्याकारमात्रत्वं यदा संप्रतिपद्यत इत्य् अर्थः ।
आप्तिसामान्यम् एव चोत्कटम् इत्य् अनुवर्तते च शब्दात् ॥19॥
स्तर्त् मन्दुप्क् 1.20
तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् ।
मात्रासंप्रतिपत्तौ स्याद् उभयत्वं तथा विधम्

1.21

मन्दुप्क्च्_1.20
तैजसस्यात्वविज्ञानोकारत्वविवक्षायामुत्कर्षो दृश्यते स्फुटं स्पष्ट इत्य् अर्थ उभयत्वं च स्फुटम् एवेति ।
पूर्ववत् सर्वम् ॥20॥
स्तर्त् मन्दुप्क् 1.21
मकारभावे प्राज्ञस्य मानसाम् अन्यम् उत्कटम् ।
मात्रासंप्रतिपत्तौ तु लयसामान्यम् एव च

1.22

मन्दुप्क्च्_1.21
मकारत्वे प्राज्ञस्य मितिलयावुत्कृष्टे सामान्य इत्य् अर्थः ॥21॥
स्तर्त् मन्दुप्क् 1.22
त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितः ।
स पूज्यः सर्वभूतानां वन्द्यश् चैव महामुनिः

1.23

मन्दुप्क्च्_1.22
यथोक्तस्थानत्रये यस्तुल्यम् उक्तं सामान्यं वेत्यवम् एवैतद् इति निश्चितो यः स पूज्यो वन्द्यश् च ब्रह्मविल्लोके भवति ॥22॥
स्तर्त् मन्दुप्क् 1.23
यथोक्तैः सामान्यैर् आत्मपादानां मात्राभिः सहैकत्वं कृत्वा यथोक्तम् ओंकारं प्रतिपद्य यो ध्यायति तम्
अकारो नयते विश्वम् उकारश् चापि तैजसम् ।
मकारश् च पुनः प्राज्ञं नामात्रे विद्यते गतिः

1.24

__________
मन्दुप्च्_12
अमात्रो मात्रा यस्य नास्ति स अमात्र ओंकारश् चतुर्थस् तुरीय आत्मैव केवलो ऽभिधानाभिधेयरूपयोर् अवाङ्मनसयोः क्षीणत्वाद् अव्यवहार्यः ।
प्रपञ्च उपशमः शिवो ऽद्वैतः संवृत्त एवं यथोक्त विज्ञानवता प्रयुक्त ओंकारस् त्रिमात्रस् त्रिपाद आत्मैव ।
संविशत्य् आत्मना स्वेनैव ।
स्वं पारमार्थिकम् आत्मानं य एवं वेद ।
परमार्थदर्शी ब्रह्मवित् तृतीयं बीजभावं दग्ध्वात्मानं प्रविष्ट इति न पुनो जायते तुरीयस्याबीजत्वात् ।
न हि रज्जुसर्पयोर् विवेके रज्ज्वां प्रविष्टः सर्पो बुद्धिसंस्कारात् पुनः पूर्ववत्तद् विवेकिनाम् उत्थास्यति ।
मन्दमध्यमधियां तु प्रतिपन्नसाधकभावानां सन्मार्गगामिनां संन्यासिनां मात्राणां पादानां च कॢप्तसामान्यविदां यथावद् उपास्यमान ओंकारो ब्रह्मप्रतिपत्तय आलम्बनी भवति तथा च वक्ष्यतिऽआश्रमास् त्रिविधाःऽ(मा.का.3.16) इत्यादि ॥12॥
(इति माण्डूक्यमूलमन्त्रभाष्यम्)
स्तर्त् मन्दुप्क् 1.24
पूर्ववद् अत्रैते श्लोका भवन्ति
ओंकारं पादशो विद्यात् पादा मात्रा न संशयः ।
ओंकारं पादशो ज्ञात्वा न किञ्चिद् अपि चिन्तयेत्

1.25

मन्दुप्क्च्_1.24
यथोक्तैः सामान्यैः पादैव मात्रा मात्राश् च पादास् तस्माद् ओंङ्कारं पादशो विद्याद् इत्यर्थः ।
एवम् ओंकारे ज्ञाते दृष्टार्थम् अदृष्टार्थं वा न किञ्चित् प्रयोजनं चिन्तयेत् कृतार्थत्वाद् इत्यर्थः ॥24॥
स्तर्त् मन्दुप्क् 1.25
युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित्

1.26

मन्दुप्क्च्_1.25
युञ्जीत समादध्याद्यथाव्याख्याते परमार्थरूपे प्रणवे चेतो मनः ।
यस्मात् प्रणवो ब्रह्म निर्भयम् ।
न हि तत्र सदा युक्तस्य भयं विद्यते क्वचित् ऽविद्वान् न बिभेति कुतश्चनऽ(तै.उ.2.9) इति श्रुतेः ॥25॥
स्तर्त् मन्दुप्क् 1.26
प्रणवो ह्य् अपरं ब्रह्म प्रणवश् च परः स्मृतः ।
अपूर्वो ऽनन्तरो ऽबाह्यो ऽनपरः प्रणवो ऽव्ययः

1.27

मन्दुप्क्च्_1.26
परापरे ब्रह्माणि प्रणवः ।
परमार्थता क्षीणेषु मात्रापादेषु पर एवात्मा ब्रह्मेति न पूर्वं कारणम् अस्य विद्यत इत्य् अपूर्वः ।
नास्यान्तरं भिन्नजातीयं किञ्चिद् विद्यत इत्य् अनन्तरः ।
तथा बाह्यम् अन्यन् न विद्यत इत्य् अबाह्यः ।
अपरं कार्यम् अस्य न विद्यत इत्य् अनपरः ।
सबाह्याभ्यान्तरो ह्य् अजः सैन्धवघनवत् प्रज्ञानघन इत्यर्थः ॥26॥
स्तर्त् मन्दुप्क् 1.27
सर्वस्य प्रणवो ह्य् आदिर् मध्यम् अन्तस् तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद् अनन्तरम्

1.28

मन्दुप्क्च्_1.27
आदिमध्यान्तोत्पत्तिस्थितिप्रलयाः सर्वस्यैव ।
मायाहस्तिरज्जुसर्पमृगतृष्णिकास्वप्नादिवद् उत्पद्यमानस्य वियदादिप्रपञ्चस्य यथा मायाव्यादयः ।
एवं हि प्रणवमात्मानं मायाव्यादिस्थानीयं ज्ञात्वा तत्क्षणादेव तद् आत्मभावं व्यश्नुत इत्य् अर्थः ॥27॥
स्तर्त् मन्दुप्क् 1.28
प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् ।
सर्वव्यापिनम् ओंकारं मत्वा धीरो न शोचति

1.29

मन्दुप्क्च्_1.28
सर्वप्राणिजातस्य स्मृतिप्रत्ययास्पदे हृदये स्थितम् ईश्वरं प्रणवं विद्यात् सर्वव्यापिनं व्योमवद् ओंकारम् आत्मानम् असंसारिणं धीरो बुद्धिमान् मत्वा न शोचति ।
शोकनिमित्तान् अनुपपत्तेः ।
"तरति शोकम् आत्मवित्"(छा.उ.7 । 1 । 3) इत्यादि श्रुतिभ्यः ॥28॥
स्तर्त् मन्दुप्क् 1.29
अमात्रो ऽनन्तमात्रश् च द्वैतस्योपशमः शिवः ।
ओंकारो विदितो येन स मुनिर् नेतारो जनः

मूल पाठ: Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc