माण्डूक्योपनिषद् (टीका सहित) · श्लोक 1.14-1.28
मन्दुप्क्च्_1.18
विकल्पो विनिवर्तेत यदि केनचित् कल्पितः स्यात् ।
यथायं प्रपञ्चो मायारज्जुसर्पवत् तथायं शिष्यादि भेदविकल्पो ऽपि प्राक् प्रतिबोधादेवोपदेशनिमित्तो ऽतोपदेशादयं वादः शिष्यः शास्ता शास्त्रम् इति ।
उपदेशकार्ये तु ज्ञाने निर्वृत्ते ज्ञाते परमार्थतत्वे द्वैतं न विद्यते ॥18॥
_______________________________________________________________________
स्तर्त् मन्दुप् 8
अभिधेयप्रधान ओंकारश् चतुष्पादात्मेति व्याख्यातो यः
सो ऽयम् आत्माध्यक्षरम् ओंकारः ।
अधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति
__________
मन्दुप्च्_8
सो ऽयम् आत्माध्यक्षरमक्षरम् अधिकृत्याभिधानप्राधान्येन वर्ण्यमानो ऽध्यक्षरम् ।
किं पुनस् तदक्षरम् इत्य् आह ओंकारः ।
सो ऽयम् ओंकारः पादशः प्रविभज्यमानो ऽधिमात्रं मात्राम् अधिकृत्य वर्तत इत्य् अधिमात्रम् ।
कथम्? आत्मनो ये पादास्त ओंकारस्य मात्राः ।
कास् ताः? अकारोकारो मकार इति ॥8॥
_______________________________________________________________________
स्तर्त् मन्दुप् 9
तत्र विशेषनियमः क्रियते
जागरितस्थानो वैश्वानरः अकारः प्रथमा मात्राप्तेरादिमत्त्वाद् वा ।
आप्नोति ह वै सर्वान् कामान् आदिश् च भवति य एवं वेद
__________
मन्दुप्च्_9
जागरितस्थानो वैश्वानरो यः स ओंकारस्याकारः प्रथमा मात्रा ।
केन सामान्येनेत्य् आह आप्तेराप्तिर्व्याप्तिकारेण सर्वा वाग् व्याप्ता ।
"अकारो वै सर्वा वाक्"(ऐ.आ.2 । 3 । 6) इति श्रुतेः ।
तथा वैश्वानरेण जगत्"तस्य ह वैतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाः"(छा.उ.5 । 18 । 2) इत्यादि श्रुतेः ।
अभिधानाभिधेययरेकत्वं चावोचाम ।
आदिरस्य विद्यत इत्यादि मद्यथैवादिमदकाराख्यमक्षरं तथैव वैश्वानरस् तस्माद् वा सामान्याद् अकारत्वं वैश्वानरस्य ।
तद् एकत्वविदः फलम् आह आप्नोति ह वै सर्वान् कामानादिः प्रथमश् च भवति महतां य एवं वेद यदोक्तम् एकत्वं वेदेत्य् अर्थः ॥9॥
_______________________________________________________________________
स्तर्त् मन्दुप् 10
स्वप्नस्थानस् तैजस उकारो द्वितीया मात्रोत्कर्षाद् उभयत्वाद् वा ।
उत्कर्षति ह वै ज्ञानसंततिं ।
समानश् च भवति ।
नास्याब्रह्मवित् कुले भवति य एवं वेद
__________
मन्दुप्च्_10
स्वप्नस्थानस् तैजसो यः स ओंकारस्योकारो द्वितीया मात्रा ।
केन सामान्येत्य् आहोत्कर्षात् ।
अकाराद् उत्कृष्ट इव ह्य् उकारस् तथा तैजसो विश्वाद् उभयत्वाद् अकारमकारयोर् मध्यस्योकारस् तथा विश्वप्राज्ञयोर् मध्ये तैजसो ऽतोभयभाक्त्वसामान्यात् ।
विद्वत्फलमुच्यते उत्कर्षति ह वै ज्ञानसंततिम् ।
विज्ञानसंततिं वर्धयतीत्य् अर्थः ।
समानस् तुल्यश् च मित्रपक्षस्यैव शत्रुपक्षाणाम् अप्य् अप्रद्वेष्यो भवति ।
अब्रह्मविदस्य कुले न भवति य एवं वेद ॥10॥
_______________________________________________________________________
स्तर्त् मन्दुप् 11
सुषुप्तस्थानः प्राज्ञो मकारः तृतीया मात्रा मितेर् अपीतेर् वा ।
मिनोति ह वा इदं सर्वम् अपीतिश् च भवति य एवं वेद
मन्दुप्क्च्_1.23
अकारो नयते विश्वं प्रापयति ।
अकारालम्बनम् ओंकारं विद्वान् वैश्वानरो भवतीत्य् अर्थः ।
तथाकारस् तैजसम् ।
मकारश् चापि पुनः प्राज्ञम् ।
च शब्दान् नयत इत्य् अनुवर्तते ।
क्षीणे तु मकारे बीजभावक्षयादमात्र ओंकारे गतिर् न विद्यते क्वचिद् इत्य् अर्थः ॥23॥
_______________________________________________________________________
स्तर्त् मन्दुप् 12
अमात्रश् चतुर्थो ऽव्यवहार्यः प्रपञ्चोपशमः शिवो ऽद्वैतः ।
एवम् ओंकार आत्मैव ।
संविशत्य् आत्मनात्मानं य एवं वेद
मूल पाठ: Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0