माण्डूक्योपनिषद् (टीका सहित) · श्लोक 1-1.13
ओं
तत्सद्ब्रह्मणे+नमः
माण्डूक्योपनिषद्
(मन्दुक्य उपनिस्हद्)
शान्तिपाठ
ओं भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ओं शान्तिः !! शान्तिः !! शान्तिः !!!
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ओं शान्तिः !! शान्तिः !! शान्तिः!!!
आगमप्रकरण
इन्वोचतिओन्
प्रज्ञानांशुप्रतानैः स्थिरचरनिकरव्यापिभिर् व्याप्य लोकान् भुक्त्वा भोगान्स्थविष्ठान्पुनरपि धिषणोद्भासितान्कामजन्यान् ।
पीत्वा सर्वान् विशेषान् स्वपिति मधुरभुङ् मायया भोजयन्नो मायासंख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतो ऽस्मि ॥1॥
यो विश्वात्मा विधिजविषयान् प्राश्य भोगान् स्थविष्ठान् पश्चाच् चान्यान् स्वमतिविभवाञ् ज्योतिषा स्वेन सूक्ष्मान् ।
सर्वान् एतान् पुनर् अपि शनैः स्वात्मनि स्थापयित्वा हित्वा सर्वान्विशेषान्विगतगुणगणः पात्वसौ नस्तुरीयः ॥2॥
_______________________________________________________________________
स्तर्त् मन्दुप् 1
ओमित्येतदक्षरमिदं सर्वम् ।
तस्योपव्याख्यानं वेदान्तार्थसारसंग्रहभूतमिदं प्रकरणचतृष्टयमोमित्येतदक्षरमित्याद्यारभ्यते ।
अत एव न पृथक्सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि ।
यान्येव तु वेदान्ते सम्बन्धाभिधेय प्रयोजनानि तान्येवेह भवितुमर्हन्ति ।
तथापि प्रकरणव्याचिख्यासुना संक्षेपतो वक्तव्यानि ।
तत्र प्रयोजनवत् साधनाभिव्यञ्जकत्वेनाभिधेयसम्बद्धं शास्त्रं पारम्पर्येण विशिष्टसंबन्धाभिधेयप्रयोजनवद् भवति ।
किं पुनस् तत् प्रयोजनम् इत्य् उच्यते रोगार्तस्यैव रोगनिवृत्तौ स्वस्थता ।
तथा दुःखात्मकस्यात्मनो द्वैतप्रपञ्चोपशमे स्वस्थता ।
अद्वैतभावः प्रयोजनम् ।
द्वैतप्रपञ्चस्याविद्याकृतत्वाद् विद्यया तद् उपशमः स्याद् इति ब्रह्मविद्याप्रकाशनायास्य आरम्भः क्रियते ।
"यत्र हि द्वैतम् इव भवति"(बृ.उ 2 । 4 । 14) "यत्र वान्यद् इव स्यात् तत्रान्यो ऽन्यत् पश्येद् अन्यो ऽन्यद् विजानीयात्"(बृ.उ 4 । 3 । 31) "यत्र वास्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् केन कं विजानीयात्"(बृ.उ 2 । 4 । 14) इत्य् आदि श्रुतिभ्यो ऽस्यार्थस्य सिद्धिः ।
तत्र तावद् ओंकारनिर्णयाय प्रथमं प्रकरणम् आगमप्रधानाम् आत्मतत्त्वप्रतिपत्त्य् उपायभूतम् ।
यस्य द्वैतप्रपञ्चस्योपशमे ऽद्वैतप्रतिपत्ती रज्ज्वाम् इव सर्पादिविकल्प उपशमे रज्जुतत्त्वप्रतिपत्तिस् तस्य द्वैतस्य हेतुतो वैतथ्यप्रतिपादनाय द्वितीयं प्रकरणम् ।
तथाद्वैतस्यापि वैतथ्यप्रसङ्गप्राप्तौ युक्तितस् तथात्वदर्शनाय तृतीयं प्रकरणम् ।
अद्वैतस्य तथात्वप्रतिपत्तिपक्षभूतानि यानि वादान्तराण्यवैदिकानि तेषाम् अन्योन्यविरोधित्वादतथार्थत्वेन तदुपपत्तिभिर् एव निराकरणाय चतुर्थं प्रकरणम् ।
कथं पुन ओंकारनिर्णय आत्मतत्त्वप्रतिपत्त्य् उपायत्वं प्रतिपद्यत इत्य् उच्यते"ओं इत्य् एतत्"(क.उ 1 । 2 । 15) "एतद् आलम्बनम्"(क.उ.1 । 2 । 17) "एतद् वै सत्यकाम"(प्र.उ.5 । 2) "ओं इत्य् आत्मानं युञ्जीत"(मैत्र्यु.6 । 3) "ओं इति ब्रह्म"(तै.उ.1 । 8 । 1) "ओंकार एवेदं सर्वम्" (छा.उ.2 । 23 । 3) इत्य् आदि श्रुतिभ्यः ।
रज्जुर् आदिर् इव सर्पादिविकल्पस्यास्पदो ऽद्वय आत्मा परमार्थः सन्प्राणादिविकल्पस्यास्पदो यथा तथा सर्वो ऽपि वाक्प्रपञ्चः प्राणाद्य् आत्मविकल्पविषय ओंकार एव ।
स चात्मस्वरूपम् एव तदभिधायकत्वात् ।
ओंकारविकारशब्दाभिधेयश् च सर्वः प्राणादिर् आत्मविकल्पो ऽभिधानव्यतिरेकेण नास्ति ।
"वाचारम्भणं विकारो नामधेयम्"(छा.उ.6 । 1 । 4) "तद् अस्येदं वाचा तन्त्या नामभिर् दामभिः सर्वं सितम्" "सर्वं हीदं नामानि"इत्य् आदि श्रुतिभ्यः ।
अत आह
ओं इत्य् एतद् अक्षरम् इदं सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यद् इति सर्वम् ओंकार एव ।
यच् चान्यत् त्रिकालातीतं तद् अप्य् ओंकार एव
__________
मन्दुप्च्_1
ओं इत्य् एतद् अक्षरम् इदं सर्वम् इति ।
यद् इदम् अर्थजातम् अभिधेयभूतं तस्याभिधानाव्यतिरेकाद् अभिधानस्य च ओंकाराव्यतिरेकाद् ओंकार एवेदं सर्वम् ।
परं च ब्रह्माभिधानाभिधेय उपायपूर्वकम् एव गम्यत इत्य् ओंकार एव ।
तस्यैतस्य परापर ब्रह्मरूपस्याक्षरस्य ओं इत्य् एतस्योपव्याख्यानम्; ब्रह्मप्रतिपत्त्य् उपायत्वाद् ब्रह्मसमीपतया विस्पष्टं प्रकथनम् उपव्याख्यानं प्रस्तुतं वेदितव्यम् इति वाक्यशेषः ।
भूतं भवद्भविष्यद् इति कालत्रयपरिच्छेद्यं यत् तद् अप्य् ओंकार एवोक्तन्यायतः ।
यच् चान्यत् त्रिकालातीतं कार्याधिगम्यं कालापरिच्छेद्यमव्याकृतादि तद् अप्य् ओंकार एव ॥1॥
_______________________________________________________________________
स्तर्त् मन्दुप् 2
अभिधानाभिधेययोर् एकत्वे ऽप्य् अभिधानाप्राधान्येन निर्देशः कृतः ।
ओं इत्य् एतद् अक्षरम् इदं सर्वम् इत्य् आद्य् अभिधानप्राधान्येन निर्दिष्टस्य पुनो ऽभिधेयप्राधान्येन निर्देशो ऽभिधानाभिधेययोर् एकत्वप्रतिपत्त्य् अर्थः ।
इतरो ऽथा ह्य् अभिधानतन्त्राभिधेयप्रतिपत्तिर् इत्य् अभिधेयस्याभिधानत्वं गौणाम् इत्य् आशङ्का स्यात् ।
एकत्वप्रतिपत्तेश् च प्रयोजनम् अभिधानाभिधेययोर् एकेनैव प्रयत्नेन युगपत्प्रविलापर्यस्तद्विलक्षणं ब्रह्म प्रतिपद्येत इति ।
तथा च वक्ष्यति"पादा मात्रा मात्राश् च पादाः" (मा.उ.8) इति ।
तदाह
सर्वं ह्य् एतद् ब्रह्मायम् आत्मा ब्रह्म सो ऽयम् आत्मा चतुष्पात्
__________
मन्दुप्च्_2
सर्वं ह्य् एतद् ब्रह्मेति ।
सर्वं यद् उक्तम् ओंकारमात्रम् इति तदेतद् ब्रह्म ।
तच् च ब्रह्म परोक्षाभिहितं प्रत्यक्षतो विशेषेण निर्दिशत्ययमात्मा ब्रह्मेति ।
अयम् इति चतुष्पात्वेन प्रविभज्यमानं प्रत्यगात्मतयाभिनयेन निर्दिशति अयम् आत्मेति ।
सो ऽयमात्म ओंकाराभिधेयः परापरत्वेन व्यवस्थितश् चतुष्पात्कार्षापणवन् न गौर् इवेति ।
त्रयाणां विश्वादीनां पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतपत्तिर् इति करणसाधनः पादशब्दः ।
तुरीयस्य पद्यत इति कर्मसाधनः पादशब्दः ॥2॥
_______________________________________________________________________
स्तर्त् मन्दुप् 3
कथं चतुष्पात्वम् इत्य् आह
जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग् वैश्वानरः प्रथमः पादः
__________
मन्दुप्च्_3
जागरितं स्थानम् अस्येति जागरितस्थानः ।
बहिष्प्रज्ञः स्वात्मव्यतिरिक्ते विषये प्रज्ञा स बहिष्प्रज्ञो बहिर् विषय एव प्रज्ञाविद्याकृताव् अवभासत इत्य् अर्थः ।
तथा सप्ताङ्गान्यस्य"तस्य ह वैतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश् चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदोहो बहुलो वस्तिर् एव रयिः पृथिव्य् एव पादौ" (छा.उ.5 । 18 । 2) इत्य् अग्निहोत्रकल्पनाशेषत्वेनाहवनीयो ऽग्निर् अस्य मुखत्वेनोक्त इत्य् एवं सप्ताङ्गानि यस्य स सप्ताङ्गः ।
तथैकोनविंशतिर् मुखान्य् अस्य बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश वायवश् च प्राणादयःपञ्च मनो बुद्धिरहङ्कारच्चित्तम् इति मुखानीव मुखानि तान्य् उपलब्धिद्वाराणित्यर्थः स एवं विशिष्टो वैश्वानरो यथोक्तैर् द्वारैः शब्दादीन् स्थूलान् विषयान् भुङ्क्त इति स्थूलभुक् ।
विश्वेषां नराणाम् अनेकधा नयनाद् वैश्वानरः ।
यद् वा विश्वश् चासौ नरश् चेति विश्वानरः ।
विश्वानर एव वैश्वानरः ।
सर्वपिण्डात्मनन्यत्वात् सः प्रथमः पादः ।
एतत् पूर्वकत्वाद् उत्तरपादाधिगमस्य प्राथम्यमस्य ।
कथम् अयमात्मा ब्रह्मेति प्रत्यगात्मनो ऽस्य चतुष्पात्त्वे प्रकृते द्युलोकादीनां मूर्धाद्यङ्गत्वम् इति ।
नैष दोषः ।
सर्वस्यप्रपञ्चस्य साधिदैविकस्यानेन आत्मना चतुष्पात्त्वस्य विवक्षितत्वात् ।
एवं च सति सर्वप्रपञ्च उपशमे ऽद्वैतसिद्धिः ।
सर्वभूतस्थश् चात्मैको दृष्टः स्यात् सर्वभूतानि चात्मनि ।
"यस् तु सर्वाणि भूतानि"(ई.उ.6) इत्य् आदिश्रुत्यर्थोपसंहृतश् चैवं स्यात् ।
अन्यथा हि स्वदेहपरिच्छिन्न एव प्रत्यागात्मा सांख्यादिभिर् इव दृष्टः स्यात् तथा च सत्यद्वैतम् इति श्रुतिकृतो विशेषो न स्यात् सांख्यादिदर्शनेनाविशेषात् ।
इष्यते च सर्व उपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् ।
अतो युक्तम् एवास्याध्यात्मिकस्य पिण्डात्मनो द्युलोकाद्य् अङ्गत्वेन विराडात्मनाधिदैविकेनैकत्वम् अभिप्रेत्य सप्ताङ्गत्ववचनम् ।
"मूर्धा ते व्यपतिष्यत्"(छा.उ 5 । 12 । 2) इत्य् आदि लिङ्गदर्शनाच् च ।
विराज एकत्वम् उपलक्षणार्थं हिरण्यगर्भाव्याकृतात्मनोः ।
उक्तं चैतन् मधुब्राह्मणे"यश् चायम् अस्यां पृथिव्यां तेजोमयो ऽमृतमयः पुरुषो यच् चायम् अध्यात्मम्"(बृ.उ.2 । 5 । 1) इत्यादि ।
सुषुप्ताव्याकृतयः स त्व् एकत्वं सिद्धम् एव निर्विशेषत्वात् ।
एवं च सत्येतत् सिद्धं भविष्यति सर्वद्वैत उपशमे चाद्वैतम् इति ॥3॥
_______________________________________________________________________
स्तर्त् मन्दुप् 4
स्वप्रस्थानो ऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः
__________
मन्दुप्च्_4
स्वप्नः स्थानस्य तैजसस्य स्वप्नस्थानः ।
जाग्रत्प्रज्ञानेकसाधना बहिर् विषय एवावभासमाना मनःस्पन्दनमात्रा सती तथाभूतं संस्कारं मनस्याधत्ते ।
तन् मनस् तथा संस्कृतं चित्रित इव पटो बाह्यसाधनान् अनपेक्षम् अविद्याकामकर्मभिः प्रेर्यमाणं जाग्रद्वदवभासते ।
तथा चोक्तम्"अस्य लोकस्य सर्वावतो मात्राम् अपादाय"(बृ.उ.4 । 3 । 9) इति ।
तथा"परे देवे मनस्य् एकीभवति"(प्र.उ.4 । 2) इति प्रस्तुत्य"अत्रैष देवः स्वप्ने महिमानम् अनुभवति"(प्र.उ.4 । 5) इत्याथर्वणे ।
इन्द्रियापेक्षयान्तःस्थत्वान् मनसस् तद् वासनारूपा च स्वप्ने प्रज्ञा यस्यात्यन्तःप्रज्ञः ।
विषयशून्यानां प्रज्ञायां केवलप्रकाशस्वरूपायां विषयित्वेन भवतीति तैजसः ।
विश्वस्य सविषयत्वेन प्रज्ञायाः स्थूलाया भोज्यत्वम् ।
इह पुनः केवला वासनामात्रा प्रज्ञा भोज्येति प्रविविक्तो भोग इति ।
समानमन्यत् ।
द्वितीयः पादस् तैजसः ॥4॥
_______________________________________________________________________
स्तर्त् मन्दुप् 5
दर्शनादर्शनवृत्त्यस् तत्वाप्रबोधलक्षणस्य स्वापस्य तुल्यत्वात् सुषुप्तिग्रहणार्थं यत्र सुप्त इत्यादि विशेषणम् ।
अथ वा त्रिष्व् अपि स्थानेषु तत्त्वाप्रतिबोधलक्षणः स्वापो ऽविशिष्ट इति पूर्वाभ्यां सुषुप्तं विभजते
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् ।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवान्दमयो ह्य् आनन्दभुक्चेतोमुखः प्राज्ञः तृतीयः पादः
__________
मन्दुप्च्_5
यत्र यस्मिन् स्थाने काले वा सुप्तो न कञ्चन स्वप्नं पश्यति न कञ्चन कामं कामयते ।
न हि सुषुप्ते पूर्वयोर् इवान्यथाग्रहणलक्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यने ।
तदेतत् सुषुप्तं स्थानम् अस्येति सुषुप्तस्थानः ।
स्थानद्वयप्रविभक्तं मनः स्पन्दितं द्वैतजातं तथा रूपापरित्यागेनाविवेकापन्नं नैशतमोग्रस्तमिवाहः सप्रपञ्चमेकीभूतम् इत्य् उच्यते ।
अत एव स्वप्नजाग्रन् मनःस्पन्दनानि प्रज्ञानानि घनीभूतानीव सेयमवस्थाविवेकरूपत्वात् प्रज्ञानघनोच्यते ।
यथा रात्रौ नैशेन तमसा विभज्यमानं सर्वं घनम् इव तद्वत् प्रज्ञानघन एव ।
एव शब्दान् न जात्यन्तरं प्रज्ञानव्यतिरेकेणास्तीतार्थः ।
मनसो विषयीविषय्याकारस्पन्दनायासदुःखाभावादानन्दमय आनन्दप्रायो नानन्द एव ।
यथा लोके निरायासस्थितः सुख्यानन्दभुगुच्यते ऽत्यन्तानायासरूपा हीयं स्थितिरनेनानुभूयत इत्य् आनन्दभुक्"एषो ऽस्य परम आनन्दः"(बृ.उ.4 । 3 । 32) इति श्रुतेः ।
स्वप्नादिप्रतिबोधिचेतः प्रति द्वारीभूतत्वाच् चेतोमुखः ।
बोधलक्षणं वा चेतो द्वारं मुखम् अस्य स्वप्नाद्य् आगमनं प्रतीति चेतोमुखः ।
भूतभविष्यज् ज्ञातृत्वं सर्वविषयज्ञातृत्वम् अस्यैति प्राज्ञः ।
सुषुप्तो ऽपि हि भूतपूर्वगत्या प्राज्ञोच्यते ।
अथवा प्रज्ञप्तिमात्रम् अस्यैवासाधारणं रूपम् इति प्राज्ञ इतरयोर् विशिष्टम् अपि विज्ञानम् अस्ति ।
सो ऽयं प्राज्ञस् तृतीयः पादः ॥5॥
_______________________________________________________________________
स्तर्त् मन्दुप् 6
एषः सर्वेश्वर एष सर्वज्ञ एषो ऽन्तर्याम्य् एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्
मन्दुप्क्च्_1.9
भोगार्थं क्रीडार्थम् इति चान्ये सृष्टिं मन्यन्ते ।
अनयोः पक्षयोर् दूषणं देवस्यैष स्वभावो ऽयम् इति देवस्य स्वभावपक्षम् आश्रित्य सर्वेषां वा पक्षाणाम् आप्तकामस्य का स्पृहेति ।
न हि रज्ज्वादीनाम् अविद्यास्वभावव्यतिरेकेण सर्पाद्याभासत्वे कारणं शक्यं वक्तुम् ॥9॥
_______________________________________________________________________
स्तर्त् मन्दुप् 7
चतुर्थः पादः क्रमप्राप्तो वक्तव्य इत्य् आहनान्तःप्रज्ञम् इत्यादिना ।
सर्वशब्दप्रवृत्तिनिमित्तशून्यत्वात् तस्य शब्दानभिधेयत्वम् इति विशेषप्रतिषेधेन एव च तुरीयं निर्दिदिक्षति ।
शून्यम् एव तर्हि तत् ।
न मिथ्याविकल्पस्य निर्निमित्तत्वानुपपत्तेर् न हि रजतसर्पपुरुषमृगतृष्णिकादिविकल्पाः शुक्तिकारज्जुस्थाणुर् ऊषरादि व्यतिरेकेणावस्त्वास्पदाः शक्याः कल्पयितुम् ।
एवं तर्हि प्राणादिसर्वविकल्पास्पदत्वात् तुरीयस्य शब्दवाच्यत्वम् इति न प्रतिषेधैः प्रत्याय्यत्वम् ।
उदकाधारादेर् इव घटादेः ।
न प्राणादिविकल्पस्यासत्वाच् छुक्तिकादिष्व् इव रजतादेः ।
न हि सदसतोः संबन्धः शब्दप्रवृत्तिनिमित्तभागवस्तुत्वात् ।
नापि प्रमाणान्तरविषयत्वं स्वरूपेण गवादिवद् आत्मनो निरुपाधिकत्वाद् ।
गवादिवन् नापि जातिमत्वमद्वितीयत्वेन सामान्यविशेषाभावात् ।
नापि क्रियावत्वं पाचकादिवदविक्रियत्वात् ।
नापि गुणवत्वं नीलादिवन् निर्गुणत्वात् ।
अतो नाभिधानेन निर्देशम् अर्हति ।
शशविषाणादिसमत्वान् निरर्थकत्वं तर्हि ।
नात्मत्वावगमे तुरीयस्यानात्मतृष्णाव्यावृत्तिहेतुत्वाच् छुक्तिकावगम इव रजततृष्णायाः ।
न हि तुरीयस्यात्मत्वावगमे सत्यविद्यातृष्णादिदोषाणां सम्भवो ऽस्ति ।
न च तुरीयस्याऽत्मत्वानवगमे कारणमस्ति सर्वोपनिषदां तादर्थ्येनोपक्षयात् ।
"तत्वमसि"(छा.उ.6.8.16)"अयमात्मा ब्रह्म"(बृ.उ.2.5.19)"तत्सत्यं स आत्मा"(छा.उ.6.8.16)"यत्साक्षादषरोक्षाद्ब्रह्म"(बृ.उ.3.4.1)"सबाह्याभ्यन्तरो ह्यजः"(मु.उ.2.1.2) ।
"आत्मैवेदं सर्वम्"(छा.उ.7.25.2) इत्यादीनाम् ।
सो ऽयम् आत्मा परमार्थापरमार्थरूपश् चतुष्पाद इत्य् उक्तस् तस्यापरमार्थरूपम् अविद्याकृतं रज्जुसर्पादिसमम् उक्तं पादत्रयलक्षणं बीजाङ्कुरस्थानीयम् ।
अथेदानीं बीजात्मकं परमार्थस्वरूपं रज्जुस्थानीयं सर्पादिस्थानीयोक्तस्थानत्रयानिराकरणेनाह नान्तः प्रज्ञमित्यादि ।
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।
अदृष्टम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम् अव्यपदेश्यम् एकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवम् अद्वैतं चतुर्थं मन्यन्ते ।
स आत्मा स विज्ञेयः
मूल पाठ: Māṇḍūkyopaniṣad with Māṇḍūkyamūlamantrabhāṣya, Māṇḍūkyopaniṣatkārikā, and Āgamaśāstrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0