भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 2.3

2.3.1

इति द्वितीयपुरुषे द्वितीयः खण्डः ॥2॥
तृतीयः खण्डः
अग्नये स्वाहेति सायं जुहोति प्रजापतय इति द्वितीयाम्

2.3.2

सूर्याय स्वाहेति प्रातः प्रजापतय इति द्वितीयाम्

2.3.3

अग्नीषोमीयः स्थालीपाकः पौर्णमास्यामैन्द्राग्नो ऽमावास्यायामुभयत्र चाग्नेयः आगन्तुः पूर्वः पौर्णमास्यामुत्तरोमावास्यायाम्

2.3.4

आश्वयुज्यां पौर्णमास्यां प्रतर्नित्येषु स्थालीपाकेषु स्थालीपाकमन्वायातयति

2.3.5

तस्याग्निंरुद्रं पशुपतिमीशानं त्र्यम्बकं शरदं प्रषातकं गा इति यजति

2.3.6

दधिघृतमिश्रः प्रषातकस्तस्या नो मित्रावरुणा प्रवाहवेति च हुत्वाम्भः स्थाम्भो वो भक्षीयेति गाः प्राशापयति

2.3.7

अवसृष्टाश्च वसेयुः

2.3.8

ब्राह्मणान् घृतवभ्दोजयेत्

2.3.9

नानिष्ट्वाग्रयणेन नवस्याश्नीयात्

2.3.10

पर्वण्याग्रयणं कुर्वीत वसन्ते यवानां शरदि व्रीहीणाम्

2.3.11

अग्रपाकस्य पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति सजूर्द्यावापृथिवीभ्यां स्वाहा सजूः सोमाय स्वाहेति

2.3.12

शरदि सोमाय श्यामाकानां वसन्तेवेणुयवानामुभयत्र वाज्येन

2.3.13

वत्सः प्रथमजो दक्षिणा

2.3.14

ब्राह्मण एव हविः शेषं भुज्जीतेति श्रुतिः

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc