मानवगृह्यसूत्र · अध्याय 2.2
इति द्वितीयपुरुषे प्रथमः खण्डः ॥1॥
द्वितीयः खण्डः
प्रागुदञ्चं लक्षणमुद्धत्यावोक्ष्य स्थण्डिलं गोमयेनोपलिप्यमण्डलं चतुरस्रंवाग्निं निर्मथ्याभिमुखं प्रणयेत्
दर्भाणां पवित्रे मन्त्रवदुत्पाद्याग्नेयं स्थालीपाकं श्रपयति
पवित्रान्तर्हिते ऽप आनीय तण्डुलानोप्य मेक्षणेन प्रदक्षिणं पर्यायुवञ्जीव तण्डुलं श्रपयति
घृतेनानुत्पूतेन नवनीतेन वोत्पूतेन शृतमभिधार्योत्तरत उद्वासयति
इमं स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चादग्नेरेकवद्दर्हिस्तृणाति
उदक्प्राक्तूलान्दर्भान्प्रकृष्य दक्षिणां स्तथोत्तरानग्रेणाग्निं दक्षिणैरुत्तरानवस्तृणाति
दक्षिणतोग्नेर्ब्राह्मणे संस्तृणात्यपरं यजमानाय पश्चार्द्धे पत्न्यै
उत्तरतः संस्तीर्णे पवित्रे स्रुक्स्रुवावाज्यस्थालीं प्रक्षाल्य संस्तीर्णे द्वे द्वे प्रयुनक्ति
तूष्णीं दक्षिणत आज्यं निरूप्य मन्त्रवत्पर्यग्निं कृत्वा तूष्णीं स्रुक्स्रुवौ संमृज्यादब्धेन त्वा चक्षुषावेक्ष इति पत्न्याज्यामवेक्षते
तूष्णीमधिश्रित्योपाधिश्रित्य पश्चादग्नेरुपसाद्य मन्त्रवदुत्पूयावेक्षते
तेजोसीत्याज्यं यजमानो ऽवेक्षते
आज्यस्थाल्यां स्रुवं निधायाग्रेण स्थालीपाकमन्वायातयत्यपरेण मेक्षणम्
तूष्णीं प्राञ्चमिध्ममुपसमाधाय ब्रह्माणमामन्त्र्य ओं जुहुधीत्युक्ते दक्षिणेन हस्तेनान्तरेण जानुनी प्राङासीन आधारौ जुहोति प्राजापत्यमुत्तरार्धे प्राञ्चं मनसा ऐन्द्रं दक्षिणार्द्धे प्राञ्चमेव
अथाज्यभागौ जुहोत्याग्नेयमुत्तरार्द्धे सौम्यं दक्षिणार्द्धे समावनक्ष्णौ
युक्तो वह यदाकूतमिति द्वाभ्यामग्निं योजयित्वा नक्षत्रमिष्ट्वा नक्षत्रदेवतां यजेत्तिथिं तिथिदेवतामृतमृतुदेवतां च
उपस्तीर्याप उपस्पृश्य मेक्षणेन स्थालीपाकस्यावद्यति मध्यात् पूर्वार्द्धाद् द्वितीयं पश्चार्द्धात्तृतीयं यदि पञ्चावदानस्य
अवत्तमभिधार्य स्थालीपाकं प्रत्यभिधारयति
अग्नये स्वाहेति मध्ये जुहोति
यो देवानामसीति रौद्रस्य
जयान्हुत्वाजायस्य स्विष्टकृते समवद्यत्युत्तरार्द्धात्सकृद् द्विमात्रम् ।
द्विर्वा यदि पञ्चावदानस्य
अवत्तं द्विरभिधार्य नात उर्ध्वंस्थालीपाकं प्रत्यभिधारयति
अग्नये स्विष्टकृते स्वाहेत्यसंसक्तमुत्तरार्द्धपूर्वार्द्धे जुहोति
मेक्षणं दर्भांश्चाधायानुमतिभ्यांव्याहृतिभिश्च त्वं नो अग्ने, स त्वं नो अग्ने
अयाश्चाग्ने ऽसीत्येताभिर्जुहुयात्
वि ते मुञ्चामि रशनां वि रश्मीनीति च दुत्वा पवित्रे ऽनु प्रहृत्याज्येनाभिजुहोति
एधो ऽस्येधीषीमहीति समिधमादधाति समिदसि समेधिषीमहीति द्वितीयाम्
अपो अद्यान्वचारिषमित्युपतिष्ठते
आपोहिष्ठीयाभिर्मार्जयेत्
पूर्णपात्रं दक्षिणा
बर्हिनुप्रहरति
एतेन स्थालीपाकेन स्थालीपाकाः सर्वे व्याख्याताः
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0