भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 2.4

2.4.1

इति द्वितीयपुरुषे तृतीयः खण्डः ॥3॥
चतुर्थः खण्डः
पशुना यक्ष्यमाणः पाकयज्ञोपचाराग्निमुपचरति

2.4.3

पशुबन्धवत्तूष्णीमावृद्देवताहोमवर्जम् ॥ मन्ग्स्_2,4. 2 ॥
प्रोक्ष्यानुमान्योपपाय्य पर्यग्निं कृत्वा शामित्रं प्रणीय वपाश्रपणीभ्यामुदञ्चं प्रक्रममाणमन्वारभन्ते

2.4.4

संज्ञप्यमानमवेक्षते

2.4.5

संज्ञप्तंस्नपयित्वा यथादैवतं वपामुत्कृत्य श्रपयित्वाऽधारावाज्यभागौ हुत्वा--जातवेदो वपया गच्छ देवांस्त्वंहि होता प्रथमो बभूव ।
घृतस्याग्ने तन्वा संभव सत्याः सन्तु यजमानस्य कामाः स्वाहा ।
इति
वपां जुहोति

2.4.6

स्वाहा स्वहेति परिवप्यौ

2.4.7

स्थालीपाकमन्वायातयति समानदेवतं पशुना

2.4.8

तध्धुतावाज्यभागौ

2.4.9

अनिरुक्तः स्विष्टकृत्

2.4.10

पाशुबन्धिकानामवदानानां रसस्यावदाय दैवतैः प्रचर्य वसाहोमशेषेण दिशः प्रतिजयति यथा वाजिनेन वनस्पतिमाज्यस्य

2.4.11

जयान् हुत्वा त्र्यङ्गाणां स्विष्टकृते समवद्यति

2.4.12

स्थालीपाकेन शेषो व्याख्यातः

2.4.13

पशोः पशुरेव दक्षिणा

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc