भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 2.17

2.17.1

इति द्वितीये षोडशः खण्डः ॥16॥
सप्तदशः खण्डः
अयूथिके भयार्त्ते कपोते गृहान् प्रविष्टे तस्याज्नौ पदं दृश्येत दधानि सकतुषु घृते वा देवाः कपोत इति प्रत्यृचं जपेज्जुहुयाद्वा देवाः कपोत इषितो यदिच्छन्दूतो निरृत्या इदमाजगाम ।
तस्मा अर्चाम कृष्णवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु
अग्निर्हि विप्रो जुषतां हविर्नः परिहेतिः पक्षिणो नो वृणाक्तु ॥
हेतिः पक्षिणी न दभात्यस्मानाष्ट्यां पदं कृणुते अग्निधाने ।
सं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मानो हिंसीदिह देवाः कपोतः ॥
यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ कृणोति ।
यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे ॥
ऋचा कपोतं नुदत प्रमोदमिषं मदन्तः परि गां नयध्वम् ।
संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं प्रपतात्पतिष्ठः ॥
इति

2.17.2

पदमादाय दक्षिणा प्रत्यग् हरन्ति

2.17.3

सहाधिकरणैर्यन्ति

2.17.4

स्वकृत इरिणे पदं न्यस्याध्यधि

2.17.5

धाम्नो धाम्न इति तिसृभिः परोगोष्ठं मारजयन्ते

2.17.6

अनपेक्षमाणाः प्रत्यायन्ति

2.17.7

अग्न आयूंषि पवसे अग्निरृषिरग्ने पवस्वेति प्रत्येत्य जपन्ति

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc