भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 2.16

2.16.1

इति द्वितीये पुरुषे पञ्चदशः खण्डः ॥15॥
षोडशः खण्डः
सर्पेभ्यो बिभ्यत् श्रावण्यां तूषणीं भौममेककपालंश्रपयित्वाक्षतसक्तून् पिष्ट्वा स्वकृत इरिणे दर्भानास्तीर्याच्युताय ध्रुवाय भौमाय स्वाहेति जुहोति

2.16.2

समीचि नामासीति पर्यायैरुपतिष्ठते प्रतिदिशं द्वाभ्यां मध्ये

2.16.3

अक्षतसक्तूनां सर्पबलिं हरति ईशानायेत्येके
सर्पो ऽसि सर्पाणामधिपतिस्त्वयि सर्वे सर्पाः ।
बलिहारो ऽस्तु सर्पाणां नमो अस्तुषुर्मारिरिषुर्माहिंसिषुर्मादां सि सर्पाः ॥
मानो अग्ने विसृजो अधाया विष्यवे रिपवे दुच्छुनायै ।
मा दत्वते दशते मादते नो मा रीषते सहसावन्परादाः ॥
सर्पो ऽसि सर्पाणामधिपतिरत्नेन मनुष्यां स्रायसे ऽपूपेन सर्पान् ॥
त्वयि सन्तं मयि सन्त माक्षिषुर्मारीरिषुर्मा हिंसिषु मा दाङ्क्षु सर्पाः ॥
नमो अस्तु सर्पेभ्य इति तिसृभिश्च

2.16.4

ध्रुवामुं ते परिददामीति सर्वामात्यान्नामग्राहमात्मानं च

2.16.5

एतेन धर्मेण चतुरो मासान्सर्पबलिंहृत्वा विरमति

2.16.6

तूष्णीमपि क्षुद्रा प्रक्षालितपाणिः

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc