मानवगृह्यसूत्र · अध्याय 2.18
इति द्वितीये सप्तदशः खण्डः ॥17॥
अष्टादशः शण्डः
षडाहुतं प्रतिपदि पुत्रकामः
पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति--
ब्रह्मणाग्निः संविदानो रक्षोहा बाधातामितः ।
अमी वा यस्ते गर्भं दुर्णामा योनिमाशये ।
यस्ते गर्भममी वा दुर्णामा योनिमाशये ।
अग्निष्ठं ब्रह्मणा सह निष्क्रम्यादमनीनशत् ॥
यस्ते हन्ती पतयन्तं निषत्स्नुं यः सरीसृपम् ।
जातं यस्ते जिघांसति तमितो नाशयामसि ॥
यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
प्रजांयस्ते जिघांसति तमितो नाशयामसि ॥
ये ते घ्नन्त्यप्सो गन्धर्वा गोष्ठाश्च ये ।
क्रव्यादंसुर देविनं तमितो नाशयामसि ॥
यस्त ऊरु विहरत्यन्तरा दम्पती शये ।
योनिं यो अन्तरारेढि तमितो नाशयामसि ॥
अभिन्नाण्डा वृद्धगर्भा अरिष्ठा जीवसूकरी ।
विजायतां प्रजायतामियं भवतु तोकिनी ॥
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥
गर्भं धेहि सीतीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा ॥
हिरण्ययी अरणीयं निर्मन्थतो अश्विना ।
तं ते गर्भं हवामहे दशमे मासि सूतवे ॥
परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् ।
चक्षुष्मते शृणवते ते ब्रवीमि मानः प्रजां रीरिषो मोत वीरान् ॥
इति द्वादशगर्भवेदिन्यः षडाद्याः स्थालीपाकस्य षडुतरा आज्यस्य
जयप्रभृति समानम्
नैजमेषं स्थालीपाकं श्रपयित्वा यथा षाडाहुतम्---
नेजमेष परापत सुपुत्रः पुनरापत ।
अस्यै मे पुत्रकामायै पुनराधेहि यः पुमान् ॥
यथेयं पृथिवी मह्यमुत्ताना गर्भमादधे ।
एवं तं गर्भमाधेहि दशमे मासि सूतवे ॥
विष्णोः श्रेष्ठेन रुपेणास्यां नार्यां गवीन्याम् ।
पुमांसं पुत्रमाधेहि दशमे मासि सूतवे ॥
पाकयज्ञान्समासाद्य एकाज्यामेकबहिर्षि ।
एकं स्विष्टकृतं पुर्यन्नाना सत्यपि दैवते नाना सत्यपि दैवते
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0