भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 2.14

2.14.1

इति द्वितीये त्रयोदशः खण्डः ॥13॥
चतुर्दशः खण्डः
अथातो विनायकान्वयाख्यास्यामः

2.14.2

शालकटङ्कटश्च कूष्माण्डराजपुत्रश्चोस्मितश्च देवयजनश्चेति

2.14.3

एतैरधिगतानामिमानि रुपाणि भवन्ति

2.14.4

लोष्ठं मृद्गाति

2.14.5

तृणानि च्छिनत्ति

2.14.6

अङ्गेषु लेखान् लिखति

2.14.7

अपस्वप्नं पश्यति

2.14.8

मुण्डान् पश्यति

2.14.9

जटिलान् पश्यति

2.14.10

काषायवाससः पश्यति

2.14.11

।
उष्ट्रान्सूकरान् गर्दभान्दिवाकीर्त्यादीनन्यांश्चाप्रयतान्स्वप्नान्पश्यति

2.14.12

अन्तरिक्षं क्रामति

2.14.13

अध्वानं व्रजन्मन्यते पृष्ठतो मे कश्चिदनुव्रजति

2.14.14

एतैः खलुविनायकैराविष्टा राजपुत्रा लक्षणवन्तो राज्यं न लभन्ते

2.14.15

कन्याः पतिकामा लक्षणवत्यो भर्तॄन्न लभन्ते

2.14.16

स्त्रियः प्रजाकामा लक्षणवत्यः प्रजां न लभन्ते

2.14.17

स्त्रीणामाचारवतीनामपत्यानि म्रियन्ते

2.14.19

श्रोत्रियो ऽध्यापक आचार्यत्वं न प्राप्नोति

2.14.20

अध्येतॄणामध्ययने महाविघ्नानि भवन्ति ॥ मन्ग्स्_2,14. 19 ॥
वणिजां वणिक्पथो विनश्यति

2.14.21

कृषिकराणां कृषिरल्पफसा भवति

2.14.22

तेषां प्रायश्चित्तम्

2.14.23

मृगाखरकुलायमृत्तिकारोचना गुग्गुलाः

2.14.24

चतुर्भ्यः प्रस्रवणेभ्यश्चतुरुदकुम्भानव्यङ्गानाहरेत्

2.14.25

सर्वगन्धसर्वरससर्वौषधीः सर्वरत्नानि चोपकल्पय प्रतिसरदधिमधुघृतमिति

2.14.26

एतान् संभारान्संसृज्य ऋषभचर्मारुह्याथैनं--
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।
ताभिष्ट्वाभिषिञ्चामि पावमानीः पुनन्तु त्वा ॥
अग्निना दत्ता, इन्द्रेण दत्ता, सोमेन दत्ता, वरुणेन दत्ता, वायुना दत्ता,विष्णुना दत्ता बृहस्पतिना दत्ता, विश्वैर्देवैर्दत्तः, सर्वैर्देवैर्दत्ता ओषधय आपो वरुणसंमितास्ताभिष्ट्वाभिषिञ्चामि पावमानीः पुनन्तु त्वेति
सर्वत्रानुषजति--
यत्ते केशेषु दैर्भाग्यं सीमन्ते तत्र मूर्द्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्त----तु ते सदा ॥
भगं ते वरुणे राजा भ्र---सूर्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्च---सप्तर्षयो ददुः ॥
इति

2.14.27

अधिस्त--- निशायां सद्यः पीडितसर्षपतैलममौदुम्बरेण स्रुवेण --- चतस्र आहुतिर्जुहोति (ओं) शालकटङ्कटाय स्व-- कूष्माडराजपुत्राय स्वाहा, उस्मिताय स्वाहा, देवयजनाया स्वाहेति

2.14.28

अत ऊर्ध्वं ग्रामचतुष्पथे नगरचतुष्पथे निगमचतुष्पथे सर्वतोमुखान्दर्भानास्तीर्य नवे शूर्पे बलिमुपहरति फलीकृतांस्तण्डुलानफलीकृतांस्तण्डुलानामं मांसं पक्वं मांसमामान्मत्स्यान्पक्वान्मत्स्यान् आमानपूपान्पक्वानपूपान्पिष्टान्गन्धानपिष्टान्गन्धा---- मधुपानं मैरेयपानं सुरापानं मुक्तं माल्यं ग्रथिथं माल्यं रक्तं माल्यं शुक्लं माल्यं रक्तपीतशुक्लकृष्णनीलहरितचित्रवासांसि माकल्माषमूलभलमिति

2.14.29

अथ देवानामावाहनं विमुखः शेयेनो बको यक्षः कलहो भीरुर्विनायकः कूष्माण्डरा---- यज्ञाविक्षेपी कुलङ्गापमारो यूपकेशी सूपरक्रोडी हैमवतो, जम्भको विरूपाक्षो लोहिताक्षो वैश्रवणो महासेनो महादेवो महाराज इति ।
एते मे देवाः प्रीयन्तां प्रीता मां प्रीणयन्तु तृप्ता मां तर्पयन्त्विति

2.14.30

अधिष्ठितेर्ऽद्धरात्र आचार्यो ग्रहानुपतिष्ठते ।
भगवति भगं मे देदि, वर्णवति वर्णं मे देहि, रूपवति रूपं मे देहि, तेजस्विनि तेजो मे देहि, यशस्विनि यशो मे देहि, पुत्रवति पुत्रान्मे देहि, सर्ववति सर्वान्कामान्मे प्रदेहीति

2.14.31

अत ऊर्ध्वमुदित आदित्ये विमले सुमुहूर्त्ते सूर्यपूजापूर्वकमर्ध्यदानमुपस्थानं च--
नमस्ते अस्तु भगवन् शतरश्मे तमोनुद जहि मे देव दौर्भग्यं सौभाग्येन मां संयोजयस्व ॥
इति

2.14.32

अथ ब्राह्मणतर्पणम्

2.14.33

ऋषबो दक्षिणा

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc