मानवगृह्यसूत्र · अध्याय 2.13
इति द्वितीयपुरुषे द्वादशः खण्डः ॥12॥
त्रयोदशः खण्डः
अथातः षष्ठीकल्पं व्याख्यास्यामः
शुक्लपक्षस्य पञ्चभ्यां प्रत्यङ्मुखो हविष्यमन्नमश्रीत
अधः शयीत दर्भेषु शालीपलालेषु वा प्राक्शिरा ब्रह्मचारी
श्वोभूत उदित आदित्ये स्नानं पानं भोजनमनुलेपनं स्रजो वासांसि न प्रत्याचक्षीत
यावद्दद्यात्तावदश्नीयाद्यद्यद्दद्यात्तदश्नीयादन्यत्रामेध्य--पातकिभ्यो ऽभिनिविष्टकवर्जनम्
अस्तमित आदित्ये पयसि स्थालीपाकं श्रपयित्वाथैतैर्नामधेयैर्जुहोति
धनदां वसुमीशानां कामदां सर्वकामिनाम्
पुण्यां यशस्विनीं देवीं षष्ठीं शक्र जुषस्व मे ॥
नन्दी भूतिश्च लक्ष्मीश्चादित्या च यशस्विनी
सुमना वाक् च सिद्धिश्च षष्ठी मे दिशतां धनम् ॥
पुत्रान्पशून्धनं धान्यं बह्वश्चाजगवेडकम्
मनसा यत्प्रणीतं च तन्मे दिशतु हव्यभुक् ॥
कानदां रजनीं विश्वरूपां षष्ठीमुपवर्त्ततु मे धनम्
साम काम कामपत्नी षष्ठी मे दिशतां धनम् ॥
आकृतिः प्रकृतिवर्चनी धावनिः पद्मचारिणी मन्मना भव स्वाहा ॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।
नानापत्रका (क) सा देवी पुष्टिश्चातिसरस्वती
अरिं देवीं प्रपद्येयमुपवर्त्तयतु मे धनम् ॥
हिरण्यप्रकारादेवि मां वर आगच्छत्वायुर्यशश्च स्वाहा ॥
अश्वपूर्णां रथमध्यां हस्तिनादप्रमोदिनीम् ।
श्रियं देवीमुपव्हये श्रीर्मादेवी जुषताम् ॥
उपयन्तु मां देवगणास्त्या(ना)गाश्च तपसा सह ।
प्रादुर्भूतो ऽस्मि राष्ट्रे ऽस्मिन् श्रीः श्रद्धां (कीर्तिं वृद्धिं ग. च.) दधातु मे ॥
श्रियै स्वाहा, ह्रियै स्वाहा, लक्ष्म्यै स्वाहा, उपलक्ष्म्यै स्वाहा, नन्हायै स्वाहा, हरिद्रायै स्वाहा, षष्ठ्यै स्वाहा, समृद्ध्यै स्वाहा, जयायै स्वाहा, कामायै स्वाहेति
जयप्रभृति समानम्
षण्मासान्प्रयुञ्जीत त्रीन्वोभयतः पक्षान्
शतसाहस्रसंयोग एकवरो वा
गैरनड्वांश्च दक्षिणा
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0