भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 2.15

2.15.1

इति द्वितीये चतुर्दशः खण्डः ॥14॥
पञ्चदशः खण्डः
यदि दुःस्वप्नं पश्येद्व्याहृतिभिस्तिलान् हुत्वा दिशा उपतिष्ठेत् ।
बोधश्च मा प्रतिबोधश्च पुरस्ताद्गोपायताम् ।
अस्वप्नश्च मानवद्राणश्च दक्षिणतो गोपायताम् ॥
गोपायमानं च मां रक्षमाणं च पश्चाद् गोपायताम् ।
जागृविश्च मारुन्धती चोत्तरतो गोपायताम् ॥
विष्णुश्च मे पृथिवी च नागाश्चाधस्ताद्गोपायताम् ।
बृहस्पतयश्च मे विश्वे च मे देवा द्यौश्चोपरिष्ठाद्गोपायताम्

2.15.2

एवं यस्मिंश्चोत्पन्ने ऽनर्थान् शङ्केत

2.15.3

व्याहृतिभिस्तिलान् हुत्वा तपः प्रतिपद्येत द्वादशरात्रं षड्रात्रं त्रिरात्रमोकरात्रं वा

2.15.4

यदि समुत्पातं मन्येत तद्वा

2.15.5

यदि पर्वसु मार्तिकं भिद्यते पार्थिवमासि पृथिवीं दृंहस्व योनिं गच्छ स्वाहेत्यप्सु प्रहरेत्

2.15.6

यद्यर्चा दह्येद्वा नश्येद्वा प्रपतेद्वा प्रभजेद्वा प्रहसेद्वा प्रचलेद्वा, स्थाल्या वा स्थालीमासिच्य दक्षिणोत्तरा वा स्थाली भिद्येतोत्तरा वोपलाशे नियम्य द्वारवंशो वा स्फुटेत् ।
गौर् वा गां धयेत्, स्त्री वा स्त्रियमाहन्यात्, कर्तसंसर्गे , हलसंसर्गे, मुसलप्रपतने, मुसलंवावशीर्येतान्यस्मिंश्चाद्भुत एताभिर्जुहुयात्--
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बृहस्पतिर्दधातु ।
स्वस्ति नो मिमीतामाश्विना भगः स्वस्ति देव्यदितिरनर्वणः ।
स्वस्ति पूषा असुरो दधातु नः स्वस्तिद्यावापृथिवी सुचेतुना ॥
स्वस्तये वायुमुपब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः ।
बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥
विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुराग्निः स्वस्तये ।
देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ॥
स्वस्ति नः पश्यासु धन्वसु स्वस्त्यप्सु व्रजने स्वर्वतः ।
स्वस्ति नः पथ्याकृतेषु योनिषु स्वस्ति राये मनुतो दधातु नः ॥
त्रातारमिन्द्रं, मा ते अस्यां, विन इन्द्र, मृगो न भीमस्तं, शंयोरावृणीमह इति दशाहुतयः

2.15.7

जयप्रभृति समानम्

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc