मानवगृह्यसूत्र · अध्याय 2.12
इति द्वितीय एकादशः खण्डः ॥11॥
द्वादशः खण्डः
वैश्वदेवस्य सिद्धस्य सायं प्रातर्बलिं हरेत्
अग्नीषोमौ धन्वन्तरिं विश्वान्देवान्प्रजापतिमग्निं स्विष्टकृतमित्येवं होमो विधीयते
अथ बलिं हरत्यग्नये नमः सोमाय धन्वन्तरये विश्वेभ्यो देवेभ्यः प्रजापतये अग्नये स्विष्टकृत इत्यग्न्यागार उत्तरामुत्तराम्
अभ्द्य इत्युदकुम्भसकाशे
ओषधिभ्य इत्योषधिभ्यो वनस्पतिभ्य इति गृहमध्यमायां स्थूणायाम्
गृह्याभ्यो देवताभ्य इति गृहमध्ये
धर्मायाधर्मायेति द्वारे
मृत्यव आकाशायेत्याकाशे
अन्तर्गोष्ठायेत्यन्तर्गोष्ठे
बर्हिवैश्रवणायेति बहिः प्राचीम्
विश्वेभ्यो देवेभ्य इति वेश्मनि
इन्द्रायेन्द्रपुरुषेभ्य इति पुरस्तात्
यमाय यमपुरुषेभ्य इति दक्षिणतः
वरुणाय वरुणपुरुषेभ्य इति पश्चात्
सोमाय सोमपुरुषेभ्य इत्युत्तरतः
ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये
प्राचीमापातिकेभ्यः सम्पातिकेभ्य ऋक्षेभ्यो यक्षेभ्यः पिपीलिकाभ्यः पिशाचेभ्यो ऽप्सरोभ्यो गन्धर्वेभ्यो गुह्यकेभ्यः शैलेभ्यः पन्नगेभ्यः
दिवाचारिभ्यो भूतेभ्य इति दिवा नक्तं चारिभ्यो भूतेभ्य इति नक्तम्
धन्वन्तरये धन्वन्तरितर्पणम्
अद्भिः संसृज्य पितृभ्यः स्वधेति शेषं दक्षिणा भूमौ निनयेत्
पाणी प्रक्षाल्याचम्यातिथिं भोजयित्वावशिष्टस्याश्नीयात्
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0