मानवगृह्यसूत्र · अध्याय 2.11
इति द्वितीये दशमः खण्डः ॥10॥
एकादशः खण्डः
अवसानं समं समूलम्
दक्षिणाप्रवणमन्नकामस्य मारुकास्तत्र प्रजा भवन्ति
सर्वतः समवस्रावम्
समवस्रुत्य वा यस्मात्प्रागुदीचीरापो निर्वहेयुस्तद्वा
गर्तं खात्वा यत्तैः पांसुभिः प्रतिपूर्येत तद्वा
यदि धारयिष्णूदकतरं स्यात्
इदमहं विशमन्नाद्याय तेजसे ब्रह्मवर्चसाय परिगृह्णामीति वेश्म परिगृह्य गर्ते हिरण्य निधायाच्युताय ध्रुवाय भौमाय स्वाहेति जुहोति
समीचीनामासीति पर्यायैरुपतिष्ठते प्रतिदिशं द्वाभ्यां मध्ये
उदकांस्ये ऽश्मानं व्रीहीन्यवान्वस्य परिषिञ्चति स्योनापृथिवी भवेति द्वाभ्यां
सुत्रमाणामिति द्वाभ्याम्
शमीशाखया च पलाशयोदञ्चं त्रिः समुन्मार्ष्टि स्योना प्रथिवि भवेति द्वाभ्यां सुत्रमाणमिति द्वाभ्यां नमो अस्तु सर्पेभ्य इति तिसृभिश्च
इदं तत् सर्वतो भद्रमयमूर्जो ऽयं रसः ।
प्राप्यैवं मानुषान्कामान्यदशीर्ष्णी तल्लप्स्यसि ॥
इति मध्यमां स्थूणामासिच्य गर्त आसिञ्चति
इहैव तिष्ठ नितरा तिल्वला स्थिरावति ।
मध्ये पोषस्य पुष्पतामा त्वा परिसृतः कुम्भः ।
आ वत्से जगतो सह आ दध्नः कलशमैरयम् ॥
इति मध्यमां स्थूणामभि मन्त्र्यते
वसूनां त्वा वसुवीर्यस्याहोरात्रयोश्चेति गर्ते स्थूणामवदधाति
ऋते ऽवस्थूणा अधिरोह वंशो अग्ने विराजमुपसेधशक्रम् ॥
इति मध्यमं वं शमवददाति
तूष्णीं शिष्टाः स्थूणा वंशाश्च
प्राग्द्वारं दक्षिणाद्वारं वा मापयित्वा गृहानहं सुमनसः प्रपद्ये वीरं हीत्येतया प्रपद्यते यथा पुरस्ताद्व्याख्यातम्
प्रैतुराजा वरुणो रेवतीभिरस्मिन्स्थाने तिष्ठतु पुष्यमाणः ।
इरां वहन्ती घृतमुक्षमाणास्तेष्वहं सुमनाः सं वसाम ॥
इत्युत्तरपूर्वस्यां दिशि प्रतिपानमुदकुम्भमवस्थापयति
समुद्रं वः प्रहिणोमि स्वांयोनिमभिगच्छत
अरिष्टा अस्माकं वीरा मा परासेचि मत्पयः ।
इत्युदञ्चनम्
वास्तोष्पत्यं पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति ।
अमीवहा वास्तोष्पते वास्तोष्पत इत्येताभ्याम्-
वास्तोष्पते प्रतरणो न अधि गयस्फानो गोभिरश्वेभिरिन्दो
अजरासस्ते सख्ये व्याम पितेव पुत्रान्प्रति नो जुषस्व ॥
वास्तोष्पते शग्मया सं सदा ते सक्षीमहि रणवया गातुमत्या पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः ॥
इति
जयप्रभृतिसमानम्
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0